Digital Sanskrit Buddhist Canon

तृतीयोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tṛtīyo'dhyāyaḥ
तृतीयोऽध्यायः।

चतुर्थपादः।

................। द्वितीयं द्वितीयस्याः। तृतीयं तृतीयस्याः। वायुसंवर्तण्या(न्या)श्‍चतुर्थध्यानं शीर्षमिति।

अत्राह-चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते-

[150] सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः।
विमानस्य सम(स)त्वस्य प्रध्वंसान्नित्यता कुतः॥

चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्य[न्ते तस्मान्न संवर्तनो] उत्पाद्यते। प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतौ विद्येते। द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी। तृतीये ध्याने आश्वासप्रश्वासा वाय्वात्मकाः। इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतोऽपक्षालस्तथाभूतेन बाह्येन विनाशः। चतुर्थे तु [बाह्योऽपक्षालो न प्रवर्तत इति] नास्ति संवर्तनी। नित्यं तर्हि चतुर्थध्यानं प्राप्यम्। कस्मात् ? ‘विमानस्य सम(स)त्वस्य’ कर्मक्षयेन‘प्रध्वंसात्’ इति॥

कथं पुनरेताः संवर्तन्यः कया वाऽनुपूर्व्या भवन्ति ? तदुच्यते। निरन्तरं तावत्-

[151] सप्त तेजोभिरेकाऽद्‍भिर्गतेऽद्‍भिः सप्तके पुनः।
तेजसा सप्तकान्त्यैका वायु[संवर्तनी ततः]॥

[सप्त संवर्तन्यस्तेजोभिः] भवन्ति। अष्ठमोऽपाम्। [एवं]सप्तको भवति। तस्मिन् सप्तकेऽतिक्रान्ते पुनस्तेजसा सप्तकः। तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया णा(ना)शो भवति। सा तु नित्यं तेजसः सप्तकपृष्ठे वायुसंवर्तनी भवति। त एते पिण्डेन भवन्ति ष[ट्‍पञ्चाशत्] तेजःसंवर्त[न्यः], सप्ताप्संवर्त[न्यः, एका वायुसंवर्तनी]॥

[किं पुनस्तत्र कारणं य]त्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते-

[152] आग्नेयात्सप्तकादेक[:] पावनीकिमनन्तरम्।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम्॥

एवं च कृत्वा प्रज्ञप्तिभाष्यमनुलोमितं भवति-“चतुःषष्ठिःकल्पाः शुभकृत्स्नां(त्स्ना) [नां] देवनामायुष्प्रमाणम्” इति॥

अथ कस्मात् [पृथिवीसंवर्तनी न] भवतिं ? तदत्र कारणमुच्यते-

[153] वातादिदोषसाधर्म्या[त्सत्त्वा]णा(नां) [तद्विनाशकाः]।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तणी(नी) मता॥

यथा खलु वातपित्तश्‍लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्नि[जल]वायुभिर्भूरूत्साद्यते। किञ्च, एते [तद्विनाशकाः] .............तन्नाशाय प्रवृत्तत्वात्। किञ्च, ‘आध्यात्मिकेति सारूप्याच्च’। यथा चाध्यात्मिक्यस्त्रिस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्‍वासप्रश्‍वासलक्षणैस्त[था] बाह्या अप्युपद्रवा वह्न्यम्भोवायुप्रकोपलक्षणा भवन्तीति॥

अभिधर्मदीपे [विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्यच]तुर्थः पादः समाप्तः॥

[तृतीयोऽध्यायः समाप्तः]॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project