Digital Sanskrit Buddhist Canon

सर्वतथागतस्तवपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sarvatathāgatastavaparivartaḥ
॥ सर्वतथागतस्तवपरिवर्तः॥



अथ खलु तान्यनेकानि बोधिसत्त्वशतसहस्राणि येन सुवर्णरत्नाकरच्छत्रकूटस्तथागतस्तेनोपसंक्रान्ताः। उपसंक्रम्य तस्य सुवर्णरत्नाकरच्छत्रकूटस्य तथागरस्य पादौ शिरसा बन्दित्वैकान्ते स्थितानि कृताञ्जलिभूतानि तं सुवर्णरत्नाकरच्छत्रकूटं तथागतमभिष्टवित्सुः॥

सुवर्णवर्णो जिनत्यक्तकाय

सुवर्णवर्णो व्यवभासिताङ्ग।

सुवर्णवर्णो गिरिवा मुनीन्द्र

सुवर्णवर्णो मुनिपुण्डरीक॥ १॥

सुलक्षणैर्लक्षण भुषिताङ्गं

सुविचित्रव्यञ्जनविचित्रिताङ्ग।

सुविराजितं काञ्चनसुप्रभासं

सुनिर्मलं सौम्यमिवाचलेन्द्रम॥ २॥

ब्रह्मेश्वरं सुस्वरब्रह्मघोषं

सिंहेश्वरं गर्जितमेघघोषम्।

षष्टयङ्गवच्चातस्वरनिर्मलेश्वरं

मयूरकलविङ्करुतस्वराजितम्॥ ३॥

सुनिर्मलं सुविमलतेजसुप्रभं

पुण्यं शतलक्षणसमलंकृतं जिनम्।

सुविमलसुनिर्मलसागरं जिनं

सुमेरुसर्वसुगणाचितं जिनम्॥ ४॥

परमसत्त्वहितानुकम्पनं

परमं लोकेषु सुखस्य दायकम्।

परमार्थस्य सुदेशकं जिनं

परिनिर्वाणसुखप्रदेशकम्॥ ५॥

अमृतस्य सुखस्य दायकं

मैत्रीबलवीर्य उपायवन्तम्।

न शक्यं सतगुरवसमुद्रसागरबहुकल्प-

सहस्रकोटिभिरेकैकं तव प्रकाशितुम्॥ ६॥

एतत्संक्षिप्तं मया प्रकाशितं

किं चिद्गुणबिन्दुगुणार्णवोद्भवम्।

यच्च समुपचितपुण्यसंचयं

तेन सत्त्वः प्राप्न्यतु बोधिमुत्तमाम्॥ ७॥

अथ खलु रुचिरकेतुबोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं प्रावरित्वा दक्षिंण जानु मण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमयित्वा तस्यां वेलायामिमाभिर्गाथाभिरम्यस्तावीत्।

स त्वं मुनीन्द्र शतपुण्यलक्षण

सहस्रश्रीचारुगुणैरलंकृतम्।

उदारवर्णवरसौम्यदर्शन

सहस्ररश्मिरिव प्रसूयते॥ ८॥

अनेकरश्मिज्वलनाकुलप्रभं

विचित्ररत्नाकुलरत्नसंनिभ।

नीलावदाताप्यवकाञ्चनाभं

वैडूर्यताम्रारणस्फटिकाभम्॥ ९॥

न भासते वज्रमिवेन्द्रपर्वतान्

प्रभाविलासाभिरनन्तकोटिभिः।

प्रसीद मे सेन्द्रप्रचण्डभानुना

प्रतप्यसे सत्त्वसुखाचरैरिति॥ १०॥

प्रसन्नवर्णेन्द्रियचारुदर्शन

आतप्तरूपजनकान्तरूप।

अपूर्ववर्णो विरजो विराजसे

यथैव मुक्तं भ्रमराकुलप्रभम्॥ ११॥

विशुद्धकारुण्यगुणैरलंकृतं

समानमैत्रीबलपुण्यसंचितम्।

विचित्रपूर्णैरनुव्यञ्जनार्चितं

समाधिबोध्यङ्गगुणैरलंकृतम्॥ १२॥

त्वया हि प्रह्लादकरी सुखंकरी

शुभाकरं सर्वसुखाकरागमम्।

विचित्रगम्भीरगुणैरलंकृतं

विरोचसे क्षेत्रसहस्रकोटिषु॥ १३॥

विराजसे त्वं द्युमणीरिवांशुभिः

यथोज्ज्वलं त्वं गगणेऽर्कमण्डलम्।

मेरुर्यथा सर्वगुणैरुपेतः

संदृश्यसे सर्वत्रिलोकधातुषु॥ १४॥

गोक्षीरशङ्खकुमुदेन्दुसंनिभः

तुषारपद्माभसुपाण्डुर प्रभः

दन्तावलिस्ते मुखतो विराजते

सद्राजहंसैरिव चान्तरीक्षम्॥ १५॥

त्वत्सौम्यवक्रेन्दुमुखान्तरे स्थितं

प्रदक्षिणावर्त सुकुण्डलीनम्।

वैडूर्यवर्णैमणितोर्णरश्मिभि-

र्विरोचते सूर्य इवान्तरीक्षे॥ १६।



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वतथागतस्तवपरिवर्तो

नाम विंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project