Digital Sanskrit Buddhist Canon

दृढापृथिवीदेवतापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dṛḍhāpṛthivīdevatāparivartaḥ
॥ दृढापृथिवीदेवतापरिवर्तः॥



अथ खलु दृढा पृथिवीदेवता भगवन्तमेतदवोचत्। अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानागतेऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्यप्रदेशे वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यति। यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण संप्रकाशयिष्यति। यत्र यत्र भगवन्पृथिवीप्रदेशे तस्य धर्मभाणकस्य भिक्षो ऋजुकायगतस्य धर्मासनप्रज्ञप्तं भविष्यति। यत्र यत्रासने धर्मभाणको निषद्येमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यति। तत्राहं भदन्त भगवन्दृढा पृथिवीदेवता तेषु पृथिवीप्रदेशेष्वागमिष्यामि। अत्र धर्मासनगतोऽस्म्यदृश्यमानेनात्मभावेनोत्तमाङ्गेन च तस्य धर्मभाणकस्य भिक्षोः पादतलौ प्रतिसंहरिष्यामि। आत्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन संतर्पयिष्यामि। संप्रतिमानयिष्यामि संपूजयिष्यामि। आत्मानं च संतर्पयित्वा प्रतिमानयित्वा संप्रहर्षयित्वेममष्टषष्टियोजनसहस्राणि पृथिवीस्कन्धमात्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन यावद्वज्रमयं पृथिवीतलमुपादाय पृथिवीरसेनविवर्धयिष्यामि संप्रतिमानयिष्यामि परिपूरयिष्यामि। उपरितश्चेमं समुद्रपर्यन्तं पृथिवीतलमुपादाय पृथिवीमण्डलं स्निग्धेन पृथिवीरसेन स्नेहयिष्यामि। ओजस्वितरां चेमां महापृथिवीं करिष्यामि। येनास्मिञ्जम्बुद्वीपे नानातृणगुल्मौषधिवनस्पतय ओजस्वितराः प्ररोहयिष्यन्ति। सर्वारामनवृक्षसस्यानि च नानाविधान्योजस्वितराणि भविष्यन्ति। गन्धतराणि स्निग्धतराण्यास्वदनीयानि दर्शनीयतराणि महोत्तराणि च भविष्यन्ति। ते च सत्त्वास्तानि पानभोजनानि नानाविधान्युपभुक्त्वा आयुर्बलवर्णेन्द्रियाणि विवर्धयिष्यन्ति। तेजोबलवर्णरूपसमन्वाताश्च भूत्वा नानाविधानि पृथिवीगतान्यनेकानि नानाकार्यशतसहस्राणि करिष्यन्त्युत्थास्यन्ति व्यापयिष्यन्ति। बलकरणीयानि कर्माणि करिष्यन्ति॥



तेन हेतुना भदन्त भगवन्सर्वजम्बुद्वीपः क्षेमश्च भविष्यति। सुभिक्षश्च स्फीतश्चर्द्धश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्च भविष्यति। सर्वजम्बुद्वीपे च सत्त्वानि सुखितानि भविष्यन्ति। नानाविचित्रां रतिमनुभविष्यन्ति। तानि सत्त्वानि तेजोबलवर्णरूपसमन्वागतानि च भविष्यन्ति। अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानं धर्मासनगतानामन्तिकमुपसंक्रमेयुः। उपसंक्रमित्वा तानि प्रसन्नचित्तानि सर्वसत्त्वानामर्थाय हिताय सुखाय तान्धर्मभाणकानध्येषयेयुस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य प्रकाशतः। अहं दृढा पृथिवीदेवता सपरिवारौजस्वितरा च भविष्यामि। तेन भदन्त भगवंश्चास्माकं काये महाबलवी र्यस्थामसंजनितं भविष्यति। तेजश्च श्रीश्च लक्ष्मीश्चास्माकं कायमावेक्ष्यन्ति। मयि च भदन्त भगवन्दृढायां पृथिवीदेवतायामनेन धर्मामृतरसेन संतर्पितायां महातेजोबलवीर्यस्थामवेगप्रतिलब्धायामियं महापृथिवी सप्तयोजनसाहस्रिकायं जम्बुद्वीपो महता पृथिवीरसेन विवर्धयिष्यति। ओजस्वितरा च महापृथिवी भविष्यति। इमानि च भदन्त भगन सर्वसत्त्वानि पृथिवीसंनिश्रितानि वृद्धिविरूढिवैपुल्यतां च गमिष्यन्ति। महन्ति च भविष्यन्ति। महन्ति च भूत्वा सर्वसत्त्वानि पृथिवीगतानि नानोपभोगपरिभोगान्युपभोक्ष्यन्ति सुखानि चानुभविष्यन्ति । तानि च सर्वाणि नानाविचित्रान्नपानभोज्यवस्त्रशयनासनवसनभवनविमानोद्याननदीपुष्करिण्युत्सरोह्रदतडागादीनीमान्येवंरूपाणि नानाविधान्युपकरणसुखानि पृथिवीसंस्थितानि पृथिव्यां प्रादुर्भूतानि पृथिव्यां प्रतिष्ठितान्युपभुजन्तु। तेन भदन्त भगवन्हेतुना सर्वसत्त्वैरस्माकं कृतज्ञता कर्तव्या। अवश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः।

यदा च भदन्त भगवंस्ते सर्वे सत्त्वा नानाकुलेभ्यो नानागृहेभ्यो निष्क्रमेयुस्तेषां धर्मभाणकानामुपसक्रमणाय। उपसंक्रम्य चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः। श्रुत्वा च पुनरेव ते सत्त्वाः स्वकस्वकेषु नानाकुलेषु गृहग्रामनगरनिगमेषु प्रविष्टाः स्वगृहगतां परस्परेणैवं कथयेयुः। गम्भीरोऽस्माभिरद्य धर्मश्रवणः श्रुतः। अचिन्त्योऽस्माभिरद्य पुण्यस्कन्धः परिगृहीतः। तेन धर्मश्रवणेन नरकाः प्रतिमुक्ताः स्युः। तिर्यग्योनियमलोकप्रेतविषयाः परिमुक्ता अद्यास्माभिः। अनेन धर्मश्रवनेनानागतेऽध्वन्यनेकेषु जातिशतसहस्रेषु देवमनुष्योपपत्तिपरिगृहीता भविष्यन्ति। तेन च नानागृहगता भूत्वा तेषां सत्त्वानामितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकदृष्टान्तमप्यारोचयेयुरन्तश एकपरिवर्तं वा एकपूर्वयोगं वान्तशश्चतुष्पादिकामपि गाथामन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्येषां सत्त्वानां संश्रावयेयुरन्तशः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमपि परेषां सत्त्वाना संश्रावयेयुः।



यत्र यत्र भदन्त भगवंस्तानि नानाविधानि सत्त्वानि नानाविधेषु पृथिवीप्रदेशष्विमान्येवंरूपाणि नानाविधानि सूत्रान्तहेतूनि परस्परेणारोचयेयुः संश्रावयेयुश्च। कथासंबन्धं च कुर्वीरन्। सर्वे ते भदन्त भगवन्पृथिवीप्रदेशा ओजस्वितराश्च भविष्यन्ति। स्निग्धतराश्च भविष्यन्ति। सर्वेषां सत्त्वानां तेषु तेषु पृथिवीप्रदेशेषु नानाविधानि पृथिवीरसानि सर्वोपकरणानि भूयिष्ठतरमुत्पत्स्यन्ते विवर्धयिष्यन्ते वैपुल्यतां गमिष्यन्ति। सर्वाणि तानि सत्त्वानि महाधनानि महाभोगानि च दानाधिमुक्तानि च भविष्यन्ति। त्रिषु रत्नेष्वभिप्रसन्नानि भविष्यन्ति॥



एवमुक्ते भगवन्दृढां पृथिवीदेवतामेतदवोचत्। ये केचित्पृथिवीदेवते सत्त्वा इतः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकपदमपि शृणुयुस्ते त इतो मनुष्यलोकाच्चवित्वा त्रयस्त्रिंशत्सु देवनिकायेष्वन्यतरान्यतरेषु देवनिकायेषूपपत्स्यन्ते। ये केचित्पृथिवी देवते सत्त्वा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजास्यार्थाय तानि स्थानानि समलंकुर्वीरन्नन्तश एकच्छत्रं वा एकदूष्यं वा समलंकृतानि च देवतास्थानानि। तेषु सप्तसु कामावचरेषु देवनिकायेषु सप्तरत्नमयानि दिव्यानि विमानानि सर्वालंकारसमलंकृतानि संस्थास्यन्ति ते सत्त्वा इतो मनुष्यलोकाच्च्यावित्वा तेषु सप्तरत्नमयेषु दिव्यविमानेषूपपत्स्यन्ते। ते चैकैकस्मिन्पृथिवीदेवते सप्तरत्नमये दिव्यविमाने सप्तवरा अनुपपत्स्यन्ते अचिन्त्यानि दिव्यानि सुखानि प्रत्यनुभविष्यन्ति॥



एवमुक्ते दृढा पृथिवीदेवता भगवन्तमेतदवोचत्। तेनाहं भदन्त भगवन्दृढा पृथिवीदेवता तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्य तेषु पृथिवीप्रदेशेष्ववासिष्यामि। अदृश्यमानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षोरुत्तमाङ्गेन पादतलौ प्रतिसंहरिष्यामि। यथाप्ययं सुवर्णप्रभसोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत्। न च क्षिप्रमन्तर्धापयेत्। सत्त्वानि चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः। अनागतोऽध्वन्यनेकानि कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः। तथागतसमवधानगतानि च भवेयुः। अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुः। सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तसमुच्छिन्नानि भवेयुरिति॥

इति श्रीसुवर्णप्रभासोत्तसूत्रेन्द्रराजे दृढापृथिवी

देवतापरिवर्तो नामैकादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project