Digital Sanskrit Buddhist Canon

श्रीमहादेवीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śrīmahādevīparivartaḥ
॥ श्रीमहादेवीपरिवर्तः॥



अथ खलु श्रीर्महादेवी भगवन्तं प्रणम्यैतदवोचत्। अहमपि भदन्त भगवन्भगवती श्रीर्महादेवी तस्य धर्मभाणकस्य भिक्षोरौत्सुक्यतां करिष्यामि। यदिदं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरन्यैश्चोपकरणैर्यथा स धर्मभाणकः सर्वोपकरणसंपन्नो भविष्यति। अवैकल्पतां च प्रतिलप्स्यते। स्वस्थचित्तो भविष्यति। सुखचित्तो रात्रिं दिवा प्रतिनामयिष्यति। इतश्च सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजान्नानाविधानि पदव्यञ्जनान्युपनामयिष्यति। व्युपपरीक्षिष्यति। येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचतिष्यति । न च क्षिप्रमन्तर्धास्यति। सन्ति सत्त्वाः सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः। अनेकानि च कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखानि प्रत्यनुभवेयुः। दुर्भिक्षश्चान्तर्धापयेत्। सुभिक्षश्च प्रादुर्भवेत्। सत्त्वाश्च मनुष्यसुखोपधानेन सुखिता भवेयुः। तथागतसमवधानगताश्च भवेयुः। अनागतेऽध्वति चानुत्तरां सम्यक्संबोधिमभिसंबोधयेयुः। सर्वनरकतिर्यग्योनियमलोकदुःखान्यत्यन्तसमुच्छिन्नानि भवेयुरिति॥



रक्तकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः। यत्र श्रिया महादेव्या मया कुशलमूलमवरुप्तम्। येनैतर्हि यां यां दिशं सत्त्वानां विहरति। यां यां दिशं सत्त्वान्यवलोकयति। यां यां दिशमुपसंक्रमति। तस्यां तस्यां दिश्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि सर्वसुखोपधानेन सुखितानि भविष्यन्ति। अवैकल्पतां च प्रतिलप्स्यन्ते। अन्नेन वा पानेन वा धनेन वा धान्येन वा हिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवालजातरूपरजतादिभिरन्यैश्चोपकरणैः सर्वोपकरणसमृद्धानि सत्त्वानि भविष्यन्ति श्रियो महादेव्याः प्रभावेन। तस्य च तथागतस्य पूजा कर्तव्या। गन्धाश्च पुष्पाश्च धूपाश्च दीपाश्च दातव्याः। श्रियो देव्यास्त्रिष्कृतो नामधेयमुच्चारयितव्यम्। तस्याश्च गन्धं पुष्पं धूपं दीपं दातव्यम्। रसविहारा निक्षेप्तव्यानि। तस्य महाद्रव्यराशिर्विवर्धते। तत्रेदमुच्यते॥

विवर्धत धरणी रसो धरण्या प्रहर्षिता।

भोन्ति च देवता सदा फलशस्यचितोपमम्॥

वृक्षदेवता रोहन्ति शस्यानि सुचित्रभावाः॥ १॥

सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमुच्चारयितव्यम्। तान्सत्त्वाञ्छ्रीर्महादेवीसमन्वाहरिष्यति। तेषां च महतीं श्रियं करिष्यति॥



अलकावत्यां राजधान्यां पुण्यकुसुमप्रभोद्यानवने सुवर्णवर्णध्वजनाम्नि सप्तरत्नप्रभवने श्रीर्महादेवी प्रतिवसति स्म। यः कश्चित्पुरुषो धान्यराशिं विवर्धयितुकामो भवेत्। तेन स्वगृहं सुशोधयितव्यम्। शुचिश्वेतवस्रप्रावृतेन सुगन्धवसनधारिणा भवितव्यम्। नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य त्रिष्कृत्वो नामधेयमुच्चारयितव्यम्। श्रिया महादेव्या हस्तेन तस्य पूजा कर्तव्या। पुष्पधूपगन्धाश्च दातव्याः। नानारसविहाराश्च निक्षेप्तव्याः। तस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानुभावेन तेन कालेन श्रीर्महादेवी तस्य गृह समन्वाहरिष्यति। तस्य च महाधान्यराशिं विवर्धयिष्यति। तेन श्रीर्महादेवीमावाहयितुकामेनेमे विद्यामन्त्राः स्मरयितव्याः। तद्यथा। नमः सर्वबुद्धानामतीतानागतप्रत्युत्पन्नानाम्। नमः सर्वबुद्धबोधिसत्त्वानाम्। नमो मैत्रेयप्रभृतीनां बोधिसत्त्वानाम्। तेषां नमस्कृत्य विद्यां प्रयोजयामि इयं मे विद्या समृध्यतु। स्याद्यथेदम्। प्रतिपूर्णवरे समन्तगते। महाकार्यप्रतिप्रापणे सत्त्वार्थसमतानुप्रपुरे। आयानधर्मिता महाभागिने। महातेजोपमं हिते। ऋषिसंगृहीते। समयानुपालने॥

इमे मूर्धाभिषेकधर्मता मन्त्रपदाः। एका शशिपदा अविसंवादना मन्त्रपदाः। समवधारिभिरवरुप्तकुशलमूलैः प्रावृतधारयमाणैः स सप्तवर्षा अष्टाङ्गोपेता सपञ्चासिन पूर्वाह्णे। अपराह्णे। सर्वबुद्धानां भगवतां पुष्पधूपगन्धपूजां कृत्वात्मनश्च सर्वसत्त्वानां च सर्वज्ञज्ञानस्य परिपूरणाय। तेन सर्वे चाभिप्रायाः समृध्यन्तु॥ क्षिप्रं समृध्यन्तु। तद्गृहं स चौक्षं कृत्वा विहारं चारण्यायतनं वां गोमयेन मण्डलकं कृत्वा गन्धपुष्पधूपं च दातव्यम्। चौक्षमासनं प्रज्ञपयितव्यम्। पुष्पा अवकीर्णन्तु मितव्यम्। ततस्तत्क्षणं श्रीर्महादेवी प्रविशित्वा तत्र स्थास्यति। तदुपादाय तत्र गृहे वा ग्रामे वा नगरे वा निगमे वा विहारे वारण्यायतने वा न जातु केनचिद्वैकल्पं करिष्यति। हिरण्येन वा सुवर्णेन वा रत्नेन वा धनेन वा धान्यादिसर्वोपकरणसमृद्धाभिः सर्वसुखोपधानेन सुखितानि भविष्यन्ति। कुशलमूलश्च ध्रियते। तेन सर्वं श्रियो महादेव्याः प्रेमप्रभावप्रेषणं दातव्यं यावज्जीवं तत्रोपस्थास्यति न विलम्बिष्यति। सर्वाभिप्रायांश्चैषां परिपूरयिष्यतीति॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे श्रीमहादेवीपरिवर्तो

नाम नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project