Digital Sanskrit Buddhist Canon

सरस्वतीदेवीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sarasvatīdevīparivartaḥ
॥ सरस्वतीदेवीपरिवर्तः॥



अथ खलु सरस्वती महादेव्येकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्। अहमपि भदन्त भगवन् सरस्वती महादेवी तस्य धर्मभाणकस्य भिक्षोर्वाक्परिभूषणार्थाय प्रतिभाणकमुपसंहरिष्यामि। धारणीं चानुप्रदास्यामि। सुनिरुक्ततवराणां भावं संभावयिष्यामि। महान्तं च धर्मभाणकस्य भिक्षोर्ज्ञानावभासं करिष्यामि। यानि कानि चित्पदव्यञ्जनानीतः सुवर्णप्रभासोत्तमसूत्रेन्द्रराजात्परिभ्रष्टानि भविष्यन्ति। विस्मरितानि च तान्यहं सर्वाणि तस्य धर्मभाणकस्य भिक्षोः सुनिरुक्ततपदव्यञ्जनान्युपसंहरिष्यामि। धारणीं चानुप्रदास्यामि स्मृत्यसंप्रमोषणाय। यथा चायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत्। न च क्षिप्रमन्तर्धापयेत्। अनेकानि च सत्त्वानीमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं श्रुत्वा चिन्त्य तीक्ष्णप्रज्ञा भवेयुः। अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभन्ते च न दुष्टमेव चायुः। सम्पत्तिं प्रतिलभेयुः। जात्यनुग्रहं चापरिमितं च पुण्यस्कन्धं प्रतिगृह्णीयुः। सर्वशास्त्रकुशलाश्च भवेयुर्नानाशिल्पविधिज्ञाश्च॥



तदिदं संयुक्तं स्नानकर्म भाषिष्यामि तस्य धर्मभाणकस्य भिक्षोस्तेषां च धर्मश्रवणिकानां सत्त्वानामर्थाय। सर्वग्रहनक्षत्रजन्ममरणपीडा कलिकलहकलुषडिम्बडमरदुःखप्नविषोदकपीडाः।

सर्वकाखोर्दवेतालाः प्रशमं यास्यन्ति।



औषधयो मन्त्रा येन स्नापयन्ति च पण्डिताः।

वचा गोरोचना स्पृका शिरीषं श्याभ्यकं शमी।

इन्द्रहस्ता महाभागा व्यामकमगरुः त्वचम्॥ १॥

नीवेष्टकं सर्जरसं सिह्लकं गुल्गुलूरसम्।

तगरं पत्रशैलेयं चन्दनं च मनःशिला॥ २॥

समोचकं तुरुष्कं च कुङ्कुमं मुस्त सर्षपाः।

नरदं चव्य सूक्ष्मेला उशीरं नागकेशरम्॥ ३॥

एतानि समभागानि पुष्यनक्षत्रेण पीषयेत्।

इमैर्मन्त्रपददैश्चूर्णं शतधा चाभिमन्त्रयेत्॥

तद्यथा। सुकृते करजातभागे हंसरण्डे इन्द्रजालमलिलक उपसदे अवतासिके कुत्र कुकलविमलमति शीलमति संधिबुधमति शिशिरि सत्यस्थित स्वाहा॥



गोमयमण्डलं कृत्वा मुक्तपुष्पाणि स्थापयेत्।

सुवर्णभाण्डे रूप्यभाण्डे मधुरेण स्थापयेत्॥ ५॥

वर्मिताश्च पुरुषास्ते चत्वारि तत्र स्थापयेत्।

कन्याः सुभूषिताः न्यस्ताश्चत्वारो घटधारिण्यः॥ ६॥

गुग्गुलुं धूपयन्नित्यं पञ्चतूर्याणि योजयेत्।

छत्रध्वजपताकैश्च सा देवी समलङ्कृता॥ ७॥

आदर्शनपर्यन्ताश्च शरशक्तीर्नियोजयेत्।

सीमाबन्धं ततः कुर्यात्पश्चात्कार्यं समारभेत्।

अनेन मन्त्रपदक्रमेण सीमाबन्धं समारभेत्॥ ८॥

स्याद्यथेदम्। अने नयने हिलि हिलि गिलि खिले स्वाहा॥ भगवतः पृष्ठतः स्नात्वानेन मन्त्रजापेन स्नानशान्तिं योजयेत्। तद्यथा। सुगते विगते विगतावति स्वाहा।



ये प्रस्थिता नक्षत्रा आयुः पालयन्तु चतुर्दिशे।

नक्षत्रजन्मपीडा वा राशिकर्मभयावहम्।

धातुसंक्षोभसंभूता शाम्यन्तु भयदारुणा॥ ९॥

समे विषमे स्वाहा। सुगते स्वाहा। सागरसंभूताय स्वाहा॥ स्कन्धमारुताय स्वाहा। नीलकण्ठाय स्वाहा। अपराहितवीर्याय स्वाहा। हिमवत्संभूताय स्वाहा। अनिमिषचक्राय स्वाहा। नमो भगवत्यै ब्राह्मण्यै नमः सरस्वत्यै देव्यै सिध्यन्तु मन्त्रपदास्तं ब्रह्म नमस्यन्तु स्वाहा।

एतेन स्नानकर्मणा तस्य धर्मभाणकस्य भक्षोरर्थाय तेषां च धर्मश्रवणिकानां लेखकानामार्थाय स्वयमेवाहं तत्र गगणसिद्धयक्षदेवगणैः सार्धं तत्र च ग्रामे वा नगरे वा निगमे वा विहारे वा सर्वतो रोगप्रशमनं करिष्यामि। सर्वग्रहकलिकलुषनक्षत्रजन्मपीडान्वा दुःखस्वप्नविनायकपीडान्सर्वकाखोर्दवेतालान्प्रशमयिष्यामि। यथा तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां जीवितानुग्रहो भवेत्। संसारनिर्वाणं प्रतिलभेयुः। अवैवर्तिकाश्च भवेयुरनुत्तरायाः सम्यक् संबोधेः॥



अथ खलु भगवान्सरस्वत्यै महादेव्यै साधुकारमदात्। साधु साधु सरस्वति महादेवि बहुजनहिताय बहुजनसुखाय प्रतिपन्नो यत्त्वया हीमानि मन्त्रोषधिसंयुक्तानि भाषितानि। सा च सरस्वती महादेवी भगवतः पादावभिवन्दनां कृत्वैकान्ते निषण्णा॥

अथ खल्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो महाब्राह्मणस्तां सरस्वतीमावाहयति स्म॥



सरस्वती महादेवी पूजनीया महत्तपाः।

विख्याता सर्वलोकेषु वरदाता महागुणा॥ १०॥

शिखरे समाश्रिता कान्ता दर्भचीवरवासिनी।

शुभवस्त्रं धारयति एकपादेन तिष्ठति॥ ११॥

सर्वदेवाः समागम्य तां सूत्रवचनं त्विदम्।

जिह्वाभिमुखं च सत्त्वानां भाषन्तु वचनं शुभम्॥ १२॥



स्याद्यथेदम्। सुरे विरे अरजे अरजवति हि गुले पिङ्गले पिङ्गले वतिमुखे मरीचिसुमति दिशमति अग्रामग्रीतलवितले च वडिविचरी मरिणिपाणये लोकज्येष्ठके प्रियसिद्धिव्रते भीममुखिशचिवरी अप्रतिहते अप्रतिहतबुद्धि नमुचि नमुचि महादेवि प्रतिगृह्ण नमस्कार। सर्वसत्त्वानां बुद्धिरप्रतिहता भवतु विद्या मे सिद्ध्यतु शास्रलोकतन्त्रपिटककाव्यादिषु। तद्यथा। महाप्रभावे हिलि हिलि मिलि मिलि। विचरतु मम विचरतु मे माया सर्वसत्त्वानां च भगवत्या देव्याः सरस्वत्या अनुभावेन कदारके युवति हिलि मिलि आवाहयामि महादेवि बुद्धसत्येन धर्मसत्येन संघसत्येन इन्द्रसत्येन वरुणसत्येन ये लोके सत्यवादिनः सन्ति। तेन तेषां सत्यवचेन आवाहयामि महादेवि। हिलि हिलि मिलि विचरन्तु मम मन्त्रिनो माया सर्वसत्त्वानाम्। नमो भगवत्यै सरस्वत्यै सिद्ध्यन्तु मन्त्रपदाः स्वाहा॥

अथाचार्यव्याकरणप्राप्तः कौडिन्यो महाब्राह्मणः सरस्वतीं महादेवीमिमाभिर्गाथाभिरभ्यस्तावीत्॥



शृण्वन्तु मे भूतगणा हि सर्वे

स्तोष्यामि देवीं प्रवरोत्तमचारुवक्त्राम्।

या मातृग्रामे प्रवराग्रदेवी।

सदेवगन्धर्वसुरेन्द्रलोके॥ १३॥

नानाविचित्रा समलंकृताङ्गा

सरस्वती नाम विशालनेत्रा।

पुण्योज्ज्वला ज्ञानगुणैर्विकीर्णा

नानाविचित्रोत्तमदर्शनीया॥ १४॥

स्तोष्यामि तां वाक्यगुणैर्विशिष्टैः

सिद्धिकरायै प्रवरोत्तमायै।

प्रशस्तभूताय गुणाकरायै

विमलोत्तमायै कमलोज्ज्वलायै॥ १५॥

सुलोचनायै नयनोत्तमायै

शुभाश्रयायै शुभदेशनायै।

गुणैरचिन्त्यैः समलंकृतायै।

चन्द्रोपमायै विमलप्रभायै॥ १६॥

ज्ञानाकरायै स्मृतिसमग्रतायै

सिंहोत्तमायै नरवाहनायै।

रत्नमणिबाहुसमलंकृतायै

पूर्णशशाङ्कोपमदर्शनायै॥ १७॥

मनोज्ञवाक्याय मृदुस्वरायै

गम्भीरप्रज्ञाय समन्वितायै।

कार्याग्रसाधनसुसत्त्वतायै

देवासुरैर्वन्दितपूजितायै।

सर्वसुरासुरगणालयवन्दितायै

भूतगणैः सदा संपूजितायै॥ १८॥ नमः स्वाहा॥

हेऽहं देवि नमस्ते

सा मे प्रयच्छतु गुण औघम्॥

सर्वे सत्त्वा विशिष्ट-

सिद्धिं प्रददातु सर्वकार्या।

नित्यं च रक्षतू मां

सर्वान्सत्त्वांश्च शत्रुमध्ये॥ १९॥

एतान् समाप्ताक्षरपूर्णवाक्यान्

कल्यं समुत्थाय पठेत्सुवीर्यः।

सर्वाभिप्राये धनधान्यलाभी

सिद्धिं च प्राप्नोति शिवामुदारामिति॥ २०॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सरस्वतीदेवीपरिवर्तो

नामाष्टमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project