Digital Sanskrit Buddhist Canon

चतुर्महाराजपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturmahārājaparivartaḥ
॥ चतुर्महाराजपरिवर्तः॥



अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराज उत्थायसनेभ्य एकांसेन चीवराणि प्रावृत्य दक्षिणजानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन्। अयं भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः सर्वतथागतभाषितः सर्वतथागतावलोकितः सर्वतथागतसमन्वागतः सर्वबोधिसत्त्वगणनमस्कृतः सर्वदेवगणपूजितः सर्वेदेवेन्द्रगणसंप्रहर्षकः सर्वलोकपालस्तुतः स्तवितो वर्णितः प्रशंसितः सर्वदेवभवनावभासितः सर्वसत्त्वानां परमसुखप्रदायकः सर्वनरकतिर्यग्योनियमलोकदुःखसंशोधकः सर्वभयप्रतिशमनः सर्वपरचक्रप्रतिनिवर्तको दुर्भिक्षकान्तारप्रशमनो व्याधिकान्तारप्रणाशको ज्ञानप्रकाशकः परमशान्तिकरः शोकायासप्रशमनो विविधनानोपद्रव्यप्रशमयितोपद्रवशतसहस्रप्रणाशयिता। इममस्य भदन्त भगवन् सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य विस्तरेण पर्षदि संप्रकाश्यमानस्यास्माकं चतूर्णां महाराजानां सबलपरिवाराणाम्। एतेन च धर्मश्रवणेन धर्मामृतरसेन च दिव्यात्मभावमहातेजसा विवर्धयिष्यन्ति॥ अस्माकं कायेषु वीर्यं च बलं स्थाम च संजनितं भविष्यन्ति। तेजश्च श्रियं च लक्ष्मीं चास्माकं कायेष्वाविशन्ति। वयं भगवंश्चत्वारो महाराजा धार्मिकाश्च धर्मवादिनश्च धर्मराजा धर्मेण वयं भदन्त भगवन् देवनागयक्षगन्धर्वासुरगरुडनरमहोरगाणां राजत्वं कारयिष्यामः। ते वयं भगवन्, चत्वारो महाराजाः सार्धमष्टाविंशतियक्षसेनापतिभिरनेकैश्च यक्षशतसहस्रैः सततसमितं सर्वे जम्बुद्वीपं दिव्येन विशुद्धेनातिक्रान्तमानुष्यकेण व्यवलोकयिष्याम आरक्षयिष्यामः परिपाचयिष्यामः। तेन हेतुना भदन्त भगवन्नस्माकं चतुर्णां महाराजानां लोकपाल इति संज्ञोत्पादिता॥

ये केचिद्भदन्त भगवन्नस्मिन् जम्बुद्वीपे विपर्यासाः परचक्रेण चोपहता भविष्यन्ति, दुर्भिक्षकान्तरेण वा नानाविधैरुपद्रवशतैरुपद्रवसहस्रैरुपद्रवशतसहस्रैरुपहता भविष्यन्ति, ते वयं भदन्त भगवन् चत्वारो महाराजा इदमस्य सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य तेषां च सूत्रेद्रधारिणां भिक्षूणां संचोदनां करिष्यामः। यदा चेमे भदन्त भगवन् धर्मभाणका भिक्षवोऽस्माकं चतुर्णां महाराजानां संचोदनया बुद्धाधिष्ठानेन च येषु विषयेषूपसंक्रमेयुस्तेषु ते विषयेषुः चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण संप्रकाशयेयुः। य इमान्येवंरूपाणि विषयगताति नानाविधान्युपद्रवशतान्युपद्रवसहस्रान्युपद्रवशतसहस्राणि च प्रशमयिष्यन्ति॥

यस्य च भदन्त भगवन् मनुष्यराजस्य विषये ते सूत्रेन्द्रधारका भिक्षवा धर्मभाणाका उपसंक्रान्ता भविष्यन्ति। अयं च मनुष्यराज इमं सुवर्णप्रभाससूत्रेन्द्रराजं शृण्यात्। श्रुत्वा च तेषां सूत्रेन्द्रधारकाणां भिक्षूणां सर्वप्रत्यर्थिकेभ्य आरक्षां कुर्यात् परित्राणं परिग्रहं परिपालनं कुर्यात्। ते वयं भदन्त भगवन् चत्वारो महाराजास्तस्य मनुष्यराजस्य सर्वविषयगतानां च सत्त्वानामारक्षां करिष्यामः परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः। यदा च भदन्त भगवन् सर्वमनुष्यराजः सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां सर्वसुखोपधानैः सुखतां कुर्यात्। ते वयं भदन्त भगवन् चत्वारो महाराजास्तं मनुष्यराजं सर्वराजेभ्यः सत्कृततरं करिष्यामो गुरुकृतं च करिष्यामो मानितं च पूजितं च सर्वविषयेषु च प्रसंशनीयं करिष्यामः।

अथ खलु भगवांश्चतुर्णां महाराजानां साधुकारमदात्। साधु साधु महाराजाः साधु साधु युष्माकं महाराजाः। यथापि ते यूयं पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता धर्मिकाश्च धर्मवादिनश्च धर्मेण देवानां च मनुष्याणां च राजत्वं कारयध्वम्। यथापि पूर्वदीर्घरात्रं सर्वसत्त्वानां हितचित्ताः सुखमैत्रीचित्ताः सर्वसत्त्वहितसुखाध्याशयप्रतिपन्नाः सर्वाहितप्रतिषेधिकाः सर्वसत्त्वानां सर्वहितोपसंहाराभियुक्ताः। ते यूयं चत्वारो महाराजास्तेषां मनुष्यराजस्य च सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य पूजासत्काराभियुक्तानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत। तेन युष्माभिश्चतुर्महाराजैः सबलपरिवारैरनेकैश्च यक्षशतसहस्रैरतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां धर्मनेत्र्यारक्षिता भविष्यति परिपालिता च परिगृहीता च भविष्यति। तेन युष्माकं चतुर्णां महाराजानां सबलपरिवाराणमनेकेषां यक्षशतसहस्राणां देवानां देवासुरसंग्रामे जयो भविष्यति, असुराणां च परिजयो भविष्यति। सर्वपरचक्रप्रमर्दकस्य सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत्॥



अथ वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरुढको महाराजो विरूपाक्षो महाराज उत्थायासनेभ्य एकांसानि चीवरैः प्रावृत्य दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन्। अयं भदन्त भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजोऽनागतेऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु प्रचरिष्यति यस्य यस्य मनुष्यराजस्य विषयमनुप्राप्तो भविष्यति। कश्चिद्भदन्त भगवन्मनुष्यराजो भगवन् येनानेन देवेन्द्रसमयेन राजशास्रेण राजत्वं कारयेत्। अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवंस्ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्सततसमितं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं शृणुयात्। अनेन धर्मश्रवणेन संचोदनधर्मामृतपुण्यात्मकानामस्माकं चतुर्णां महाराजानां सकलपरिवाराणामनेकेषां च यक्षराक्षसशतसहस्राणामिमान् दिव्यात्मभावान् महतौजसा विवर्धयेत्। महान्तं वीर्यं च स्थाम च बलं चास्माकं कायेषु तेजःश्रियश्च लक्ष्मी चास्माकं विवर्धयेत्। तेन वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैः यक्षशतसहस्रैरदृश्यद्भिः कायात्मभावैरेतर्हि चानागतेऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामः तत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः प्रचरिष्यति। तेषां च मनुष्यराजानामस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणां मातापितॄणां चारक्षां करिष्यामः। परित्राणं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामः। तेषां च राजकुलानां तेषां च राष्ट्राणां तेषां च विषयाणामारक्षां करिष्यामः। परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामः। तांश्च विषयान् सर्वभयोपायासेभ्यः परिमोचयिष्यामः परचक्राणि च प्रतिनिवर्तयिष्यामः।



यः कश्चित् तस्य मनुष्यराजस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतुर्मानयितुः पूजयितुरन्यः सामन्तकः प्रतिशत्रुराजा भवेत्। यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रो राज्ञ एवं चित्तमुत्पादेत्। सोऽहं चतुरङ्गेन बलकायेन सार्धमस्य विषयमुपसंक्रमेयं विनाशयितुम्। तेन खलु पुनर्भदन्त भगवान् कालेन तेन समयेनास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजोऽनुभावेन तस्य सामन्तकस्य प्रतिशत्रुराजस्यान्यै राजभिः सार्धं संग्रामे भविष्यति। स्वविषयगताश्च विषयविलोपाश्च भविष्यन्ति। दारुणाश्च राजसंक्षोभा भविष्यन्ति। ग्रहरोगाश्च विषये प्रादुभूता भविष्यन्ति। नानाव्याक्षेपशतानि विषये प्रादुर्भूतानि भविष्यन्ति। यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रुराजस्य स्वविषयगतान्येवंरूपाणि नानोपद्रवशतानि नानाव्यक्षेपशतानि भवेयुः। स च भदन्त भगवन् सामन्तकप्रतिशत्रुराजश्चतुरङ्गीणीं सेनां योजयित्वा परचक्रगमनाय स्वविषयान्निष्क्रान्तो भवेत्। यत्रायं सुवर्णप्रभासोत्तमः सुत्रेन्द्रराजो भवेत् स प्रतिशत्रुराजः सार्धं चतुरङ्गबलकायेन तं विषयमुपसंक्रमितुकामो भवेत्। तं विनाशितुकामो भवेत्। ते वयं भदन्त भगवञ्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षराक्षसशतसहस्रैरदृश्यैरात्मभावैस्तत्रोपसंक्रमिष्यामः तं परचक्रमध्वानं मार्गप्रतिपन्नं तथैव प्रतिनिवर्तयिष्यामो नानाव्याक्षेपशतानि चोपसंहरिष्यामो विघ्नांश्च करिष्यामः। यथा च तत्परचक्रं न शक्ष्यति तत्र विषय उपसंक्रमितुम्। कुतः पुनर्विनाशं करिष्यति॥



अथ खलु भगवांस्तेषां चतुर्णां महाराजानां साधुकारमदात्। साधु साधु महाराजाः साधु खलु पुनर्युष्माकं महाराजानाम्। यद्यूयमत्या असंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीताया अनुत्तरायाः सम्यक्संबोधेरर्थाय तेषां मनुष्यराजानामस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणामारक्षां करिष्यथ। परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यथ। तानि च राजकुलानि तानि नगराणि तानि च राष्ट्राणि तानि च विषयाण्यारक्षयिष्यथ। परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यथ। तानि च विषयाणि सर्वमयोपद्रवोपसर्गापायासेभ्यः परिमोचयिष्यथ। परचक्राणि च निवर्तयिष्यथ। सर्वजम्बुद्वीपगतानां चास्य मनुष्यराजस्याकलहयाभण्डनयाविग्रहया विवादयौत्सुक्यमपपद्यथ। यथा च ते युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामस्मिञ्जम्बुद्वीपे तेषु चतुर्षु नगरसहस्रेषु तानि चतुरशीतिनगरसहस्राणि तेषु तेषु विषयेष्वभिरमेयुस्तेन च राज्यैश्वर्येणाभिरमेयुस्तेन च धनस्कन्धेन परस्परं न विहेठयेयुः। न परस्परं विहेठं जनयेयुः। स्वेन च यथा पूर्वकर्मोपचयेन राजत्वं प्रतिलभेयुः। स्वेन च राज्यैश्वर्येण च तुष्टा भवेयुः। न च परस्परेण विनाशयेयुः। न विषेय विनाशाय परक्रमेयुः॥



यथा चास्मिञ्जम्बुद्वीपे तेषु चतुरशीतिषु विषयनगरसहस्रेषु तानि चतुरशीतिराज सहस्राणि परस्परेण हितचित्तानि मैत्रीचित्तानि सुखचित्तानि परस्परेण कलहयाभण्डनयाविग्रहयाविवादया स्वेषु स्वेषु विषयेष्वभिरमेरन्तेन पुण्येन चतुर्णां महाराजानां सबलपरिवाराणामयं च जम्बुद्वीपः स्फीतो भविष्यति। सुभिक्षश्च रमणीयश्च बहुजनसमाकीर्णश्चर्द्धश्चौजोवतरश्च भविष्यति। ऋतुमासार्धमाससंवत्सराणि च सर्वाणि समाचारयुक्तानि भविष्यन्ति। अहोरात्रं ग्रहनक्षत्रचन्द्रसूर्याश्च समाग्रहिष्यन्ति। कालेन च वर्षधाराः पृथिव्यां निपतिष्यन्ति। सर्वजम्दुद्वीपगतानि च सत्त्वानि सर्वधनधान्यसमृद्धानि भविष्यन्ति। महाभोगानि चामत्सराणि च भविष्यन्ति। परित्यागवन्ति दशकुशलकर्मपथसमन्वागतानि च भविष्यन्ति। यद्भूयसा सुगतौ स्वर्गलोक उपपत्स्यन्ते। देवभुवनानि चाकीर्णानि भविष्यन्ति देवैर्देवपुत्रैश्च॥

यत्कश्चिन्महाराजो भवेद् य इत्थमस्य सुवर्णप्रभासत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवेन्मानयिता च पूजयिता च तेषां च सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामौत्सुक्यं सत्कुर्याद् गुरुकुर्यान्मानयेत्पूजयेत्। युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणामनुकम्पार्थाय सततसमितं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजेन्द्रं शृण्वन्। अनेन धर्मश्रवणसलिलोदकेन युष्माकमेतान्यात्मभावानि संतर्पयेत्। महतौजसा युष्माकमेतानि शरीराणि विवर्धयेत्। महच्च युष्माकं वीर्यं च स्थाम बलं च वपुषः संजनयेत्। तेजश्च श्रियश्च लक्ष्मीश्च युष्माकं विवर्धयेत्। तेन च मनुष्यराजेन मम शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्याचिन्त्या महाविपुलविस्तीर्णा पूजा कृता भविष्यति। तेन तस्य मनुष्यराजेनातीतानागतप्रत्युत्पन्नानां बुद्धानामनेकेषां तथागतानां कोटीनियुतशतसहस्राणामचिन्त्या महती विस्तीर्णा सर्वोपकरणैः पूजा कृता भविष्यति। तेन तस्य मनुष्यराजस्य महत्यारक्षा कृता भविष्यति। तेन च तस्य राज्ञो रक्षां परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं कृतं भविष्यति। अग्रमहिष्याश्च राजपुत्राणां च सर्वान्तःपुरस्य च राजकुलस्य च सर्वस्य महत्यारक्षा कृता भविष्यति। परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं कृतं भविष्यति। राजकुलनिवासन्यश्च सर्वदेवता ओजोवत्तराश्च चित्तेन सुखसौमनस्येन समन्वागता भवितारो रतिमनुभविष्यन्ति। तानि च राष्ट्राणि तानि च विषयाणि चारक्षितानि भविष्यन्ति। परिपाचितानि चानुत्पीडितानि चाकण्टकानि भविष्यन्ति। सर्वपरचक्रान्यवमर्दितानि चानुपसर्गाणि चानुपायासानि चेति॥



एवमुक्ते वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजस्ते सर्वे भगवन्तमेतदवोचन्। तेन च भगवन्मनुष्यराजेन सुस्नातगात्रेण भवितव्यं सुगन्धवासनधारिणा नवरुचिरवस्त्रप्रावृतेन नानालंकारविभूषितेन भवितव्यम्। आत्मनश्च नीचतरमासनं प्रज्ञपयितव्यम्। तत्रासने निषीदित्वा राज्यमदमत्तेन न भवितव्यम्। न चोच्चै राज्ञा स्वयं प्रज्ञपयितव्यम्। शाठ्यमानमददर्पविवर्जितेन चित्तेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः। तस्य च धर्मभाणकस्य भिक्षोरन्तिके शास्तृसंज्ञोत्पादयितव्या। तेन मनुष्यराजेन तस्मिन्काले तस्मित्समयेऽग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च प्रियहिताभ्यां प्रेक्षितव्याः। प्रियवचनैश्चाग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च आलपयितव्याः। नानाविचित्राश्च धर्मश्रवणपूजा आज्ञापयितव्याः। अचिन्त्ययातुल्यया प्रीत्यात्मानं संतर्पयितव्यम्। अचिन्त्येन प्रीतिसुखेन सुखापयितव्यम्। सुखेन्द्रियेण च भवितव्यम्। आत्मनश्च महाबलेन भवितव्यम्। महता प्रहर्षेणात्मा प्रहर्षयितव्यः। महता प्रेमजातेन धर्मभाणकः प्रत्युत्थातव्यः॥

एवमुक्ते भगवांस्तांश्चतुरो महाराजानेतदवोचत्। तस्मिंश्च खलु पुगर्महारजाः काले तस्मिन्समये तेन मनुष्यराजेन सर्वश्वेतानि पाण्डुराणि नवरुचिवस्त्राणि प्रावरितव्यानि। नानाविभूषणालंकारैरात्मा समलंकर्तव्यं। महता राजानुभावेन महता राजव्यूहेन नानाविचित्ररत्नमङ्गलपरिगृहीतैस्ततो राजकुलादभिनिष्क्रमितव्यम्। तस्य च धर्मभाणकस्य भिक्षोः प्रत्युद्गमनाय गन्तव्यम्। तत्कस्य हेतोः ? यावन्ति मनुष्यराजस्तत्र पदानि भावयति तावन्ति कल्पकोटीनियुतशतसहस्राणि संसारात्पराङ्मुखानि करिष्यति तावतां चक्रवर्तिराजकुलकोटीनियुतशतसहस्राणां लाभी भविष्यति। यावन्ति स तत्र पदान्यतिक्रमिष्यति तावतां चैव दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धिष्यते। अनेककल्पकोटीनियुतशतसहस्राणामुदारोदाराणां चावस्थानानां सप्तरत्नमयानां दिव्यविमानानां लाभी भविष्यति। अनेकेषां च दिव्योदाराणां मानुष्यकाणां राजकुलपुत्रशतसहस्राणां लाभी भविष्यति। सर्वत्र च जातिषु महैश्वर्यप्राप्तो भविष्यति। दीर्घायुष्कश्च भविष्यति। चिरंजीवी च भविष्यति। प्रतिभाणवांश्चादेयवचनश्च यशस्वी च सुविशालकीर्तिश्च भविष्यति। सदेवमानुषासुरस्य लोकस्य सुखितश्च भविष्यति। उदारोदाराणां च दिव्यमानुष्यकाणां सुखानां लाभी भविष्यति। महाबलश्च महानग्नबलवेगधारी चाभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतश्च भविष्यति। सर्वत्र जातिषु तथागतसमवधानगतो भविष्यति। सर्वकल्याणमित्राणि च प्रतिलप्स्यते। अपरिमितपुण्यस्कन्धस्य परिगृहीतो भविष्यति॥

इमन्येवंरूपाणि महाराजगुणानुशंसानि संपश्यमानेन तेन राज्ञा धर्मभाणको योजनात्प्रत्युत्थातव्यः। तस्य धर्मभाणकस्यान्तिके शास्तृसंज्ञोत्पादयितव्या। एवं चित्तमुत्पादयितव्यम्। अद्य मम शाक्यमुनिस्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले प्रवेक्ष्यति। अद्य मम शाक्यमुनिस्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले स्वजनमनुशसिष्यते। सर्वलोकविप्रत्ययनीयं धर्मश्रवणं श्रोष्यामि। अद्याहमनेन धर्मश्रवणेनावैवर्तिको भविष्याम्यनुत्तरायां सम्यक्संबोधौ। अद्य मया तथागतकोटीनियुतशतशस्राण्यारागितानि भविष्यन्ति। अद्य मयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्या महती विपुला विस्तीर्णा पूजा कृता भविष्यति। अद्य मम नरकगतितिर्यग्योनियमलोकदुःखान्यन्तशः समुच्छिन्नानि भविष्यन्ति। अद्य मयानेकानां ब्रह्मेन्द्रराजत्वकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति। अद्य मयानेकानां शक्रकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलान्यवरोपितानि भविष्यन्ति। अद्य मयानेकानि चक्रवर्तिराजकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति। अद्य मया सत्त्वकोटीनियुतशतसहस्राणि संसारात्परिमोचितानि भविष्यन्ति। अद्य मयाचिन्त्यसुविपुलविस्तीर्णापारमितपुण्यस्कन्धः परिगृहीतो भविष्यन्ति। अद्य मम सर्वान्तःपुरस्य महत्यारक्षा कृता भविष्यन्ति। अद्य मम राजकुलेऽचिन्त्या समबिशिष्टानुत्तरा महती शान्तिः कृता भविष्यति स्वस्त्ययनं च। अद्य ममायं सर्वविषय आरक्षितो भविष्यति। परिपालितश्चानुत्पीडितश्चानुत्कण्ठिकश्च सर्वपरचक्रानवमर्दितश्चानुपसर्गश्चानुपायासश्च भविष्यति॥

यदा च महाराजाः स मनुष्यराजोऽनेनैवंरूपेण सद्धर्मगौरवेण सुवर्णप्रभासोत्तमसूत्रेन्द्रराजधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेद्युष्माकं चतुर्णां महाराजानां सबलपरिवाराणां तेषां च देवगणानामनेकेषां च यक्षशतसहस्राणां महा तथा धर्माङ्गप्रत्यक्षं दद्यात् येन चैवासौ मनुष्यराजः पुण्यभिसंस्कारेण कुशलाभिसंस्कारेण च तेनैव चात्मभावेन च दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धयिष्यति। दृष्टधार्मिकेणाचिन्त्येन महता राजतेजसा समन्वागतो भविष्यति। श्रिया च तेजसा च लक्ष्म्या चालंकृतो भविष्यति। सर्वप्रत्यर्थिकाश्च सर्वशत्रवश्च सहधर्मेण सुनिगृहीता भविष्यन्ति॥



एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन्। यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् सोऽनेनैवंरूपेण धर्मगौरवेणेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयात्। ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्। अस्माकं चतुर्णां महाराजानामर्थाय तद्राजकुलं सुशोधितं शोधयेत्। नानागन्धोदकसंसिक्तं कुर्यात्। तं च धर्मश्रावणमस्माभिश्चतुर्भिश्च महाराजैः सार्धं साधारणं शृण्यादात्मनोऽर्थाय सर्वदेवता च किंचिन्मात्रं कुशलं प्रत्यक्षं दद्यात्। समन्तरनिषण्णस्य च भदन्त भगवंस्तस्य भिक्षोर्धमासनगतस्य तेन मनुष्यराजेनास्माकं चतुर्णां महाराजानामर्थाय नानागन्धा धूपयितव्याः। सहधूपितेषु भदन्त भगवंस्तस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धेषु नानागन्धधूपलता निश्चरन्ति। तस्मिन्नेव क्षणलवमुहूर्तेऽस्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतान्युपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति। उदारांश्च गन्धानाघ्रास्यन्ति। सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति। तेन चावभासेनास्माकं भवनान्यवभासितानि भविष्यन्ति। ब्रह्मणः सहांपतेः शक्रस्य च देवानामिन्द्रस्य सरस्वत्याश्च महादेव्या दृढायाश्च महादेव्याः श्रियश्च महादेव्याः संजयस्य च महायक्षसेनापतेरष्टाविंशतीनां च महायक्षसेनापतीनं महेश्वरस्य च देवपुत्रस्य बज्रपाणेश्च महायक्षसेनापतेर्माणिभद्रस्य च महायक्षसेनापतेर्हारीत्याश्च पञ्चपुत्रशतपरिवाराणामनवतप्तस्य च नागराजस्य चैतेषां भदन्त भगवन्स्वकस्वकभवनगतानाम्। तेन क्षणलवमुहूर्तेनोपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति। उदारांश्च नानागन्धानाघ्रास्यन्ति। सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति। तया चावभासया सर्वभवनान्यवभासितानि भविष्यन्ति॥



एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत्। न केवलं युष्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतानामुपर्यन्तरीक्षगताति नानागन्धधूपलताछत्राणि संस्थास्यन्ति। तत्कस्य हेतोः ? सहप्रधूपिताश्च महाराजास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजोपस्थानाय। ततश्चैव धूपकुण्डहस्तपरिगृहीता नानागन्धधूपलता निश्चरिष्यन्ति। तेन क्षणलवमुहूर्तेन सर्वस्यामस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यत्र कोटीशतं चन्द्राणांकोटीशतं सुमेरूणां पर्वतराजानां कोटीशतं चक्रवाडमहाचक्रवाडानां पर्वतराजानां कोटीशतं चतुर्महाद्वीपानां कोटीशतं चतुर्महाराजकायिकानां देवानां कोटीशतं त्रयस्त्रिंशानां देवानां कोटीशतं यावन्नैवसंज्ञायतनोपगानां देवानाम्। सर्वत्र च तेषु त्रिसाहस्रमहासाहस्रलोकधातुकोटीशतेषु त्रयस्त्रिंशेषु देवनिकायेषु सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाणां च भवनगतानां चोपर्यन्तरीक्षगतानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति। उदारांश्च नानागन्धानाघ्रास्यन्ति। सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति। ताभिश्चावभासाभिः सर्वभवनान्यवभासितानि भविष्यन्ति। रत्नच्छत्राणि संस्थास्यन्ति। उदारोदाराञ्च गन्धानाघ्रास्यन्ति सर्वदेवभवनेषु सुवर्णवर्णावभासाः प्रादुर्भविष्यन्ति। तेन चावभासेन सर्वदेवभवनान्यवभासितानि भविष्यन्ति। यथा त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वदेवभवनान्युपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति। तथा चास्य महाराजाः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजसा कुण्डहस्तेन धूपितास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धधूपलताछत्राणि संस्थास्यन्ति। तेन क्षणलवमुहूर्तेन समन्ताद्दशसु दिक्ष्वनेकेषु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकेषां गङ्गानदीवालुकासमानां तथागतकोटीनियुतशतसहस्राणामुपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति। तेषु वालुकोपमेषु बुद्धकोटीनियुतशतसहस्रेष्वुदारोदारान्नानागन्धधूपानाघ्रास्यन्ति। सुवर्णवर्णमयावभासाः प्रादुर्भविष्यन्ति। तेन चावभासेन तान्यनेकानि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राण्यभासितानि भविष्यन्ति। समनन्तरप्रादुर्भूतानि च महाराजा इमान्येवंरूपाणि महाप्रातिहार्याणि तान्यनेकानि गङ्गानदीवालुकासमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि प्रतिष्ठितास्तथागतास्तं च धर्मभाणकं समन्वाहरिष्यन्ति। साधुकाराणि च प्रदास्यन्ति साधु साधु सत्पुरुष साधु पुनस्त्वं सत्पुरुष। यस्त्वमिममेवंरूपं गम्भीरमेवं गम्भीरार्थमेवं गम्भीरावभासमेवमचिन्त्यगुणधर्मसमन्वागतं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयितुकामः। न चैते सत्त्वा इतरेण कुशलमूलेन समन्वागता भविष्यन्ति। य इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजमन्तशः श्रोष्यन्ति, प्रागेवोद्ग्रहीष्यन्ति धारयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति। विस्तरेण पर्षदि संप्रकाशयिष्यन्ति देशयिष्यन्त्युद्देक्ष्यन्ति स्वाध्यायिष्यन्ति योनिशो मनसि भावयिष्यन्ति। तत्कस्य हेतोः ? सहश्रवणेनास्य पुरुषस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानेकानि बोधिसत्त्वकोटीनियुतशतसहस्राण्यवैवर्तिकानि भविष्यन्त्यनुत्तरायाः सम्यक्सबोधेः॥



अथ खलु तानि समन्ताद्दशसु दिक्षु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकानि तथागतकोटीनियुतशतसहस्राणि स्वकस्वकेषु बुद्धक्षेत्रेषु प्रतिष्ठितानि तेन कालेन तेन समयेनैकपादेनैकवाचैकस्वरनिर्घोषेण तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्यैतदूचुः। उपसंक्रमिष्यसि त्वं सत्पुरुषानागतेऽध्वनि बोधिमण्डम्। प्रदर्शयिष्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो द्रुमराजमूलोपविष्टः सर्वत्रैलोक्यप्रतिविशिष्टानि सर्वसत्त्वांस्त्रिकालान्तराणि व्रततपश्चरणबलाधानान्यधिष्ठानान्यधिष्ठितान्यनेकानि दुष्करकल्पकोटीनियुतशतसहस्राणि समलंकरिष्यसि त्वं सत्पुरुष बोधिमण्डम्। परित्रायिष्यसि त्वं सत्पुरुष सर्वांस्त्रिसाहस्रमहासाहस्रलोकधातून्। पराजयिष्यसि त्वं सत्पुरुष द्रुमराजमूलोपविष्टः कृतिमरूपपरमबीभत्सदर्शनं नानाविकृतरूपमचिन्त्यमारसैन्यम्। अभिसंभोत्स्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतोऽनुपमप्रशान्तविरजस्कगम्भीरामनुत्तरां सम्यक्संबोधिम्। प्रवर्तयिष्यसि त्वं सत्पुरुषार्यसारदृढवज्रासनोपविष्टः सर्वजनाभिसंस्तुतं परमगम्भीरं द्वादशाकारमनुत्तरधर्मचक्रम्। पराहनिष्यसि त्वं सत्पुरुषानुत्तरं धर्मगञ्जवाद्यम्। आपूरयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मशङ्खम्। उच्छ्रयिष्यसि त्वं सत्पुरुष महाधर्मध्वजम्। प्रज्वलयिष्यसि त्वं सत्पुरुषानुत्तरां धर्मोल्काम्। प्रवर्षयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मवर्षम्। पराजयिष्यसि त्वं सत्पुरुषनेकानि क्लेशशतसहस्राणि। प्रतारयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि सुभीमान्महाभयसमुद्रात्। परिमोचयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि संसारचक्रात्। आरागयिष्यसि त्वं सत्पुरुषानेकानि तथागतकोटीनियुतशतसहस्राणि॥



एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन्। अस्य भदन्त भगवन्सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्येमान्येवंरूपाणि दृप्धार्मिकाणि मारपराजयिकानि च गुणानि संपश्यमानस्य बुद्धसहस्रावरुप्तकुशलमूलस्य मनुष्यराजस्यानुकम्पाच्चापरिमितपुण्यस्कन्धपरिग्रहं संपश्यमानास्ते वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षशतसहस्रैः सार्धं स्वभवनगता नानागन्धधूपलताछत्राः संचोदिताः समाना अदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्योपगतसंस्कारकूटसुशोधितं नानागन्धोदकसुसंसिक्तं नानालंकारसमलंकृतं राजकुलं तेनोपसंक्रमिष्यामो धर्मश्रवणाय। ब्रह्मा च सहांपतिः शक्रश्च देवानामिन्द्रः सरस्वती च महादेवी श्रीश्च महादेवी दृढा च पृथिवीदेवता संजयश्च महायक्षसेनापतिरष्टाविंशतिमहायक्षसेनापतयश्च महेश्वरश्च देवपुत्रो वज्रपाणिश्च गुह्यकाधिपतिर्माणिभद्रश्च महायक्षसेनापतिर्हारीती च पञ्चपुत्रशतपरिवारा अनवतप्तश्च नागराजः सागरश्च नागराजः। अनेकानि च देवकोटीनियुतशतसहस्राण्यदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्य तत्र त नानालंकारसमलंकृतं राजकुलं यत्र तस्य धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायां धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायं धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मासनं प्रज्ञप्तं तत्र भविष्यन्ति धर्मश्रवणाय॥



ते वयं भदन्त भगवंश्चत्वारो महाराजा अनेकैर्यक्षशतसहस्रैरेभिश्च सर्वैः सार्धं समग्रा भविष्यामस्तस्य मनुष्यराजस्य कल्याणमित्रसहायकस्य कल्याणसंप्रापकस्यानुत्तरमहारसोदारदातुरनेन धर्मामृतरसेन संतर्पिताः संतर्प्य तस्य मनुष्यराजस्यारक्षां करिष्यामः। परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः। तस्य राजकुलस्य च नगरस्य च विषयस्य च रक्षां करिष्यामः। परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामं। तच्च विषयं सर्वोपद्रवोपसर्गोपायासेभ्यः परिमोचयिष्याम इति॥

यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत्। यस्य च मनुष्यराजस्य विषयेऽयं सूत्रेन्द्रराजं संप्रचरेत्। यदा चासौ भदन्त भगवन्मनुष्यराजः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य धारकान् भिक्षुभिक्षुण्युपासकोपासिका न सत्कुर्यान्न गुरुकुर्यान्न मानयेन्न पूजयेत्। अस्माकं चतुर्णां महाराजानामनेकानि यक्षकोटीनियुतशतसहस्स्राण्यनेन धर्मश्रवणेनैनेन धर्मामृतरसेन न संतर्पयेरन्न प्रतिमानयेरन्। इमानि दिव्यात्मभावानि महता तेजसा न विवर्धयेन्न चास्माकं वीर्यं च बलं च संजनयेत्। तेजश्च श्रियश्च लक्ष्मीं चास्माकं कायेषु न विवर्धयेत्। न तेऽपि वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षकोटीनियुतशतसहस्रैस्तस्य च विषये रक्षां करिष्यामः। भदन्त भगवन्विषयमस्माकमुपेक्षन्तः सर्वविषयवासिनो देवगणास्तं विषयमुपेक्ष्यन्ति। देवताश्च भदन्त भगवन्तं विषयमुपेक्ष्यन्ते॥



तत्र तत्र विषये नानाविधा विषयलोपा भविष्यन्ति। दारुणानि च राजसंक्षोभानि भविष्यन्ति। सर्वविषयगतानि च सत्त्वानि कलहजातानि भविष्यन्ति। भण्डनजातानि विगृहीतानि विवादमापन्नानि नानाविधाश्च ग्रहरोगा विषये प्रादुर्भाविष्यन्ति। नानादिगभ्य आगताश्चोल्कापाताः प्रादुर्भविष्यन्ति। ग्रहनक्षत्राणि च परस्परेण विरुद्धानि भविष्यन्ति। सूर्यप्रतिरूपकाणि शशिन उत्पादयिष्यन्ति। चन्द्रग्रहाश्च भविष्यन्ति। सूर्यग्रहाश्च सततसमितं गगनान्तरगतौ सूर्यचन्द्रमसौ नो दृक्यथगतौ भविष्यतः। उल्कापातसदृशवर्णानि परिवेशकानि गगनान्तरे कालेन कालं प्रादुर्भविष्यन्ति। पृथिवीकम्पाश्च भविष्यन्ति। कूपाश्च पृथिवीगताः संक्षेपन्तः शोक्ष्यन्ति। विषमवाताश्च वास्यन्ति। विषमवर्षाश्च भविष्यन्ति। दुर्भिक्षकान्तारश्च सर्वविषये भविष्यति। परचक्राणि च तद्विषयं वेक्ष्यन्ति। आयासबहुलं भविष्यति। तेषामस्माकं भदन्त भगवंश्चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणां विषयवासिनां च देवनागानां तं विषयमुपेक्षतस्तत्र विषय इमान्येवं रूपाणि नानाविधान्युपद्रवशतानि भविष्यन्त्युपद्रसहस्राणि वा॥



यं कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत्। य आत्मनो महतीमारक्षां कर्तुकामो भवेत्। चिरं च नानाविधानि राजसौख्यान्यनुभवितुकामो भवेत्। सर्वसुखसमर्पितो न चिरेण राजत्वं कर्तुकामो भवेत्। सर्वविषयवासिनां च सत्त्वानां सुखापयितुकामो भवेत्। सर्वपरचक्राणि च पराजयितुकामो भवेत्। सर्वसुखेन विषयं परिपालयितुकामो भवेत्। धर्मेण राजत्वं कारयितुकामो भवेत्। स्वविषयं च सर्वभयोपद्रवोपसर्गोपायासेभ्यः परिमोचयितुकामो भवेत्॥



तेन च भदन्त भगवन्मनुष्यराजेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः। श्रुत्वा चैतास्तद्धारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः। वयं चत्वारो महाराजाः सबलपरिवारा अनेनैव धर्मश्रवणकुशलमूलोपचयेनानेन धर्माकृतरसेन संतर्पयितव्याः। अस्माकं चेमानि दिव्यात्मभावानि महातेजसा विवर्धयितव्यानि। तत्कस्य हतोः ? यद्भदन्त भगवंस्तेन मनुष्यराजेनावश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः॥



यावन्ति भदन्त भगवन्ब्रह्मेन्द्रेण लौकिकलोकोत्तराणि च नानाविधानि शास्त्राण्युपदर्शितानि। यावन्ति च शक्रेण देवेन्द्रेण नानाविधानि शास्त्राण्युपदर्शितानि। यावन्ति च नानाविधैः पञ्चभिज्ञै ऋषिर्भिर्लौकिकलोकोत्तराणि च सत्त्वानामर्थाय शास्त्राण्युपदर्शितानि। भदन्त भगवंस्तेभ्यो ब्रह्मेन्द्रशतसहस्रेभ्योऽनेकेभ्यश्च शक्रकोटीनियुतशतसहस्रेभ्यः सर्वेभ्यश्च पञ्चाभिज्ञेभ्य ऋषिकोटीनियुतशतसहस्रेभ्यस्तथागतोऽग्रतरश्च विशिष्टतरश्चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानामर्थाय संप्रकाशयितः॥



यथायं सर्वजम्बुद्वीपगतानां मनुष्यराजानां राजत्वं कारयितव्यम्। यथा च सर्वसत्त्वानि सुखार्पितानि भविष्यन्ति। यथा च सर्वविषयानुत्पीडिताश्च भविष्यन्त्यकण्टकाः। यथा परचक्राणि पराजितानि भविष्यन्ति। पराङ्मुखीभूतानि। यथा च ते विषया अनुपायासाश्च। यथा च सर्वविषयधर्मा अनुपायासाश्च भविष्यन्त्यनुपद्रुताश्च। यथा च तैर्मनुष्यराजैः स्वेषु विषयेषु महती धर्मोल्काः प्रज्वलिता भविष्यन्त्यादीपिताश्च। यथा च सर्वदेवताभवनानि आदीपितानि भविष्यन्ति देवैर्देवपुत्रैश्च। यथ च वयं चत्वारो महाराजाः सबलपरिवारा अनेकानि यक्षशतसहस्राणि सर्वजम्बुद्वीपगताश्च देवगणाः संतर्पिता भविष्यन्ति संप्रसादिताश्च। यथा चास्माकं काये महान्तं वीर्यं च बलं च स्थाम च संजनितं भविष्यन्ति। यथा चास्माकं काये तेजश्च श्रीश्च लक्ष्मीश्च भूयस्या मात्रयाभिनिचिशन्ति। यथा च सर्वजम्बुद्वीपः सुभिक्षो भविष्यति रमणीयश्च बहुजनाकीर्णमनुष्यश्च। यथा च सर्वजम्बुद्वीपगतानि सत्त्वानि सर्वसुखानि भविष्यन्ति। नानारतिमनुभविष्यन्ति। यथा च सत्त्वान्यनेककल्पकोटीनियुतशतसहस्राण्ययिन्त्यान्युदारोदाराणि सुखान्यनुभविष्यन्ति। बुद्धैश्च भगवद्भिः सार्धं समवधानगतानि भविष्यन्ति। अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। तत्सर्वमेतर्हि भगवता तथागतेनार्हता सम्यक्संबुद्धेन महता कारुण्यबलाधिष्ठानेन शक्रकोटीनियुतशतसहस्राणि दिव्यातिरेकतरेऽनुत्तरे तथागतज्ञाने नानाविधानेकसर्वपञ्चाभिज्ञर्षिगणकोटीनियुतशतसहस्राणि चातिरेकसम्यक्संबुद्धेन ब्रह्मेन्द्रकोटीनियुतशतसहस्राणि चातिरेकव्रततपोऽधिष्ठानेन स भगवता तथागतोनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण सर्वसत्त्वानामर्थायेह जम्बुद्वीपे संप्रकाशितः॥



तेन मनुष्यराजेन सर्वजम्बुद्वीपगतानि लौकिकलोकोत्तराणि राजकार्याणि राजशास्राणि राजकरणानि निर्यातानि। यैरिमे सत्त्वाः सुखिनो भविष्यन्ति। तानि सर्वाणि भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमसूत्रेन्द्रराज उपदर्शितः परिदीपितः संप्रकाशितः। तेन भदन्त भगवन्हेतुना तेन प्रत्ययेन च तेन मनुष्यराजेनावश्यमायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कृत्य मानयितव्यः सत्कृत्य पूजयितव्यः॥



एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत्। तेन हि चत्वारो महाराजाः सबलपरिवारा अवश्यं तेषां मनुष्यराजानामस्य सुवर्णप्रभासोत्तमय सूत्रेन्द्रराजस्य श्रोतॄणां पूजयितॄणां महान्तमौत्सुक्यं करिष्यन्ति रक्षार्थम् एताश्च महाराजाः सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका बुद्धक्षेत्रमारात्प्रदर्शन्ते देवमानुषासुरस्य लोकस्य बुद्धकृत्यानि करिष्यन्ति। इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यन्ति। अवश्यं युष्माभिश्चतुर्भिर्महाराजैस्तेषां सूत्रेन्द्रेधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षा कर्तव्या। परिपालनं परित्राणं परिग्रहं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं कर्तव्यम्। यथा च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका आरक्षिता भवेयुरनुत्पीडिता अनुसर्गोपायासां सुखचित्ताः। इमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानां संप्रकाशयितुम्॥



अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजोत्थायासनेभ्य एकांसानि चीवराणि प्रावृत्योत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य तस्यां वेलायामभिमुखं सारूप्याभिर्गाथाभिर्भगवन्तमभितुष्टुवुः॥



जिनचन्द्रविमलवपुषं जिनसूर्यसहस्रकिरणाभम्।

जिनकमलविमलनेत्रं जिनकुमुदतुषारविरजदशनाग्रम्॥ १॥

जिनगुणसागरकल्प अनेकरत्नाकर जिनसमुद्रम्।

ज्ञानाम्बुसलिलपूर्णं समाधिशतसहस्रसंकीर्णम्॥ २॥

जिनचरणचक्रचित्रं समन्तनेभिस्तथा सहस्राभम्।

करचरणजालचित्रं हंसेन्द्र यथा चरणजालम्॥ ३॥

काञ्चनगिरिप्रकाशं सुवर्णकनकामलं जिनगिरीन्द्रम्।

सर्वगुणमेरुकल्पं बुद्धगिरीन्द्रजिन नमस्यामः॥ ४॥

आकाशचन्द्रसदृशमुदकचन्द्रनिभं तथागतशशाङ्कम्।

मायामरीचिकल्प विमलजिन नमस्यामः॥ ५॥

अथ खलु भगवांश्चतुरो महाराजान्गाथाभिर्बभाषे॥

अयं-

सुत्रेन्द्रराजप्रवरः सुवर्णप्रभासोत्तमो दशबलानाम्।

युष्माभि लोकपालैः पालयितव्यम् ----------॥ ६॥

येनायं सूत्ररतनगम्भीरः सर्वसत्त्व सुखदाता।

सत्त्वान हितसुखार्थं चिरं च प्रचरेज्जम्बूद्वीपेऽस्मिन्॥ ७॥

ये च तृसाहस्रमहासाहस्रे लोकधातौ हि।

सत्त्वा अपायदुःखा शमयित्वा नरकदुःखानि॥ ८॥

ये चेह जम्बुद्विपे गता हि सर्वे

राजानस्तु महतः प्रहर्षजाता।

धर्मेण च पालयन्तु विषया

येनायं जम्बूद्वीपः क्षेमश्च भवेत्॥ ९॥

सूभिक्षो रमणीयः सर्वे जम्बूद्वीपे

सुखितानि भवन्ति सर्वसत्त्वानि।

यस्या नास्ति नरपतेर्विषये

प्रियात्मसौख्य प्रयता च राजत्वम्॥ १०॥

ऐश्वर्यं प्रियता च श्रोतव्यस्तेन

सूत्रराजः परमशत्रुक्षयकरम्।

परचक्रनिवर्तनकरपरमभयव्यसहारः

परमशुभकरोऽयं सूत्रेन्द्रराज॥ ११॥

यथा रत्नवृक्षः सुरुचिरस्तु

सर्वगुणसंभवः सुगृहः संस्थः।

तथैवायं सूत्रेन्द्रराज

द्रष्टव्यो राजगुणादीनाम्॥ १२॥

यथा शीतलहिमसलिलं धर्मतं

प्रतिलभत उष्ण अपहरणम्।

तथैवायं सूत्रवरेन्द्रो गुणसुखदाता

भवति नरपतीनाम्॥ १३॥

यथैव हि रत्नकरण्डः सर्वरत्नाकरः करतलस्थः।

तथैवायं सूत्रेन्द्रराज स्वर्णप्रभासोत्तमो नृपगणानाम्॥ १४॥

देवगण अर्चितोऽयं देवेन्द्रनमस्कृतश्च सूत्रेन्द्रः।

आरक्षितश्चतुर्भिर्महर्द्धिकैर्लोकपालैश्च॥ १५॥

बुद्धैहि दशदिशस्थैः सदा समन्वाहृतोऽयं सूत्रेन्द्रः।

सूत्रमिदं देशयतः साधूकार ददन्ति संबुद्धाः॥ १६॥

यक्षशतसहस्राणी रक्षन्ति च विषयं दशसु दिशासु।

शृण्वन्ति सूत्रेन्द्रमिमं प्रमुदितचित्ताः प्रहृष्टाश्च॥ १७॥

जम्बुद्वीपगतानि विविक्तानि देवगणानि।

ते सर्वे देवगणाः शृण्वन्तु सूत्रमिदं प्रमुदिताश्च॥ १८॥

तेजोबलं वीर्यबलं च लभन्ते तेन धर्मश्रवणेन।

महतौजसा च देवां कायान्विवर्धयिष्यन्ति॥ १९॥

अथ खलु चत्वारो महाराजा भगवतोऽन्तिकादिमा एवंरूपा गाथाः श्रुत्वाश्चर्यप्राप्ता बभूवुरद्भुतप्राप्ता उद्विल्यप्राप्तास्तद्धर्मवेगेन मुहूर्तमात्रं प्ररुदिता इवाश्रूणि च प्रवर्तयामासुः। ते च संमानैः शरीरै प्रफुल्लिभिरङ्गप्रत्यङ्गैरचिन्त्येन प्रीतिसुखसौमनस्येन समन्वागता भूत्वा पुनरपि भगवन्तं दिव्यमान्दारवैः कुसुमैरवकिरन्ति स्म। अवकिरित्वा प्रकिरित्वोत्थायासनेभ्य एकांसानि चीवराणि प्रावरित्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन्। वयमपि भदन्त भगवंश्चत्वारो महाराजा एकैको महाराजो वयं पञ्चयक्षशतपरिवारा धर्ममाणकस्य भिक्षोः सदानुबद्धा भविष्यामस्तं धर्मभाणकं मानयनाय परिपालनाय चेति॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजो चतुर्महाराज

परिवर्तो नाम सप्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project