Digital Sanskrit Buddhist Canon

कमलाकरसर्वतथागतस्तवपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kamalākarasarvatathāgatastavaparivartaḥ
॥ कमलाकरसर्वतथागतस्तवपरिवर्तः॥



अथ खलु भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत्। तेन खलु पुनः कुलदेवते कालेन तेन समयेन राजा सुवर्णभुजेन्द्रो नामासीत्। एतेन कमलाकरेण सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नान् बुद्धान् भगवतोऽभ्यस्तावीत्॥

ये जिन पूर्वक ये च भवन्ति

ये च ध्रियन्ति दशोदिशि लोके।

तेष जिनान करोमि प्रणामं

तं जिनसंघमहं प्रशयिष्ये॥ १॥

शान्तप्रशान्तविशुद्धमुनीन्द्रं

सुवर्णवर्णप्रभासितगात्रम्।

सर्वसुरासुरसुस्वरबुद्धं

ब्रह्मरुते स्वरगर्जितघोषम्॥ २॥

षट्पदमौलमहीरुहकेशं

नीलसुकुञ्चितकाशनिकाशम्।

शङ्खतुषारसुपाण्डलदन्तं

हेमविराजितभासितनाभम्॥ ३॥

नीलविशालविशुद्धसुनेत्रं

नीलमिवित्पलप्रच्युतिभासम्।

पद्मसुवर्णविशालसुजिह्वं

पद्मप्रभासितपद्ममुखाभम्॥ ४॥

शङ्खमृणालनिभामुखतोर्णं

दक्षिणवर्तितवेरुलिवर्णम्।

सूक्ष्मनिशाकरक्षीणशशीव

गात्र मुनेर्म्रमराज्वलनाभम्॥ ५॥

काञ्चनकोटि सुवर्णमृदुरं

नासमुखोन्नत पीवरघ्राणम्।

अग्रधराग्रविशिष्टसुनासं

मृदुक सर्वजिनांश सततम्॥ ६॥

एकसमे चित्तरोममुखाग्रं

वालसुरोमप्रदक्षिणवर्तम्।

नीलनिभा ज्वलकुण्डलजातं

नीलविराजितमौलिसुग्रीवम्॥ ७॥

जातसमानप्रभासितगात्रं

पूजितसर्वि देशोदिशि लोके।

दुःखमनन्तप्रशान्तत्रिलोके

सर्वसुखेन च तर्पितसत्त्वम्॥ ८॥

नरकगातिष्वथ तिर्यग्गतीषु

प्रेतसुरासुरमनुष्यगतीषु।

तेषु च सर्वसुखार्पितसत्त्वं

सर्वप्रशान्त अपायगतीषु॥ ९॥

वर्णसुवर्णकनाकनिभासं

काञ्चनतप्तप्रभासितगात्रम्।

सौम्यशशाङ्कसुविमलवक्रं

विकासितराजितसुविमलवदनम्॥ १०॥

तरुणतनूरुहकोमलगात्रं

सिंहमिवाक्रमविक्रमनागम्।

लम्बितहस्त प्रलम्बितबाहुं

मारुतप्रेरितशाललतेव॥ ११॥

व्योमप्रभाज्वलमुञ्चितरश्मिं

सूर्यसहस्रमिव प्रतपन्तम्।

निर्मलगात्रवरेभि मुनीन्द्रं

सर्वप्रभासित क्षेत्रमनन्तम्॥ १२॥

चन्द्रनिशाकरभास्करजालं

क्षेत्रमनन्तसहस्रशतेषु।

तेऽपि च निष्ठित सर्वमभूषि

बुद्धप्रभासविरोचनतायै॥ १३॥

बुद्धदिवाकरलोकप्रदिपं

बुद्धदिवाकरशतसहस्रम्।

क्षेत्रमनन्तसहस्रशतेषु

पश्यतु सत्त्व तथागतसूर्यम्॥ १४॥

पुण्यसहस्रशताच्चितकायं

सर्वगुणेभिरलङ्कृतगात्रम्।

शौण्डगजेन्द्रनिभं जिनबाहुं

विमलसुलक्षणमण्डितहस्तम्॥ १५॥

भूमितलोपमरजसमतुल्यं

सूक्ष्मरजोपम ये गतबुद्धाः॥

सूक्ष्मरजोपम ये च भवन्ति

सूक्ष्मरजोपम ये च स्थिहन्ति॥ १६॥

तेष जिनान करोमि प्रणामं

कायतु वाचमनेन प्रसन्नः।

पुष्पप्रदानसुगन्धप्रदानै -

र्वर्णशतेन सुचेतसि चापि॥ १७॥

जिह्वशतैरपि बुद्धगुणानि

कल्पसहस्रशते न हि वक्तुम्।

ये गुणसाधुनिवृत्ति जिनानां

सा च वराग्रविचित्र अनेकैः॥ १८॥

एकजिनस्य गुणा न हि शक्या

जिह्वशतैरपि भाषितु कश्चित्।

काममशक्ति हि सर्वजिनानां

एकगुणस्य हि विस्तर वक्तुम्॥ १९॥

सर्वसदेवकुलोक्तसमूहः

सर्वभवाग्रभवे जलपूर्णा।

केशग्रहणेन तु शक्य प्रमातुं

नैव च एकगुणा सुगतानाम्॥ २०॥

वर्णित संस्तुत मे जिनसर्वं

कायतु वाच प्रसन्नमनेन।

यन्मम सञ्चितपुण्यफलाग्रं

तेन च सत्त्व प्रभोतु जिनत्वम्॥ २१॥

एवं स्तवित्व नरपति बुद्धं

एवं करोति नृपः प्रणिधानम्।

यत्र च कुत्रचि मह्य भवेत

जाति अनागतकल्पमनन्ता॥ २२॥

ईदृशि भेरि मि पश्यमि स्वप्ने

ईदृश देशन तत्र शृणोमि।

ईदृश जीनस्तुतिकमलाकर

जातिषु तत्र लभे स्मरणत्वम्॥ २३॥

बुद्धगुणानि अनन्तमतुल्या

येऽपि च दुर्लभ कल्पसहस्रैः।

अमु श्रुणेय च स्वप्नगतोऽपि

तेषु च देशयि दिवसगतोऽपि॥ २४॥

दुःखसमुद्र विमोचयि सत्त्वा

पूरयि षडभि पि पारमिताभिः।

बोधिमनुत्तर पश्च लभेयं

क्षेत्र भवेत ममा असमर्थ्यम्॥ २५॥

भेरिप्रदानविपाकफलेन

सर्वजिनान च संस्तुतिहेतोः।

संमुख पश्यमि शाक्यमुनीन्द्रं

व्याकरणं ह्यहु तत्र लभेयम्॥ २६॥

ये इम दारक द्वौ मम पुत्रौ

कनकेन्द्र कनकप्रभास्वरः।

ते उभि दारक तत्र लभेयं

बोधिमनुत्तर व्याकरणं च॥ २७॥

येऽपि च सत्त्व अरक्ष अत्राणा

शरणविहीन वियासगताश्च।

तेषु भवेय अनागत सर्व

त्राणपरायणशरणेभिश्च॥ २८॥

दुःखसमुद्भवसंक्षयकर्ता

सर्वसुखस्य च आकरभूतः।

कल्प अनागत बोधि चरेयं

यत्तक पूर्वककोटिगताश्च॥ २९॥

स्वर्णप्रभोत्तमदेशनताय

पापसमुद्र शोषतु मह्यम्।

कर्मसमुद्र विकीर्यतु मह्यं

क्लेशसमुद्र विच्छिद्यतु मह्यम्॥ ३०॥

पुण्यसमुद्र प्रपूर्यतु मह्यं

ज्ञानसमुद्र विशोध्यतु मह्यम्।

विमलज्ञानप्रभासबलेन

सर्वगुणान समुद्र भवेया॥ ३१॥

बोधिगुणैर्गुणरत्न प्रपूर्णा

देशनस्वर्ण प्रभासबलेन।

पुण्यप्रभास भविष्यति मह्यं

बोधिप्रभास विशोध्यतु मह्यम्॥ ३२॥

कायप्रभास भविष्यति मह्यं

पुण्यप्रभास विरोचनता च।

सर्वत्रिलोकि विशिष्ट भवेयं

पूण्यबलेन समन्वित नित्यम्॥ ३३॥

दुःखसमुद्र उत्तारयिता

सर्वसुखस्य च सागरकल्प्य।

कल्पमनागत बोधि चरेयं

यत्तकपूर्वककोटिगताश्च॥ ३४॥

यादृशक्षेत्रविशिष्ट त्रिलोके

सर्वजिनानमनन्त गुणेन।

तादृशक्षेत्रमनन्तगुणं

भेष्यति मह्यमनागतसर्वम्॥ ३५॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे कमलाकर -

सर्वतथागतस्तवपरिवर्तो नाम पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project