Digital Sanskrit Buddhist Canon

स्वप्नपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Svapnaparivartaḥ
॥ स्वप्नपरिवर्तः॥



अथ खलु रुचिरकेतुर्नाम बोधिसत्त्वः स्वुप्तः स्वप्नान्तरगतः सुवर्णां सुवर्णमयीं भेरीमद्राक्षीत्। समन्तादवभासमानां तद्यथापि नाम सूर्यमण्डलं सर्वासु दिक्ष्वप्रमेयानसंख्येयान्बुद्धानद्राक्षीद्रत्नवृक्षमूले सिंहासने वैडूर्यमये प्रतिनिषण्णाननेकशतसहस्रिकायां परिषदायां परिवृतायां पुरस्कृतायां धर्मदेशयमानान्। तत्र च ब्राह्मणरूपेण पुरुषमद्राक्षीत् तां भेरीं पराहन्तम्। तत्र भेरीशब्दादिमामेवंरूपां गाथां निश्चरमाणामश्रौषीत्।

अथ खलु रुचिरकेतुर्बोधिसत्त्वः प्रतिविबुद्धः समनन्तरं तां धर्मदेशनागाथामनुस्मरति स्म। अनुस्मरमाणस्तस्या रात्र्या अत्ययेन राजगृहान्महानगरान्निष्क्रम्यानेकैः प्राणिसहस्रैः सार्धं येन गृध्रकूटः पर्वतराजो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते न्यषीदत्।

अथ खलु रुचिरकेतुर्बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य याश्चैव ताः स्वप्नान्तरे दुन्दुभिशब्देन देशनागाथाः श्रुतास्ता उवाच।



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे

स्वप्नपरिवर्तो नाम तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project