Digital Sanskrit Buddhist Canon

पदत्रिशतनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Padatriśatanirdeśaparivartaḥ
पदत्रिशतनिर्देशपरिवर्तः।



तत्र कुमार कतमा कर्मविशुद्धिः ? यदिदं स्वप्नोपमं त्रिभवं दृष्ट्वा तत्र विरागतामुत्पादयति। इयमुच्यते कर्मविशुद्धिः॥ तत्र कतम आलम्बनसमतिक्रमः ? यदिदं मायोपमतां स्कन्धधात्वायतनानां बुद्धा तेषां व्यवसर्गः। अयमुच्यते आलम्बनसमतिक्रमः॥ तत्र कतमा स्कन्धपरिज्ञा ? यदिदं मरीच्युपमतां स्कन्धानामवतरति॥ तत्र कतमा धातुसमता ? यदिदं निर्मितोपमानां धातूनां प्रतिनिसर्गः॥ तत्र कतम आयतनाप्रकर्षः ? यदिदं प्रतिभासोपमानामायतनानां प्रतिनिसर्गः॥ ---- तृष्णाप्रहाणम् ? यदिदं सर्वधर्माणामनालम्बनता॥ ---- अनुत्पादसाक्षात्क्रिया ? यदिदं सर्वधर्माणामनुपलब्धिः॥ ---- क्रियावतारः ? यदिदं वीर्यसमुत्थितस्य दुःखस्य विप्रणाशः॥ ---- हेतुदीपना ? यदिदं प्रतिश्रुत्कोपमानां स्कन्धानामभिनिर्वृत्तिः॥ ---- फलाविप्रणाशः ? यदिदं स्वप्नोपमस्य कर्मफलस्याविप्रणाशः॥ ---- धर्मदर्शनम् ? यदिदं सर्वधर्माणामपश्यनता॥ ---- मार्गभावना ? यदिदं सर्वधर्माणामनुपलब्धिभावना॥ ---- तथागतसमवधानम् ? यदिदं सर्वबुद्धानां शिक्षाप्रतिपत्तिः॥---- तीक्ष्णप्रज्ञता ? यदिदं सर्वधर्माणामनुत्पत्तिकक्षान्तिः॥ ---- सत्त्वानुप्रवेशज्ञानम् ? यदिदं इन्द्रियपरापरज्ञताज्ञानम्॥



तत्र कतमद् धर्मज्ञानम्? यदिदं सर्वधर्माणामनुपलब्धिः॥ ---- प्रतिसंविदावतारज्ञानम् ? यदिदं यथाभूतधर्मनयप्रवेशः॥ ---- अक्षरप्रभेदज्ञानम् ? यदिदं त्रिमन्त्रप्रयोगज्ञानम्, आकारानाकारज्ञानम्॥ ---- वस्तुसमतिक्रमः ? यदिदं अवस्तुबुध्यना॥ ---- घोषपरिज्ञा ? यदिदं प्रतिश्रुत्कोपमावतारज्ञानम्॥ ---- प्रामोद्यप्रतिलाभः ? यदिदं सर्वधर्माणामनुपलब्धिः, संसारात् दुःखस्य उत्सर्गो भारावहरणम्॥ ---- धर्मप्रीत्यनुभवनता ? यदिदं अववादसंतोषणानुत्सर्गस्वयानानुशंसापश्यना॥ ---- आर्जवता ? यदिदं आर्यसत्यप्रतिवेधः॥---- रिजुकता ? यदिदं ईर्यापथस्याकल्पनता॥ ---- अपगतभृकुटिता ? यदिदं दोषप्रहाणम्॥ ---- सौशील्यता ? यदिदं सुखसंवासता॥ ---- माधुर्यता ? यदिदं परेषु हितवस्तुतां॥ ---- पूर्वालापिता ? यदिदं एहिस्वागतवचनता लघूत्थानता॥ ---- गुरुगौरवता ? यदिदं गुरूणामन्तिके भयं च कल्याणमित्रता च॥ ---- गुरुशुश्रूषा ? यदिदं गुरुणामुपस्थानावस्थानपरिचर्या॥ ---- उपपत्तिसंतुष्टिः ? यदिदं सर्वोपपत्तिष्वनास्वादनता।---- शुक्लधर्मातृप्तता ? यदिदं शुक्लधर्माणां पर्येष्टिः किंकुशलमार्गणता च॥



तत्र कतमा आजीवपरिशुद्धिः ? यदिदं इतरेतरसंतुष्टिता अकूहणता अनैषिकता, लाभेन लाभाचिकीर्षणता च॥ ---- अरण्यवासानुत्सर्गः ? यदिदं अनिक्षिप्तधुरता कुशलेषु धर्मेषु प्रान्तशय्यासनाभिरतिर्वनगहनगिरिदुर्गगुहाकन्दरेष्वभिरतिः धर्मप्रीत्यनुभवनता च। असंसर्गः गृहिप्रव्रजितैरभिसत्कारश्लोकेनानध्यवसानता तृष्णाप्रहाणध्यानप्रीत्यनुभवनता च। अयमुच्यतेऽरण्यवासानुत्सर्गः॥ तत्र ---- भूम्यवस्थानज्ञानम् ? यदिदं श्रावकभूमिफलव्यवस्थानज्ञानं प्रत्येकबुद्धभूमिव्यवस्थानज्ञानं बोधिसत्त्वभूमिव्यवस्थानज्ञानं च। तत्र ---- स्मृत्युविप्रणाशः ? यदिदं अनित्यदुःखशून्यानात्ममनसिकारः॥ तत्र ---- स्कन्धकौशल्यज्ञानम् ? यदिदं स्कन्धधात्वायतनप्रभेदज्ञानं च तत्र चानुपलब्धिः॥ तत्र ---- अभिज्ञासाक्षात्क्रिया ? यदिदं चतुर्णामृद्धिपादानां प्रतिलम्भः ऋद्धिविकुर्वणता च॥ तत्र ---- क्लेशापकर्षः ? यदिदं रागद्वेषमोहप्रहाणम्॥ तत्र ---- वासनानुसंघिसमुद्धातज्ञानम् ? यदिद पूर्वबालचरिविजुगुप्सनता श्रावकप्रत्येकबुद्धभूम्यस्पृहणता च॥ तत्र---- विशेषगामिता ? यदिदं बुद्धवैशारद्यप्रतिसंविदां निष्पादनता॥ तत्र ---- भावनाभिनिष्यन्दः ? यदिदं अनुनयप्रतिघप्रहाणम्॥ तत्र ---- आपत्तिकौशल्यम् ? यदिदं प्रातिमोक्षविनयसंवरः॥ ---- पर्युत्थानविष्कम्भणम् ? यदिदं अत्ययदेशना आयतिसंवरश्चाकुशलानां धर्माणाम्॥ ---- अनुनयप्रहाणम् ? यदिदं त्रैधातुकभवतृष्णालतासमुद्धातोऽसमुत्पन्नानां चाकुशलानां धर्माणामनुत्पादनता, उत्पन्नानां च कुशलमूलानां धर्माणामविप्रणाशः। ---- भवसमतिक्रमः ? यदिदं त्रैधातुकानुपलब्धिः, अमनसिकारता च॥ ---- जातिस्मरता ? यदिदं पूर्वेनिवासज्ञानम्॥ ---- कर्मविपाकनिष्काङ्क्षणता ? यदिदं उच्छेदशाश्वतविवर्जनता॥ तत्र ---- धर्मचिन्ता ? यदिदं यथाभूतचिन्ता॥ तत्र ---- श्रुतपर्येष्टिः ? यदिदं श्रावकप्रत्येकबुद्धपिटकस्य बोधिसत्त्वपिटकस्य च आधारणता भावनता च॥ ---- ज्ञानतीक्ष्णता ? यदिदं स्वप्नोपममनुत्पादज्ञानम्॥ ---- ज्ञानतृष्णा ? यदिदं ज्ञानपर्येष्टिः॥ ---- ज्ञानावबोधः ? यदिदं अनुत्तरसम्यक्संबोध्यभिनिष्पादनता च॥ ---- आजानेयभूमिः ? यदिदं बोधिसत्त्वशिक्षास्थानम्॥ ---- शैलोपमता ? यदिदं बोधिचित्तस्यानुत्सर्गः ? ---- अकम्पनता ? यदिदं क्लेशैरसंहार्यता॥ ---- अचलनता ? यदिदं सर्वनिमित्तानाममनसिकारः॥ ---- अवैवर्त्यलक्षणम् / यदिदं षट्पारमितानामखण्डनता, अन्यलोकधातुस्थितानां बुद्धानामभीक्ष्णदर्शनता च॥ ---- कुशलधर्माभिसंपत् ? यदिदं आसन्नीभावोऽनुत्तरायाः समक्संबोधेः॥ ---- पापकर्मजुगुप्सनता ? यदिदं आयतिसंवरता चानुत्पादश्च पापस्य॥ ---- क्लेशानामसमुदाचारः ? यदिदं अविद्याया भवतृष्णायाश्च क्रोधस्य चानुत्पादनता॥ ---- शिक्षाया अपरित्यागः ? यदिदं कर्मविपाकपत्तीयनता बुद्धगौरवता च॥ ---- समाधिव्यवस्थानम् ? यदिदं चित्तचैतसिकानां धर्माणामनुत्पादाव्ययकौशल्यं चित्तैकाग्रता च॥ ---- सत्त्वाशयज्ञानम् ? यदिदं इन्द्रियपरापरज्ञताज्ञानम्॥---- उपपत्तिविशेषज्ञानम् ? यदिदं पञ्चानां गतीनां व्यवस्थानज्ञानम्॥ ---- ज्ञानानन्तता ? यदिदं लौकिकलोकोत्तरेषु शिल्पेष्वनाभोगज्ञानम्॥ ---- वचनप्रतिसंघिज्ञानम् ? यदिदं तथागतसंघाभाष्यानुबुध्यनता॥ ---- गृहावासपरित्यागः ? यदिदं कायचित्तविवेकाभिनिष्क्रमः॥ ---- त्रैधातुकेऽनभिरतिः ? यदिदं त्रैधातुकयथाभूतदर्शनता॥ ---- चित्तस्यानवलीनता ? यदिदं चित्तस्यापरित्यागः समापद्यमानापरित्यागश्च॥---- धर्मेष्वभिनिवेशः ? यदिदं सर्वस्नेहप्रहाणम्॥ ---- धर्मपरिग्रहः ? यदिदं बुद्धबोध्यारक्षा, एषां चैव सूत्रान्तानां प्रतीच्छनता॥ ---- धर्मगुप्तिः ? यदिदं सद्धर्मप्रतिक्षेपकाणां सहधर्मेण निग्रहः॥ ---- कर्मविपाकपत्तियनता ? यदिदं लज्जया पापकात् कर्मणो विरतिः, कुशलधर्मपर्येष्टौ चाभियोगः॥ ---- विनयकौशल्यम् ? यदिदं प्रकृत्यायपत्त्यनापत्तिबुध्यनता॥ ---- अधिकरणव्युपशमः ? यदिदं गणविवर्जनता॥ ---- अविग्रहोऽविवादः ? यदिदं लौकिककथानिरर्थिकता॥ ---- क्षान्तिभूमिः ? यदिदं कायचित्तपीडाधिवासनता॥ ---- क्षान्तिसमादानम् ? यदिदं परतो दुरुक्तानां वचनपथानामध्युपेक्षा क्षान्त्यखण्डनता च॥ ---- धर्मप्रविचयः ? यदिदं स्कन्धधात्वायतनानां प्रभेदः संक्लेशव्यवदानपक्षस्य च प्रभेदस्तेषां चानुपलब्धिः॥ ---- धर्मविनिश्चयकौशल्यम् ? यदिदं सर्वधर्माणामनभिलापः॥ ---- धर्मपदप्रभेद्ज्ञानम् ? यदिदं सर्वधर्माणां व्यवस्थाननिस्तीरणता॥ ---- धर्मपदनिर्हारकौशल्यम् ? यदिदं यथाभूतानां धर्माणां निर्देशः॥ ---- अर्थानर्थसंभेदनिर्हारकौशल्यज्ञानम् ? यदिदं धर्मप्रकृत्यनुत्क्षेपाप्रक्षेपः॥ ---- पूर्वान्तज्ञानम् ? यदिदं हेतुज्ञानम्॥ ---- अपरान्तज्ञानम् ? यदिदं प्रत्ययज्ञानम्॥ ---- त्रिमण्डलपरिशुद्धिज्ञानम् ? यदिदं अतीतानागतप्रत्युत्पन्नानां धर्माणामनुपलब्धिः, अमनसिकारिता च॥ ---- चित्तावस्थानम् ? यदिदं चित्तानुपलब्धिः॥---- कायव्यवस्थानम् ? यदिदं कायगतानुस्मृतिः॥ .... ईर्यापथलक्षणम् ? येयमार्यधर्मासंभ्रान्तता। ---- ईर्यापथस्याविकोपनता ? यदिदं प्रच्छन्नकल्याणता॥ .... ईर्यापथस्याविकल्पनता ? यदिदं विगतपापेच्छता॥ ---- इन्द्रियप्रासादिकता ? यदिदं धर्मगतमनसिकारता युक्तभाणिता कालज्ञता यथाभूतानां धर्माणां भूतप्रकाशनता॥

.... लोकज्ञता ? यदिदं अतिक्रममसंप्रजानता॥ ....मुक्तत्यागिता ? यदिदं सतां वस्तूनामग्रहणता, अमात्सर्यता च॥ .... प्रततपाणिता ? यदिदं संविभावशीलता॥ .... अगृहीतचित्तता ? यदिदं श्रद्धानाविलता॥ ....व्यपत्रापिता ? यदिदं अमुखरता॥ .... ह्रियापणत॥ यदिदं अनभिमुखता॥ .... अकुशलचित्तजुगुप्सनता ? यदिदं बालधर्मबुध्यनता तैश्चासमवधानम्॥ .... धूतानवसृजनता ? यदिदं दृढसमादानता॥ .... चारित्रसमवधानता ? यदिदं चर्यापथक्रमसंजाननता॥ .... प्रीतिसमुदाचारः ? यदिदं कुशलानां धर्माणामनुशंसाचित्तता॥ .... गुरूणामासनप्रत्युत्थानम् ? यदिदं निहतमानता, अनालस्यता चा॥ .... मानस्य निग्रहः ? यदिदं आत्मनोऽनुपलब्धिरनालम्बनता च॥ .... चित्तस्य संग्रहः ? यदिदं शुक्लधर्माणामविप्रणाशज्ञानम्।....चित्तोत्साहनता ? यदिदं वीर्यफलाविप्रणाशज्ञानम्॥ .... अर्थप्रतिसंविज्ज्ञानम् ? यदिदं यथाभूतसत्यप्रतिवेधज्ञानम्॥ .... ज्ञानानुबोधः ? यदिदं लौकिकलोकोत्तराणां धर्माणामनुबुध्यनता॥ .... अज्ञानविगमः ? यदिदं यथाभूतानां धर्माणामध्यारोपविगमः॥ .... चित्तप्रवेशज्ञानम् ? यदिदं उत्पादव्ययज्ञानम्॥ .... आहारनिर्हारकौशल्यज्ञानम् ? यदिदं तीक्ष्णप्रज्ञता॥ .... रुतरवितज्ञानम् ? यदिदं यथाभूतधर्मप्रकाशनता॥ ....व्यवस्थानज्ञानम् ? यदिदं यथाभूतस्यावतारज्ञानम्॥ ....अर्थविनिश्चयः ? यदिदं संस्कारस्कन्धोच्छेदः॥ ....अर्थानर्थविवर्जनता ? यदिदं भवसमतिक्रमः, परेषां च भवसमतिक्रमणावतारणता च॥ .... सत्पुरुषाश्रयः ? यदिदं बुद्धाविरहितता॥ ....सत्पुरुषसमवधानम् ? यदिदं बुद्धबोधिसत्त्वप्रत्येकबुद्धश्रावकसेवनता॥ .... असत्पुरुषवर्जनता ? यदिदं उपलम्भिकानां कुसीदानां च विवर्जनता॥ .... ध्यानाभिरतिः ? यदिदं कामकण्टकविवर्जनता, ध्यानानामनुत्सर्जनता, प्रीत्यविजहता च॥ .... ध्यानेष्वनध्यवसानम् ? यदिदं त्रैधातुकसमतिक्रमणच्छन्दः सत्वपरिपाचनाच्छन्दः उत्तरिप्रज्ञावभासच्छन्दश्च॥ ....अभिज्ञाविकुर्वणता ? यदिदं पञ्चस्वभिज्ञासु स्थित्वा दुर्विज्ञेयानां बुद्धधर्माणां परेभ्यः संप्रकाशनता॥ .... नामसंकेतः ? यदिदं अपरिनिष्पन्नानां नाम्नामनुबुध्यनता॥ .... प्रज्ञप्तिव्यवहारः ? यदिदं लोकव्यवहारः॥ ....प्रज्ञप्तिसमुद्धातः ? यदिदं प्रव्याहारज्ञानम्॥ ....संसारनिवृत्तिः ? यदिदं संसारदोषप्रत्यवेक्षा॥ .... लाभानर्थिकता ? यदिदं भूताल्पेच्छता॥ .... लाभसत्कारानादेयता ? यदिदं अनुत्कण्ठता च विगतपापेच्छता च॥ .... अवर्णैरमङ्कुभावता ? यदिदं स्कन्धधातुपरीक्षाज्ञानम्॥ .... भूतानां वर्णानामनधिवासनता ? यदिदं प्रतिच्छन्नकल्याणता च लाभसत्कारस्य चान्तरायबुध्यनता॥ .... सत्कारेषूपेक्षा ? यदिदं कर्मविपाकबुध्यनता॥ .... असत्कारेष्वमङ्कुभावता ? यदिदं योगस्यानुत्सर्जनता॥ .... निन्दायामकुप्यनता ? यदिदं लौकिकधर्मप्रत्यवेक्षा॥ .... प्रशंसायामुपेक्षा ? यदिदं कल्याणधर्मपर्येष्टिनिष्क्रमणम्॥ .... अलाभेऽलीनता ? यदिदं स्वयंकृतानां धर्माणां प्रत्यवेक्षणता। .... गृहीभिः सार्धमसंस्तवः ? यदिदं आमिषकिंचिद्विवर्जनता॥

.... प्रव्रजितैः सार्धमसंस्तवः ? यदिदं अयुक्तविवर्जनता च युक्तपर्येषणता च॥ ....अगोचरविवर्जनता ? यदिदं पञ्चानां निवरणानां प्रहाणम्॥ .... गोचरप्रचारः ? यदिदं स्मृत्युपस्थानानां भावना॥ ....आचारसंपद् ? यदिदं परानुरक्षा॥ ....आचारविवर्जनता ? यदिदं आत्मनः कल्याणधर्मानुरक्षणता॥ .... कुलानामदूषणता ? यदिदं ज्ञात्रविवर्जनता॥ .... शासनरक्षाः ? यदिदं धर्मपर्येष्टिसमादानता धर्मानुधर्मप्रतिपत्तिश्च॥ .... अल्पभाष्यता ? यदिदं शमथप्रतिलम्भः॥ .... मार्दवता ? यदिदं विपश्यनाप्रतिलम्भः॥ ....प्रतिवचनकौशल्यम् ? यदिदं उत्तरप्रत्युत्तरज्ञानम्॥ .... प्रत्यर्थिकनिग्रहः ? यदिदं यथाभूतानां धर्माणां प्रकाशनता व्यवस्थापनता च, उपालम्भानिग्रहश्च॥ ....कालप्रतिक्रमः ? यदिदं कालज्ञता॥ .... पृथग्जनेष्वविश्वासः ? यदिदं बालधर्मदोषदर्शिता॥ ....दुःखितानामपरिभवः ? यदिदं सर्वसत्त्वेषु समचित्तता॥ .... दुःखितानां धनानुप्रयच्छनता ? यदिदं लोकामिषदानम्॥ .... दरिद्राणामनवसादनम् ? यदिदं परेषामन्तिके कृपाबुद्धिता॥ .... दुःशीलानामनुकम्पना ? यदिदं परेषामापत्तेरुद्धरणता च शीलप्रतिष्ठापनता च॥ ....हितवस्तुता ? यदिद परेषामुपकारकरणता॥ ....कृपाबुद्धिता ? यदिदं सत्त्वानामनागतदुःखपश्यनता॥ .... धर्मानुग्रहः ? यदिदं परेषां यथाभूतधर्मावतरणता॥ .... आमिषपरित्यागः ? यदिदं स्कन्धपरित्यागः, परेषां चामिषानुग्रहः॥ .... असंनिचयस्थानम् ? यदिदं आमिषजुगुप्सनता आरक्षादोषदर्शनता च॥ .... शीलप्रशंसा ? यदिदं शीलफलानुबोधः॥ .... दौःशील्यजुगुप्सनता ? यदिदं दौःशील्यदोषबुद्ध्यनता॥ .... शीलवतामकम्प्यसेवनता ? यदिदं शीलवत्सु दुर्लभसंज्ञाज्ञानम्॥ ....सर्वास्तिपरित्यागिता ? यदिदं कल्याणाशयता॥ ....अध्याशयनिमन्त्रणता ? यदिदं परेषां सुखार्थिकता॥ ....यथोक्तकारिता ? यदिदं कल्याणाशयसंपत्॥ .... अभीक्ष्णपर्युपासनता ? यदिदं कुशलगवेषणपरिपृच्छनता॥ ....प्रीत्यनुभवनता ? यदिदं अधिगमज्ञानं चागमज्ञानं च। .... दृष्टान्तज्ञानम् ? यदिदं उपमाज्ञानमववादज्ञानं च॥ .... पूर्वयोगकौशल्यम् ? यदिदं जात्यनुस्मरणता श्रुतबहुलता च॥ ....कुशलमूलपूर्वंगमता ? यदिदं बोधौ तीव्रच्छन्दता च परेषां समुत्साहनता च॥

.... उपायकौशल्यम् ? यदिदं प्रतिदेशनानुमोदनाध्येषणा कुशलानां च परिणामनाकौशल्यम्॥ ....निमित्तप्रहाणम् ? यदिदं स्वप्नोपमानां धर्माणां बुध्यनता च वस्तुविभावनता च। .... संज्ञाविवर्तः ? यदिदं विपर्यासोत्सर्गः॥ .... वस्तुलक्षणता ? यदिदं अलक्षणज्ञानम्॥ .... सूत्रान्ताभिनिर्हारकौशल्यम् ? यदिदं यथाभूतानां धर्माणां कुशलाकुशलानां उपमावदानैः संप्रकाशनता॥ .... सत्यविनिश्चयः ? यदिदं विज्ञाननिरोधो नामरूपानुत्पत्तिश्च॥ .... विमुक्तिसाक्षात्क्रिया ? यदिदं वज्रोपमसमाधेरचलनता अप्रकुप्यनता च॥ .... एकप्रव्याहारः ? यदिदं तीर्थ्यायतनविजुगुप्सनता चानुत्पत्तिकज्ञानता च॥ .... वैशारद्यप्रतिलम्भः? यदिदं बुद्धधर्मावबुध्यनता॥ .... शीलाधिष्ठानता ? यदिदं कायसंवरः प्रातिमोक्षसंवरश्च॥ .... समापत्त्यवतारः ? यदिदं त्रैधातुकवैराग्यता॥ .... प्रज्ञाप्रतिलाभः ? यदिदं सामर्थ्यज्ञानं चानुपलब्धिश्च॥ .... एकारामता ? यदिदं संगणिकादोषविवर्जनता च शुक्लधर्मानुत्सृजनता॥ .... अल्पज्ञात्रसंतुष्टिः ? यदिदं इतरेतरसंतुष्टिः॥ .... चित्तस्यानाविलता ? यदिदं निवरणानां विष्कम्भणता॥ .... दृष्टिकृतानां विवर्जनता ? यदिदं उपलम्भदृष्टिविवर्जनता॥ .... धारणीप्रतिलम्भः ? यदिदं यथादृष्टानां धर्माणां यथाभूतासङ्गसंप्रकाशनता॥ .... ज्ञानावतारः ? यदिदं प्रकृतिप्रवेशः॥ .... स्थानम् ? यदिदं शीलस्थानम्॥ ....अवस्थानम् ? यदिदं चित्तावस्थानम्॥ .... प्रतिष्ठानम् ? यदिदं श्रद्धाप्रतिष्ठानम्॥ .... प्रतिपत्तिः ? यदिदं मार्गप्रतिपत्तिः॥ .... हेतुः ? यदिदं अविद्या हेतुः संसारस्य॥ .... युक्तिः ? यदिदं विद्या युक्तिर्मोक्षस्य॥ ....नयः ? यदिदं तृष्णाप्रहाणम्॥ .... द्वारम् ? यदिदं दोषप्रहाणम् ? .... मार्गः ? यदिदं अनित्यदुःखशून्यानात्मज्ञानम्॥ .... भूमिः ? यदिदं दशाप्रणिहितभूमिः॥ ....जातिविगमः ? यदिदं जात्युपच्छेदः॥ .... ज्ञानभूमिः ? यदिदं असंमोहः॥ .... अज्ञानप्रहाणम् ? यदिदं मोहप्रहाणम्॥ ....ज्ञानप्रतिष्ठानम् ? यदिदं अप्रतिष्ठानम्॥ .... योगाचारभूमिः ? यदिदं सप्तत्रिशतां बोधिपक्षिकाणां धर्माणां भावना॥ .... बोधिसत्त्वगोचरः ? यदिदं षट्पारमिता॥ ....सत्पुरुषसंसेवना ? यदिदं बुद्धाभिनिषेविता॥ ....असत्पुरुषविवर्जनता ? यदिदं तीर्थिकानां उपलम्भदृष्टिकानां विवर्जनता॥ .... तथागतैराख्यातः ? यदिदं बुद्धबलेषु स्थित्वा प्रकृतिज्ञानेन मोक्षः॥ .... बुद्धभूमिः ? यदिदं सर्वेषां कुशलानां धर्माणां प्रतिलाभिता॥ .... पण्डितैरनुमोदिता ? यदिदं अतीतानागतप्रत्युत्पन्नैर्बुद्धैभगवद्भिः श्रावकैश्चानुमोदिताः॥ .... बालै प्रतिक्षिप्तम् ? यदिदं सर्वबालैर्दुर्विज्ञेयम्॥ .... श्रावकप्रत्येकबुद्धैर्दुविज्ञेयम् ? यदिदं बुद्धधर्माचिन्त्यता॥....अभूमिस्तीर्थिकानाम् ? यदिदं मिथ्यामानो योगिनाम्॥ .... बोधिसत्त्वैः परिगृहीताः ? यदिदं दुर्लभता च महाभैषज्यता च॥ .... दशबलैरनुबद्धम् ? यदिदं कृच्छ्रयोगेन॥ .... देवैः पुजनीयम् ? यदिदं सर्वसुखाहारकमुपादाय॥ .... ब्रह्मणा वन्दनीयम् ? यदिदं सर्वमोक्षाहारकयोगेन। .... नागैर्नमस्यनीयम् ? यदिदं सर्ववासनासमुत्यागतामुपादाय॥ ....यक्षैरनुमोदनीयम् ? यदिदं सर्वदुर्गतीनां मार्गच्छेदनतामुपादाय॥....किन्नरैः स्तवनीयम् ? यदिदं सर्वमोक्षप्रामोद्याहरणतामुपादाय ? महोरगैः प्रशंसनीयम् ? यदिदं संसारोच्छेदनतामुपादाय॥ .... बोधिसत्त्वैर्भावयितव्यम् ? यदिदं सर्वज्ञानाहारिकमुपादाय॥ .... पण्डितैः पर्यवाप्तव्यम् ? यदिदं अवैवर्त्यभूम्याहारित्रकमुपादाय॥ ....धनमनुत्तरम् ? यदिदं देवमानुषिकायाः प्रजायाः संपत्तेराहातित्रकं चोपादाय मोक्षाहारित्रकमुपादाय॥ .... दानं निरामिषम् ? यदिदं सर्वक्लेशच्छेदित्रकतामुपादाय॥ .... भैषज्यं ग्लानानाम् ? यदिदं रागद्वेषमोहप्रशमनतामुपादाय॥ .... कोशो ज्ञानस्य ? यदिदं भावनामुपादाय॥ .... अक्षयता प्रतिभानस्य ? यदिदं यथाभूतज्ञानदर्शनतामुपादाय॥ .... विगमः शोकस्य ? यदिदं निरर्थकः व्याधिदुःखबुध्यनावतरणतामुपादाय नैरात्म्यदुःखप्रजाननतामुपादाय॥ .... परिज्ञा त्रैधातुकस्य ? यदिदं स्वप्नमायाबुध्यनतामुपादाय॥ .... नावः पारमितानाम् ? यदिदं अध्याशयेन परिनिर्वातुकामानामनित्यदुःखशून्यताभावनतामुपादाय॥ .... नौरोघमध्यगतानाम्? यदिदं निर्वाणस्याहारकतामुपादाय॥ .... कीर्तिर्यशस्कामानाम् ? यदिदं विपुलधर्माहारकतामुपादाय॥ .... वर्णो बुद्धानाम्? यदिदं अनन्तगुणभैषज्यदानपतिमुपादाय॥ .... यशस्तथागतानाम् ? यदिदं सर्वगुणसुखमोक्षदानपतिमुपादाय॥ .... स्तवो दशबलानाम् ? यदिदं दुर्लभधर्मरत्नदानपतिमुपादाय॥ .... गुणा बोधिसत्त्वानाम् ? यदिदं धर्मशिक्षिततामुपादाय॥ .... उपेक्षा कारुणिकानाम् ? यदिदं कृतबुद्धकृत्यकरणीयतामुपादाय॥ .... मैत्र्या दोषप्रशमनम् ? यदिदं प्रतिघप्रतिपक्षतामुपादाय॥ ....श्वासो महायानिकानाम् ? यदिदं सर्वबुद्धधर्माभिप्रायपारिपूरित्रकमुपादाय॥ .... प्रतिपत्तिः सिंहनादनादिनाम् ? यदिदं अग्रधर्मश्रेष्ठधर्माहारित्रकमुपादाय॥ .... मार्गो बुद्धज्ञानस्य ? यदिदं सर्वकुशलधर्माहारित्रकमुपादाय॥



.... मुद्रा सर्वधर्माणाम् ? यदिदं पारादपारमवबुध्यनतामुपादाय॥ .... असंहार्यता सर्वज्ञानस्य ? यदिदं सर्वाकुशलधर्मप्रहाणाय च संवर्तते सर्वकुशलधर्माहारणतायै च सर्वसत्त्वमोक्षाहरणतायै संवर्तते॥ .... उद्यानं बोधिसत्त्वानाम् ? यदिदं सर्वप्रीतिप्रामोद्यात्मसुखेन सर्वसत्त्वसुखाहरणतामुपादाय॥ .... विद्रापणं मारसैन्यानाम् ? यदिदं सर्वबलाहारित्रकमुपादाय सर्वक्लेशशमनं चोपादाय॥ .... विद्या क्षेमगामिनाम् ? यदिदं सर्वोपद्रवक्षयाय संवर्तते॥ .... अर्थः सिद्धानाम् ? यदिदं सर्वधर्मसंपत्त्याहारित्रकमुपादाय॥ .... परित्राणममित्रमध्यगतानाम् ? यदिदं सर्वोपलम्भिकानां मिथ्यादृष्टिकानां पराजयतायै संवर्तते॥ .... सहधर्मेण तीर्थिकानां निग्रहः ? यदिदं सहधर्मेण तीर्थिकानां निग्रहमुपादाय॥ ....सत्याकारो वैशारद्यानाम् ? यदिदं सर्वधर्माकोटितप्रत्याकोटितक्षेमतामुपादाय॥ .... भूतपर्येष्टिर्बलानाम् ? यदिदं अविपरीतयोगेन॥ .... पूर्वनिमित्तमष्टादशानामावेणिकानां बुद्धधर्माणाम् ? यदिदं सर्वशुक्लधर्माहरणतामुपादाय॥ .... अलंकारः ? यदिदं द्वात्रिंशतां महापुरुषलक्षणानामाहारकमुपादाय॥ .... रतिर्मोक्षकामानाम् ? यदिदं आदिमध्यपर्यवसानकल्याणतामुपादाय॥ .... प्रीतिर्ज्येष्ठपुत्राणाम् ? यदिदं पैतृकं धनं बुद्धधनानुभावाहारकमुपादाय॥ .... पारिपूरिर्बुद्धज्ञानस्य ? यदिदं सर्वशुक्लधर्मानुरक्षणतामुपादाय सर्वशुक्लधर्मानन्यपोषणाहरणतामुपादाय॥ ....अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् ? यदिदं उदाराप्रमेयबुद्धधर्माहारकमुपादाय॥ .... संविशुद्धिश्चित्तस्य ? यदिदं सर्वमलप्रहाणाय संवर्तते॥ .... परिशुद्धिः कायस्य ? यदिदं सर्वग्लानिप्रशमनतामुपादाय॥ .... परिनिष्पत्तिः विमोक्षमुखानाम् ? यदिदं अनित्यदुःखशून्यानात्मशान्तप्रत्यवेक्षणतामुपादाय॥ .... असंक्लिष्टता रागेण ? यदिदं अमृतपदाहारिकमुपादाय॥ .... विगमो दोषस्य ? यदिदं महामैत्र्याहारिकमुपादाय॥ .... अभूमिर्मोहस्य ? यदिदं भूतधर्मालोकाहारकमुपादाय॥ .... आगमः संज्ञानस्य ? यदिदं सर्वलौकिकलोकोत्तरकायज्ञानस्योत्पादमुपादाय॥ .... उत्पादो विद्यायाः ? यदिदं सर्वयोनिशोमनसिकारहरणतामुपादाय॥ .... प्रहाणमविद्यायाः ? यदिदं सर्वयोनिशोमनसिकारविगमाय संवर्तते॥ .... तृप्तिर्विमुक्तिसाराणाम् ? यदिदं आर्यमाहात्म्याहरणतामुपादाय॥ .... तुष्टिः समाधिसाराणाम् ? यदिदं सर्वसुखचित्तैकाग्राहरणतामुपादाय॥ .... चक्षुर्द्रष्टुकामानाम् ? यदिदं अहंपश्यितामुपादाय॥ .... अभिज्ञा विकुर्वितुकामानाम् ? यदिदं अनावरणतामुपादाय कामनीयधर्मतां चोपादाय॥ .... ऋद्धिरभिभवितुकामानाम् ? यदिदं सर्वधर्मविकल्पितज्ञानानावरणतामुपादाय॥ .... धारणी श्रुतार्थिकानाम् ? यदिदं सर्वधर्मनिर्वाणसमतामुपादाय॥ .... स्मृतेरसंप्रमोषः ? यदिदं निर्वाणालम्बनप्रकृतिव्युपशमतामुपादाय॥ .... अधिष्ठानं बुद्धानाम् ? यदिदं अनन्ताहरणतामुपादाय॥ .... उपायकौशल्यं नाथानाम् ? यदिदं सर्वसुखक्षेमगमनतामुपादाय॥ .... सूक्ष्मम ? यदिदं निर्वाणालम्बनव्युपशमतामुपादाय॥ .... दुर्विज्ञेयम् ? यदिदं दुःखप्रतिज्ञानतामुपादाय॥ .... दुराजानतानभियुक्तैः ? यदिदं अप्रतिलब्धपूर्वतामुपादाय॥ .... विवर्तोऽक्षराणाम् ? यदिदं सर्ववाक्यकथानुपलब्धितामुपादाय॥ .... दुर्विज्ञेयो घोषेण ? यदिदं सर्वधर्माचिन्त्यतामुपादाय॥ .... अज्ञातं विज्ञैः ? यदिदं रत्नमहार्थिकतामुपादाय॥ .... ज्ञानं सुरतैः ? यदिदं सत्काराजानतामुपादाय॥ .... विबुद्धमल्पेच्छैः ? यदिदं सत्काराजानतामुपादाय॥ .... उद्गृहीतमारव्धवीयैः ? यदिदं अनिक्षिप्तधुरतामुपादाय॥ .... धारितं स्मृतिमद्भिः ? यदिदं कृताविप्रणाशतामुपादाय॥ .... क्षयो दुःखस्य ? यदिदं रागद्वेषमोहसंवर्तनतामुपादाय॥ .... अनुत्पादः सर्वधर्माणाम् ? यदिदं सर्वविज्ञाननिरोधतामुपादाय॥ .... एकनयनिर्देशः॥ यदिदं सर्वभवगतिच्युत्युपपत्त्यायतनानां सर्वधर्माः स्वप्नोपमा इति सर्वधर्मानुत्पाद्यतामुपादाय ? अयमेषां त्रयाणां पदशतानां निर्देशो द्रष्टव्यः। अयं स उच्यते कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः॥



इति श्रीसमाधिराजे एकोनचत्वारिंशतितमः परिवर्तः॥ ३९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project