Digital Sanskrit Buddhist Canon

निदानपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nidānaparivartaḥ
सर्वधर्मस्वभावसमताविपञ्चित-

समाधिराजसूत्रम्।



निदानपरिवर्तः।

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता

भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुनियुतशतसहस्रेण अशीत्या च बोधिसत्त्वनियुतैः सार्धम्। सर्वैरकजातिप्रतिबद्धैरभिज्ञाभिज्ञातैर्दशदिग्लोकधातुसंनिपतितैर्धारणीसूत्रान्तगतिं गतैः सर्वसत्त्वधर्मदानसंतोषकैर्महाभिज्ञाज्ञानोदाहारकुशलैः सर्वपारमितापरमपारमिताप्राप्तैः सर्वबोधिसत्त्वसमाधिसमापत्तिव्यवस्थानज्ञानकुशलैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सर्वबुद्धक्षेत्रव्याक्रमणकुशलैः सर्वमारसंत्रासनज्ञानकुशलैः सर्वधर्मयथावज्ज्ञानकुशलैः सर्वसत्त्वेन्द्रियपरापरज्ञानकुशलैः बुद्धसर्वकर्मपूजासमादानप्रज्ञानकुशलैः सर्वलोकधर्मानुपलिप्तैः कायवाक्चित्तसमलंकृतैः महामैत्रीमहाकरुणासंनाहसंनद्धैः महावीर्यासंख्येयकल्पापरिक्षीणमानसैः महासिंहनादनादिभिः सर्वपरप्रवादानभिभूतैः अवैवर्तिकमुद्रामुद्रितैः सर्वबुद्धधर्माभिषेकप्राप्तैः। तद्यथा-मेरुणा च नाम बोधिसत्त्वेन महासत्त्वेन। सुमेरुणा च। महामेरुणा च। मेरुशिखरिंधरेण च। मेरुप्रदीपराजेन च। मेरुकूटेन च। मेरुध्वजेन च। मेरुगजेन च। मेरुशिखरे संघट्टनराजेन च। मेरुस्वरेण च। मेघराजेन च। दुन्दुभिस्वरेण च। रत्नपाणिना च। रत्नाकरेण च। रत्नकेतुना च। रत्नशिखरेण च। रत्नसंभवेन च रत्नप्रभासेन च। रत्नयष्टिना च। रत्नमुद्राहस्तेन च। रत्नव्यूहेन च। रत्नजालिना च। रत्नप्रभेण च। रत्नद्वीपेण च। रतिंकरेण च। धर्मव्यूहेन च। व्यूहराजेन च। लक्षणसमलंकृतेन च। स्वरव्यूहेन च। स्वरविशुद्धिप्रभेण च। रत्नकूटेन च। रत्नचूडेन च। दशशतरश्मिकृतार्चिषा ज्योति रसेन च। चन्द्रभानुना च। सहचित्तोत्पादधर्मचक्रप्रवर्तिना च। शुभकनकविशुद्धिप्रभेण च। सततमभयंददानेन च नाम बोधिसत्त्वेन महासत्त्वेन। अजितबोधिसत्त्वपूर्वंगमैश्च सर्वैर्भद्रकल्पिकैर्बोधिसत्त्वैर्महासत्त्वैः। मञ्जुश्रीपूर्वंगमैश्च षष्टिभिरनुपमचित्तैः। भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः।

चतुर्महाराजपूर्वंगमैश्च चातुर्महाराजकायिकैर्देवपुत्रैः। पेयालम्। यावद् ब्रह्मपूर्वंगमैश्च ब्रह्मकायिकैर्देवपुत्रैस्तदन्यैश्च महेशाख्यमहेशाख्यैरुदारोदारैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यै र्भगवान् सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितोऽपचायितश्चतसृणामपि पर्षदां सदेवलोकस्य लोकस्य वन्दनीयः पूजनीयो नमस्करणीयः। तत्र खलु भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म॥



तेन खलु पुनः समयेन तस्मिन्नेव पर्षत्संनिपाते चन्द्रप्रभो नाम कुमारभूतः संनिपतितोऽभूत् संनिषण्णः पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो जातिस्मरो लब्धप्रतिभानो महायानसंप्रस्थितो महाकरुणाभियुक्तः। अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय। एवमुक्ते भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-पृच्छ त्वं कुमारभूत तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेव काङ्क्षसि। अहं तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि। सर्वज्ञोऽस्मि सम्यक्संबुद्धः कुमार सर्वदर्शी सर्वधर्मबलवैशारद्यवृषभतामनुप्राप्तोऽनावरणविमोक्षज्ञानसमन्वागतः। नास्ति कुमार तथागतस्य सर्वधर्मेष्वज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा अनन्तापर्यन्तेषु लोकधातुषु। नित्यकृतस्ते कुमार अवकाशो भवतु तथागतं प्रश्नपरिपृच्छनाय। अहं ते तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि॥



अथ खलु चन्द्रप्रभः कुमारभूतस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायां भगवन्तं गाथाभिरध्यभाषत-

कथं चरन्तः संबुद्ध लोकनाथ प्रभंकर।

लभतेऽचिन्तियं ज्ञानं व्याकुरुष्व हितंकर॥ १॥

कथं चरन्तु नरेन्द्र सत्यवादि

नरवृषभ नरदेवपूजनीय।

अतुलियु वरु लब्धमग्रयाणं

गिरवर पृष्ट वियाकुरुष्व नाथ॥ २॥

अध्याशयेन पृच्छामि शाठ्यं मम न विद्यते।

साक्षी न कश्चिदन्यो मे अन्यत्र पुरुषोत्तमात्॥ ३॥

विपुल प्रणिधि मह्यमस्ति छन्द-

श्चरिय प्रजानसि मह्य शाक्यसिंह।

न च अहं वचनवित्तको भविष्ये

लघु प्रतिपत्ति भणाहि मे नरेन्द्र॥ ४॥

कतराहारका धर्मा बुद्धयाने बहुंकराः।

व्याकुरुष्व महावीर सर्वधर्माण पारग॥ ५॥

उपकरे धर्म मम ब्रूहि नाथ

यथ नरु निषेवतु भोति तीक्ष्णप्रज्ञः।

अपगतभयभैरवो अत्रस्तो

न च परित्यागु करोति शीलस्कन्धात्।

व्यपगतमदरागदोषमोह-

श्चरति च चारिक सर्वशान्तदोषः॥ ६॥

कथं न त्यजते शीलं कथं ध्यानं न रिञ्चति।

कथं निषेवतेऽरण्यं कथं प्रज्ञा प्रवर्तते॥ ७॥

कथं दशबलशासने उदारे

अभिरति विन्दति शील रक्षमाणः।

कथं भवति अच्छिद्रु शीलस्कन्धः

कथं च तुलेति स्वभावु संस्कृतस्य॥ ८॥

कथं कायेन वाचा परिशुद्धो भोति पण्डितः।

असंक्लिष्टेन चित्तेन बुद्धज्ञानं निषेवते॥ ९॥

कथं भवति विशुद्धकायकर्मा

कथं च विवर्जित भोन्ति वाचदोषाः।

कथं भवति असंक्लिष्टचित्तः

पुरुषवर मम पृष्ट व्याकुरुष्व॥ १०॥

अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत्-एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते। कतमेनैकधर्मेण ? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वसत्त्वेषु समचित्तो भवति हितचित्तोऽप्रतिहतचित्तोऽविषमचित्तः। अनेन कुमार एकधर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभं कुमारभूतं गाथाभिरध्यभाषत-

एकधर्मं समादाय बोधिसत्त्वो य वर्तते।

एतान् गुणान् स लभते क्षिप्रं बोधिं च बुध्यते॥ ११॥

न च कश्चि प्रतिहन्यतेऽस्य चित्तम्

अप्रतिहतचित्तु यो भोति बोधिसत्त्वः।

न च खिलु जनयति न प्रदोषं

लभति यथा परिकीर्तितान् विशेषान्॥ १२॥

समं चित्तं निषेवित्वा विपाको दर्शितः समः।

समाः पादतला भोन्ति समश्चाचारगोचरः॥ १३॥

सममविषमचित्तु भावयित्वा

अपगतदोषखिलः प्रहीणकाङ्क्षः।

चरणवरतलाः समास्य भोन्ति

परमप्रभास्वर शुद्धदर्शनीयः॥ १४॥

दशदिशित विरोचि बोधिसत्त्वः

स्फुरति शिरीय प्रभाय बुद्धक्षेत्रम्।

यद भवति स लब्धु शान्तभूमि

तद बहुसत्त्व स्थपेति बुद्धज्ञाने॥ १५॥



तत्र कुमार सर्वसत्त्वेषु समचित्तो बोधिसत्त्वो महासत्त्वो हितचित्तोऽप्रतिहतचित्तोऽविषमचित्तं इमं सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिं प्रतिलभते। कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिः प्रतिलभते। कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ? यदुत कायसंवरः। वाक्संवरः। मनःसंवरः। कर्मपरिशुद्धिः। आलम्बनसमतिक्रमः। स्कन्धपरिज्ञा। धातुसमता। आयतनापकर्षः। तृष्णाप्रहाणम्। अनुत्पादसाक्षात्क्रियावतारः। हेतुदीपना। कर्मफलाविप्रणाशः। धर्मदर्शनम्। मार्गभावना। तथागतसमवधानम्। तीक्ष्णप्रज्ञता। सत्यानुप्रवेशः। धर्मज्ञानम्। प्रतिसंविदवतारज्ञानम्। अक्षरपदप्रभेदज्ञानम्। वस्तूनां समतिक्रमः। घोषपरिज्ञा। प्रामोद्यप्रतिलाभः। धर्मप्रीत्यनुभवनता। आर्जवता। मार्दवता। ऋजुकता। अकुटिलता विगतभृकुटिता। सुरतता। सुशीलता। साखिल्यम्। माधुर्यम्। स्मितमुखता। पूर्वाभिलापिता। एहीति स्वागतवादिता। अनालस्यम्। गुरुगौरवता। गुरुशुश्रूषा। उपपत्तिसंतुष्टिः। शुक्लधर्मातृप्तता। आजीवविशुद्धिः। अरण्यवासानुत्सर्गः। भूमिव्यवस्थानज्ञानम्। स्मृतेरविप्रणाशः। स्कन्धकौशल्यम्। धातुकौशल्यम्। आयतनकौशल्यम्। अभिज्ञासाक्षात्क्रियावतारः। क्लेशापकर्षणम्। वासनानुसंघिसमुद्धातः। ज्ञानविशेषगामिता। भावनानिष्यन्दः। आपत्तिव्युत्थानकौशल्यम्। पर्युत्थानविष्कम्भणम्। अनुशयप्रहाणम्। भवसमतिक्रमः। जातिस्मरता। निष्काङ्क्षता। कर्मविपाके धर्मचित्तता। श्रुतपर्येष्टिज्ञानतीक्ष्णता। ज्ञानतृष्णा। ज्ञानानुबोधः। आजानेयभूमिः। शैलोपमचित्तता। अकम्प्यता। अचलता। अविनिवर्तनीयभूमिव्यवस्थानज्ञानम्। कुशलधर्मनिष्यन्दः। पापधर्मजुगुप्सनता। असमुदाचारता क्लेशानाम्। शिक्षाया अपरित्यागः। समाधिव्यवस्थानम्। आशयज्ञानम्। सत्त्वेषूपपत्तिविशेषज्ञानम्। समताज्ञानम्। वचनप्रतिसंधिज्ञानम्। गृहावासपरित्यागः। त्रैधातुकेऽनभिरतिः। अनवलीनचित्तता। धर्मेष्वनभिनिवेशः। सद्धर्मपरिग्रहः। धर्मगुप्तिः। कर्मविपाकप्रत्ययनता। विनयकौशल्यम्। अधिकरणव्युपशमः। अविग्रहः। अविवादः। क्षान्तिभूमिः। क्षान्तिसमादानम्। गतिसमता। धर्मप्रविचयकौशल्यम्। प्रव्रज्याचित्तम्। धर्मविनिश्चयकौशल्यम्। धर्मपदप्रभेदज्ञानम्। धर्मपदाभिनिर्हारकौशल्यम्। अर्थानर्थसंभेदपदनिर्हारकौशल्यज्ञानम्। पूर्वान्तज्ञानम्। अपरान्तज्ञानम्। प्रत्युत्पन्नज्ञानम्। त्र्यध्वसमताज्ञानम्। त्रिमण्डलपरिशुद्धिज्ञानम्। कायावस्थानज्ञानम्। चित्तावस्थानज्ञानम्। ईर्यापथरक्षणम्। ईर्यापथविकोपनम्। ईर्यापथविकल्पनम्। ईर्यापथप्रासादिकता। अर्थानर्थकौशल्यज्ञानम्। युक्तभाणिता। लोकज्ञता। मुक्तत्यागिता। प्रततपाणिता। अनवगृहीतचित्तता। ह्रीव्यपत्रपिता। अकुशलचित्तजुगुप्सनता। धूतगुणानुत्सर्गः। चारित्रसमादानम्। प्रियसमुदाचारता। गुरूणां प्रत्युत्थानासनप्रदानता। माननिग्रहः। चित्तसंप्रग्रहः। चित्तसमुत्पादज्ञानम्। अर्थप्रतिवेधज्ञानम्। ज्ञानप्रतिवेधज्ञानम्। ज्ञानानुबोधः। अज्ञानविगमः। चित्तप्रवेशज्ञानम्। चित्तस्वभावानुबोधज्ञानम्। आहारनिर्हारकौशल्यज्ञानम्। सर्वरुतज्ञानम्। निरुक्तिव्यवस्थानज्ञानम्। अर्थविनिश्चयज्ञानम्। अनर्थविवर्जनम्। सत्पुरुषसमवधानम्। सत्पुरुषसंसेवनता। कापुरुषविवर्जनम्। ध्यानानां निष्पादनम्, तत्र चानास्वादनम्। अभिज्ञाविकुर्वणम्। नामसंकेतप्रज्ञप्तिस्वभावावतारज्ञानम्। प्रज्ञप्तिसमुद्धातः। संस्कारेषु निर्वेदः। सत्कारेष्वनभिलाषः। असत्कारेषूपेक्षा। लाभेऽनर्थिकता। अलाभेऽनवलीनता। यशस्यनभिलाषः। अयशस्यप्रतिघः। प्रशंसायामनुनयः। निन्दायामविषादः। सुखेऽनभिष्वङ्गः। दुःखेऽवैमुख्यम्। संस्काराणामनादानता। भूतवर्णेऽसङ्गः। अभूतवर्णेऽधिवासनता। गृहस्थप्रव्रजितैरसंस्तवः। अगोचरविवर्जनम्। गोचरप्रचारः।

आचारसंपत्। अनाचारविवर्जनता। कुलानामदूषणता। शासनस्यारक्षणता। अल्पभाषणता। मितभाषणता। प्रतिवचनकौशल्यम्। प्रत्यर्थिकनिग्रहः। कालप्रतिक्रमणता। अकालविवर्जनता। पृथग्जनेष्वविश्वासः। दुःखितानामपरिभवनता, तेभ्यश्च धनप्रदानम्। दरिद्राणामनवसादनता। दुःशीलेष्वनुकम्पा। हितवस्तुता। कृपाबुद्धिता। धर्मेणानुग्रहः। आमिषपरित्यागः। असंचयस्थापिता। शीलप्रशंसनता। दौःशील्यकुत्सनता। शीलवतामशाठ्यसेवनता। सर्वस्वपरित्यागिता। अध्याशयनिमन्त्रणता। यथोक्तकारिता। अभीक्ष्णप्रयोगिता। सत्कृत्य प्रीत्यनुभवनता। दृष्टान्तज्ञानम्। पूर्वयोगकौशल्यम्। कुशलमूलपूर्वंगमता। उपायकौशल्यम्। निमित्तप्रहाणम्। संज्ञाविवर्तः। वस्तूनां परिज्ञा। सूत्रान्ताभिनिर्हारः। विनयकौशल्यम्। सत्यविनिश्चयः। विमुक्तिसाक्षात्क्रियावतारः। एकांशवचनप्रव्याहारता। यथावज्ज्ञानदर्शनानुत्सर्जनम्। निष्काङ्क्षवचनता। शून्यताया आसेवनता। अनिमित्तनिषेवणता। अप्रणिहितस्वभावोपलक्षणता। वैशारद्यप्रतिलम्भः। ज्ञानेनावभासः। शीलदृढता। समापत्त्यवतारः। प्रज्ञाप्रतिलम्भः। एकारामता। आत्मज्ञता। अल्पज्ञानता। संतुष्टिः। चित्तस्यानाविलता। दृष्टिकृतविवर्जनता। धारणीप्रतिलम्भः। ज्ञानावतारः। स्थानास्थानप्रस्थानप्रतिपत्तिज्ञानम्। हेतुयुक्तिनयद्वारम्। कारणम्। मार्गः। प्रतिपत्तिः। संदेशः। अववादः। अनुशासनी। चर्या। आनुलोमिकी क्षान्तिः। क्षान्तिभूमिः। अक्षान्तिविगमः। ज्ञानभूमिः। अज्ञानप्रहाणम्। ज्ञानप्रतिष्ठानम्। योगाचारभूमिः। बोधिसत्त्वगोचरः। सत्पुरुषसेवना। असत्पुरुषविवर्जना। सर्वधर्मस्वभावानुबोधप्रतिवेधज्ञानम्। तथागतेनाख्याता बुद्धभूमिः। पण्डितैरनुमोदिता। बालैः प्रतिक्षिप्ता। दुर्विज्ञेया श्रावकैः। आज्ञाता प्रत्येकबुद्धैः। अभूमिस्तीर्थिकानाम्। बोधिसत्त्वैः। परिगृहीता। दशबलैरनुबद्धा। देवैः पूजनीया। ब्रह्मणा वन्दनीया। शक्रैरधिगमनीया। नागैर्नमस्करणीया। यक्षैरनुमोदनीया। किन्नरैः स्तोतव्या। महोरगैः प्रशंसनीया। बोधिसत्त्वैर्भावनीया। पण्डितैः पर्यवाप्तव्या। धनमनुत्तरम्। दानं निरामिषम्। भैषज्यं ग्लानानाम्। मोदिता शान्तचित्तानाम्। कोशो ज्ञानस्य। अक्षयः प्रतिभानस्य। नयः सूत्रान्तानाम्। विगमः कोशस्य। विषयः शूराणाम्। परिज्ञा त्रैधातुकस्य। कोलः पारगामिनाम्।

नौरोघमध्यगतानाम्। कीर्तिर्यशस्कामानाम्। वर्णो बुद्धानाम्। प्रशंसा तथागतानाम्। स्तवो दशबलानाम्। गुणो बोधिसत्त्वानाम्। उपेक्षा कारुणिकानाम्। मैत्री दोषं शमयितुकामानाम्। मुदिता प्रशान्तचारिणाम्। आश्वासो महायानिकानाम्। प्रतिपत्तिः सिंहनादनादिनाम्। मार्गो बुद्धज्ञानस्य। मोक्षः सर्वसत्त्वानाम्। मुद्रा सर्वधर्माणाम्। आहारिका सर्वज्ञानस्य। उद्यानं सर्वबोधिसत्त्वानाम्। वित्रासनं मारसेनायाः। विद्या क्षेमगामिनाम्। अर्थः सिद्धार्थानाम्। परित्राणममित्रमध्यगतानाम्। प्रत्यर्थिकनिग्रहः सह धर्मेण। सत्याकरो वैशारद्यानाम्। भूते पर्येष्टिर्बालानाम्। पूर्वनिमित्तमष्टादशानामावेणिकानां बुद्धधर्माणाम्। अलंकारो धर्मकायस्य। निष्यन्दश्चर्यायाः। आभरणं बुद्धपुत्राणाम्। रतिर्मोक्षकामानाम्। प्रीतिर्ज्येष्ठपुत्राणाम्। परिपूरिर्बुद्धज्ञानस्य। अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्। विशुद्धिश्चित्तस्य। परिशुद्धिः कायस्य। परिनिष्पत्तिर्विमोक्षमुखानाम्। असंक्लेशो बुद्धज्ञानस्य। अनागमो रागस्य। विगमो द्वेषस्य। अभूमिर्मोहस्य। आगमो ज्ञानस्य। उत्पादो विद्यायाः। प्रहाणमविद्यायाः। तृप्तिर्विमुक्तिसाराणाम्। तुष्टिः समाधिसाराणाम्। चक्षुर्द्रष्टुकामानाम्। अभिज्ञा विकुर्वितुकामानाम्। ऋद्धिरभिनिर्हर्तुकामानाम्। धारणी श्रुतार्थिकानाम्। स्मृतेरसंप्रमोषः। अधिष्ठानं बुद्धानाम्। उपायकौशल्यं नायकानाम्। सूक्ष्मं दुर्विज्ञेयमनभियुक्तानाम्। अज्ञेयममुक्तैः। विवर्ताक्षराणां दुर्विज्ञेयं घोषेण। आज्ञातं विज्ञैः। ज्ञातं सूरतैः। प्रतिविद्धमल्पेच्छैः। उद्गृहीतमारब्धवीर्यैः। धृतं स्मृतिमद्भिः। क्षयो दुःखस्य। अनुत्पादः सर्वधर्माणाम्। एकनयनिर्देशः सर्वभवगत्युपपत्त्यायतनानाम्। अयं स कुमार उच्यते सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः॥



अस्मिन् खलु पुनः सर्वधर्मपर्याये समाधिनिर्देशे भगवता भाष्यमाणे अशीतेर्नयुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृताया अनुत्पत्तिकेषु धर्मेषु क्षान्तेः प्रतिलम्भोऽभूत्। षण्णवतेश्च नयुतानामानुलोमिकायाः क्षान्तेः प्रतिलम्भोऽभूत्। त्रिणवतेर्नयुतानां घोषानुगायाः क्षान्तेः प्रतिलम्भोऽभूत्। परिपूर्णस्य भिक्षुशतसहस्रस्य अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि। षष्टेश्च प्राणिशतसहस्राणां देवमानुषिकायाः प्रजाया विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्। अशीतेश्च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चितानि विमुक्तानि। पञ्चभिश्चोपासकशतैरनागामिफलं प्राप्तम्। षष्ट्या चोपासिकाशतैः सकृदागामिफलं प्राप्तम्। अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पितः प्रकम्पितः संप्रकम्पितः। चलितः प्रचलितः संप्रचलितः। वेधितः प्रवेधितः संप्रवेधितः। क्षुभितः प्रक्षुभितः संप्रक्षुभितः। रणितः प्ररणितः संप्ररणितः। गर्जितः प्रगर्जितः संप्रगर्जितः। पूर्वा दिगवनमति पश्चिमा दिगुन्नमति। पश्चिमा दिगवनमति पूर्वा दिगुन्नमति। उत्तरा दिगवनमति दक्षिणा दिगुन्नमति। दक्षिणा दिगवनमति उत्तरा दिगुन्नमति। अन्तादवनमति मध्यादुन्नमति। अन्तादुन्नमति मध्यादवनमति। अप्रमेयस्य चावभासस्य लोके प्रादुर्भावोऽभूत्। सर्वश्च लोकधातुः सदेवकश्च समारकः सब्रह्मकः सश्रमणब्राह्मणिकाः प्रजास्तेनावभासेनावभासिताः स्फुटा अभूवन्। इमौ च चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहेशाख्यौ न भासतो न तपतो न विरोचतः। या अपि लोकान्तरिका अन्धकारतमिस्राः, ता अपि तेनावभासेन स्फुटा अभूवन्। येऽपि तासूपपन्नाः सत्त्वाः, तेऽप्यन्योन्यं संजानते स्म। एवं चाहुः-अन्योऽपि किल भो अयं सत्त्व इहोपपन्नः। यावदवीचेर्महानरकादिति॥



इति श्रीसमाधिराजे निदानपरिवर्तो नाम प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project