Digital Sanskrit Buddhist Canon

२७ अनुपरीन्दनापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 27 anuparīndanāparivartaḥ
२७ अनुपरीन्दनापरिवर्तः।



अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्ध उत्थाय तस्माद्धर्मासनात् सर्वांस्तान् बोधिसत्त्वान् पिण्डीकृत्य दक्षिणेन पाणिना ऋद्धयभिसंस्कारपरिनिष्पन्नेन दक्षिणहस्तेष्वध्यालम्ब्य तस्यां वेलायामेतदवोचत्-इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपामि। यथा विपुला वैस्तारिकी भवेत्, तथा युष्माभिः कुलपुत्राः करणीयम्। द्वैतीयकमपि त्रैतीयकमपि भगवान् सर्वावन्तं बोधिसत्त्वगणं दक्षिणेन पाणिना‍अध्यालम्ब्यैतदवोचत्-इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपमि। युष्माभिः कुलपुत्र उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या देशयितव्या प्रकाशयितव्या। सर्वसत्त्वानां च संश्रावयितव्या। अमात्सर्योऽहं कुलपुत्रा अपरिगृहीतचित्तो विशारदो बुद्धज्ञानस्य दाता, तथागतज्ञानस्य स्वयंभूज्ञानस्य दाता। महादानपतिरहं कुलपुत्राः। युष्माभिरपि कुलपुत्रा ममैवानुशिक्षितव्यम्। अमत्सरिभिर्भूत्वेमं तथागतज्ञानदर्शनं महोपायकौशल्यमागतानां कुलपुत्राणां कुलदुहितृणां च अयं धर्मपर्यायः संश्रावयितव्यः। ये च अश्राद्धाः सत्त्वास्तेऽस्मिन् धर्मपर्याये समादापयितव्याः। एवं युष्माभिः कुलपुत्रास्तथागतानां प्रतिकारः कृतो भविष्यति॥



एवमुक्तास्ते बोधिसत्त्व महासत्त्व भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन महता प्रीतिप्रामोद्येन स्फुता अभूवन्। महच्च गौरवमुत्पाद्य येन भगवान् शाक्यमुनिस्तथागतोऽर्हन सम्यक्संबुद्धस्तेनावनतकायाः प्रणतकायाः संनतकायाः शिरांस्यवनाम्य अञ्जलिं प्रगृह्य सर्व एकस्वरनिर्घोषेण भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः- तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति। सर्वेषां च तथागतानामाज्ञां करिष्यामः, परिपूरयिष्यामः। अल्पोत्सुको भगवान् भवतु यथासुखविहारी। द्वैतीयकमपि, त्रैतीयकमपि स सर्वावान् बोधिसत्त्वगण एकस्वरनिर्घोषेण एवं भाषते स्म-अल्पोत्सुको भगवान् भवतु यथासुखविहारी। तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति। सर्वेषां च तथागतानामाज्ञां परिपूरयिष्यामः॥



अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वांस्तांस्तथागतानर्हतः सम्यक्संबुद्धानन्येभ्यो लोकधातुभ्यः समागतान् विसर्जयति स्म। यथासुखविहारं च तेषां तथागतानामारोचयति स्म-यथासुखं तथागता विहरन्त्वर्हन्तः सम्यक्संबुद्धा इति। तं च तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपं यथाभूमौ स्थापयामास। तस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य यथासुखविहारमारोचयामास॥



इदमवोचद् भगवानात्तमनाः। ते चाप्रमेया असंख्येयास्तथागता अर्हन्तः सम्यक्संबुद्धा अन्यलोकधात्वागता रत्नवृक्षमूलेषु सिंहासनोपविष्टाः, प्रभुतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः स च सर्वावान् बोधिसत्त्वगणः, ते च विशिष्टचारित्रप्रमुखा अप्रमेया असंख्येया बोधिसत्त्व महासत्त्वा ये पृथिवीविवरेभ्योऽभ्युद्गताः, ते च महाश्रावकाः ताश्च चतस्रः पर्षदः, सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्यायेऽनुपरीन्दनापरिवर्तो नाम सप्तविंशतिमः समाप्तः॥



* * * * * *



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project