Digital Sanskrit Buddhist Canon

१९ सदापरिभूतपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 19 sadāparibhūtaparivartaḥ
१९ सदापरिभूतपरिवर्तः।



अथ खलु भगवान् महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-अनेनापि तावन्महास्थामप्राप्त पर्यायेण एवं वेदितव्यम्-यथा य इममेवंरूपं धर्मपर्यायं प्रतिक्षेप्स्यन्ति, एवंरूपांश्च सूत्रान्तधारकांश्च भिक्षुभिक्षुण्युपासकोपासिका आक्रोशिष्यन्ति, परिभाषिष्यन्ति, असत्यया परुषया वाचा समुदाचरिष्यन्ति, तेषामेवमनिष्टो विपाको भविष्यति, यो न शक्यं वाचा परिकीर्तयितुम्। ये च इममवंरूपं सूत्रान्तं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, तेषामेवमिष्टो विपाको भविष्यति यादृशो मया पूर्वं परिकीर्तितः। एवंरूपां च चक्षुःश्रोत्रघ्राणजिह्वाकायमनः-परिशुद्धिमधिगमिष्यन्ति॥



भूतपूर्वं महास्थामप्राप्त अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत्-तेन कालेन समयेन भीष्मगर्जितस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विनिर्भोगे कल्पे महासंभवायां लोकधातौ। स खलु पुनर्महास्थामप्राप्त भगवान् भीष्मगर्जितस्वरराजस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य लोकस्य पुरतो धर्मं देशयति स्म। यदिदं श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीत्यसमुत्पादप्रवृत्तिम्। बोधिसत्त्वानां महासत्त्वानां षट्पारमिताप्रतिसंयुक्तानामनुत्तरां सम्यक्संबोधिमारभ्य तथागतज्ञानदर्शनपर्यवसानं धर्मं देशयति स्म। तस्य खलु पुनर्महास्थामप्राप्त भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्गङ्गानदीवालिकासमानि कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत्। परिनिर्वृतस्य जम्बुद्वीपपरमाणुरजःसमानि कल्पकोटीनयुतशतसहस्राणि सद्धर्मः स्थितोऽभूत्। चतुर्द्वीपपरमाणुरजःसमानि कल्पकोटीनयुतसहस्राणि सद्धर्मप्रतिरूपकः स्थितोऽभूत्।



तस्यां खलु पुनर्महास्थामप्राप्त महासंभवायां लोकधातौ भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मप्रतिरूपके च अन्तर्हिते अपरोऽपि भीष्मगर्जितस्वरराज एव तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। अनया महास्थामप्राप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगर्जितस्वरराजनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीनयुतशतसहस्राण्यभूवन्। तत्र महास्थामप्राप्त योऽसौ तथागतः सर्वपूर्वकोऽभूद् भीष्मगर्जितस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, तस्य भगवतः परिनिर्वृतस्य सद्धर्मेऽन्तर्हिते सद्धर्मप्रतिरूपके च अन्तर्धीयमाने तस्मिन् शासनेऽधिमानिकभिक्ष्वध्याक्रान्ते सदापरिभूतो नाम बोधिसत्त्वो भिक्षुरभूत्। केन कारणेन महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वः सदापरिभूत इत्युच्यते? स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वो यं यमेव पश्यति भिक्षुं वा भिक्षूणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्य एव वदति-नाहमायुष्मन्तो युष्माकं परिभवामि।



अपरिभूता यूयम्। तत्कस्य हेतोः? सर्वे हि भवन्तो बोधिसत्त्वचर्यां चरन्तु। भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धा इति। अनेन महास्थामप्राप्त पर्यायेण स बोधिसत्त्वो महासत्त्वो भिक्षुभूतो नोद्देशं करोति, न स्वाध्याय करोति, अन्यत्र यं यमेव पश्यति दूरगतमपि, सर्वं तमुपंसक्रम्य एवं संश्रावयति भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्यैवं वदति-नाहं भगिन्यो युष्माकं परिभवामि। अपरिभूता यूयम्। तत्कस्य हेतोः? सर्वा यूयं बोधिसत्त्वचर्यां चरध्वम्। भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः। यं यमेव महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वस्तस्मिन् समये भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा एवं संश्रावयति, सर्वेऽस्य यद्भूयस्त्वेन क्रुध्यन्ति, व्यापादन्ति अप्रसादमुत्पादयन्ति आक्रोशन्ति परिभाषन्ते-कुतोऽयमपृष्टो भिक्षुरपरिभवचित्तमित्यस्माकमुपदर्शयति? परिभूतमात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्संबोधौ असन्तमनाकाङ्क्षितं च। अथ खलु महास्थामप्राप्त तस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि वर्षाणि तथा आक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति। न च कस्यचित् क्रुध्यति, न व्यापादचित्तमुत्पादयति। ये चास्य एवं संश्रावयतो लोष्टं वा दण्डं वा क्षिपन्ति, स तेषां दूरत एव उच्चैःस्वरं कृत्वा संश्रावयति स्म-नाहं युष्माकं परिभवामीति। तस्य ताभिरभिमानिकभिक्षुभिक्षुण्युपासकोपासिकाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कृतमभूत्॥



तेन खलु पुनर्महास्थामप्राप्त सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन कालक्रियायां प्रत्युपस्थितायां मरणकालसमये प्रत्युपस्थिते अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतोऽभूत्। तेन च भगवता भीष्मगर्जितस्वरराजेन तथागतेनार्हता सम्यक्संबुद्धेन अयं धर्मपर्यायो विंशतिभिर्गाथाविंशतिकोटीनयुतशतसहस्रैर्भाषितोऽभूत्। स च सदापरिभूतो बोधिसत्त्वो महासत्त्वो मरणकालसमये प्रत्युपस्थिते अन्तरीक्षनिर्घोषादिमं धर्मपर्यायमश्रौषीत्। येन केनचिद् भाषितमन्तरीक्षान्निर्घोषं श्रुत्वा इमं धर्मपर्यायमुद्गृहीतवान्, इमां चैवंरूपां चक्षुर्विशुद्धिं श्रोत्रविशुद्धिं घ्राणविशुद्धिं जिह्वाविशुद्धिं कायविशुद्धिं मनोविशुद्धिं च प्रतिलब्धवान्। सहप्रतिलब्धाभिर्विशुद्धिभिः पुनरन्यानि विंशतिवर्षकोटीनयुतशतसहस्राणि आत्मनो जीवितसंस्कारमधिष्ठाय इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशितवान्। ये च तेऽभिमानिकाः सत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाः, ये पूर्वं नाहं युष्माकं परिभवामीति संश्राविताः, यैरस्येदं सदापरिभूत इति नाम कृतमभूत्, तस्योदारर्द्धिबलस्थामं प्रतिज्ञाप्रतिभानबलस्थामं प्रज्ञा बलस्थामं च दृष्ट्वा सर्वेऽनुसहायीभूता अभूवन् धर्मश्रवणाय। सर्वे तेन अन्यानि च बहूनि प्राणिकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितान्यभूवन्॥



स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वस्ततश्च्यवित्वा चन्द्रस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीशतान्यारागितवान्, सर्वेषु च इमं धर्मपर्यायं संप्रकाशयामास। सोऽनुपूर्वेण तेनैव पूर्वकेण कुशलमूलेन पुनरप्यनुपूर्वेण दुन्दुभिस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीनयुतशतसहस्राण्यारागितवान्। सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम्। सोऽनेनैव पूर्वकेण कुशलमूलेन पुनरप्यपूर्वेण मेघस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीशतसहस्राण्यारागितवान्, सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारगितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम्। सर्वेषु च एवंरूपया चक्षुःपरिशुद्धया समन्वागतोऽभूत्, श्रोत्रपरिशुद्ध्या घ्राणपरिशुद्धया जिह्वापरिशुद्धया कायपरिशुद्धया मनःपरिशुद्धया समन्वागतोऽभूत्॥



स खलु पुनर्महास्थामप्राप्त सदापरिभूतो बोधिसत्त्वो महासत्त्व इयतां तथागत कोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा अन्येषां च बहूनां बुद्धकोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा, सर्वेषु च तेषु इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, आरागयित्वा स तेनैव पूर्वकेण कुशलमूलेन परिपक्वेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। स्यात्खलु पुनस्ते महास्थामप्राप्त एवं काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वोऽभूत्, यस्तस्य भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने चतसृणां पर्षदां सदापरिभूतः संमतोऽभूत्, येन ते तावन्तस्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिता अभूवन्? न खलु पुनस्ते महास्थामप्राप्त एवं द्रष्टव्यम्। तत्कस्य हेतोः? अहमेव स महास्थामप्राप्त तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वोऽभूवम्। यदा मया महास्थामप्राप्त पूर्वमयं धर्मपर्यायो नोद्गृहीतोऽभविष्यत्, न धारितः, नाहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभविष्यम्। यतश्चाहं महास्थामप्राप्त पौर्विकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादिमं धर्मपर्यायं धारितवान् वाचितवान् देशितवान्, ततोऽहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः।



यान्यपि तानि महास्थामप्राप्त तेन सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन भिक्षुशतानि भिक्षुणीशतानि च उपासकशतानि उपासिकाशतानि च तस्य भगवतः शासने इमं धर्मपर्यायं संश्रावितान्यभूवन्-नाहं युष्माकं परिभवामीति। सर्वे भवन्तो बोधिसत्त्वचर्यां चरन्तु। भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः। यैस्तस्य बोधिसत्त्वस्यान्तिके व्यापादचित्तमुत्पादितमभूत्, तैर्विशतिकल्पकोटीनयुतशतसहस्राणि न जातु तथागतो दृष्टोऽभूत्, नापि धर्मशब्दो न संघशब्दः श्रुतोऽभूत्। दश च कल्पसहस्राण्यवीचौ महानरके दारुणां वेदनां वेदयामासुः। ते च सर्वे तस्मात् कर्मावरणात् परिमुक्ताः। तेनैव बोधिसत्त्वेन महासत्त्वेन परिपाचिता अनुत्तरायां सम्यक्संबोधौ। स्यात्खलु पुनस्ते महास्थामप्राप्त काङ्क्षा वा विमतिर्वा विचिकित्सा वा-कतमे तेन कालेन तेन समयेन ते सत्त्वा अभूवन् ये ते तं बोधिसत्त्वं प्तहासत्त्वमुल्लापितवन्त उच्चग्घितवन्तः? अस्यामेव महास्थामप्राप्त पर्षदि भद्रपालप्रमुखाणि पञ्च बोधिसत्त्वशतानि सिंहचन्द्राप्रमुखानि पञ्चभिक्षुणीशतानि सुगतचेतनाप्रमुखानि पञ्चोपासिकाशतानि सर्वाण्यवैवर्तिकानि कृतानि अनुत्तरायां सम्यक्संबोधौ। एवमियं महास्थामप्राप्त महार्थस्य धर्मपर्यायस्य धारणा वाचना देशना बोधिसत्त्वानां महासत्त्वानामनुत्तरायाः सम्यक्संबोधेराहारिका संवर्तते। तस्मात्तर्हि महास्थामप्राप्त अयं धर्मपर्यायो बोधिसत्त्वैर्महासत्त्वैस्तथागते परिनिर्वृते अभीक्ष्णं धारयितव्यो वाचयितव्यो देशयितव्यः संप्रकाशयितव्य इति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



अतीतमध्वानमनुस्मरामि

भीष्मस्वरो राज जिनो यदासि।

महानुभावो नरदेवपूजितः

प्रणायको नरमरुयक्षरक्षसाम्॥१॥



तस्य जिनस्य परिनिर्वृतस्य

सद्धर्म संक्षोभ व्रजन्ति पश्चिमे।

भिक्षू अभूषी तद बोधिसत्त्वो

नामेन सो सदपरिभूत उच्यते॥२॥



उपसंक्रमित्वा तद भिक्षु अन्यान्

उपलम्भदृष्टीन तथैव भिक्षुणी।

परिभाव मह्यं न कदाचिदस्ति

यूयं हि चर्यां चरथाग्रबोधये॥३॥



एवं च संश्रावयि नित्यकालं

आक्रोश परिभाष सहन्तु तेषाम्।

कालक्रियायां समुपस्थितायां

श्रुतं इदं सूत्रमभूषि तेन॥४॥



अकृत्व कालं तद पण्डितेन

अधिष्ठिहित्वा च सुदीर्घमायुः।

प्रकाशितं सूत्रमिदं तदासीत्

तहि शासने तस्य विनायकस्य॥५॥



ते चापि सर्वे बहु ओपलम्भिका

बोधीय तेन परिपाचितासीत्।

ततश्च्यवित्वान स बोधिसत्त्वो

आरागयी बुद्धसहस्रकोट्यः॥६॥



अनुपूर्व पुण्येन कृतेन तेन

प्रकाशयित्वा इमु सूत्र नित्यम्।

बोधिं स संप्राप्त जिनस्य पुत्रो

अहमेव सो शाक्यमुनिस्तदासीत्॥७॥



ये चापि भिक्षू तद ओपलम्भिका

या भिक्षुणी ये च उपासका वा।

उपासिकास्तत्र च या तदासीद्

ये बोधि संश्रावित पण्डितेन॥८॥



ते चापि दृष्ट्वा बहुबुद्धकोट्य

इमे च ते पञ्चशता अनूनकाः।

तथैव भिक्षूण च भिक्षुणी च

उपासिकाश्चापि मि मह्य संमुखम्॥९॥



सर्वे मया श्रावित अग्रधर्मा

ते चैव सर्वे परिपाचिता मे।

मयि निर्वृते चापिमि सर्वि धीरा

इमु धारयिष्यन्ति ह सूत्रमग्रम्॥१०॥



कल्पान कोट्यो बहुभीरचिन्त्यै-

र्न कदाचिदेतादृश धर्म श्रूयते।

बुद्धान कोटीशत चैव भोन्ति

न च ते पिमं सूत्र प्रकाशयन्ति॥११॥



तस्माच्छ्रूणित्वा इदमेवरूपं

परिकीर्तितं धर्मु स्वयं स्वयंभूवा।

आरागयित्वा च पुनः पुनश्चिमं

प्रकाशयेत् सूत्र मयीह निर्वृते॥१२॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये सदापरिभूतपरिवर्तो नामैकोनविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project