Digital Sanskrit Buddhist Canon

२३ संस्तवपरिवर्तस्त्रयोविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 23 saṁstavaparivartastrayoviṁśaḥ
२३ संस्तवपरिवर्तस्त्रयोविंशः।



अथ खलु शुद्धावासकायिका देवपुत्रा बोधिमण्डनिषण्णं तथागतं प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णवर्षैरभ्यवकीर्य आभिः सारूप्याभिर्गाथाभिरभितुष्टुवुः—



उत्पन्नो लोकप्रद्योतो लोकनाथः प्रभंकरः।

अन्धभूतस्य लोकस्य चक्षुर्दाता रणंजहः॥१॥



भवान् विजितसंग्रामः पुण्यैः पूर्णमनोरथः।

संपूर्णः शुक्लधर्मैश्च जगत्त्वं तर्पयिष्यसि॥२॥



उत्तीर्णपङ्को ह्यनिघः स्थले तिष्ठति गौतमः।

अन्यां सत्त्वां महोघेन प्रोद्गतस्तारयिष्यसि॥३॥



उद्गतस्त्वं महाप्राज्ञो लोकेष्वप्रतिपुद्गलः।

लोकधर्मैरलिप्तस्त्वं जलस्थमिव पङ्कजः॥ ४॥



चिरप्रसुप्तमिमं लोकं तमस्कन्धावगुण्ठितम्।

भवान् प्रज्ञाप्रदीपेन समर्थः प्रतिबोधितुम्॥५॥



चिरातुरे जीवलोके क्लेशव्याधिप्रपीडिते।

वैद्यराट् त्वं समुत्पन्नः सर्वव्याधिप्रमोचकः॥६॥



भविष्यन्त्यक्षणा शून्या त्वयि नाथे समुद्गते।

मनुष्याश्चैव देवाश्च भविष्यन्ति सुखान्विताः॥७॥



येषां त्वद्दर्शनं सौम्य एष्यसे पुरुषर्षभ।

न ते कल्पसहस्राणि जातु यास्यन्ति दुर्गतिम्॥८॥



पण्डिताश्चाप्यरोगाश्च धर्मं श्रोष्यन्ति येऽपि ते।

गम्भीराश्चोपधीक्षीणा भविष्यन्ति विशारदाः॥९॥



मोक्ष्यन्ते च लघुं सर्वे छित्त्वा वै क्लेशबन्धनम्।

यास्यन्ति निरुपादानाः फलप्राप्तिवरं शुभम्॥१०॥



दक्षिणीयाश्च ते लोके आहुतीनां प्रतिग्रहाः।

न तेषु दक्षिणा न्यूना सत्त्वानिर्वाणहेतुकी॥११॥



एवं खलु भिक्षवः शुद्धावासकायिका देवपुत्रास्तथागतमभिष्टुत्यैकान्ते प्राञ्जलयस्तस्थुः, प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु चाभास्वरा देवपुत्रास्तथागतं बोधिमण्डनिषण्णं दिव्यैर्नानाप्रकारैः पुष्पधूपगन्धमाल्यविलेपनछत्रध्वजपताकाभिः संपूज्य त्रिप्रदक्षिणीकृत्य चाभिर्गाथाभिरभ्यस्ताविषुः—



गम्भीरबुद्धे मधुरस्वरा मुने

ब्रह्मस्वरा मुनिवरगीत सुस्वरम्।

वराग्रबोधि परमार्थप्राप्ता

सर्वस्वरे पारगते नमस्ते॥१२॥



त्रातासि दीपोऽसि परायणोऽसि

नाथोऽसि लोके कृपमैत्रचित्तः।

वैद्योत्तमस्त्वं खलु शल्यहर्ता

चिकित्सकस्त्वं परमं हितंकरः॥१३॥



दीपंकरस्य सहदर्शनं त्वया

समुदानितं मैत्रकृपाभ्रजालम्।

प्रमुञ्च नाथा अमृतस्य धारां

शमेहि तापं सुरमानुषाणाम्॥१४॥



त्वं पद्मभूतं त्रिभवेष्वलिप्तं

त्वं मेरुकल्पो विचलो ह्यकम्प्यः।

त्वं वज्रकल्पो ह्यचलप्रतिज्ञ

त्वं चन्द्रमा सर्वगुणाग्रधारी॥१५॥



एवं खलु भिक्षव आभास्वरा देवास्तथागतमभिसंस्तुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतं बोधिमण्डनिषण्णमनेकमणिरत्नकोटीनयुतशतसहस्रप्रत्युप्तेन रत्नजालेनाभिछाद्य त्रिप्रदक्षिणीकृत्य चाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः—



शुभविमलप्रज्ञ प्रभतेजधरा।

द्बात्रिंशल्लक्षणवराग्रधरा।

स्मृतिमं मतिमं गुणज्ञानधरा

अकिलान्तका शिरसि वन्दमि ते॥१६॥



अमला विमला त्रिमलैर्विमला

त्रैलोक्यविश्रुत त्रिविद्यगता।

त्रिविधाविमोक्षवरचक्षुददा

वन्दामि त्वां त्रिनयनं विमलम्॥१७॥



कलिकलुष उद्धृत सुदान्तमना

कृपकरुण उद्गत जगार्थकरा।

मुनि मुदित उद्गत प्रशान्तमना

द्वयमतिविमोचक उपेक्षरता॥१८॥



व्रत तपस उद्गत जगार्थकरा।

स्वचरीविशुद्धचरिपारगता।

चतुसत्यदर्शक विमोक्षरता

मुक्तो विमोचयसि चान्यजगत्॥१९॥



बलवीर्य आगतु इहा नमुचि

प्रज्ञाय वीर्य तव मैत्र्य जितो।

प्राप्तं च ते पदवरं अमृतं

वन्दाम ते शठचमूमथना॥२०॥



एवं खलु भिक्षवः सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतमाभिर्गाथाभिरभिष्टुत्य एकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु ते शुक्लपाक्षिका मारपुत्रा येन तथागतस्तेनोपसंक्रामन्। उपसंक्रम्य महारत्नछत्रवितानैस्तथागतमभिच्छाद्य प्राञ्जलयस्तथागतमाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः—



प्रत्यक्षेऽस्मि बले तवातिविपुले मारस्य घोरा चमू

यत्सा मारचमू महाप्रतिभया एकक्षणे ते जिता।

न च ते उत्थितु नैव कायु त्रसितो नो वा गिरा व्याहृता

त्वां वन्दामहि सर्वलोकमहितं सर्वार्थसिद्धं मुनिम्॥२१॥



मारा कोटिसहस्रनेकनयुता गङ्गाणुभिः संमिताः

ते तुभ्यं न समर्थ बोधिसुवटा संचालितुं कम्पितुम्।

यज्ञा कोटिसहस्रनेकनयुता गङ्गा यथा वालिका

यष्टा बोधिवटासितेन भवता तेनाद्य विभ्राजसे॥२२॥



भार्या चेष्टतमा सुताश्च दयिता दास्यश्च दासास्तथा

उद्याना नगराणि राष्ट्रनिगमा राज्यानि सान्तःपुराः।

हस्ता पादशिरोत्तमाङ्गमपि वा चक्षूंषि जिह्वा तथा

त्यक्ता ते वरबोधिचर्य चरता तेनाद्य विभ्राजसे॥२३॥



उक्तं यद्वचनं त्वया सुबहुशो बुद्धो भविष्याम्यहं

तारिष्ये बहुसत्त्वकोटिनयुता दुःखार्णवेनोह्यता।

ध्यानाधीन्द्रियबुद्धिभिः कवचितः सद्धर्मनावा स्वयं

सा चैषा प्रतिपूर्ण तुभ्य प्रणिधिस्तारिष्यसे प्राणिनः॥२४॥



यत्पुण्यं च स्तवित्व वादिवृषभं लोकस्य चक्षुर्ददं

सर्वे भूत्व उदग्रहृष्टमनसः प्रार्थेम सर्वज्ञताम्।

समुदानीत्व वराग्रबोधिमतुलां बुद्धैः सुसंवर्णितां

एवं तद्विनिहत्य मारपरिषां बुद्धेम सर्वज्ञताम्॥२५॥



एवं खलु भिक्षवो मारपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु परनिर्मितवशवर्ती देवपुत्रोऽनेकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतो जाम्बूनदसुवर्णवर्णैः पद्मैस्तथागतमभ्यवकीर्य संमुखमाभिर्गाथाभिरभ्यस्तावीत्—



अपीडित अलुडित अवितथवचना

अपगततमरज अमृतगतिगता।

अरहसि दिवि भुवि श्रियक्रियमतुला

अतिद्युतिस्मृतिमति प्रणिपति शिरसा॥२६॥



रतिकर रणजह रजमलमथना

रमयसि सुरनर सुविशदवचनैः।

विकसित सुविपुल वरतनु किरणैः

सुरनरपतिरिव जयसि जगदिदम्॥२७॥



परगणिप्रमथन परचरिकुशला

प्रियु भव नरमरु परमति धुनता।

परचरि विभजसि सुनिपुणमतिमान्

पथि इह विचरतु दशबलगमने॥२८॥



त्यजि पृथु भवग्रहि वितथदुख महा

विनयसि सुरनर यथमति विनये।

विचरसि चतुदिश शशिरिव गगने

चक्षु भव परायण इह भुवि त्रिभवे॥२९॥



प्रियु भव नरमरु न च खलि विषये

रमयसि शुभरति कामरतिविरतो।

दिनदर्शि परिषदि न ति समु त्रिभवे

नाथु गति परायणु त्वमिह हि जगतः॥३०॥



एवं खलु भिक्षवो वशवर्तिदेवप्रमुखाः परिनिर्मितवशवर्तिनो देवपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु सुनिर्मितो देवपुत्रो देवसंघपरिवृतः पुरस्कृतो नानारत्नपट्टदामैस्तथागतमभिछाद्य संमुखमाभिर्गाथाभिरभ्यस्तावीत्—



धर्मालोक भवान् समुद्गत त्रिविधमलनुच्छिदो

मोहादृष्टि‍अविद्यघातको हिरिशिरिभरितः।

मिथ्यामार्गरतामिमां प्रजाममृते थपयितो

उत्पन्नो इह लोकि चेतियो दिवि भुवि महितः॥३१॥



त्वं वैद्यो कुशलचिकित्सको ह्यमृतसुखददो

दृष्टिक्लेशमविद्यसंचयं पुरिममनुशयम्।

सर्वव्याध्यपनेसि देहिनां पुरिमजिनपथे

तस्माद्वैद्यतमोऽसि नायका विचरसि धरणीम्॥३२॥



चन्द्रासूर्यप्रभाश्च ज्योतिषा मणि तथ ज्वलना

शक्रब्रह्मप्रभा न भासते पुरतु शिरिघने।

प्रज्ञालोककरा प्रभंकरा प्रभसिरिभरिता

प्रत्यक्षास्तव ज्ञाति अद्भुते प्रणिपति शिरसा॥३३॥



सत्यासत्यकथी विनायका सुमधुरवचना

दान्ता शान्तमना जितेन्द्रिय प्रशमितमनसा।

शास्ता शासनियां प्रशाससे नरमरुपरिषां

वन्दे शाक्यमुनिं नरर्षभं सुरनरमहितम्॥३४॥



ज्ञानिं ज्ञानकथाग्रधारका ज्ञपयसि त्रिभवे

त्रैविद्यत्रिविमोक्षदेशका त्रिमलमलनुदा।

भव्याभव्य मुने प्रजानसे यथमति विनये

वन्दे त्वां त्रिसहस्रि अद्भुतं दिवि भुवि महितम्॥३५॥



एवं खलु भिक्षवः सुनिर्मितो देवपुत्रः सपरिवारस्तथागतमभिष्टुत्यैकान्तेऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन्॥



अथ खलु संतुषितो देवपुत्रः सार्धं तुषितकायिकैर्देवैर्येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य महता दिव्यवस्त्रजालेन बोधिमण्डनिषण्णं तथागतमभिसंछाद्य संमुखमाभिर्गाथाभिरभ्यस्तौषीत्—



तुषितालयि यद्वसितस्त्वं

तत्र ति देशितु धर्म उदारो।

न च छिद्यति सा अनुशास्ति

अद्यपि धर्मचरी सुरपुत्रा॥३६॥



न च दर्शन तृप्ति लभामो

धर्म शृणोतु न विन्दति तृप्तिम्।

गुणसागर लोकप्रदीपा

वन्दिम ते शिरसा मनसा च॥३७॥



तुषितालय यच्चलितस्त्वं

शोषित अक्षण सर्वि तदा ते।

यद बोधिवटे उपविष्टः

सर्वजगस्य किलेश प्रशान्ताः॥३८॥



यस्य कृतेन च बोधि उदारा

एष ति प्राप्ति जिनित्वन मारम्।

त्वा प्रणिधी तपसा परिपूर्णा

क्षिप्र प्रवर्तय चक्रमुदारम्॥३९॥



बहु दिक्षिषु प्राणिसहस्रा

धर्मरता क्षुणियामथ धर्मम्।

क्षिप्र प्रवर्तय चक्रमुदारं

मोचय प्राणिसहस्र भवेषु॥४०॥



एवं खलु भिक्षवः संतुषितो देवपुत्रः सपरिवारस्तथागतमभिष्टत्यैकान्तेऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्यमानः॥



अथ खलु सुयामदेवपुत्रप्रमुखाः सुयामा देवा येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य नानापुष्पधूपगन्धमाल्यविलेपनैर्बोधिमण्डनिषण्णं तथागतं संपूज्य संमुखमाभिः सारूप्याभिर्गाथाभिस्तुष्टवुः—



सदृशोऽस्ति न ते कुतोन्तरे

शील समाधि तथैव प्रज्ञया।

अधिमुक्तिविमुक्तिकोविदा

शिरसा वन्दिम ते तथागतम्॥४१॥



दृष्टा स वियूह शोभना

बोधिमण्डस्मि मरुभि या कृता।

न तमर्हति अन्य कश्चना

यथ त्वं देवमनुष्यपूजितः॥४२॥



न मुधाय भवान् समुद्गतो

यस्य अर्थे बहु चीर्ण दुष्करा।

विजितो हि शठः ससैन्यकः

प्राप्ता बोधि अनुत्तरा त्वया॥४३॥



आलोक कृतो दशादिशे

प्रज्ञादीपेन त्रिलोक ज्वालितः।

तिमिरं अपनाययिष्यसे

दास्यसि चक्षुरनुत्तरं जगे॥४४॥



बहुकल्प स्तुवन्ति भाषतो

रोमरूपस्य न चान्तु अस्ति ते।

गुणसागर लोकविश्रुता

शिरसा वन्दिम ते तथागतम्॥४५॥



एवं खलु ते सुयामदेवपुत्रप्रमुखा देवास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलस्तथागतं नमस्यन्तः॥



अथ खलु शक्रो देवानामिन्द्रः सार्धं त्रायत्रिंशकायिकैर्देवैर्नानापुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकाव्यूहैस्तथागतं संपूज्य आभिर्गाथाभिरभ्यस्तावीत्—



अस्खलिता अनवद्या सदा सुस्थिता मेरुकल्पा मुने

दशदिशि सुविघुष्ट ज्ञानप्रभा पुण्यतेजान्विता।

बुद्धशतसहस्र संपूजिता पूर्वि तुभ्यं मुने

तस्य विशेषु येन बोधिद्रुमे मारसेना जिता॥४६॥



शीलश्रुतसमाधिप्रज्ञाकरा ज्ञानकेतुध्वजा

जरमरणनिघाति वैद्योत्तमा लोकचक्षुर्ददा।

त्रिमलखिलप्रहीण शान्तेन्द्रिया शान्तचित्ता मुने

शरणु तवमुपेम शाक्यर्षभा धर्मराजा जगे॥४७॥



बोधिचरी अनन्ततुल्या अभूद्वीर्यस्थामोद्गता

प्रज्ञाबल उपाय मैत्राबलं ब्राह्मपुण्यं बलम्।

एति बलमनन्ततुल्या भवं बोधि संप्रस्थिते

दशबलबलधारी अद्या पुनर्बोधिमण्डे भुतो॥४८॥



दृष्ट्व चमु अनन्तसत्त्वे सुरा भीतत्रस्ताभवन्

मा खु श्रमणराजु बाधिष्यते बोधिमण्डे स्थितः।

न च भवतु बभूव तेभ्यो भयं नो च कायेञ्जना

करहत गुरुभार संकम्पना मारसेना जिता॥४९॥



यथ च पुरिमकेभि सिंहासने प्राप्त बोधि वरा

तथ त्वया अनुबुद्ध तुल्या समा अन्यथा त्वं न हि।

सममनस समचित्त सर्वज्ञता स्थाम प्राप्तं त्वया

तेन भव स्वयंभु लोकोत्तमो पुण्यक्षेत्रं जगे॥५०॥



एवं खलु भिक्षवः शक्रो देवानामिन्द्रः सार्धं देवपुत्रैस्त्रायत्रिंशैस्तथागतमभिष्टुत्यैकान्तेऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन्॥



अथ खलु चत्वारो महाराजानः सार्धं चतुर्महाराजकायिकैर्देवपुत्रैर्येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्याभिमुक्तकचम्पकसुमनावार्षिकधानुस्कारिमाल्यदामपरिगृहीता अप्सरःशतसहस्रपरिवृता दिव्यसंगीतिसंप्रवादितेन तथागतस्य पूजां कृत्वा आभिः सारूप्याभिर्गाथाभिस्तुष्टुवुः—





सुमधुरवचना मनोज्ञघोषा

शशि व प्रशान्तिकरा प्रसन्नचित्ता।

प्रहसितवदना प्रभूतजिह्वा

परमसुप्रीतिकरा मुने नमस्ते॥५१॥



रुतरवित य अस्ति सर्वलोके

सुमधुर प्रेमणिया नरामरूणाम्।

भवत स्वरु प्रमुक्त मञ्जुघोषो

अभिभवते रुत सर्वि भाषमाणां॥५२॥



रागु समयि दोषमोहक्लेशा

प्रीति जनेति अमानुषां विशुद्धाम्।

अकलुषहृदया निशाम्य धर्मं

आर्य विमुक्ति लभन्ति ते हि सर्वे॥५३॥



न च भव अतिमन्यसे अविद्वां

न च पुन विद्वमदेन जातु मत्तः।

उन्नतु न च नैव चोनतस्त्वं

गिरिरिव सुस्थितु सागरस्य मध्ये॥५४॥



लाभ इह सुलब्ध मानुषाणां

यत्र हि तादृशु जातु सत्त्व लोके।

श्रीरिव पदुमो धनस्य दात्री

तथ तव दास्यति धर्मु सर्वलोके॥५५॥



एवं खलु चतुर्महाराजप्रमुखा महाराजकायिका देवा बोधिमण्डनिषण्णं तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खल्वन्तरिक्षा देवास्तथागतस्यान्तिकमुपसंक्रम्याभिसंबोधेः पूजाकर्मणे सर्वमन्तरीक्षं रत्नजालेन किङ्किणीजालेन रत्नछत्रै रत्नपताकाभी रत्नपट्टदामै रत्नावतंसकैर्विविधमुक्ताहारपुष्पदामार्धकायिकदेवतापरिगृहीतैरर्धचन्द्रकैश्च समलंकृत्य तथागताय निर्यातयन्ति स्म। निर्यात्य च संमुखमाभिर्गाथाभिरभ्यस्ताविषुः—



अस्माकु वासं गगने ध्रुवं मुने

पश्याम सत्त्वा चरिया यथा जगे।

भवतश्चरिं प्रेक्षिय शुद्धसत्त्व

स्खलितं न पश्याम तवैकचित्ते॥५६॥



ये आगता पूजन बोधिसत्त्वा

गगनं स्फुटं तैर्नरनायकेभिः।

हानिर्विमानान न चाभवन्त

तथा हि ते वै गगनात्मभावाः॥५७॥



ये अन्तरीक्षातु प्रवर्षि पुष्पां

स्याच्चूडबन्धा हि महासहस्रा।

ते तुभ्य काये पतिता अशेषा

नद्यो यथा सागरि संप्रविष्टाः॥५८॥



पश्याम छत्राण्यवतंसका च

मालागुणां चम्पकपुष्पदामां।

हारांश्च चन्द्रांश्च तथार्धचन्द्रां

क्षिपन्ति देवा न च संस्करोति॥५९॥



वालस्य नाभूदवकाशमस्मिन्

देवैः स्फुटं सर्वत अन्तरीक्षम्।

कुर्वन्ति पूजां द्विपदोत्तमस्य

न च ते मदो जायति विस्मयो वा॥६०॥



एवं खल्वन्तरीक्षदेवा बोधिमण्डे निषण्णं तथागतमभिष्टुत्यैकान्तेऽवतस्थिवन्तः प्राञ्जलयस्तथागतं नमस्यन्तः॥



अथ खलु भौमा देवास्तथागतस्य पूजाकर्मणे सर्वावन्तं धरणीतलं सुशोधितोपलिप्तं गन्धोदकपरिषिक्तं पुष्पावकीर्णं च कृत्वा नानादूष्यवितानविततं च तथागताय निर्यातयन्ति स्म। आभिर्गाथाभिरभितुष्टुवुः—



वज्रमिव अभेद्या संस्थिता त्रिःसहस्रा

वज्रमयपदेनायं स्थितो बोधिमण्डे।

इह मम त्वचमांसं शुष्यतामस्थिमज्जा

न च अहु अस्पृशित्वा बोधि उत्थेष्य अस्मात्॥६१॥



सविभव नरसिंहा सर्वियं त्रिःसहस्रा

न करिषु अधिस्थानं स्याद्विदीर्णशेषा।

तादृश महवेगा आगता बोधिसत्त्वा

येष क्रमतलेभिः कम्पिता क्षेत्रकोट्यः॥६२॥



लाभ इह सुलब्धा भूमिदेवैरुदारा

यत्र परमसत्त्वश्चंक्रमी मेदिनीये।

यत्र कु रजु लोके सर्व ओभासितास्ते

चेतिभु त्रिसहस्रः किं पुनस्तुभ्य कायः॥६३॥



हेस्ति शतसहस्रं यावतश्चापस्कन्धो

धरणितलु जगस्या यावतश्चोपजीव्यः।

सर्व वयु धरेमो मेदिनी त्रिःसहस्रां

सर्व तव ददामो भुङ्‍क्ष्विमां त्वं यथेष्टम्॥६४॥



यत्र भव स्थिहेद्वा चंक्रमेद्वा शयेद्वा

येऽपि सुगतपुत्राः श्रावका गौतमस्य।

धर्मकथ कथेन्ती येऽपि वा तां शृणोन्ति

सर्वकुशलमूलं बोधिये नामयामः॥६५॥



एवं खलु भौमा देवा बोधिमण्डनिषण्णं तथागतमभिष्टत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः॥



॥ इति श्रीललितविस्तरे संस्तवपरिवर्तो नाम त्रयोविंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project