Digital Sanskrit Buddhist Canon

१६ बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः

Technical Details
१६ बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः।



एवं खलु भिक्षवश्छन्दको बोधिसत्त्वाधिस्थानेन राज्ञः शुद्धोदनस्य गोपायाः शाक्यकन्यायाश्च सर्वस्य चान्तःपुरस्य सर्वस्य च शाक्यगणस्य शोकविनोदकथामकार्षीत्॥



इति हि भिक्षवो बोधिसत्त्वो लुब्धकरूपाय देवपुत्राय काशिकानि वस्त्राणि दत्त्वा तस्य सकाशात्काषायानि वस्त्राणि गृहीत्वा स्वयमेव प्रवज्यां लोकानुवर्तनामुपादाय सत्त्वानुकम्पायै सत्त्वपरिपाचनार्थम्॥



अथ बोधिसत्त्वो येनैव शाक्या ब्राह्मण्या आश्रमस्तेनोपसंक्रामत्। सा बोधिसत्त्वं वासेन भक्तेन चोपनिमन्त्रयते स्म। ततो बोधिसत्त्वः पद्माया ब्राह्मण्या आश्रमं गच्छति स्म। तयापि बोधिसत्त्वो वासेन भक्तेन चोपनिमन्त्रितोऽभूत्॥



ततो रैवतस्य ब्रह्मर्षेराश्रममगमत्। असावपि बोधिसत्त्वं तथैवोपनिमन्त्रयते स्म। तथैव राजकोऽपि दतृमदण्डिकपुत्रो बोधिसत्त्वमुपनिमन्त्रयते स्म॥



इति हि भिक्षवो बोधिसत्त्वोऽनुपूर्वेण वैशालीं महानगरीमनुप्राप्तोऽभुत्॥



तेन खलु पुनः समयेनाराडः कालापो वैशालीमुपनिसृत्य प्रतिवसति स्म महता श्रावकसंघेन सार्धं त्रिभिः शिष्यशतैः। स शिष्येभ्य आकिंचन्यायतनसहव्रतायै धर्मं देशयति स्म। स बोधिसत्त्वं दूरत एवागच्छन्तं दृष्ट्वा आश्चर्यप्राप्तः शिष्यानामन्त्रयते स्म-पश्यत पश्यत भो रूपमस्येति। तेऽब्रुवन्-एवं ह्येतत्पश्यामः। एनमतिविस्मयनीयम्॥



ततोऽहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्याराड कालापमेतदवोचत्-चरेयमहं भो आराडे कालापे ब्रह्मचर्यम्। सोऽवोचत्-चर भो गौतम तथारूपेण धर्माख्याने यस्मिन् श्राद्धः कुलपुत्रोऽल्पकृच्छ्रेणाज्ञामाराधयति॥



तस्य मे भिक्षव एतदभूत्-अस्ति मे छन्दोऽस्ति वीर्यमस्ति स्मृतिरस्ति समाधिरस्ति प्रज्ञा, यन्न्वहमेकोऽप्रमत्त आतापी व्यपकृष्टो विहरेयं तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै॥



अथ खल्वहं भिक्षवो एकोऽप्रमत्त आतापी व्यपकृष्टो विहरन्नल्पकृच्छ्रेणैवं तं धर्ममध्यवगच्छन् साक्षादकार्षम्॥



अथ खल्वहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्यैतदवोचत्-एतावद्भो त्वया आराड धर्मोऽधिगतः साक्षात्कृतः? सोऽवोचत्-एवमेतद्भो गौतम। तमहमवोचत्-मयापि भो एष धर्मः साक्षात्कृतोऽधिगतः। सोऽवोचत्-तेन हि भो गौतम यदहं धर्म जानामि, भवानपि तं जानाति, यं भवान् जानाति, अहमपि तं जानामि। तेन ह्यावामुभावपीमं शिष्यगणं परिहरावः॥



इति हि भिक्षव आराडः कालापः परमया पूजया मां पूजयति स्म। अन्तेवासिषु च मां समानार्थतया स्थापयति स्म॥



तस्य मे भिक्षव एतदभूत्-अयं खल्वाराडस्य धर्मो न नैर्याणिको न निर्याति, तत्कतरस्य सम्यग्दुःखक्षयाय? यन्न्वहमत उत्तरि पर्येषमाणश्चरेयम्॥



अथ खल्वहं भिक्षवो यथाभिरामं वैशाल्यां विहृत्य मगधेषु च प्रक्रान्तोऽभूत्। सोऽहं मगधेषु चर्यां चरन् येन मागधकानां राजगृहं नगरं तदनुसृतो येन च पाण्डवः पर्वतराजस्तेनोपसंक्रान्तोऽभूवम्। तत्राहं पाण्डवे पर्वतराजपार्श्वे व्याहार्षमेकाक्यद्वितीयोऽसहायोऽनेकैर्देवकोटिनयुतशतसहस्रैः संरक्षितः॥



ततोऽहं कल्यमेव संनिवास्य पात्रचीवरमादाय तपोदद्वारेण राजगृहं महानगरं पिण्डाय प्राविक्षत् प्रासादिकेनाभिक्रान्तेन प्रतिक्रान्तेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन प्रासादिकेन संघाटीपटपात्रचीवरधारणेनाविक्षिप्तैरिन्द्रियैरबहिर्गतेन मानसेन निर्मितवत्तैलपात्रधरवद्युगमात्रं पश्यन्। तत्र मां राजगृहका मनुष्या दृष्ट्वा विस्मिता अभूवन्-किं स्विदयं ब्रह्मा भविष्यति शक्रो देवानामिन्द्र आहोस्विद्वैश्रवणो आहोस्वित्किंचिद्गिरिदैवतम्॥



तत्रेदमुच्यते—



अथ विमलधरो ह्यनन्ततेजो

स्वयमिह प्रव्रजियान बोधिसत्त्वः।

शान्तमनु दान्त ईर्यवन्तो

विहरति पाण्डवशैलराजपार्श्वे॥१॥



रजनि विगतु ज्ञात्व बोधिसत्त्वः

परमसुदर्शनियं निवासयित्वा।

पात्र प्रतिगृहीय नीचमानो

प्रविशति राजगृहं सपिण्डपात्रम्॥२॥



कनकमिव सुधातुजातरूपं

कवचितु लक्षणत्रिंशता द्विभिश्च।

नरगण तथ नारि प्रेक्षमाणो

न च भवते क्वचि तृप्ति दर्शनेन॥३॥



वीथि रचित रत्नवस्त्रधार्यै

अवशिरिया जनु याति पृष्ठतोऽस्य।

को नु अयु अदृष्टपूर्वसत्त्वो

यस्य प्रभाय पुरं विभाति सर्वम्॥४॥



उपरि स्थिहिय नारिणां सहस्रा

तथरिव द्वारि तथैव वातयाने।

रथ्य भरित गेहि शून्य कृत्वा

नरवरु प्रेक्षिषु ते अनन्यकर्माः॥५॥



न च भुयु क्रयविक्रयं करोन्ती

न च पुन सौण्ड पिबन्ति मद्यपानम्।

न च गृहि न च वीथिये रमन्ते

पुरुषवरस्य निरीक्षमाण रूपम्॥६॥



पुरुष त्वरितु गच्छि राजगेहं

अवचिषु राज स बिम्बिसार तुष्टो।

देव परम तुभ्य लब्ध लाभा

स्वयमिह ब्रह्म पुरे चराति पिण्डम्॥७॥



केचि अवचि शक्र देवराजो

अपरि भणन्ति सुयाम देवपुत्रः।

तथ अपि संतुषितं व निर्मितश्च

अपरि भणन्ति सुनिर्मितेषु देवः॥८॥



केचि पुन भणन्ति चन्द्रसूर्यौ

तथपि च राहु बलिश्च वेमचित्री।

केचि पुन भणन्ति वाचमेवं

अयु सो पाण्डवशैलराजवासी॥९॥



वचनमिमु श्रुणित्व पार्थिवोऽसौ

परम‍उदग्रमना स्थितो गवाक्षे।

प्रेक्षति वरसत्त्व बोधिसत्त्वं

ज्वलतु शिरीय सुधातुकाञ्चनं वा॥१०॥



पिण्ड ददिय राज बिम्बिसारः

पुरुषमवोचन्निरीक्ष क्व प्रयाती।

दृष्ट्व गिरिवरं स गच्छमानो

अवचिषु देव गतः स शैलपार्श्वम्॥११॥



रजनि विगतु ज्ञात्व बिम्बिसारो

महत जनैः परिवारितो नरेन्द्रः।

उपगमि पाण्डवशैलराजमूले

शिरिय ज्वलन्तु तमदृशाति शैलम्॥१२॥



धरणि व्रजितु यानि ओरुहित्वा

परमसुगौरव प्रेक्षि बोधिसत्त्वम्।

मेरुरिव यथा ह्यकम्पमानो

न्यसिय तृणानि निषण्ण सोस्तिकेन॥१३॥



शिरसि चरणि वन्दयित्व राजा

विविधकथां समुदाहरित्व वोचत्।

ददमि तव उपार्धु सर्वराज्याद्

रम इह कामगुणैरहं च पिण्डम्॥१४॥



प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं

धरणिपते चिरमायु पालयस्व।

अहमपि प्रविजह्य राज्यमिष्टं

प्रव्रजितो निरपेक्षि शान्तिहेतोः॥१५॥



दहरु तरुणयौवनैरुपेतः

शुभतनुवर्णनिभोऽसि वेगप्राप्तः।

विपुल धन प्रतीच्छ नारिसंघं

इह मम राज्यि वसाहि भुङ्क्ष्व कामां॥१६॥



परमप्रमुदितोऽस्मि दशनात्ते

अवचिषु स मागधराज बोधिसत्त्वम्।

भवहि मम सहायु सर्वराज्यं

अहु तव दास्यि प्रभूत भुङ्क्ष्व कामां॥१७॥



मा च पुन वने वसाहि शून्ये

म भुयु तृणेषु वसाहि भूमिवासम्।

परमसुकुमारु तुभ्य कायो

इह मम राज्यि वसाहि भुङ्क्ष्व कामां॥१८॥



प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं

अकुटिल प्रेमणिया हितानुकम्पी।

स्वस्ति धरणिपाल तेऽस्तु नित्यं

न च अहु कामगुणेभिरर्थिकोऽस्मि॥१९॥



काम विषसमा अनन्तदोषा

नरकप्रपातन प्रेततिर्यग्योनौ।

विदुभि विगर्हित चाप्यनार्य कामा

जहित मया यथा पक्वखेटपिण्डम्॥२०॥



काम द्रुमफला यथा पतन्ती

यथमिव अभ्रबलाहका व्रजन्ति।

अध्रुव चपलगामि मारुतं वा

विकिरण सर्वशुभस्य वञ्चनीया॥२१॥



काम अलभमान दह्ययन्ते

तथ अपि लब्ध न तृप्ति विन्दयन्ती।

यद पुन अवशस्य भक्षयन्ते

तद महदुःख जनेन्ति घोर कामाः॥२२॥



काम धरणिपाल ये च दिव्या

तथ अपि मानुष काम ये प्रणीता।

एकु नरु लभेत सर्वकामां

न च सो तृप्ति लभेत भूयु एषन्॥२३॥



ये तु धरणिपाल शान्तदान्ता

आर्य अनाश्रव धर्मपूर्णसंज्ञा।

प्रज्ञविदुष तृप्त ते सुतृप्ता

न च पुन कामगुणेषु काचि तृप्तिः॥२४॥



काम धरणिपाल सेवमाना

पुरिम न विद्यति कोटि संस्कृतस्य।

लवणजल यथा हि नारू पीत्वा

भुयु तृष वर्धति काम सेवमाने॥२५॥



अपि च धरणिपाल पश्य कायं

अध्रुवमसारकु दुःखयन्त्रमेतत्।

नवभि व्रणमुखैः सदा स्रवन्तं

न मम नराधिप कामछन्दरागः॥२६॥



अहमपि विपुलां विजह्य कामां

तथपि च इस्त्रिसहस्र दर्शनीयां।

अनभिरतु भवेषु निर्गतोऽहं

परमशिवां वरबोधि प्राप्तुकामः॥२७॥



राजा आह—



कतम दिशि कुतो गतोऽसि भिक्षो

क्व च तव जन्म क्व ते पिता क्व माता।

क्षत्रिय अथ ब्राह्मणोऽथ राजा

परिकथ भिक्षु यदी न भारसंज्ञा॥२८॥



बोधिसत्त्व आह—



श्रतु ति धरणिपाल शाकियानां

कपिलपुरं परमं सुऋद्धिस्फीतम्।

पितु मम शुद्धोदनेति नाम्ना

तनु अहु प्रव्रजितो गुणाभिलाषी॥२९॥



राजा आह—



साधु तव सुदृष्टदर्शनं ते

यनु तव जन्म वयं पि तस्य शिष्याः।

अपि च मम क्षमस्व आशयेना

यमपि निमन्त्रितु कामवीतरागो॥३०॥



यदि त्वय अनुप्राप्तु भोति बोधिः

तद मम सेति भोति धर्मस्वामिम्।

अपि च मम पुरा सुलब्ध लाभा

मम विजिते वससीह यत्स्वयंभो॥३१॥



पुनरपि चरणानि वन्दयित्वा

कृत्व प्रदक्षिणु गौरवेण राजा।

स्वकजनपरिवारितो नरेन्द्रः

पुनरपि राजगृहं अनुप्रविष्टः॥३२॥



मगधपुरि प्रवेशि लोकनाथो

विहरिय शान्तमना यथाभिप्रायम्।

अर्थु करिय देवमानुषाणां

उपगमि तीरु निरञ्जना नरेन्द्रः॥३३॥



॥ इति श्रीललितविस्तरे बिम्बिसारोपसंक्रमणपरिवर्तो नाम षोडशमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project