Digital Sanskrit Buddhist Canon

१ निदानपरिवर्तः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1 nidānaparivartaḥ prathamaḥ
नमः सर्वबुद्धबोधिसत्त्वेभ्यः।



ललितविस्तरः।



॥ ॐ नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः॥



१ निदानपरिवर्तः प्रथमः।



एवं मया श्रुतम्। एकस्मिन्समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुसहस्रैः। तद्यथा-आयुष्मता च ज्ञानकौण्डिन्येन। आयुष्मता चाश्वजिता। आयुष्मता च बाष्पेण। आयुष्मता च महानाम्ना। आयुष्मता च भद्रिकेण। आयुष्मता च यशोदेवेन। आयुष्मता च विमलेन। आयुष्मता च सुबाहुना। आयुष्मता च पूर्णेन। आयुष्मता च गवांपतिना। आयुष्मता चोरुबिल्वाकाश्यपेन। आयुष्मता च नदीकाश्यपेन। आयुष्मता च गयाकाश्यपेन। आयुष्मता च शारिपुत्रेण। आयुष्मता च महामौद्गल्यायनेन। आयुष्मता च महाकाश्यपेन। आयुष्मता च महाकात्यायनेन। आयुष्मता च कफिलेन। आयुष्मता च कौण्डिन्येन। आयुष्मता च चुनन्देन। आयुष्मता च पूर्णमैत्रायणीपुत्रेण। आयुष्मता चानिरुद्धेन। आयुष्मता च नन्दिकेन। आयुष्मता च कस्फिलेन। आयुष्मता च सुभूतिना। आयुष्मता च रेवतेन। आयुष्मता च खदिरवनिकेन। आयुष्मता चामोघराजेन। आयुष्मता च महापारणिकेन। आयुष्मता च बक्कुलेन। आयुष्मता च नन्देन। आयुष्मता च राहुलेन। आयुष्मता च स्वागतेन। आयुष्मता चानन्देन। एवंप्रमुखैर्द्वादशभिर्भिक्षुसहस्रैः सार्धं द्वात्रिंशता च बोधिसत्त्वसहस्रैः सर्वैरेकजातिप्रतिबद्धैः सर्वबोधिसत्त्वपारमितानिर्जातैः सर्वबोधिसत्त्वाभिज्ञताविक्रीडितैः सर्वबोधिसत्त्वधारणीप्रतिभानप्रतिलब्धैः सर्वबोधिसत्त्वधारणीप्रतिलब्धैः सर्वबोधिसत्त्वप्रणिधानसुपरिपूर्णैः सर्वबोधिसत्त्वप्रतिसम्यग्गतिंगतैः सर्वबोधिसत्त्वसमाधिवशिताप्राप्तैः सर्वबोधिसत्त्ववशिताप्रतिलब्धैः सर्वबोधिसत्त्वक्षान्त्यवकीर्णैः सर्वबोधिसत्त्वभूमिपरिपूर्णैः। तद्यथा- मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन। धरणीश्वरराजेन च बोधिसत्त्वेन महासत्त्वेन। सिंहकेतुना च बोधिसत्त्वेन महासत्त्वेन। सिद्धार्थमतिना च बोधिसत्त्वेन महासत्त्वेन। प्रशान्तचारित्रमतिना च बोधिसत्त्वेन महासत्त्वेन। प्रतिसंवित्प्राप्तेन च बोधिसत्त्वेन महासत्त्वेन। नित्योद्युक्तेन च बोधिसत्त्वेन महासत्त्वेन। महाकरुणाचन्द्रिणा च बोधिसत्त्वेन महासत्त्वेन। एवंप्रमुखैर्द्वात्रिंशता च बोधिसत्त्वसहस्रैः॥



तेन खलु पुनः समयेन भगवान् श्रावस्तीं महानगरीमुपनिश्रित्य विहरति स्म सत्कृतो गुरुकृतो मानितः पूजितश्च तिसृणां परिषदां राज्ञां राजकुमाराणां राजमन्त्रिणां राजमहामात्राणां राजपादमूलिकानां क्षत्रियब्राह्मणगृहपत्यमात्यपार्षद्यानां पौरजानपदानामन्यतीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानाम्। लाभी च भगवान् प्रभूतानां खादनीयं भोजनीयमास्वादनीयाकल्पिकानां चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। लाभाग्र्ययशोग्र्यप्राप्तश्च भगवान् सर्वत्र चानुपलिप्तः पद्म इव जलेन। उदारश्च भगवतः कीर्तिशब्दश्लोको लोकेऽभ्युद्गतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकवित् परः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् पञ्चचक्षुःसमन्वागतः। स इमं च लोकं परं च लोकं सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीन् प्रजान् सदेवमानुषान् स्वयं विज्ञाय साक्षात्कृत्य उपसंपद्य विहरति स्म। सद्धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं व्रह्मचर्यं संप्रकाशयति स्म॥



तेन खलु पुनः समयेन भगवान् रात्र्यां मध्यमे यामे बुद्धालंकारव्यूहं नाम समाधिं समापन्नोऽभूत्। समनन्तरसमापन्नस्य च भगवत इमं बुद्धालंकारव्यूहं नाम समाधिमथ तत्क्षणमेव भगवत उपरिष्टान्मूर्ध्नः संधावुष्णीषविवरान्तरात् पूर्वबुद्धानुस्मृत्यसङ्गाज्ञानालोकालंकारं नाम रश्मिश्चचार। सा सर्वा शुद्धावासान् देवभवनान्यवभास्य महेश्वरदेवपुत्रप्रमुखानप्रमेयान् देवपुत्रान् संचोदयामास। ततश्च तथागतरश्मिजालान्निश्चार्य इमाः संचोदनागाथा निश्चरन्ति स्म—



ज्ञानप्रभं हततमसं प्रभाकरं

शुभ्रप्रभं शुभविमलाग्रतेजसम्।

प्रशान्तकायं शुभशान्तमानसं

मुनिं समाश्लिष्यत शाक्यसिंहम्॥१॥



ज्ञानोदधिं शुद्धमहानुभावं

धर्मेश्वरं सर्वविदं मुनीशम्।

देवातिदेवं नरदेवपूज्यं

धर्मे स्वयंभुं वशिनं श्रयध्वम्॥२॥



यो दुर्दमं चित्तमवर्तयद्वशे

यो मारपाशैरवमुक्तमानसः।

यस्याप्यवन्ध्याविह दर्शनश्रवा-

स्त्ययान्ततः शान्तविमोक्षपारगः॥३॥



आलोक्यभूतं तमतुल्यधर्मं

तमोनुदं सन्नयवेदितारम्।

शान्तक्रियं बुद्धममेयबुद्धिं

भक्त्या समस्ता उपसंक्रमध्वम्॥४॥



स वैद्यराजोऽमृतभेषजप्रदः

स वादिशूरः कुगणिप्रतापकः।

स धर्मबन्धुः परमार्थकोविदः

स नायकोऽनुत्तरमार्गदेशकः॥५॥

इति॥



समनन्तरस्पृष्टाश्च खलु पुनस्ते शुद्धावासकायिका देवपुत्राः तस्या बुद्धानुस्मृत्यसङ्गाज्ञानालोकाया रश्म्या आभिश्चैवंरूपाभिर्गाथाभिः संचोदिताः समन्ततः प्रशान्ताः समाधेर्व्युत्थाय तान् बुद्धानुभावेनाप्रमेयासंख्येयागणनासमतिक्रान्तकल्पातिक्रान्तान् बुद्धान् भगवन्तोऽनुस्मरन्ति स्म। तेषां च बुद्धानां भगवतां यानि बुद्धक्षेत्रगुणव्यूहात्पर्षन्मण्डलानि याश्च धर्मदेशनास्ता आसन्, तान् सर्वाननुस्मरन्ति स्म॥



अथ खलु तस्यां रात्रौ प्रशान्तायामीश्वरश्च नाम शुद्धावासकायिको देवपुत्रो महेश्वरो नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च प्रशान्तविनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्रा अतिक्रान्तातिक्रान्तैर्वर्णैः सर्वावन्तं जेतवनं दिव्येनावभासेनावभास्य येन भगवांस्तेनोपसंक्रामन्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः। एकान्ते स्थिताश्च ते शुद्धावासकायिका देवपुत्रा भगवन्तमेतदवोचन्-अस्ति भगवन् ललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यनिचयो बोधिसत्त्वकुशलमूलसमुद्भावनः तुषितवरभवनविकिरणसंचिन्त्यावक्रमणविक्रीडनगर्भस्थानविशेषसंदर्शनोऽभिजातजन्मभूमिप्रभावसंदर्शनः सर्वबालचर्यागुणविशेषसमतिक्रमसर्वलौकिकशिल्पस्थानकर्मस्थानलिपिसंख्यामुद्रागणनासिधनुकलापयुद्धसालम्भसर्वसत्त्वप्रति-विशिष्टसंदर्शनान्तःपुरविषयोपभोगसंदर्शनः सर्वबोधिसत्त्वचरिनिष्पन्दनिष्पत्तिफलाधिगमपरिकीर्तनो बोधिसत्त्वविक्रीडितः सर्वमारमण्डलविध्वंसनः तथागतबलवैशारद्याष्टादशावेणिकसमुच्चयोऽप्रमाणबुद्धधर्मनिर्देशः पूर्वकैरपि तथागतैर्भाषितपूर्वः। तद्यथा-भगवता पद्मोत्तरेण च धर्मकेतुना च दीपंकरेण च गुणकेतुना च महाकरेण च ऋषिदेवेन च श्रीतेजसा च सत्यकेतुना च वज्रसंहतेन च सर्वाभिभुवा च हेमवर्णेन च अत्युच्चगामिना च प्रवाहसागरेण च पुष्पकेतुना च वररूपेण च सुलोचनेन च ऋषिगुप्तेन च जिनवक्त्रेण च उन्नतेन च पुष्पितेन च ऊर्णतेजसा च पुष्करेण च सुरश्मिना च मङ्गलेन च सुदर्शनेन च महासिंहतेजसा च स्थितबुद्धिदत्तेन च वसन्तगन्धिना च सत्यधर्मविपुलकीर्तिना च तिष्येण च पुष्येण च लोकसुन्दरेण च विस्तीर्णभेदेन च रत्नकीर्तिना च उग्रतेजसा च ब्रह्मतेजसा च सुघोषेण च सुपुष्षेण च सुमनोज्ञघोषेण च सुचेष्टरूपेण च प्रहसितनेत्रेण च गुणराशिना च मेघस्वरेण च सुन्दरवर्णेन च आयुस्तेजसा च सलीलगजगामिना च लोकाभिलाषितेन च जितशत्रुणा च संपूजितेन च विपश्यिना च शिखिना च विश्वभुवा च ककुच्छन्देन च कनकमुनिना च काश्यपेन च तथागतेनार्हता सम्यक्संबुद्धेन भाषितपूर्वः, तं भगवानप्येतर्हि संप्रकाशयेत् बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च। अस्य च महायानोद्भावनार्थं सर्वपरप्रवादिनां च निग्रहार्थं सर्वबोधिसत्त्वानां चोद्भावनार्थं सर्वमाराणां चाभिभवनार्थं सर्वबोधिसत्त्वयानिकानां च पुद्गलानां वीर्यारम्भसंजननार्थं सद्धर्मस्य चानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपच्छेदनार्थं बुद्धकार्यस्य च परिसंदर्शनार्थमिति। अधिवासयति स्म भगवांस्तेषां देवपुत्राणां तूष्णीभावेन सदेवकस्य लोकस्यानुकम्पामुपादाय॥



अथ खलु देवपुत्रा भगवतस्तूष्णीभावेनाधिवासनां विदित्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैर्मान्दारपुष्पैश्चाभ्यवकीर्य तत्रैवान्तर्दधुः॥



अथ खलु भगवांस्तस्यामेव रात्र्यामत्ययेन च करीरो मण्डलमात्रव्यूहस्तेनोपसंक्रामत्। उपसंक्रम्य भगवान् प्रज्ञप्त एवासने न्यषीदद्बोधिसत्त्वगणपुरस्कृतः श्रावकसंघपुरस्कृतः। निषद्य भगवान् भिक्षूनामन्त्रयति स्म-इति हि भिक्षवो रात्रौ प्रशान्तायामीश्वरो नाम शुद्धावासकायिको देवपुत्रो महेश्वरश्च नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च विनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्राः पुर्ववद्यावत्तत्रैवान्तर्दधुः। अथ खलु ते बोधिसत्त्वास्ते च महाश्रावका येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन्-तत्साधु भगवन्, तं ललितविस्तरं नाम धर्मपर्यायं देशयतु। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च एतर्हि चागतानां च बोधिसत्त्वानां महासत्त्वानाम्। अधिवासयति स्म भगवांस्तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुकम्पामुपादाय। तत्रेदमुच्यते—



रात्र्यामिहास्यां मम भिक्षवोऽद्य

सुखोपविष्टस्य निरङ्गणस्य।

प्रविष्टमानस्य शुभैर्विहारै-

रेकाग्रचित्तस्य समाहितस्य॥६॥



अथागमन् देवसुता महर्द्धयः

प्रतीतवर्ण विमलश्रियोज्ज्वलाः।

श्रियावभास्येह च जेतसाह्वयं

वनं मुदा मेऽन्तिकमभ्युपागताः॥७॥



महेश्वरश्चन्दन ईश नन्दो

प्रशान्तचित्तो महितः सुनन्दनः।

शान्ताह्वयश्चाप्युत देवपुत्र-

स्तास्ताश्च बह्व्योऽथ च देवकोट्यः॥ ८॥



प्रणम्य पादौ प्रतिदक्षिणं च

कृत्वैव मां तस्थुरिहाग्रतो मे।

प्रगृह्य चैवाञ्जलिमङ्गुलीभिः

सगौरवा मामिह ते ययाचुः॥९॥



इदं मुने रागनिसूदनाढ्य

वैपुल्यसूत्रं हि महानिदानम्।

यद्भाषितं सर्वतथागतैः प्राग्

लोकस्य सर्वस्य हितार्थमेतत्॥१०॥



तत्साध्विदानीमपि भाषतो मुनिः

स बोधिसत्त्वौघपरिग्रहेच्छया।

परं महायानमिदं प्रभाषयन्

परप्रवादान्नमुचिं च धर्षयन्॥११॥



अद्येषणां देवगणस्य तूष्णी-

मगृह्णदेवानधिवासनं च।

सर्वे च तुष्टा मुदिता उदग्राः

पुष्पाणि चिक्षेपुरवाप्तहर्षम्॥१२॥



तद्भिक्षवो मे शृणुतेह सर्वे

वैपुल्यसूत्रं हि महानिदानम्।

यद्भाषितं सर्वतथागतैः प्राग्

लोकस्य सर्वस्य हितार्थमेवम्॥१३॥इति॥



इति श्रीललितविस्तरे निदानपरिवर्तो नाम प्रथमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project