Digital Sanskrit Buddhist Canon

नैरात्म्यपरिपृच्छा नाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nairātmyaparipṛcchā nāma mahāyānasūtram
नैरात्म्यपरिपृच्छा नाम महायानसूत्रम्।



अथ ते तीर्थिका उपलम्भदृष्टयः सविकल्पाः सवितर्का महायानिकमुपसृत्य सादरकृताञ्जलिपुटा नैरात्म्यप्रश्नं परिपृच्छन्ति स्म-नैरात्मकं शरीरमिति कुलपुत्र सर्वज्ञेन निर्दिश्यते। यदि शरीरं नैरात्मकम्, परमात्मा न विद्यते। तत् कस्मात्सकाशादेते हसितरुदितक्रीडितक्रोधमानेर्ष्यांपैशुन्यादयः समुत्पद्यन्ते ? तदस्माकं संदेहं मोचयितुमर्हति भगवान्-किमस्ति शरीरे परमात्मा, किं वा नास्ति ?

महायानिकाः प्राहुः-मार्षाः, शरीरे परमात्मा अस्तीत्युच्यते, न हि नास्तीति। द्वयमत्र नोच्यते। अस्ति परमात्मेत्युच्यमाने मार्षा मिथ्याप्रलापः। यद्यस्ति, तत्कथं मार्षाः केशनखदन्तचर्मरोमसिरामांसास्थिमेदमज्जास्नायुप्लीहान्त्रनालशिरःकरचरणाङ्गसकलशरीरे स बाह्याभ्यन्तरे विचार्यमाणे न दृश्यते परमात्मा ?

तीर्थिकाः प्राहुः-न दृश्यते कुलपुत्र परमात्मा। मांसचक्षुषा वयं न पश्यामः। कदाचिद्दिव्यचक्षुषः पश्यन्ति।

महायानिकाः प्राहुः-न मार्षा दिव्यचक्षुषोऽपि पश्यन्ति। यस्य न वर्णो न रूपं न संस्कारः, तत्कथं दृश्यते ?

तीर्थिकाः प्राहुः-किं नास्ति ? महायानिकाः प्राहुः-नास्तीत्युच्यमाने मार्षा मिथ्याप्रलापः। यदि नास्ति, तत्कथमस्य एते हसितरुदितक्रीडितक्रोधमानेर्ष्यापैशुन्यादयः संभवन्ति ? तेन नास्तीति वक्तुं न पार्यते। उभावेतौ द्वौ नोच्येते।

तीर्थिकाः प्राहुः-यदि कुलपुत्र नोच्यते अस्तीति वा नास्तीति वा, तत्किमत्रालम्बनं भवतु ?

महायानिकाः प्राहुः-न मार्षाः किंचिदालम्बनं भवति।

तीर्थिकाः प्राहुः- किं शून्यमाकाशमिव ?

महायानिकाः प्राहुः-एवमेतन्मार्षाः, एवमेतत्। शून्यमाकाशमिव।

तीर्थिकाः प्राहुः-यद्येवं कुलपुत्र, तदेते हसितरुदितक्रीडितक्रोधमानेर्ष्यापैशुन्यादयः कथं द्रष्टव्याः ?

महायानिकाः प्राहुः-स्वप्नमायेन्द्रजालसदृशा द्रष्टव्याः।

तीर्थिकाः प्राहुः-कीदृशी मय, कीदृशः स्वप्नः, किदृश इन्द्रजाल इति ?

महायानिकाः प्राहुः-उपलक्षणमात्रं मया अग्राहा, प्रतिभासमात्रं स्वप्नः प्रकृतिशून्यतास्वरूपः, इन्द्रजालः कृत्रिमप्रयोगः। एवं मार्षाः सर्वे स्वप्नमायेन्द्रजालसदृशा द्रष्टव्याः। पुनरपरं द्वौ भेदौ विनिर्दिष्टौ यदुत संवृतिः परमार्थश्च। तत्र संवृतिर्नाम अयमात्मा, अयं परः। एवं जीवः पुरुषः पुद्गलः कारकः वेदकः। धनपुत्रकलत्रादिकल्पना या, सा संवृतिर्नाम। यत्र नात्मा न परः, एवं न जीवो न पुद्गलः न पुरुषः न कारकः न वेदकः न धनं ----- सा मध्यमा प्रतिपत्तिर्धर्माणाम्। तत्रेदमुच्यते -

संवृतिः परमार्थश्च द्वौ भेदौ संप्रकाशितौ।

संवृतिर्लौकिको धर्मः परमार्थश्च लोकोत्तरः॥ १॥

संवृतिधर्ममापन्नाः सत्त्वाः क्लेशवशानुगाः।

चिरं भ्रमन्ति संसारे परमार्थमजानकाः॥ २॥

संवृतिर्लौकिको धर्मस्तं कल्पयन्त्यपण्डिताः।

अभूतपरिकल्पनाद्दुःखान्यनुभवन्ति ते॥ ३॥

मुक्तिमार्गं न पश्यन्ति अन्धा बालाः पृथग्जनाः।

उत्पद्यन्ते निरुध्यन्ते अजस्रं गतिपञ्चसु॥ ४॥

भ्रमन्ति चक्रवन्मूढा लोकधर्मसमावृताः।

परमार्थं न जानन्ति भवो यत्र निरुध्यते।

वेष्टिता भवजालेन संसरन्ति पुनः पुनः॥ ५॥

यथा चन्द्रश्च सूर्यश्च प्रत्यागच्छति गच्छति।

भवं च्युतिं तथा लोके पुनरायान्ति यान्ति च॥ ६॥

अनित्याः सर्वसंस्कारा अध्रुवाः क्षणभङ्गुराः।

अतश्च परमार्थज्ञो वर्जयेत्संवृतेः पदम्॥ ७॥

स्वर्गस्थाने तु ये देवा गन्धर्वाप्सरसादयः।

च्युतिरस्ति च सर्वेषां तत्सर्वं संवृतेः फलम्॥ ८॥

सिद्धा विद्याधरा यक्षाः किन्नराश्च महोरगाः।

पुनस्ते नरकं यान्ति तत्सर्वं संवृतेः फलम्॥ ९॥

शक्रत्वं चक्रवर्तित्वं संप्राप्य चोत्तमं पदम्।

तिर्यग्योनौ पुनर्जन्म तत्सर्वं संवृतेः फलम्॥ १०॥

अतः सर्वमिदं त्यक्त्वा दिव्यं स्वर्गमहासुखम्।

भावयेत्सततं प्राज्ञो बोधिचित्तं प्रभास्वरम्॥ ११॥

निःस्वभावं निरालम्बं सर्वशून्यं निरालयम्।

प्रपञ्चसमतिक्रान्तं बोधिचित्तस्य लक्षणम्॥ १२॥

न काठिन्यं न च मृदुत्वं न चोष्णं नैव शीतलम्।

न संस्पर्शं न च ग्राह्यं बोधिचित्तस्य लक्षणम्॥ १३॥

न दीर्घं नापि वा ह्रस्वं न पिण्डं न त्रिकोणकम्।

न कृशं नापि न स्थूलं बोधिचित्तस्य लक्षणम्॥ १४॥

न श्वेत नापि रक्तं च न कृष्णं न च पीतकम्।

अवर्णं च निराकारं बोधिचित्तस्य लक्षणम्॥ १५॥

निर्विकारं निराभासं निरूहं निर्विबन्धकम्।

अरूपं व्योमसंकाशं बोधिचित्तस्य लक्षणम्॥ १६॥

भावनासमतिक्रान्तं तीर्थिकानामगोचरम्।

प्रज्ञापारमितारूपं बोधिचित्तस्य लक्षणम्॥ १७॥

अनौपम्यमनाभासं अदृशं शान्तमेव च।

प्रकृतिशुद्धमद्रव्यं बोधिचित्तस्य लक्षणम्॥ १८॥

सर्वं च तेन सादृश्यं निःसारं बुद्बुदोपमम्।

अशाश्वतं च नैरात्म्यं मायामरीचिसंनिभम्॥ १९॥

मृप्तिण्डवद् घटीभूतं बहुप्रपञ्चपूरितम्।

रागद्वेषादिसंयुक्तं स्वप्नमाया तु केवलम्॥ २०॥

अभ्रान्तरे यथा विद्युत् क्षणादपि न दृश्यते।

प्रज्ञापारमितादृष्ट्या भावयेत्परमं पदम्॥ २१॥

क्रीडितं हसितं नित्यं जल्पितं रुदितं तथा।

नृत्यं गीतं तथा वाद्यं सर्वं स्वप्नोपमं हि तत्॥२२॥

मायास्वप्नोपमं सर्वं संस्कारं सर्वदेहिनाम्।

स्वप्नं च चित्तसंकल्पं चित्तं च गगनोपमम्॥ २३॥

भावयेद्य इमं नित्यं प्रज्ञापारमितानयम्।

स स र्वपापनिर्मुक्तः प्राप्नोति परमं पदम्॥ २४॥

इयं सानुत्तरा बोधिः सर्वबुद्धैः प्रकाशिता।

भावनां भावयित्वेह निर्वाणं लभते शिवम्॥ २५॥

यावन्तः संवृतेर्दोषास्तावन्तो निर्वृतेर्गुणाः।

निर्वृतिः स्यादनुत्पत्तिः सर्वदोषैर्न लिप्यते॥ २६॥

अथ ते तीर्थिकास्तुष्टा विकल्परहितास्तदा भावनां समाधाय महायानयज्ञलाभिनोऽभूवन्निति॥

महायाननिर्देशे नैरात्म्यपरिपृच्छा समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project