Digital Sanskrit Buddhist Canon

९ साधुमती नाम नवमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 sādhumatī nāma navamī bhūmiḥ
९ साधुमती नाम नवमी भूमिः।

उपक्रमगाथाः।



इमां भूमिं प्रभाषता कम्पिताः क्षेत्रकोटयः।

अधिष्ठाना नरेन्द्रस्य अप्रमेया अचिन्तिया॥ १॥



आभास रुचिरा मुक्ताः कायतः सर्वदर्शिनो।

तयावभासिताः क्षेत्राः सत्त्वाश्च सुखितास्तया॥ २॥



बोधिसत्त्वसहस्राणि अन्तरिक्षे स्थितानि च।

दिव्यातिक्रान्तपूजाय पूज्यन्ते वदतां वरम्॥ ३॥



महेश्वरा देवपुत्रा वशवर्ती प्रहर्षिताः।

नानाप्रकारपूजाभिः पूजेन्ति गुणसागरम्॥ ४॥



ततोऽप्सरःसहस्राणि हर्षिताः प्रीणितेन्द्रियाः।

दिव्या सुयत्ता संगीताः शास्तु पूजामजग्रयम्॥ ५॥



तेभ्यश्च तूर्यनादेभ्य अनुभावान्महर्षिणः।

ईदृशा रुतसहस्रा रवन्ती मधुरस्वराः॥ ६॥



इमि सर्वे जिनसुता खिलमलविगता

उपगत भुवि वरसुरुचिरचरणाः।

जगहित विचरति दशदिश वृषभी

दर्शयि जिनचरि खगसममनसा॥ ७॥



नरपुरि मरुपुरि भुजगपतिविषये

वियुह दशदिशि पुण्यबलमुदीरिताः।

तत तु भुयु जिनसुत दर्शयि अतुली

जिनसुतप्रभव जिननुपथनिरता॥ ८॥



एकक्षेत्रि अचलित सर्वक्षेत्रविरजा

अनुगत जगहित शशिरिव प्रतिभा।

सर्वघोषहानचित्त प्रशमितमनसा

वियहरि कृतशतश्रुतिपथगिरिभिः॥ ९॥



यत्र सत्त्व हीनचित्त दीन माननिरता-

स्तत्र विदु श्रावकाचरी देशेति वृषभी।

यत्र सत्त्व तीक्ष्णचित्त प्रत्ययाननिरता-

स्तत्र ज्ञान प्रत्ययान दर्शयन्ति विरजा॥ १०॥



ये तु सत्त्वहितमैत्रमनसा (अभिरतास्)

तत्र त्यं(त्वं) जिनपुत्रान दर्शयन्ति चरणम्।

ये तु सत्त्व अग्र श्रेष्ठ मतिमाननिरता-

स्तत्र अमी बुद्धकाय दर्शयन्ति अतुलम्॥ ११॥



माया यथा मायकारो दर्शेति जगहिते

याय कोटि नैकविद्या सर्वभावविगता।

एव विदू बुद्धसुता ज्ञानमायनिरता

दर्शयन्ति सर्वचरी सर्वभावविगता॥ १२॥



एतादृशा रुतसहस्रान् भणित्व मधुरां-

स्तदा मरुकन्यका जिनं दृष्ट्वा तूष्णींभूताः।

पर्षद्विप्रसन्नेयमवोचत्सुगतात्मजम्

अष्टमाया भण ऊर्ध्वं चरिं सद्धर्मराजिनाम्॥ १३॥



उपसंहारगाथाः।



ते अप्रमाणबलबुद्धि विचारयन्तः

सुसूक्ष्मज्ञानपरमा जगता दुर्ज्ञेया।

तथ गुह्यस्थान सुगतान समोसरन्तो

भूमिं क्रमन्ति नवमीं जगतोऽर्थकरीम्॥ १४॥



ते धारणीमुखि समाधिसमाहिताग्रा

विपुला अभिज्ञा अपि क्षेत्रप्रवेशनन्तम्।

बलज्ञाननिश्चयमपि जिनु धैर्यस्थानं

प्रणिधीकृपाशयविदू नवमोतरन्ति॥ १५॥



ते अत्र भूम्यनुगता जिनकोशधारी

कुशलाश्च धर्मकुशलाश्च अव्याकृताश्च।

ये सास्रवा अपि च लौकिक ये च आर्या-

श्चिन्त्या अचिन्तिय विदू अनुबुद्ध्ययन्ति॥ १६॥



नियतांश्च धर्मनियतां प्रविचारयन्ति

त्रययानसंपदक्रिया परितारयन्ति।

भूमिधर्म यथाधिमुक्ति प्रचारतश्च

अभिसंस्करोन्ति यथ लोक्य तथोतरन्ति॥ १७॥



ते एवज्ञाननुगता वरसूक्ष्मबुद्धी

सत्त्वान चित्तगहनं परिमार्गयन्ति।

(चित्तं विचित्रक्षणवर्तनिवर्ततां च)

चित्तं अनन्तप्रभवं सद ओतरन्ति॥ १८॥



क्लेशाननादिन प्रयोगसहायताश्च

ये पर्युत्थाननुशया गतिसंधितश्च।

तथ कर्मप्रवेश विचित्रविभक्तितश्च

हेतू निरुद्धफलनाश समोतरन्ति॥ १९॥



इन्द्रिय या मृदुकमध्य उदारतश्च

संभेदपूर्वमपरान्त समोतरन्ति।

अधिमुक्ति नैक विविधा शुभ आशुभतश्च

चत्वारि आशीति सहस्र समोतरन्ति॥ २०॥



धातूप्रवेश जग भावितक्लेशदृष्टी

गहनं गता अनवराग्र अच्छेदतश्च।

ये आशया अनुशया सहजप्रचारी

चित्तासमोसृत निबद्ध अच्छेद तन्ति॥ २१॥



चित्तं यथा अनुशया न च द्रव्यभूतो

न च देशस्था न च विप्रवसन्ति आशया।

दुर्हेय ध्यानविषयानभिवर्तियाश्च

छेदश्च मार्ग विनयेन न चान्यमस्ति॥ २२॥



उपपत्ति षड्गति विभक्तिप्रवेशतश्च

स्नेहं च तृष्णमविद्यान्धक कर्मक्षेत्रा।

विज्ञानबीजसहजाङ्कुरनामरूपं

त्रैधातुके अनवराग्र समोतरन्ति॥ २३॥



ते वासनागति किलेश च कर्म चित्ता

सुविहारताय न पुनर्गतिसन्त कामा।

राशित्रिभिर्नियतसत्त्व समोतरन्ति

दृष्टीनिमग्नमपि ज्ञान समोतरन्ति॥ २४॥



एवं विसरणगताः स्थित अत्र भूम्यां

सर्वसत्त्व आशय यथेन्द्रिय याधिमुक्तिः।

तेषामर्थे धर्मविभक्ति प्रकाशयन्ति

प्रतिसंविदर्थकुशलाः प्रतिभा निरुक्ति॥ २५॥



ते धर्मभाणक गती अनुप्राप्त (स्थानं)

सिंहरिषभनिभा गिरिराजकल्पाः।

अभिप्रवर्षन्ति मधुरममृतस्य वर्षं

भुजगेन्द्रसागर यथा अनुपूरयन्ति॥ २६॥



हितार्थज्ञानकुशलास्तथ धर्मतायां

सर्वं निरुक्त्यनुगताः प्रतिभानप्राप्ताः।

ते धारणी दश असंख्यसहस्र लब्धा

धारन्ति धर्म यथ (सागर वर्षधारी)॥ २७॥



एवं च धारणिविशुद्धिसमाधिप्राप्ता

एकक्षणेन दशबुद्धसहस्र दृष्टाः।

श्रवणेन धर्मरतनं च निदेशयन्ति

(एकैकमण्डलविशुद्धिस्वराङ्गगताः)॥ २८॥



व्योहारते त्रिसहस्रमहलोकधातुं

परिशेष सत्त्व विविधास्त्रयरतनेभ्यः।

तोषेन्ति सर्व यथ‍इन्द्रियआशयाश्च

चतुद्वीपसागर वर्षा सम मोदयन्ति॥ २९॥



(भूयोत्तरिं गुणिनु वीर्य समारभन्ते)

चित्त‍अन्ति वालप्रसर अस्मि सुचेतनन्ताः।

देशेयु धर्म सुगताः पुन नानसत्त्वं

श्रुत्वा धरेम यथ सर्वद (बीजधारी)॥ ३०॥



(यावतका) जगदिह प्रविशन्ति सत्त्वाः

(ते सर्व एकपरिषन्मण्डले निषण्णाश्च)।

एषां च एकक्षणि सर्वि समोतरित्वा

एकां रुतेन इमि तर्पयितव्य सर्वे॥ ३१॥



(अत्र स्थिता नरमरुत्तम धर्मराजा)

भोन्ती धर्मैर्जिनसुताः परिचालयन्ति।

रात्रिंदिवं सद जिनैः शमथानुप्राप्ता

गम्भीर शान्त स्थित ज्ञानविमोक्षधीरा॥ ३२॥



(तेऽनेकबुद्धनियुतान् पर्युपासयन्ते)

भोन्ती उत्तप्त पणु (पाण्डु) चक्रवर्तःप्रभावा।

तस्य क्लेशगहनानि प्रभा समाज्य

ब्रह्मणो व द्विसहस्रिकलोकधातुः॥ ३३॥



(अत्र स्थिता गुणधरा) महब्रह्मलोके

भोन्ती (त्रियानदेशनं विदितानुभावा।)

यं चैवमारभति सर्वजगद्धिताय

सर्वज्ञज्ञानुपगता गुणज्ञानप्राप्ता॥ ३४॥



(क्षेत्राप्रमाणपर्यापन्न) एका रजाग्रे

क्षणि एकि (तत्तकसमाधि उ)पेन्ति धीराः।

(दृष्ट्वा सर्वे दिशि जिनांश्च वचः शृणोन्ति)

ततो विकुर्वि प्रणिधानन्विताप्रमाणाः॥ ३५॥



इत्येषा नवमी भूमिर्महाज्ञानविचारिणा।

गम्भीरा दुर्दृशा सूक्ष्मा निर्दिष्टा सुगतात्मजाः॥ ३६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project