Digital Sanskrit Buddhist Canon

८ अचला नाम अष्टमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 8 acalā nāma aṣṭamī bhūmiḥ
८ अचला नाम अष्टमी भूमिः।

उपक्रमगाथाः।



एव श्रुत्व चरणं विदुन श्रेष्ठं

देवसंघ मुदिता मरुपतिश्च।

बोधिसत्त्व बहवो जगद्धितैषि

पूजयन्ति सुगतं जिनसुतांश्च॥ १॥



पुष्पमाल्य रुचिरा ध्वजापताका

गन्धचूर्ण रुचिरा रतनवस्त्रा।

छत्र नैकरुचिरान् मणिप्रत्युप्तान्

हारमेघप्रवरानभिसृजन्ति॥ २॥



मनोज्ञघोषमधुरं सुरवन्दू

मुक्त नैकतुरियप्रवरनाटान्।

पूजनार्थि जिनपुत्र सुगतांश्च

वर्णश्रेष्ठ मुनिनो उदाहरन्ति॥ ३॥



सर्वि दर्शि वृषभी द्विपादश्रेष्ठो

दर्शि बुद्धविषयं जगद्धितार्थम्।

शब्दमेघ रुचिरान् प्रताडमाना-

स्तूर्यताल विविधास्तद प्रमुक्ताः॥ ४॥



वालकोटि सुगताः शतसहस्रा

गङ्गाकोटि नयुता रजविशिष्टाः।

क्षेममप्रतिसमाः प्रवरश्रेष्ठं

देशयन्ति वृषभी विरजधर्मम्॥ ५॥



प्रेत तिर्य नरका मनुजदेवाः

यक्ष रक्ष भुजगा असुरसंघा।

.................................

नानकर्मविषये समनुभोन्ति॥ ६॥



सर्वक्षेत्रविषये धुतरजानां

चक्र श्रेष्ठप्रवरं तदनिर्वृत्तम्।

देशयन्ति मधुरं सुगतघोषं

संज्ञचित्त जगतस्तथ विचारन्॥ ७॥



सत्त्वकायि सुगता विविधक्षेत्रा

क्षेत्रि सत्त्वप्रवराः पुनविपाकाः।

देवमानुषगती तथ विचित्रा

ज्ञात्व सर्व सुगतो भणति धर्मम्॥ ८॥



सूक्ष्मसंज्ञ भवति विपुलक्षेत्रे

विपुलसंज्ञ भवति रजनिमित्ते।

एवमादि विविधां सुगतऋद्धिं

सर्वलोक भणतो न क्षेपयेयुः॥ ९॥



ईद्दशं वचमाहात्म्यं वचित्वा मधुरस्वरम्।

प्रशान्ता परिषत्प्रीता प्रेक्षते वदतां वरम्॥ १०॥



प्रशान्त पर्षदं ज्ञात्वा मोक्षचन्द्रोऽब्रवीत्पुनः।

अष्टम्या भूमिआकारां प्रवेशं च निदर्शय॥ ११॥



उपसंहारगाथाः।



ते भूम्य सप्तसु विशोधित प्रज्ञुपाया

मार्गा सुसंभृत महाप्रणिधानबद्धाः।

सुप्रतिष्ठिता नरवराः कुशलोपपेता

ज्ञानाभिलाषि विदु अष्टमिमाक्रमन्ति॥ १२॥



ते पुण्यज्ञानुपगताः कृपमैत्रयुक्ता

ज्ञानाप्रमाणपथगाः खगबुद्धिकल्पाः।

श्रुतधर्म निश्चितबलोपगता महर्षी

क्षान्तिं लभन्ति अनुत्पादप्रशान्तिसूक्ष्माम्॥ १३॥



आदावजात अनुत्पाद अलक्षणं च

असंभूततमविनष्टत चाप्रवृत्तम्।

भावस्वभावविगता तथताविकल्पा

मम चित्तचारविगताः खगतुल्यकल्पाः॥ १४॥



ते एव क्षान्तिसमन्वागत निष्प्रपञ्चा

गम्भीरचाल्य विदु शान्तविचारप्राप्ताः।

दुर्ज्ञेय सर्वजगतारहप्रत्ययैश्च

चित्तं निमित्तग्रहसंज्ञविभावितत्वात्॥ १५॥



एवं स्थितानमनुचिन्तविकल्प नास्ति

भिक्षुर्निरोध्युपगतोऽपप्रकल्पप्राप्तः।

स्वप्नोघप्राप्त प्रतिबुद्ध तथाविकल्पा

ब्रह्मापुरे रतिसङ्गरहितो तथैव॥ १६॥



पूर्वाधिष्ठान सुगता पुन चोदयन्ति

एषा स क्षान्ति परमा सुगताभिषेके।

अस्माकु ज्ञान विपुलं वरबुद्धधर्मा

ते तुभ्य नास्ति त हि वीर्यु समारभायम्॥ १७॥



किंचापि शान्त तव सर्वकिलेशज्वाला

ज्वलितं निशम्य पुन क्लेशगतिभ्य लोकम्।

प्रणिधान पूर्व स्मर सत्त्वहितं विचार्य

ज्ञानार्थि प्रार्थित क्रिया जगमोक्षहेतोः॥ १८॥



सद एष धर्मत स्थिता तथताविकल्पा

सर्वेषु बुद्धजिनश्रावकप्रत्ययानम्।

न हि एतिना दशबलान प्रभावु लोके

नान्यत्र ज्ञानविपुलं त्रिभि अध्वसङ्गम्॥ १९॥



एवं तमप्रतिसमा नरदेवपूज्या

उपसंहरन्ति बहुज्ञानमुखा विचारान्।

जिनधर्मनिष्पत्तिप्रवेशमनन्तपारं

यस्या कला न भवते पुन बोधिचर्या॥ २०॥



एतानि प्राप्त वृषभी वरज्ञानभूमिम्

एकक्षणेन स्फरते दिशताः समन्तान्।

ज्ञानप्रवेशुपगता वरभिज्ञप्राप्ता

यथ सागरे वहनु मारुतयानप्राप्तः॥ २१॥



साभोगचित्तविगताः स्थितज्ञानकर्म

विचिनन्ति क्षेत्रप्रभवं विभवस्थितिं च।

धातुश्चत्वारि विनिभागगतान तांश्च

सूक्ष्मं महद्गत विभक्ति समोसरन्ति॥ २२॥



त्रिसहस्रि सर्वपरमाणुरजो तरन्ति

चत्वारि धातु जगकायि विभक्तितश्च।

रत्ना विभक्तिपरमाणु सुवर्गतीषु

भिन्दित्व ज्ञानविषयेन गणेन्त्यशेषम्॥ २३॥



ज्ञाने विभावितमना विदु सर्वकायान्

स्वे कायि तत्र उपनेन्ति जगार्थहेतोः।

त्रिसहस्र सर्व च स्फरित्व विचित्ररूपान्

दर्शेन्ति काय विविधान् तथनन्तलोके॥ २४॥



सूर्यं शशिं च वह्नि मारुत अन्तरीक्षे

स्वकमण्डलुस्य उदके प्रतिभासप्राप्ता।

ज्ञानोत्तमे स्थित तथाचलधर्मतायां

जग शुद्धआशय विदू प्रतिभासप्राप्ता॥ २५॥



यथआशयं जगत कायविभक्तितां च

दर्शेन्ति सर्वपरिषे भुवि सर्वलोके।

वशिप्रत्ययाश्रय जिनात्मजश्रावकानां

दर्शेन्ति ते सुगतकाय विभूषिताङ्गान्॥ २६॥



सत्त्वांश्च क्षेत्र तथ कर्मविपाक कायान्

आर्याश्रयान् विविधधर्मज्ञानकायान्।

आकाशकाय वृषभी समतामुपेतं

दर्शेन्ति ऋद्धि विविधान् जगतोषणार्थम्॥ २७॥



वशिता दशो विमलज्ञानविचारप्राप्ता

अनुप्राप्त ज्ञानकृत मैत्रकृपानुकूलाः।

यावच्च सर्वजिनधर्ममुपादकर्मा

त्रिसंवरैः सुस्थितमेक अचल्यकल्पाः॥ २८॥



ये चा बला जिनसुतान दश अक्षोभ्या

तेही उपेत अविबन्धिय सर्वमारैः।

बुद्धैरधिष्ठित नमस्कृत शक्रब्रह्मै-

स्तथ वज्रपाणिबलकैः सततानुबद्धाः॥ २९॥



इम भूमिदेशुपगता न गुणानमन्तो

नो शक्यते क्षयितु कल्पसहस्रकोट्यैः।

ते भूय बुद्ध नियुतान् समुपासयन्ते

भोन्तो उतप्त यथ भूषणु राजमूर्ध्नि॥ ३०॥



इम भूमिदेशुपगता विदु बोधिसत्त्वा

महब्रह्म भोन्ति सहस्राधिपती गुणाढ्याः।

त्रययानदेशन अक्षोभ्यसंहारप्राप्ता

मैत्रायनः शुभप्रभा जगक्लेशघाती॥ ३१॥



एकक्षणेन दशक्षेत्रशतःसहस्रा

यावा रजोधातु तत्तक समाध्युपेन्ति।

पश्यन्ति तत्तक दशदिशि सत्त्वसारान्

भूयो अतः प्रणिधिश्रेष्ठ व्यूह नेकाः॥ ३२॥



संक्षेप एष निर्दिष्टो अष्टमाया जिनात्मजाः।

विस्तरः कल्पकोटीभिर्न शक्यः सर्व भाषितुम्॥ ३३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project