Digital Sanskrit Buddhist Canon

७ दूरंगमा नाम सप्तमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 7 dūraṁgamā nāma saptamī bhūmiḥ
७ दूरंगमा नाम सप्तमी भूमिः।

उपक्रमगाथाः।



अथ विविधरुचिरमेघान् मरुद्गणोऽभिकिरिषु वेगप्राप्ताः।

प्रव्याहरन्ति मधुरा गिरिवर शुभ प्रीतिसंपूर्णाः॥ १॥



साधु वरतीक्ष्णचित्ता गुणशतसमुपेतज्ञानवशवर्तिम्।

वरचरणं परितुष्टं जगहितवरपुण्डरीकाणाम्॥ २॥



तद प्रवरमतुलमाभा महेश्वराः खेगता नरवरस्य।

वररुचिरगन्धमेघानभिकिरि क्लेशौघमपहर्तुम्॥ ३॥



प्रव्याहरन्ति मधुरं मरुद्गणा हर्षकररुचिरघोषाः।

परमसुलब्धलाभाः श्रुतु यैरयु भूमिनिर्देशः॥ ४॥



तूर्य मधुरघोषयुक्त मरुकन्याः प्रीणितमनोभिः।

सुचरसुगतानुभावाद्वरचरिरियमीदृशी प्रोक्ता॥ ५॥



सुमनी सुचरणश्रेष्ठः सुदान्त दमकान लोकमहितानाम्।

अतिक्रम्य सर्वलोकं लोकचरिं दर्शयी सूक्ष्माम्॥ ६॥



दर्शेन्ति काय विविधान् कायाकायांश्च धर्मतोपेताः।

शमथः समितिविभक्तो भणति घोषं न चाक्षरं रवति॥ ७॥



क्षेत्रशतमाक्रमन्ते पूजेन्ति नायकान् परमपूजियान्।

आत्मजनितक्षेत्रसंज्ञा विधुनित्वा ज्ञानवशवर्ती॥ ८॥



परिपाचयन्ति सत्त्वान्न चात्मपरसंज्ञ सर्वश उपेन्ति।

शुभ संचिनन्ति प्रवरं न चापि शुभसंचयनिकेताः॥ ९॥



रागरजदोषमोहैः पश्यित्व सर्वलोक ज्वलमानान्।

वर्जेति सर्वसंज्ञा वीर्यं वरमारभी कृपया॥ १०॥



मरुकन्या देवसंघाश्च पूजेन्ता वरस्वरम्।

तूष्णींभावरताः सर्वे प्रेक्षन्ते पुरुषर्षभम्॥ ११॥



परिषद्विप्रसन्नेयमवोचत् सुगतात्मजम्।

सप्तम्या भूमेराकारान् निर्दिशस्व गुणाकर॥ १२॥



उपसंहारगाथाः।



गम्भीरज्ञान परमार्थपदानुसारी

षड्भूमिनिश्चितमतिः सुसमाहितात्मा।

प्रज्ञामुपाय युगपद्यभिनिर्हरन्तो

भूम्याक्रमन्ति विदु सप्तमि चर्यश्रेष्ठाम्॥ १३॥



शून्यानिमित्तप्रणिधीकृपमैत्रयुक्ता

बुद्धानुधर्म सुगतानुग पूजयन्तः।

ज्ञानेन शुभमहपुण्यबलेभ्यतृप्ता-

स्तामाक्रमन्ति विदु सप्तमि भूमिदेशम्॥ १४॥



त्रैधातुकेन अधिवास विवेकप्राप्ताः

शान्तश्च क्लेशबलशान्तिजगाभिकाङ्क्षी।

प्रतिभास माय सुपिनाद्वयधर्मचारी

कृप दर्शयन्ति विदु सप्तमिमाक्रमन्ति॥ १५॥



शोधेन्ति क्षेत्र खसमाशय निर्विकल्पा

जिनलक्षनैरुपागतोऽचलधर्मतायाम्।

अभिलाप्यघोषविगता जगतोषणार्थं

क्षणज्ञान चित्तस्य जिनान समोसरन्ति॥ १६॥



अभासप्राप्त इति धर्म विचारयन्ति

आक्रान्त भूमिप्रवरां जगदर्थकाराः।

ते अत्र भूम्यस्थित सत्त्वचरी अनन्तान्

विचिनन्ति कर्म सुगतान् नियुताप्रमाणान्॥ १७॥



क्षेत्रांश्च नैकविधधर्मथ कल्पसंख्यान्

अधिमुक्तिआशय च चित्तविचित्रधारान्।

त्रियाणदेशनमनन्त समोसरन्ति

अस्माभि सत्त्व परिपाचयितव्यमेतत्॥ १८॥



ये ते ज्ञाननिचिता वरमार्गप्राप्ता

ईर्यापथैश्चतुर्भि प्रज्ञमुपायमुक्ताः।

सर्वस्मि चित्तक्षणि बोधिगुणानुप्राप्ताः

परिपूरयन्ति दश पारमिताप्रदेशान्॥ १९॥



सर्वेषु मार्गकुशलस्य य एष दानं

शीलं च क्लेशप्रशमं क्षममक्षतित्वम्।

वीर्यं च भूयु अनु उत्तरि आरभन्ते

मार्गे अचल्यतय ध्यानगुणान्वितानाम्॥ २०॥



अनुत्पादक्षान्ति विरजा वरप्रज्ञ श्रेष्ठा

पर्णामुपाय प्रणिधी भुयु काङ्क्षि लक्ष्मी।

अतोऽमर्दयित्व बलज्ञाननितीरणत्वाद्

एवं खु बोधिगुण सर्वक्षणेनुपेन्ति॥ २१॥



आलम्बनातु प्रथमा गुणपारिपूरि

द्वितीया मलापनय ऊर्ध्व विबन्धच्छेदम्।

चतुर्थाय मार्गु समताक्रिय पञ्चमाय

अनुत्पाद आह्वय विदुः पुन षष्ठवृत्तिः॥ २२॥



इह सप्तमीमुपगताः सकलं गुणानि

प्रणिधान नैकविविधानभिनिर्हरन्ति।

किं कारणं यदुत ज्ञानक्रियाभ्युपेन्ति

सा अष्टमीप्रभृति सर्वविशुद्ध्युपेन्ति॥ २३॥



दुरतिक्रमा दूरंगमा बहुस्थानकर्मा

क्षेत्रान्तरद्विपथमेव यथोत्तरन्ति।

विचरन्ति सप्तसु अलिप्त नृपो यथैव

मार्गस्थिता न पुन सर्वतिक्रान्त धीराः॥ २४॥



यद अष्टमीमुपगताः पुन ज्ञानभूमिम्

अतिक्रान्त चित्तविषये स्थित ज्ञानकर्मे।

ब्रह्मा न पेक्षति जगन्नरमानुषात्मा

एवं चरन्ति विदु पद्ममिवा अलिप्ताः॥ २५॥



अत्र स्थिता विविधक्लेशमतिक्रमन्ति

तेषां न क्लेशचरि नो च क्षयोऽनुप्राप्तिः।

मार्गस्थिता न तद क्लेशचरिं चरन्ति

संपूर्ण आशय जिनज्ञ क्षयो न तावत्॥ २६॥



ये लौकिका विविधशिल्पक्रियाप्रयोगा

आजाति सर्वविदुना स्थित शास्त्रज्ञाने।

ध्याना अभिज्ञ बल भावयन्तोऽभ्युपेन्ति

भूयः समाधि विविधानभिनिर्हरन्ति॥ २७॥



अतिक्रान्त श्रवकचरिं तथ प्रत्ययानां

स्थित बोधिसत्त्वचरणे विदु अप्रमाणाम्।

पूर्वे हि आशयतया इह ज्ञानताया

नृपतीसुतो यथ विवृद्धबलोपपेतः॥ २८॥



गाम्भीर्यतामुपगता भुयु आरभन्ति

चित्तं निरोधुपगता न च साक्षिक्रियाः।

यथा सागरे उपगताः स्थित यानपात्रे

प्रत्यक्ष सर्व उदके न च यानहानिः॥ २९॥



भूयो उपायबलप्रज्ञवराभ्युपेता

दुर्ज्ञेयसर्वजगज्ञानक्रियागुणाढ्याः।

पूजेन्ति बुद्ध नियुता भुयु शुद्धिभावा

यथा तद्विभूषणविचित्रितु नैकरत्नैः॥ ३०॥



अत्र स्थितान विदुनां वरप्रज्ञ आभा

शोषेन्ति तृष्णसलिलं यथ भास्काराभाः।

ते अत्र भूम्युपगता वशवर्तिनश्च

भोन्ति कृती कुशल ज्ञानफलोदेशैः॥ ३१॥



आकाङ्क्षमाण दृढवीर्यबलाभ्युपेताः

कोटीनयूतशत बुद्धसहस्र पूर्णान्।

पश्यन्ति सर्वदिशतासु समाहितत्वाद्

भूयोऽप्यतः प्रणिधिश्रेष्ठ गुणाप्रमेयाः॥ ३२॥



दुर्ज्ञेया सर्वलोकेन वशिप्रत्येकचारिभिः।

इत्येषा सप्तमी भूमिरुपायप्रज्ञशोधना॥ ३३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project