Digital Sanskrit Buddhist Canon

५ सुदुर्जया नाम पञ्चमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 5 sudurjayā nāma pañcamī bhūmiḥ
५ सुदुर्जया नाम पञ्चमी भूमिः।

उपक्रमगाथाः।



चरणमथ श्रुणित्वा भूमिश्रेष्ठां विदूनां

जिनसुत परितुष्टा हर्षिता धर्महेतोः।

गगनि कुसुमवर्षं उत्सृजन्ती उदग्राः

साधु सुगतपुत्र व्याहृतं ते महात्मा॥ १॥



मरुपति वशवर्ती सार्ध देवागणेन

स्वगगत सुगतस्य पूजानार्थं उदग्रा।

विविधरुचिरमेघाः स्निग्धआभा मनोज्ञाः

अभिकिर सुगतस्य हर्षिताः प्रीणिताश्च॥ २॥



गीतरुत मनोज्ञा वाद्यतूर्याभिनादा

देववधुप्रयुक्ताः शास्तु संपूजनार्थम्।

जिन पुन तथरूपं दर्शयन्ति स्म स्थानं

सर्वरुतस्वरेभी एव शब्दः प्रयुक्तः॥ ३॥



सुचिरेण आशयु प्रपूर्ण मुनेः

सुचिरेण बोधि शिव प्राप्त जिनः।

सुचिरेण दृष्ट नरदेवहितः

संप्राप्त देवपुरि शाक्यमुनिः॥ ४॥



सुचिरेण सागरजलाः क्षुभिताः

सुचिरेण आभ शुभ मुन्नि जने।

सुचिरेण सत्त्व सुखिताः -

सुचिरेण शासु श्रुत कारुणिकः॥ ५॥



सुचिरेण संगमु महामुनिना

संप्राप्त सर्वगूणपारमितः।

मद मान दर्प प्रजहित्व तमं

पूजार्हु पूजिम महाश्रमणम्॥ ६॥



(इह पूजि कृत्व खगमार्गगता)

इह पूजि कृत्व सुख नेकविधम्।

इह पूजि कृत्व दुखसर्वक्षये

इह पूजि कृत्व जिन ज्ञानवरम्॥ ७॥



गगनोपमः परमुशुद्धु जिनु

जगती अलिप्तु यथ पद्मु जले।

अभ्युद्गतो उदधि मेरुरिव

हर्षित्व चित्तु जिन पूजयथा॥ ८॥



अथाब्रवीद्वज्रगर्भं विमुक्तिचन्द्रो विशारदः।

पञ्चम्या भूम्य आकरान् निर्दिशस्व विशारद॥ १०॥



उपसंहारगाथाः।



एवं विशोधित चतुर्षु जिनचरीषु

बुद्धया त्रियाध्वसमता अनुचिन्तयन्ति।

शीलं च चित्तप्रतिपत्तितु मार्गशुद्धिः

काङ्क्षाविनीत विदु पञ्चमि आक्रमन्ति॥ ११॥



स्मृति चाप इन्द्रिय इषु अनिवर्तिताश्च

सम्यक्प्रहाण हय वाहन ऋद्धिपादाः।

पञ्च बलाः कवच सर्वपिपू‍अभेब्याः

शूराणिवर्ति विदु पञ्चमि आक्रमन्ति॥ १२॥



ह्यपत्राप्यवस्त्रविदुनां शुचिशीलगन्धो

बोध्यङ्गमाल्यवरध्यानविलेपनं च।

प्रज्ञाविचारणविभूषणुपायश्रेष्ठम्

उद्यानधारणित पञ्चमिमाक्रमन्ति॥ १३॥



चतुऋद्धिपादचरणाः स्मृतिशुद्धिग्रीवाः

कृपमैत्रश्रेष्ठनयना वरप्रज्ञदंष्ट्रा।

नैरात्म्यनाद रिपुक्लेश प्रधर्षमाणा

नरसिंह सम्य विदु पञ्चमिमाक्रमन्ति॥ १४॥



ते पञ्चमीमुपगता वरभूमिश्रेष्ठां

परिशुद्धमार्ग शुभमुत्तरि भावयन्ति।

शुद्धाशया विदु जिनत्वनुप्रापणार्थी

कृपमैत्रखेदविगता अनुचिन्तयन्ति॥ १५॥



संभारपुण्युपचया तथ ज्ञान श्रेष्ठं

नैका उपाय अभिरोचनभूम्य भासान्।

बुद्धधिष्ठान स्मृतिमां मतिबुद्धिप्राप्ता

चत्त्वारि सत्य निखिलाननुचिन्तयन्ति॥ १६॥



परमार्थसत्यमपि संवृतिलक्षणं च

सत्यविभागमथ सत्यनितीरणं च।

तथ वस्तु सास्रव क्षयं अपि मार्गसत्यं

यावन्तनावरणसत्य समोसरन्ति॥ १७॥



एवं च सत्य परिमार्गति सूक्ष्मबुद्धिः

न च तावदनावरणप्राप्तु विमोक्षं श्रेष्ठम्।

ज्ञानाधिमुक्तिविपुलात्तु गुणाकराणाम्

अतिभोन्ति सर्वजगतो अर्हप्रत्ययानाम्॥ १८॥



सो एव सत्य‍अभिनिर्हृत तत्त्वबुद्धिः

जानाति संस्कृत मृषाप्रकृती असारम्।

कृपमैत्रआभ लभते सुगतान भूयः

सत्त्वार्थिकः सुगतज्ञान गवेषमाणः॥ १९॥



पूर्वापरे विदु निरीक्षतु संस्कृतस्य

मोहान्धकारतमसावृत दुःखलग्ना।

अभ्युद्धरोति जगतो दुखस्कन्धवृद्धान्

नैरात्म्यजीवरहितांस्तृणकाष्ठतुल्यान्॥ २०॥



क्लेशाद्वयेन युगपत्पुनर्भासि त्र्यध्वं

छेदो दुखस्य न च अन्त समोसरन्तः।

हन्तो प्रणष्ट जन तेऽतिदयाभिजाता

संसारस्रोत न निवर्तति निःस्वभावम्॥ २१॥



स्कन्धालया उरगधातु कुदृष्टिशल्याः

संतप्त अग्निहृदयावृत अन्धकारे।

तृष्णार्णवप्रपतिता अवलोकनत्वात्

जिनसार्थवाहविरहा दुख‍अर्णवस्थाः॥ २२॥



एवं विदित्व पुनरारभतेऽप्रमत्तो

तच्चैव आरभति सर्वजगद्विमोक्षी।

स्मृतिमन्तु भोन्ति मतिमान् गतिमान् धृतीं च

ह्रीमांश्च भोन्ति तथ बुद्धिन प्रज्ञवांश्च॥ २३॥



अवितृप्तु पुण्युपचये तथ ज्ञान श्रेष्ठं

नो खेदवान्न शिथिलो बलमेषमाणः।

क्षेत्रं विधाय जिनलक्षणबुद्धघोषम्

अवितृप्तसर्वक्रिय सत्त्वहितार्थयुक्तः॥ २४॥



परिपाचनाय जगतो विदु शिल्पस्थानान्

लिपिमुद्रसंख्यगणधातुचिकित्सतन्त्रान्।

भूतग्रहाविषमरोगनिवर्तनार्थं

स्थापेन्ति शस्त्र रुचिरान् कृपमैत्रबुद्धी॥ २५॥



वरकाव्यनाटकमतिं विविधप्रहर्षान्

नद्योदियानफलपुष्पनिपद्यस्थानान्।

स्थापेन्ति नेकक्रिय सत्त्वसुखापनार्थं

रत्नाकरांश्च उपदर्शयि नैकरूपान्॥ २६॥



भूमीचलं च ग्रह ज्योतिष चन्द्रसूर्यौ

सर्वाङ्गलक्षणविचारणराज्यस्थानम्।

आरूप्यध्यान तथभिज्ञ अथाप्रमाणा

अभिनिर्हरन्ति हितसौख्यजगार्थकामाः॥ २७॥



इह दुर्जयामुपजता वरप्रज्ञचारी

पूजेन्ति बुद्ध नयुता शृणुवन्ति धर्मम्।

तेषां शुभं पुनरुत्तप्यति आशयश्च

स्वर्णं यथा मुसरगल्वयसंविमृष्टम्॥ २८॥



रत्नामया ग्रहविमान् वहन्ति वाता

ते येहि तेहि तु वहन्ति असंहृताश्च।

तथ लोकधर्मि चरमान जगार्थचारी

असंहार्य भोन्ति यथ पद्म जले अलिप्तम्॥ २९॥



अत्र स्थिता तुषित ईश्वर ते कृतावी

नाशेन्ति तीर्थ्यचरणान् पृथुदृष्टिस्थानान्।

यच्चाचरन्ति कुशलं जिनज्ञानहेतोः

सत्त्वान त्रात भवमो दशभिर्बलाढ्यैः॥ ३०॥



ते वीर्यमुत्तरि समारभि अरमत्ताः

कोटिसहस्र सुगतानभिपूजयन्ति।

लब्ध्वा समाधि विदु कम्पयि क्षेत्रकोटी

प्रणिधीविशेषु अनुभूय गुणाकरानाम्॥ ३१॥



इत्येषा पञ्चमी भूमिर्विचित्रोपायकोटिभिः।

निर्दिष्टा सत्त्वसाराणामुत्तमा सुगतात्मजाः॥ ३२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project