Digital Sanskrit Buddhist Canon

४ अर्चिष्मती नाम चतुर्थी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 4 arciṣmatī nāma caturthī bhūmiḥ
४ अर्चिष्मती नाम चतुर्थी भूमिः।

उपक्रमगाथाः।



एवं श्रूणित्व चरणं विपुलं

भूम्युत्तमं मनुरमं प्रवरम्।

संहर्षिता जिनसुतात्तमना

अभ्योकिरन्ति कुसुमेभि जिनम्॥ १॥



संकम्पिता लवणतोयधरा

इह धर्मदेशनमुदीरयताम्।

मरुकन्यका अभिमनोरुचिराः

संगीतियुक्त वरधर्मरताः॥ २॥



वशवर्ति देवपतिरात्तमना

मणिरत्न दिव्य सुगतस्य क्षिपी।

वाचं अभाषि अथ एव जिनो

उत्पन्न अर्थ गुणपारगतो॥ ३॥



किं कारणं तथ हि धर्मवरं

संबोधिसत्त्वचरणं परमम्।

भूमिर्विदू न इयमद्य श्रुता

यस्याश्रवो दुर्लभ कल्पशतैः॥ ४॥



भूयः प्रभाष नरदेवहिता

चर्यावरां जिनसुतान् विदू।

श्रोष्यन्ति ते मरुतसंघगणा

भूतं विनिश्चयमनन्यपदम्॥ ५॥



विमुक्तिचन्द्रः पुनर्वीरो आलपी सुगतात्मजम्।

चतुर्थी संक्रमन्तानां गोचरं भण उत्तमम्॥ ६॥



उपसंहारगाथाः।



परिकर्मिता तृतीयभूमिप्रभंकराय

सत्त्वचर्यलोक तथ धर्म विचार्यमाणः।

आकाशधातु मनधातु त्रयश्च धातु

अधिमुक्ति आशय विशुद्धि समाक्रमन्ति॥ ७॥



सहप्राप्तु अर्चिष्मति भूमि महानुभावः

संवृत्तु शास्तु कुलु भूयु विवर्तियत्वे।

अभेद्य बुद्धरतने तथ धर्मसंघे

उदयव्ययस्थिति निरीहक प्रेक्षमाणः॥ ८॥



लोकप्रवृत्ति क्रियकर्म भवोपपत्तिं

संसारनिर्वृतिविभावन क्षेत्रसत्त्वान्।

धर्माञ्च पूर्वमपरान्त क्षयानुत्पादं

संवृत्तु भावयति शास्तु कुलानुवर्ती॥ ९॥



सो एषु धर्मु समुपेतु हितानुकम्पी

भावेति कायमपि वेदन चित्तधर्मान्।

अध्यात्मबाह्युभयथा विदु भावयाति

स्मृत्योपस्थानभावन निकेतवर्जिता॥ १०॥



पापक्षयात्कुशलधर्मविवर्धिता च

सम्यक्प्रहाण चतुरो विदु भावयन्ति।

चतुऋद्धिपाद बल इन्द्रिय भावयन्ति

बोध्यङ्गरत्न रुचिरं तथ मार्ग श्रेष्ठम्॥ ११॥



भावेन्ति तान् जनयतां समवेक्ष्य बुद्धिम्

उपस्तम्भयन्ति प्रणिधिं कृतपूर्वमैत्राः।

सर्वज्ञज्ञानमभिप्रार्थन बुद्धक्षेत्रं

बलश्रेष्ठमुत्तमपथं अनुचिन्तयन्तः॥ १२॥



वैशारदं अपि च धर्म अहार्य शास्तुः

वरवुद्धघोषमभिप्रार्थयमान धीराः।

गम्भीरमार्गरतनं च विमोक्षस्थानं

महतामुपाय समुदागम भावयन्ति॥ १३॥



सत्कायदृष्टिविगताश्च द्विषष्टिदृष्टी

अत्तात्तमीयविगतास्तथ जीवलाभम्।

स्कन्धास्तु द्वार तथ धातुनिकेतस्थानं

सर्वप्रहाण विदुषं चतुथाय भूम्याम्॥ १४॥



सो यानिमानि सुगतेन विवर्णितानि

कर्माणि क्लेशसहजानि अनर्थकानि।

तानि प्रहाय विदु आशयतो विशुद्धा

धर्मारभन्ति कुशलं जग–तायणार्थम्॥ १५॥



सुस्निग्धचित्त भवती विदु अप्रमत्तो

मृदुचित्तु सार्जव हितासुखआवहश्च।

अपरिक्लिष्टश्च परिमार्गति उत्तमार्थं

ज्ञानाभिषेकमभिलाषि जगार्थचारी॥ १६॥



गुरुगौरवेषुपगतः प्रतिपत्तिकामो

भवते कृतज्ञ सुमनाश्च अकूहकाश्च।

निर्मायतागहन आशयसूरतश्च

अविवर्त्यवीर्यु भवते समुदानयन्तः॥ १७॥



तस्यात्र भूमि रुचिराय प्रतिष्ठितस्य

अध्याशयं अपि च शुद्धमुपेति धर्मम्।

अधिमुक्ति तप्यति विवर्धति शुक्लधर्मो

मलकल्मषं विमति शंशय सर्व यान्ति॥ १८॥



अत्र स्थिता नरवरर्षभ बोधिसत्त्वाः

सुगताननेकनयुतानभिपूजयन्ति।

शृण्वन्ति धर्म यथ शासनि प्रव्रजन्ति

असंहार्य शक्य कृतकाञ्चनभूषणं वा॥ १९॥



अत्र स्थितान विदुना गुणमाशयं च

ज्ञानं उपाय चरणं च विशुद्धिमार्गः।

नो शक्यु मारनयुतेभि निवर्तनाय

रत्नप्रभेव यथ वर्षजलैरहार्या॥ २०॥



अत्र स्थिता नरमरुद्गणपूजनार्हा

भोन्ती सुयामपतिरीश्वर धर्मचारी।

सत्त्वानि दृष्टिगहनाद्विनिवर्तयन्ति

संभारयन्ति कुशला जिनज्ञानहेतोः॥ २१॥



विर्योपपेत शतकोटि मरर्षभाणां

पश्यन्त्यनन्यमनसः सुसमाहितत्वात्।

तत उत्तरिं बहुकल्पमभिनिर्हरन्ति

ज्ञानाकरा प्रणिधिश्रेष्ठ गुणार्थचारी॥ २२॥



चतुर्थी इतियं भूमिर्विशुद्धा शुभचारिणी।

गुणार्थज्ञानयुक्तानां निर्दिष्टा सुगतात्मजाः॥ २३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project