Digital Sanskrit Buddhist Canon

दशभूमिकसूत्रे गाथाविभागः - १ प्रमुदिता नाम प्रथमा भूमिः।

Technical Details
दशभूमिकसूत्रे गाथाविभागः।



१ प्रमुदिता नाम प्रथमा भूमिः।



उपक्रमः।



ते शुक्लधर्मुपचिताः कुशलोपपेताः

पर्युपासिताः सुगतमैत्रकृपानुकूलाः।

अधिमुक्त्युदार कुशलाशय शुद्धभावा-

श्चित्तं जनेन्ति अतुलं जिनज्ञानहेतोः॥ १॥



सर्वज्ञबुद्धबलशोधनवीर्यस्थामा

जिनधर्मनिष्पत्तिजगत्परित्रायणार्थाः।

महाकृपोचयवर्तनधर्मचक्रं

जिनक्षेत्रशोधमुपपद्यति चित्तश्रेष्ठम्॥ २॥



त्र्यध्वैकवीक्षणविबुद्धननिर्विकल्पा

नानाविधे जगति कालविशोधनार्थम्।

संक्षेपसर्वगुण एषितु नायकानाम्

आकाशतुल्य समुदेति उदारचित्तम्॥ ३॥



प्रज्ञाधिपत्य कृपपूर्वमुपाययुक्तम्

अधिमुक्ति - आशय - विशुद्ध - बलाप्रमाणम्।

आसङ्गताभिमुखता - अपरप्रणेयं

समतोपपेत - सुगतं वरचित्तजातम्॥ ४॥



सहजातिचित्तरतनं सुगतात्मजानाम्

अतिक्रान्त बालचरि बुद्धचरि ह्युपेतः।

जातः कुले दशबलान अनोद्यपद्यः

समतां जिने अनुगतो नियताग्रबोधिः॥ ५॥



एकस्मि चित्त उपपद्यति भूमिलाभो

भवते अचल्यु गिरिराजसमाशयश्च।

प्रामोद्यप्रीतिबहुलश्च प्रसादवांश्च

उत्साहवेगविपुलः सदुदग्रचित्तः॥ ६॥



संरम्भहिंसविगतश्च अक्रोधनश्च

ह्रीगौरवार्जवतरश्च सुसंवृतश्च।

जगतायनं स्मरति अप्रतिमानज्ञानं

प्रीतिं जनेत्युपगतस्पृहमेत स्थानम्॥ ७॥



पञ्चा भया अपगताः सहभूमिलाभो

आजीविका मरण कीर्त्यथ दुर्गतिश्च।

पर्षद्भयं च विगतं तथ छम्भितत्वं

किं कारणं तथ हि आत्मनिकेतु नास्ति॥ ८॥



ते छम्भितत्वविगताः कृपमैत्रयुक्ताः

श्रद्धासगौरवह्रियोपगता गुणाढ्याः।

रात्रिंदिवं कुशलपक्ष निषेवमाणाः

सत्यार्थ धर्मनिरता न तु कामभोगैः॥ ९॥



श्रुतधर्मचिन्तकुशला अनिकेतचित्ता

लाभादशीचित्तगता उत बोधिचित्ताः।

ज्ञानाभिलाषि बलशोधनबुद्धधर्मा

एषन्ति पारमित वर्जितमायशाठ्याः॥ १०॥



यथावादिनस्तथक्रियाः स्थितसत्यवाक्या

न तु दूषणा जिनकुले चरि बोधिशिक्षाम्।

लोकक्रियाय विगता निरता जगार्थं

शुक्लैरतृप्त भुमयोत्तरिमारभन्ते॥ ११॥



ते एव धर्मनिरता गुणार्थयुक्ता

अभिनिर्हरन्ति प्रणिधिं जिनदर्शनाय।

सद्धर्मधारण उपसंक्रमणा ऋषिणाम्

अभिनिर्हरन्ति प्रणीधिं वरचारिकायाम्॥ १२॥



परिपाकसत्त्वपरिशोधनबुद्धक्षेत्रं

ते चास्य क्षेत्र स्फुटिका जिनऔरसेहि।

एकाशया जिनसुतेहि अमोघतायाः

सर्वत्र बालपथि बुद्धिय हेतुमर्थे॥ १३॥



एतांश्च नैकप्रणिधीनभिनिर्हरन्ति

ते चो अनन्तविपुलाय अनन्ततायै।

आकाशधातुसत्त्वधर्मतनिर्वृतं च

लोको ह्यनिष्ठ जिनमुत्पदि ज्ञानभूमी॥ १४॥



चित्तस्य नो विषयज्ञानप्रवेशनिष्ठा

या वर्तनि त्रिविधनिष्ठ जगत्यनन्ता।

प्रणिधाननिष्ठितु भवेन्न ममैवरूपा

यथ एत निष्ठ तथ चर्य समा लभेयम्॥ १५॥



एवं सुनिर्हृतसुमार्दवस्निग्धचित्ताः

श्रद्धेत बुद्धगुण सत्त्व विलोकयन्तः।

प्रीत्यान्तुलम्भुपगतः कृपमैत्रतां च

परितायितव्य मय सत्त्व दुखार्दितानि॥ १६॥



तेषार्थि त्याग विविधं पुन आरभन्ते

राज्यं वरं विविधरत्नहयान् गजांश्च।

शिरहस्तपादनयना स्वकमात्ममांसं

सर्वं त्यजन्ति न च दीनमना भवन्ति॥ १७॥



एषन्ति शास्त्र विविधान्न च खेदमेन्ति।

शास्त्रज्ञ लोकचरितान्यनुवर्तयन्ति।

लोकज्ञतामुपगता ह्रियता धृतिं च

पूज्यन्ति चाप्रतिसमान् गुरुगौरवेण॥ १८॥



एषाभियुक्तविदुना दिवरात्रि नित्यम्

उत्तप्यते कुशल स्वर्ण यथैव अग्नौ।

सो चापि एव परिकर्म दशान भूमी

कृत्वा असङ्गतमुपेति अविष्ठिहन्ता॥ १९॥



यथ सार्थवाह महसार्थहिताय युक्तो

पुच्छित्व मार्गगुण क्षेमतमभ्युपेति।

एमेव भूमि प्रथमा स्थित बोधिसत्त्वः

कृतनिष्क्रमो दशभिबोधिमुपेत्यसङ्गः॥ २०॥



अत्र स्थिता गुणधरा नृपती भवन्ति

धर्मानुशासक अहिंसक मैत्रयुक्ताः।

जम्बुध्वजं सकलराज्य प्रशासयन्तः

स्थापेन्ति त्यागि जनतां वरबुद्धज्ञाने॥ २१॥



आकाङ्क्षमाण वृषभा विजहित्व राज्यं

जिनशासने उपगताश्चरि आरभन्तः।

लब्ध्वा समाधिशत बुद्धशतं च पश्यि

कम्पेन्ति क्षेत्रशतु भासि अतिक्रमन्ति॥ २२॥



शोध्यन्ति सत्त्वशत धर्ममुखान् विशन्ति

प्रविशन्ति कल्पशतकायशतं निदर्शि।

पूर्णं शतं जिनसुतान निदर्शयन्ति

भूयोत्तरि प्रणिधिश्रेष्ठबलाप्रमाणाः॥ २३॥



इत्येषा प्रथमा भूमिर्निदिष्टा सुगतात्मजाः।

सर्वलोकहितैषीणां बोधिसत्त्वाननुतमा॥ २४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project