Digital Sanskrit Buddhist Canon

१० धर्ममेघा नाम दशमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 10 dharmameghā nāma daśamī bhūmiḥ
१० धर्ममेघा नाम दशमी भूमिः।



वज्रगर्भो बोधिसत्त्व आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्व एवमप्रमाणज्ञेयविचारितया बुद्ध्या यावन्नवमी बोधिसत्त्वभूमिरिति सुविचितविचयः सुपरिपूर्णशुक्लधर्मः पर्यन्तसंभारोपचयोपचितः सुपरिगृहीतमहापुण्यज्ञानसंभारः महाकरुणावैपुल्याधिगतः लोकधातुविभक्तिवैमात्र्यकोविदः सत्त्वधातुप्रविष्टगहनोपचारः तथागतगोचरप्रवेशानुगतसंज्ञामनसिकारः बलवैशारद्यबुद्धधर्माध्यालम्बनानुगतः सर्वाकारसर्वज्ञज्ञानाभिषेकभूमिप्राप्त इत्युच्यते॥



तस्य खलु पुनर्भवन्तो जिनपुत्रा एवंज्ञानानुगतस्य बोधिसत्त्वस्य अभिषेकभूमिसमापन्नस्य विमलो नाम समाधिरामुखीभवति। धर्मधातुविभक्तिप्रवेशश्च नाम। बोधिमण्डालंकारव्यूहश्च नाम। सर्वाकाररश्मिकुसुमश्च नाम। सागरगर्भश्च नाम। सागरसमृद्धिश्च नाम। आकाशधातुविपुलश्च नाम। सर्वधर्मस्वभावविचयश्च नाम। सर्वसत्त्वचित्तचरितानुगतश्च नाम। प्रत्युत्पन्नसर्वबुद्धसंमुखावस्थितश्च नाम बोधिसत्त्वसमाधिरामुखीभवति। तसैवंप्रमुखानि दश समाध्यसंख्येयशतसहस्राण्यामुखीभवन्ति। स तान् सर्वान् समाधीन् समापद्यते च व्युत्तिष्ठते च, समाधिकौशल्यानुगतश्च यावत्समाधिकार्यं तत्सर्वं प्रत्यनुभवति। तस्य यावद्दशसमाध्यसंख्येयशतसहस्राणां पर्यन्ते सर्वज्ञज्ञानविशेषाभिषेकवान्नाम बोधिसत्त्वसमाधिरामुखीभवति॥



यस्मिन् समनन्तराभिमुखीभूते दशत्रिसाहस्रशतसहस्रापर्यन्तप्रमाणं महारत्न‍राजपद्मं प्रादुर्भवति सर्वाकारररत्नप्रत्यर्पितं सर्वलोकविषयसमतिक्रान्तं लोकोत्तरकुशलमूलसंभूतं मायास्वभावगोचरपरिनिष्पन्नं धर्मधातुसुव्यवस्थितावभासं दिव्यविषयसमतिक्रान्तं महावैडूर्यमणिरत्नदण्डमतुल्यचन्दनराजकर्णिकं महाश्मगर्भकेसरं जाम्बूनदसुवर्णावभासपत्रमपरिमितरश्मिसंकुसुमितशरीरं सर्वप्रवररत्नप्रत्युप्तगर्भमपर्यन्तमहारत्नजालसंछन्नं परिपूर्णदशत्रिसाहस्रशतसहस्रपरमाणुरजःसममहारत्नपद्मपरिवारम्। तदनुगतस्तदनुरूपश्च तस्य बोधिसत्त्वस्य कायः संतिष्ठते। स तस्य सर्वज्ञज्ञानविशेषाभिषेकवतः समाधेः सहप्रतिलम्भात्तस्मिन्महारत्न‍राजपद्मे निषण्णः संदृश्यते। समनन्तरनिषण्णश्च स बोधिसत्त्वस्तस्मिन् महारत्न‍राजपद्मे, अथ यावन्ति तस्य महारत्न‍राजपद्मस्य महापद्मानि परिवारः प्रादुर्भूतः, तावन्तो बोधिसत्त्वा दशदिग्लोकधातुसंनिपतितास्तं बोधिसत्त्वमनुपरिवार्य तेषु महारत्नपद्मेषु निषीदन्ति। एकैकश्च तेषां दश समाधिशतसहस्राणि समापद्यते तमेव बोधिसत्त्वं निरीक्षमाणः॥



समनन्तरसमापन्ने च तस्मिन् बोधिसत्त्वे तेषु च बोधिसत्त्वेषु निरवशेषम्, अथ सर्वलोकधातुसंप्रकम्पनं भवति। सर्वापायप्रतिप्रस्रम्भणं च, सर्वधर्मधात्ववभासकरणं च, सर्वलोकधातुपरिशोधनं च, सर्वबुद्धक्षेत्रनामधेयरुताननुरवणं च, सर्वसभागचरितबोधिसत्त्वसंनिपातनं च सर्वलोकधातुदेवमनुष्यतूर्यसंगीतिसंप्रवादनं च सर्वसत्त्वसुखसंजननं च सर्वसम्यक्संबुद्धाचिन्त्यपूजोपस्थानप्रवर्तनं च सर्वतथागतपर्षन्मण्डलविज्ञापनं च भवति। तत्कस्य हेतोः? तथा हि भो जिनपुत्रास्तस्य बोधिसत्त्वस्य समनन्तरनिषण्णस्य तस्मिन् महारत्न‍राजपद्मे अधस्ताच्चरणतलाभ्यां दशरश्म्यसंख्येयशतसहस्राणि निश्चरन्ति। निश्चर्य दशदिशमवीचिपर्यन्तान् महानिरयानवभासयन्ति। नैरयिकानां सत्त्वानां सर्वदुःखानि प्रतिप्रस्रम्भयति। जानुमण्डलाभ्यां दश...दशदिशं सर्वतिर्यग्योनिभवनान्यवभासयन्ति, सर्वतिर्यग्योनिदुःखानि च प्रशमयन्ति। नाभिमण्डलाद् दश...सर्वयमलोकभवनानि अवभासयन्ति, सर्वयमलौकिकानां सत्त्वानां दुःखानि च प्रशमयन्ति। वामदक्षिणाभ्यां पार्श्वाभ्यां...मनुष्याश्रयान्...मनुष्य...। उभाभ्यां पाणिभ्यां देवासुरभवनानि...देवासुर...। अंसाभ्यां...श्रावकयानीयाश्रयानवभासयन्ति, धर्मालोकमुखं चोपसंहरन्ति। पृष्ठतो ग्रीवायाश्च...प्रत्येकबुद्धाश्रयानवभासयन्ति, शान्तिसमाधिमुखनयं चोपसंहरन्ति। मुखद्वाराद्...प्रथमचित्तोपादमुपादाय यावन्नवमीं भूमिमनुप्राप्तान् बोधिसत्त्वानवभासयन्ति, प्रज्ञोपायकौशल्यनयं चोपसंहरन्ति। ऊर्णाकोशाद्दशरश्म्यसंख्येयशतसहस्राणि निश्चरन्ति, निश्चर्य दशसु दिक्षु सर्वमारभवनान्यवभास्य ध्यामीकृत्य अभिषेकभूमिप्राप्तान् बोधिसत्त्वान् अवभास्य तत्कायेष्वेवास्तं गच्छन्ति। उपर्युत्तमाङ्गात् परिपूर्णदशत्रिसाहस्रासंख्येयशतसहस्रपरमाणुरजःसमा रश्मयो निश्चरन्ति, निश्चर्य दशसु दिक्षु धर्मधातुप्रमाणान्याकाशधातुपर्यवसानानि सर्वतथागतपर्षन्मण्डलान्यवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य उपरिखगपथे स्थित्वा महारश्मिजालमण्डलानि कृत्वा उत्तप्तप्रभासं नाम महत्तथागतपूजोपस्थानं सर्वतथागतानामनुप्रवर्तयन्ति। तस्य पूजोपस्थानस्य प्रथमचित्तोत्पादमुपादाय यावन्नवमीभूम्यनुप्रवर्तितम् तथागतपूजोपस्थानं...। ततः खल्वपि महारश्मिजालमण्डलाद्यावती दशसु दिक्षु निरवशेषसर्वधर्मधात्वन्तर्गता पुष्पप्रज्ञप्तिर्वा गन्धधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावस्त्राभरणमणिरत्नप्रज्ञप्तिर्वा, ततोऽतिरिक्ततराः सर्वलोकविषयसमतिक्रान्ता लोकोत्तरकुशलमूलसंभाराधिपत्याभिनिर्वृत्ताः सर्वाकारगुणसंपन्ना अचिन्त्यनिर्वाणाधिष्ठानाधिष्ठिता नानाव्यूहमहारत्नवर्षा इव एकैकतथागतपर्षन्मण्डले महामेघा इवाभिप्रवर्षन्ति स्म। तां च ये सत्त्वाः पूजां संजानन्ते, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ। एवंरूपं पूजोपस्थानं प्रवर्त्य ता रश्मयः पुनरेव सर्वावन्ति तथागतपर्षन्मण्डलान्यवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य तेषां तथागतानामर्हतां सम्यक्संबुद्धानामधस्तात्क्रमतलेषु अस्तं गच्छन्ति। ततस्तेषां तथागतानां तेषां च बोधिसत्त्वानां विदितं भवति - अमुष्मिन् लोकधातुप्रसरे एवंचर्यानुगतो बोधिसत्त्वोऽभिषेककालप्राप्त इति। तत्र भो जिनपुत्रा दशभ्यो दिग्भ्योऽपर्यन्तेभ्यो लोकधातुप्रसरेभ्योऽप्रमेयासंख्येयापर्यन्ता बोधिसत्त्वा यावन्नवमीबोधिसत्त्वभूमिप्रतिष्ठिता आगत्य तं बोधिसत्त्वमनुपरिवार्य महतीं पूजां कृत्वा तमेव बोधिसत्त्वं निरीक्षमाणा दश समाधिशतसहस्राणि समापद्यन्ते। अभिषेकभूमिप्राप्तानां च बोधिसत्त्वानां कायेभ्यः श्रीवत्सालंकाराद्वज्रस्वस्तिकात् सर्वमारशत्रुविजयो नामैकैका महारश्मिर्दशरश्म्यसंख्येयशतसहस्रपरिवारा निश्चरति, निश्चर्य दशदिशोऽवभास्य अपर्यन्तानि प्रातिहार्याणि संदर्श्य तस्य बोधिसत्त्वस्य श्रीवत्सालंकारे वज्रस्वस्तिक एवास्तं गच्छति। समनन्तरादस्तमितायाश्च तस्या रश्म्याः शतसहस्रगुणोत्तरा तस्य बोधिसत्त्वस्य बलस्थामाभिवृद्धिः प्रज्ञायते॥



अथ खलु भो जिनपुत्राः सर्वज्ञताभिज्ञावत्यो नाम रश्मयस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामूर्णाकोशेभ्यो निश्चरन्त्यसंख्येयपरिवाराः। ताः सर्वासु दशसु दिक्षु अशेषतः सर्वलोकधातूनवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य महान्ति तथागतविकुर्वितानि संदर्श्य बहूनि बोधिसत्त्वकोटिनियुतशतसहस्राणि संचोद्य सर्वबुद्धक्षेत्रप्रसरान् षड्विकारं संप्रकम्प्य सर्वापायच्युतिगत्युपपत्तीः प्रशम्य सर्वमारभवनानि ध्यामीकृत्य सर्वतथागताभिसंबोधिविबुद्धबुद्धासनान्युपसंदर्श्य सर्वबुद्धपर्षन्मण्डलव्यूहप्रभावं निदर्श्य धर्मधातुपरमानाकाशधातुपर्यवसानान् सर्वलोकधातूनवभास्य पुनरेवागत्य तं सर्वावन्तं बोधिसत्त्वपर्षत्संनिपातमुपर्युपरिप्रदक्षिणीकृत्य महाव्युहान्निदर्श्य ता रश्मयस्तस्य बोधिसत्त्वस्योत्तमाङ्गेऽस्तं गच्छन्ति। तत्परिवाररश्मयश्च तथा संनिपतितानां तेषां बोधिसत्त्वानां शिरस्स्वन्तर्धीयन्ते स्म। समनन्तरसंनिपतिताभिश्च ताभी रश्मिभिस्ते बोधिसत्त्वा अप्रतिलब्धपूर्वाणि दश समाधिशतसहस्राणि प्रतिलभन्ते। ताश्च रश्मयस्तुल्यकालं तस्य बोधिसत्त्वस्योत्तमाङ्गे निपतिता भवन्ति। स च बोधिसत्त्वोऽभिषिक्त इत्युच्यते सम्यक्संबुद्धविषये। दशबलपरिपूर्या तु सम्यक्संबुद्ध इति संख्यां गच्छति। तद्यथापि नाम भो जिनपुत्रा यो राज्ञश्चक्रवर्तिनः पुत्रो ज्येष्ठः कुमारोऽग्र्यमहिषीप्रसूतश्चक्रवर्तिराजलक्षणसमन्वागतो भवति, तं राजा चक्रवर्ती दिव्ये हस्तिसौवर्णे भद्रपीठे निषाद्य, चतुर्भ्यो महासमुद्रेभ्यो वार्यानीय, उपरिरत्नविमानेन धार्यमाणेन महता पुष्पधूपगन्धदीपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकातूर्यतालावचरसंगितिव्यूहेन सौवर्णं भृङ्गारं गृहीत्वा तेन वारिणा तं कुमारं मूर्धन्यभिषिञ्चति। समनन्तराभिषिक्तश्च राजा क्षत्रियो मूर्धभिषिक्त इति संख्यां गच्छति। दशकुशलकर्मपथपरिपूर्या तु चक्रवर्तीति संज्ञां प्रतिलभते। एवमेव भो जिनपुत्राः समनन्तराभिषिक्तो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिर्महाज्ञानाभिषेकाभिषिक्त इत्युच्यते। सम्यक्संबुद्धाभिषेकेण दशबलपरिपूर्या तु सम्यक्संबुद्ध इति संख्यां गच्छति। अयं भो जिनपुत्रा बोधिसत्त्वस्य महाज्ञानाभिषेको यस्यार्थे बोधिसत्त्वोऽनेकानि दुष्करशतसहस्राण्यारभते। स एवमभिषिक्तोऽप्रमेयगुणज्ञानविवर्धितो धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठित इत्युच्यते॥



सोऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वो धर्मधातुसमुदागमं च यथाभूतं प्रजानाति। कामधातुसमुदागमं च यथाभूतं प्रजानाति। रूपधातुसमुदागमं च यथाभूतं प्रजानाति। आरूप्यधातुसमुदागमं च यथाभूतं प्रजानाति। लोकधातुसमुदागमं च यथाभूतं प्रजानाति। सर्वसत्त्वधातुसमुदागमं च यथाभूतं प्रजानाति। विज्ञानधातुसमुदागमं च यथाभूतं प्रजानाति। संस्कृतासंस्कृतधातुसमुदागमं च यथाभूतं प्रजानाति। आकाशधातुसमुदागमं च यथाभूतं प्रजानाति। भूताभूतदेशनां च यथाभूतं प्रजानाति। निर्वाणं च यथाभूतं प्रजानाति। दृष्टिक्लेशसमुदागमं च यथाभूतं प्रजानाति। लोकधातुप्रवृत्तिनिवृत्तिसमुदागमं च यथाभूतं प्रजानाति। श्रावकचर्यासमुदागमं च यथाभूतं प्रजानाति। प्रत्येकबुद्धचर्यासमुदागमं च यथाभूतं प्रजानाति। बोधिसत्त्वचर्यासमुदागमं च यथाभूतं प्रजानाति।

तथागतबलवैशारद्यावेणिकबुद्धधर्मरूपकायधर्मकायसमुदागमं च यथाभूतं प्रजानाति। सर्वाकारसर्वज्ञज्ञानसमुदागमं च यथाभूतं प्रजानाति। अभिसंबोधिधर्मचक्रप्रवृत्तिसंदर्शनसमुदागमं च यथाभूतं प्रजानाति। समासतः सर्वधर्मप्रवेशविभक्तिनिष्तीर्णसमुदागमं च यथाभूतं प्रजानाति। स एवंज्ञानानुगतया बुद्ध्या उत्तरि सत्त्वकायनिर्माणं च यथाभूतं प्रजानाति। क्लेशकायनिर्माणं च यथाभूतं प्रजानाति। दृष्टिकृतनिर्माणं च...लोकधातुनिर्माणं च...धर्मधातुनिर्माणं च...श्रावकनिर्माणं च...प्रत्येकबुद्धनिर्माणं च...बोधिसत्त्वनिर्माणं च...तथागतनिर्माणं च...सर्वनिर्माणकल्पाकल्पतां च यथाभूतं प्रजानाति। सर्वबुद्धाधिष्ठानं च...धर्माधिष्ठानं च...संघाधिष्ठानं च...कर्माधिष्ठानं च क्लेशाधिष्ठानं च...कालाधिष्ठानं च...प्रणिधानाधिष्ठानं च...पूजाधिष्ठानं च...चर्याधिष्ठानं च...कल्पाधिष्ठानं च...ज्ञानाधिष्ठानं च प्रजानाति। स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां सूक्ष्मप्रवेशज्ञानानि यदुत चर्यासूक्ष्मप्रवेशज्ञानं वा, च्युत्युपपत्तिसुक्ष्मप्रवेशज्ञानं वा, जन्मसूक्ष्मप्रवेशज्ञानं वा, अभिनिष्क्रमणसूक्ष्मप्रवेशज्ञानं वा, अभिसंबोधिसूक्ष्मप्रवेशज्ञानं वा, विकुर्वणसुक्ष्मप्रवेशज्ञानं वा, धर्मचक्रप्रवर्तनसूक्ष्मप्रवेशज्ञानं वा, धर्मदेशनासुक्ष्मप्रवेशज्ञान वा, धर्मविस्तरसूक्ष्मप्रवेशज्ञानं वा, आयुःप्रमाणाधिष्ठानज्ञानं वा, वर्णरूपकायसंदर्शनज्ञानं वा, सर्वसत्त्वविनयातिक्रमणज्ञानं वा, सर्वलोकधातुस्फरणज्ञानं वा, सर्वसत्त्वचित्तचरितव्यवलोकनज्ञानं वा, एकक्षणे त्र्यध्वव्यवलोकनज्ञानं वा, पूर्वान्तापरान्तनिरवशेषज्ञानं वा, सर्वसत्त्वचित्तचरितनानात्वसमन्तज्ञानं वा, तथागतबलवैशारद्यबुद्धधर्माचिन्त्यज्ञानं वा, तथागतपरिनिर्वाणज्ञानं वा, शासनाधिष्ठानसद्धर्मस्थितिज्ञानं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां सुक्ष्मप्रवेशज्ञानानि, तानि सर्वाणि यथाभूतं प्रजानाति। स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां गुह्यस्थानानि यदुत कायगुह्यं वा वाग्गुह्यं वा चित्तगुह्यं वा कालाकालविचारणागुह्यं वा बोधिसत्त्वव्याकरणगुह्यं वा सत्त्वसंग्रहनिग्रहगुह्यं वा विनेयोत्सादनावसानगुह्यं वा यथाकालाववादानुशासनाध्युपेक्षणं वा याननानात्वव्यवस्थापनगुह्यं वा सत्त्वचर्येन्द्रियविभक्तिगुह्यं वा सत्त्वकर्मक्रियावतारगुह्यं वा बोधिसत्त्वचर्येन्द्रियविभक्तिगुह्यं वा चर्याभिसंबोधिस्वभावप्रभावानुबोधिगुह्यं वा स्वभावाभिसंबोध्यधिष्ठानगुह्यं वा अवतारोत्तारणगुह्यं वा आकर्षणसंप्रेषणगुह्यं वा स्थानचंक्रमणनिषद्याशय्यासनसंदर्शनगुह्यं वा आहारपरिभोगकायोपकरणप्रतिसेवनगुह्यं वा भाषिततूष्णींभावध्यानविमोक्षसमाधिसमापत्तिसंदर्शनगुह्यं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां गुह्यस्थानानि, तानि सर्वाणि यथाभूतं प्रजानाति। स यानीमानि तथागतानां कल्पप्रवेशसमवसरणज्ञानानि यदुत एककल्पासंख्येयकल्पसमवसरणता। असंख्येयकल्पैककल्पसमवसरणता। संख्येयकल्पासंख्येयकल्पसमवसरणता। असंख्येयकल्पसंख्येयकल्पसमवसरणता। चित्तक्षणकल्पसमवसरणता। कल्पचित्तक्षणसमवसरणता। कल्पाकल्पसमवसरणता। अकल्पकल्पसमवसरणता। सबुद्धककल्पाबुद्धककल्पसमवसरणता। अबुद्धककल्पसबुद्धककल्पसमवसरणता। अतीतानागतकल्पप्रत्युत्पन्नकल्पसमवसरणता। प्रत्युत्पन्नकल्पातीतानागतकल्पसमवसरणता। अतीतकल्पानागतकल्पसमवसरणता। अनागतकल्पातीतकल्पसमवसरणता। दीर्घकल्पह्रस्वकल्पसमवसरणता। ह्रस्वकल्पदीर्घकल्पसमवसरणता। सर्वकल्पेषु संज्ञाकृतसमवसरणता। सर्वसंज्ञाकृतेषु कल्पसमवसरणता। एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि कल्पप्रवेशसमवसरणानि, तानि सर्वानि यथाभूतं प्रजानाति। स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानामवतारज्ञानानि यदुत वालपथावतारज्ञानं वा परमाणुरजोवतारज्ञानं वा बुद्धक्षेत्रकायाभिसंबोध्यवतारज्ञानं वा सत्त्वकायचित्ताभिसंबोध्यवतारज्ञानं वा सर्वत्रानुगताभिसंबोध्यवतारज्ञानं वा व्यत्यस्तचरिसंदर्शनावतारज्ञानं वा अनुलोमचरिसंदर्शनावतारज्ञानं वा प्रतिलोमचरिसंदर्शनावतारज्ञानं चिन्त्याचिन्त्यलोकविज्ञेयविज्ञेयं चरिसंदर्शनावतारज्ञानं वा श्रावकविज्ञेयप्रत्येकबुद्धविज्ञेयबोधिसत्त्वविज्ञेयतथागतविज्ञेयचरिसंदर्शनावतारज्ञानं वा, तानि सर्वाणि यथाभूतं प्रजानाति। इति हि भो जिनपुत्रा अप्रमेयं बुद्धानां भगवतां ज्ञानवैपुल्यमप्रमाणमेवास्यां भूमौ स्थितस्य बोधिसत्त्वस्यावतारज्ञानम्॥



स खलु पुनर्भो जिनपुत्रा बोधिसत्त्व एवमिमां बोधिसत्त्वभूमिमनुगतोऽचिन्त्यं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते। अनावरणं च नाम विशुद्धिविचयं च नाम समन्तमुखावभासं च नाम तथागतकोशं च नाम अप्रतिहतचक्रानुगतं च नाम त्र्यध्वानुगतं च नाम धर्मधातुगर्भं च नाम विमुक्तिमण्डलप्रभासं च नाम अशेषविषयगमं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते। इति हि भो जिनपुत्रा इमान् दश बोधिसत्त्वविमोक्षान् प्रमुखान् कृत्वा अप्रमेयासंख्येयानि बोधिसत्त्वविमोक्षमुखशतसहस्राणि बोधिसत्त्वोऽस्यां दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठितः प्रतिलभते। एवं यावत्समाधिशतसहस्राणि धारणीशतसहस्राणि अभिज्ञाभिनिर्हारशतसहस्राणि प्रतिलभते। ज्ञानालोकशतसहस्राणि विकुर्वणशतसहस्राणि प्रसंविन्निर्हारशतसहस्राणि उपायप्रज्ञाविक्रीडितशतसहस्राणि गम्भीरधर्मनयप्रवेशशतसहस्राणि महाकरुणावेगशतसहस्राणि बोधिसत्त्ववशिताप्रवेशशतसहस्राणि प्रतिलभते॥



स एवंज्ञानानुगतया बुद्ध्या अप्रमाणानुगतेन स्मृतिकौशल्येन समन्वागतो भवति। स दशभ्यो दिग्भ्योऽप्रमेयाणां बुद्धानां भगवतां सकाशादेकक्षणलवमुहूर्तेना अप्रमाणान् महाधर्मावभासान् महाधर्मालोकान् महाधर्ममेघान् सहते संप्रतीच्छति स्वीकरोति संघारयति। तद्यथापि नाम भो जिनपुत्राः सागरनागराजमेघविसृष्टो महानप्स्कन्धो न सुकरोऽन्येन पृथिवीप्रदेशेन सोढुं वा संप्रत्येषितुं वा स्वीकर्तुं वा संधारयितुं वा अन्यत्र महासमुद्रात्, एवमेव भो जिनपुत्रा ये ते तथागतानां भगवतां गुह्यानुप्रवेशा यदुत महाधर्मावभासा महाधर्मालोका महाधर्मामेघाः, ते न सुकराः सर्वसत्त्वैः सर्वश्रावकप्रत्येकबुद्धैः प्रथमां भूमिमुपादाय यावन्नवमीभूमिप्रतिष्ठितैरपि बोधिसत्त्वैः, तान् बोधिसत्त्वोऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ स्थितः सर्वान् सहते संप्रतीच्छति स्वीकरोति संधारयति। तद्यथापि नाम भो जिनपुत्रा महासमुद्र एकस्यापि महाभुजगेन्द्रस्य महामेघान् सहते...द्वयोरपि त्रयाणामपि यावदपरिमानाणामपि भुजगेन्द्राणामेकक्षणलवमुहूर्तेनाप्रमेयान् महामेघान् सहते...। तत्कस्य हेतोः? अप्रमाणविपुलविस्तीर्णत्वान्महासमुद्रस्य। एवमेव भो जिनपुत्रा अस्यां धर्ममेघायाम् बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व एकस्यापि तथागतस्य सकाशादेकक्षण...द्वयोरपि त्रयानामपि यावदपरिमानाणामपि तथागतानां सकाशादेकक्षण...। तत उच्यत इयं भूमिर्धर्ममेघेति॥



विमुक्तिचन्द्रो बोधिसत्त्व आह - शक्यं पुनर्भो जिनपुत्र संख्यां कर्तुं कियतां तथागतानामन्तिकेभ्यो बोधिसत्त्वैकक्षण...? वज्रगर्भो बोधिसत्त्व आह - न सुकरा भो जिनपुत्र संख्या कर्तु गणनानिर्देशेन - इयतां तथागतानामन्तिकेभ्यो बोधिसत्त्वैकक्षण...। अपि तु खल्वौपम्यं करिष्यामि। तद्यथापि नाम भो जिनपुत्र दशसु दिक्षु दशबुद्धक्षेत्रानभिलाप्यकोटिनियुतशतसहस्रपरमाणुरजःसमासु लोकधातुषु यावत् सत्त्वधातुनिरवशेषयोगेन संविद्यते। तत एकः सत्त्वः श्रुतग्रहणधारणीप्रतिलब्धो भवेत्तथागतानामुपस्थायको महाश्रावकोऽग्र्यः श्रुतधराणाम्। तद्यथापि नाम भगवतो वज्रपद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य महाविजयो नाम भिक्षुरेवंरूपेण श्रुतकौशल्यबलाधानेन स एकः सत्त्वः समन्वागतो भवेत्। यथा च स एकः सत्त्वस्तथा निरवशेषासु सर्वासु लोकधातुषु ते सर्वे सत्त्वाः समन्वागता भवेयुः। यच्चैकेनोद्गृहीतं स्यान्न द्वितीयेन। तत्किं मन्यसे भो जिनपुत्र बहुतरं तेषामप्रमेयाप्रमाणं वा श्रुतकौशल्यं भवेत्? विमुक्तिचन्द्रो बोधिसत्त्व आह - बहु भो जिनपुत्र अप्रमाणं तत्तेषां सर्वसत्त्वानां श्रुतकौशल्यं भवेत्। वज्रगर्भो बोधिसत्त्व आह - आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि। यं धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व एकक्षणलवमुहूर्तेनैकस्यैव तावत्तथागतस्य सकाशाद्धर्मधातुत्र्यध्वकोशं नाम महाधर्मावभासालोकमेघं सहते...। यस्य महाधर्मावभासालोकमेघसंधारणकौशल्यस्य तत् पूर्वकं श्रुतकौशल्यं...क्षमते। यथा चैकस्य तथागतस्य सकाशात्तथा दशसु दिक्षु यावन्ति तासु पूर्विकासु लोकधातुषु परमाणुरजांसि संविद्यन्ते, तावतां सम्यक्संबुद्धानां ततोऽपि भूय उत्तरि अप्रमेयाणां तथागतानां सकाशादेकक्षणलवमुहूर्तेन धर्मधातुत्र्यध्वकोशं नाम महाधर्मावभासालोकमेघं सहते...। तत उच्यत इयं भूमिर्धर्ममेघेति॥



पुनरपरं भो जिनपुत्र धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वः स्वप्रणिधानबलाधानतो महाकृपाकरुणामेघं समुत्थाप्य महाधर्मावभासगर्जनमभिज्ञाविद्यावैशारद्यविद्युद्विद्योतितं महारश्मिमारुतसमीरितं महापुण्यज्ञानघनाभ्रजालसंदर्शनं विविधकायघनावर्तसंदर्शनं महाधर्मनिर्नादनं नमुचिपर्षद्विद्रावणमेकक्षणलवमुहूर्तेन दशसु दिक्षु यावन्ति तासु लोकधातुषु तानि परमाणुरजांसि संविद्यन्ते तावन्ति लोकधातुकोटिनयुतशतसहस्राणि स्फरित्वा तेभ्योऽपि भूयोऽप्रमेयाणि लोकधातुकोतिनयुतशतसहस्राणि स्फरित्वा महामृतकुशलधाराभिप्रवर्षणेन यथाशयतः सत्त्वानामज्ञानसमुत्थिताः सर्वक्लेशरजोज्वालाः प्रशमयति। तत उच्यत इयं भूमिर्धर्ममेघेति॥



पुनरपरं भो जिनपुत्र धर्ममेघायां बोधिसत्त्व एकस्यामपि लोकधातौ तुषितवरभवनवासमुपादाय च्यवनाचंक्रमणगर्भस्थितिजन्माभिनिष्क्रमणाभिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणभूमिरिति सर्वतथागतकार्यमधितिष्ठति यथाशयेषु सत्त्वेषु यथावैनेयिकेषु, एवं द्वयोरपि यावद्यावन्ति तासु लोकधातुषु परमाणुरजांसि संविद्यन्ते, ततोऽपि भूयोऽप्रमेयेषु लोकधातुकोटिनियुतशतसहस्रेषु तानि परमाणु... वैनेयिकेषु॥



स एवंज्ञानवशिताप्राप्तः सुविनिश्चितमहाज्ञानाभिज्ञ आकाङ्क्षन् संक्लिष्टाया लोकधातोः परिशुद्धतामधितिष्ठति। परिशुद्धाया लोकधातोः संक्लिष्टतामधितिष्ठति। संक्षिप्ताया लोकधातोर्विस्तीर्णतामधितिष्ठति। विस्तीर्णायाः संक्षिप्ततामधितिष्ठति। एवं विपुलमहद्गताप्रमाणसूक्ष्मौदारिकव्यत्यस्तावमूर्धमतलादीनां सर्वलोकधातूनां वृषभतयानन्तमभिनिर्हारमधितिष्ठति। आकाङ्क्षन् एकस्मिन् परमाणुरजस्येकामपि लोकधातुं सर्वावतीं सचक्रवालपरिखामधितिष्ठति। तच्च परमाणुरजो न वर्धयति तां च क्रियामादर्शयति। द्वेऽपि तिस्रोऽपि चतस्रोऽपि पञ्चापि यावदनभिलाप्यापि लोकधातुरेकस्मिन् परमाणुरजसि सर्वाः सचक्रवालपरिखा अधितिष्ठति। आकाङ्क्षन् एकस्यां लोकधातौ द्विलोकधातुव्यूहमादर्शयति। आकाङ्क्षन् यावदनभिलाप्यलोकधातुव्यूहमादर्शयति। आकाङ्क्षन् एकलोकधातुव्यूहं द्वयोर्लोकधात्वोरादर्शयति। यावदनभिलाप्यासु लोकधातुष्वादर्शयति। आकाङ्क्षन् यावदनभिलाप्यासु लोकधातुषु यः सत्त्वधातुस्तमेकस्यां लोकधातौ संदधाति, न च सत्त्वान् विहेठयति। आकाङ्क्षन् एकस्यां लोकधातौ यावान् सत्त्वधातुस्तमनभिलाप्यासु लोकधातुषु संदधाति...। आकाङ्क्षन् अनभिलाप्यलोकधातुगतान् सत्त्वानेकवालपथे संदधाति...। आकाङ्क्षन् एकवालपथे एकं सर्वबुद्धविषयव्यूहमादर्शयति। आकाङ्क्षन् यावदनभिलाप्यान् सर्वाकारबुद्धविषयव्यूहानादर्शयति। आकाङ्क्षन् यावन्त्यनभिलाप्यासु लोकधातुषु परमाणुरजांसि तावत आत्मभावानेकक्षणलवमुहूर्तेन निर्मिमीते। एकैकस्मिंश्च आत्मभावे तावत एव पाणीन् संदर्शयति। तैश्च पाणिभिर्दशसु दिक्षु बुद्धपूजायां प्रयुज्यते। एकैकेन च पाणिना गङ्गानदीवालिकासमान् पुष्पपुटांस्तेषां बुद्धानां भगवतां क्षिपति। यथा पुष्पाणामेवं गन्धानां माल्यानां विलेपनानां चूर्णानां चीवराणां छत्राणां ध्वजानां पताकानामेवं सर्वव्यूहानाम्। एकैकस्मिंश्च काये तावन्त्येव शिरांसि अधितिष्ठति। एकैकस्मिंश्च शिरसि तावतीरेव जिह्वा अधितिष्ठति। ताभिस्तेषां बुद्धानां भगवतां वर्णं भाषते। चित्तोत्पादे च दशदिक्फरणं गच्छाति। चित्तक्षणे चाप्रमाणा अभिसंबोधीर्यावन्महापरिनिर्वाणाव्यूहानधितिष्ठति। अप्रमाणकायतां च त्रयध्वतायामधितिष्ठति। स्वकाये चाप्रमाणानां बुद्धानां भगवतामप्रमेयान् बुद्धक्षेत्रगुणव्यूहानधितिष्ठति। सर्वलोकधातुसंवर्तविवर्तव्यूहांश्च स्वकायेऽधितिष्ठति। सर्वा वातमण्डलीश्चैकरोमकूपादुत्सृजति। न च सत्त्वान् विहेठयति। आकाङ्क्षंश्चैकामप्स्कन्धपर्यन्तं लोकधातुमधितिष्ठति। तस्यां च महापद्ममधितिष्ठति। तस्य च महापद्मस्य प्रभावभासव्यूहेन अनन्ता लोकधातूः स्फरति। तत्र च महाबोधिवृक्षमादर्शयति। यावत्सर्वाकारवरोपेतं सर्वज्ञानत्वं संदर्शयति। स्वकाये दशदिङ्मणिविद्युच्चन्द्रसूर्यप्रभा यावत्सर्वावभासप्रभा अधितिष्ठति। एकमुखवातेन चैकैकस्या दिशः प्रतिदिशमनन्ता लोकधातूः कम्पयति, न च सत्त्वानुत्त्रासयति। दशदिशं च वातसंवर्तनीं तेजःसंवर्तनीमप्संवर्तनीमधितिष्ठति। सर्वसत्त्वांश्च आकाङ्क्षन् यथाभिप्रायं रूपाश्रयालंकृतानधितिष्ठति। स्वकाये च तथागतकायमधितिष्ठति। तथागतकाये च स्वकायमधितिष्ठति। तथागतकाये स्वबुद्धक्षेत्रमधितिष्ठति। स्वबुद्धक्षेत्रे च तथागतकायमधितिष्ठति। इति हि भो जिनपुत्र धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व इमानि चान्यानि चाप्रमेयासंख्येयानि ऋद्धिविकुर्वणकोटिनयुतशतसहस्राण्यादर्शयति॥



अथ खलु तस्याः पर्षदः केषांचिद्बोधिसत्त्वानां केषांचिद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमहेश्वरशुद्धावासानामेतदभवत् - यदि तावद्बोधिसत्त्वस्यैवमप्रमाण ऋद्ध्यभिसंस्कारगोचरः, तथागतानां पुनः किंरूपो भविष्यतीति ? अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वस्तस्याः पर्षदश्चित्ताशयविचारमाज्ञाय वज्रगर्भं बोधिसत्त्वमेतदवोचत् - संशयिता बतेयं भो जिनपुत्र पर्षत्। साधु, अस्याः संशयच्छित्यर्थं किंचिन्मात्रं बोधिसत्त्वव्यूहप्रातिहार्यं संदर्शय। अथ खलु वज्रगर्भो बोधिसत्त्वस्तस्यां वेलायां सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनं नाम बोधिसत्त्वसमाधिं समापद्यते। समनन्तरसमापन्ने वज्रगर्भे बोधिसत्त्वे सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनं बोधिसत्त्वसमाधिम्, अथ तावदेव सा सर्वावती बोधिसत्त्वपर्षत् सा च देवनागयक्षशुद्धावासपर्षद् वज्रगर्भस्य बोधिसत्त्वस्य कायान्तरीभूतमात्मानं संजानीते स्म, तत्र च बुद्धक्षेत्रमभिनिर्वृतं संजानीते स्म। तस्मिंश्च बुद्धक्षेत्रे ये आकारव्यूहास्ते न सुकराः परिपूर्णयापि कल्पकोट्या प्रभावयितुम्। तत्र च बोधिवृक्षं दशत्रिसाहस्रशतसहस्रविष्कम्भस्कन्धं परिपूर्णत्रिसाहस्रकोटिविपुलाप्रमाणविटपोद्विद्धशिखरं तदनुरूपं च तस्मिन् बोधिमण्डे सिंहासनवैपुल्यं तत्र सर्वाभिज्ञामतिराजं नाम तथागतं बोधिमण्डवरगतं समपश्यत्। इति हि यावन्तस्तत्र व्यूहाः संदृश्यन्ते ते न सुकराः परिपूर्णयापि कल्पकोट्या प्रभावयितुम्। स इदं महाप्रातिहार्यं संदर्श्य तां सर्वावतीं बोधिसत्त्वपर्षदं तां च देवनाग... शुद्धावासपर्षदं पुनरेव यथास्थाने स्थापयामास। अथ खलु सा सर्वावती पर्षदाश्चर्यप्राप्ता तूष्णींभूता तमेव वज्रगर्भं बोधिसत्त्वं निध्यायन्ती स्थिताभूत्। अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - आश्चर्यमिदं भो जिनपुत्र, अद्भुतं यावदचिन्त्योपमस्य समाधेर्निमेषव्यूहप्रभावः। तत्को नामायं भो जिनपुत्र समाधिः? वज्रगर्भो बोधिसत्त्व आह - सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनो नामायं भो जिनपुत्र समाधिः। विमुक्तिचन्द्रो बोधिसत्त्व आह - कः पुनर्भो जिनपुत्र अस्य समाधेर्गोचरविषयव्यूहः ? वज्रगर्भो बोधिसत्त्व आह - आकाङ्क्षन् भो जिनपुत्र बोधिसत्त्वोऽस्य समाधेः सुपरिभावितत्वाद्गङ्गानदीवालिकासमलोकधातुपरमाणुरजःसमानि दश बुद्धक्षेत्राणि स्वकाये आदर्शयेत्, अतो वा भूय उत्तरि। ईदृशानां भो जिनपुत्र बोधिसत्त्वसमाधीनां धर्ममेघायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो बहूनि शतसहस्राणि प्रतिलभते। तेन तस्य बोधिसत्त्वस्य यावद् यौवराज्यप्राप्तैरपि बोधिसत्त्वैः साधुमतीबोधिसत्त्वभूमौ प्रतिष्ठितैर्न सुकरः कायः कायकर्म वा ज्ञातुम्। न सुकरा वाग्वाक्कर्म वा ज्ञातुम्। न सुकरं मनो मनस्कर्म वा ज्ञातुम्। न सुकरर्द्धिर्ज्ञातुम्। न सुकरं त्र्यध्वविलोकितं ज्ञातुम्। न सुकरः समाधिगोचरानुप्रवेशो ज्ञातुम्। न सुकरो ज्ञानविषयो ज्ञातुम्। न सुकरं विमोक्षविक्रीडितं ज्ञातुम्। न सुकरं निर्माणकर्म वा अधिष्ठानकर्म वा प्रभाकर्म वा प्रभाकर्म वा ज्ञातुम्। न सुकरं यावत्समासतः क्रमोत्क्षेपनिक्षेपकर्मापि ज्ञातुम्। यावत् यौवराज्य...। एवमप्रमाणा भो जिनपुत्र इयं धर्ममेघा बोधिसत्त्वभूमिः समासनिर्देशतः। विस्तरशः पुनरसंख्येयकल्पशतसहस्रनिर्देशापर्यन्ताकारतो द्रष्टव्या॥



विमुक्तिचन्द्रो बोधिसत्त्व आह - किदृशो भो जिनपुत्र तथागतगोचरविषयप्रवेशो यत्रेदं बोधिसत्त्वानां चर्याविषयाधिष्ठानमेवमप्रमाणम्? वज्रगर्भो बोधिसत्त्व आह - तद्यथापि नाम स्याद्भो जिनपुत्र कश्चिदेव पुरुषश्चतुर्द्वीपिकाया लोकधातोर्द्वौ त्रीन् वा कोलास्थिमात्रान् पाषाणान् गृहित्वैवं वदेत् - कियती नु खलु सा पृथिवीधातुरपर्यन्तासु लोकधातुषु इतः पाषाणेभ्यो महद्गततया वा प्रमाणत्वेनेति? ईदृशमिदं मम त्वद्वचनं प्रतिभाति। यस्त्वमप्रमाणज्ञानिनां तथागतानामर्हतां सम्यक्संबुद्धानां धर्मतां बोधिसत्त्वधर्मतया तुलयसि। अपि तु खलु पुनर्भो जिनपुत्र यथा चातुर्द्वीपिकाया लोकधातोः परीत्ता पृथिवीधातुर्या उद्गृहीताप्रमाणावशिष्टा, एवमेव भो जिनपुत्र अस्या एव तावद्धर्ममेघाया बोधिसत्त्वभूमेरप्रमेयान् कल्पान्निर्दिश्यमानायाः प्रदेशमात्रं निर्दिष्टं स्यात्, कः पुनर्वादस्तथागतभूमेः। आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि। अयं मे तथागतः पुरतः स्थितः साक्षीभूतः। सचेद्भो जिनपुत्र दशसु दिक्षु एकैकस्यां दिशि अपर्यन्तलोकधातुपरमाणुरजःसमानि बुद्धक्षेत्राण्येवंभूमिप्राप्तैर्बोधिसत्त्वैः पूर्णानि भवेयुर्यथेक्षुवनं वा नडवनं वा वेणुवनं वा तिलवनं वा शालिवनं व, तेषामपर्यन्तकल्पाभिनिर्हृतो बोधिसत्त्वचर्याभिनिर्हारतथागतस्यैकक्षणज्ञानप्रसृतस्य तथागतविषयस्य...। इति हि भो जिनपुत्र एवंज्ञानानुगतो बोधिसत्त्वस्तथागताद्वयकायवाक्चित्तो बोधिसत्त्वसमाधिबलं च नोत्सृजति बुद्धदर्शनपूजोपस्थानं च करोति। स एकैकस्मिन् कल्पेऽपर्यन्तांस्तथागतान् सर्वाकाराभिनिर्हारपूजाभिः पूजयति। औदारिकानुगतया पूजया तेषां च बुद्धानां भगवतामधिष्ठानावभासं संप्रतीच्छति। स भूयस्या मात्रया असंहार्यो भवति धर्मधातुविभक्तिपरिपृच्छानिर्देशैः। अनेकान् कल्पाननेकानि कल्पशतानि...अनेकानि कल्पकोटिनयुतशतसहस्राणि। तद्यथापि नाम भो जिनपुत्र दिव्यकर्मारकृतं महाभरणोपचारं महामणिरत्नप्रत्युप्तं वशवर्तिनो देवराजस्योत्तमाङ्गे कण्ठे वा आवद्धमसंहार्यं भवति तदन्यैर्दिव्यमानुष्यकैराभरणविभूषणोपचारैः, एवमेव भो जिनपुत्र बोधिसत्त्वस्येमां दशमीं धर्ममेघां भोधिसत्त्वभूमिमनुप्राप्तस्य ते बोधिसत्त्वज्ञनोपचारा असंहार्या भवन्ति सर्वसत्त्वैः सर्वश्रावकप्रत्येकबुद्धैः प्रथमां बोधिसत्त्वभूमिमुपादाय यावन्नवमीं बोधिसत्त्वभूमिमनुप्राप्तैर्बोधिसत्त्वैः। अस्यां च बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य ज्ञानवभासः सत्त्वानां यावत्सर्वज्ञज्ञानावताराय संवर्ततेऽसंहार्यस्तदन्यैर्ज्ञानावभासैः। तद्यथापि नाम भो जिनपुत्र महेश्वरस्य देवराजस्याभा अतिक्रान्ता भवति सर्वोपपत्त्यायतनानि, सत्त्वानां च कायाश्रयान् प्रह्लादयति, एवमेव भो जिनपुत्र बोधिसत्त्वस्य अस्यां दशभ्यां धर्ममेघायां बोधिसत्त्वभूमौ स्थितस्य ज्ञानाभा असंहार्या भवति सर्वश्रावकप्रत्येकबुद्धैः प्रथमां बोधिसत्त्वभूमिमुपादाय यावन्नवमीबोधिसत्त्वभूमिप्रतिष्ठितैर्बोधिसत्त्वैर्यावत्सर्वज्ञज्ञानधर्मतायां च सत्त्वान् प्रतिष्ठापयति। स खलु पुनर्भो जिनपुत्र बोधिसत्त्व एवंज्ञानानुगतो बुद्धैर्भगवद्भिस्त्र्यध्वज्ञानं च संश्राव्यते। धर्मधातुप्रभेदज्ञानं च सर्वलोकधातुस्फरणं च सर्वलोकधात्ववभासाधिष्ठानं च सर्वसत्त्वक्षेत्रधर्मपरिज्ञानं च सर्वसत्त्वचित्तचरितानुप्रवेशज्ञानं च सर्वसत्त्वयथाकालपरिपाकज्ञानं च विनयानतिक्रमणं च सर्वधर्मप्रविचयविभक्तिज्ञानकौशल्यं च समासतो यावत्सर्वज्ञज्ञानाप्रमाणतां च संश्राव्यते। तस्य दशभ्यः पारमिताभ्यो ज्ञानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। इयं भो जिनपुत्र बोधिसत्त्वस्य धर्ममेघा नाम दशमी बोधिसत्त्वभूमिः समासनिर्देशतः। विस्तरशः पुनरसंख्येयापर्यन्तकल्पनिर्देशनिष्ठातोऽनुगन्तव्या। यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन महेश्वरो भवति देवराजः कृती प्रभुः सत्त्वानां सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वपारमितोपदेशेष्वसंहार्यो धर्मधातुविभक्तिपरिपृच्छानिर्देशैः। यच्च किंचित्...॥



धर्ममेघा नाम बोधिसत्त्वभूमिर्दशमी॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project