Digital Sanskrit Buddhist Canon

५ सुदुर्जया नाम पञ्चमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 5 sudurjayā nāma pañcamī bhūmiḥ
५ सुदुर्जया नाम पञ्चमी भूमिः।



वज्रगर्भ आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वश्चतुर्थ्यां बोधिसत्त्वभूमौ सुपरिपूर्णमार्गः पञ्चमीं बोधिसत्त्वभूमिमवतरति, स दशभिश्चित्ताशयविशुद्धिसमताभिरवतरति। कतमाभिर्दशभिः? यदुत अतीतबुद्धधर्मविशुद्ध्याशयसमतया च अनागतबुद्धधर्मविशुद्ध्याशयसमतया च प्रत्युत्पन्नबुद्धधर्मविशुद्ध्याशयसमतया च शीलविशुद्ध्याशयसमतया च चित्तविशुद्ध्याशयसमतया च दृष्टिकाङ्क्षाविमतिविलेखापनयनविशुद्ध्याशयसमतया च मार्गामार्गज्ञानविशुद्ध्याशयसमतया च प्रतिपत्प्रहाणाज्ञानविशुद्ध्याशयसमतया च सर्वबोधिपक्ष्यधर्मोत्तरोत्तरविभावनविशुद्ध्याशयसमतया च सर्वसत्त्वपरिपाचनविशुद्ध्याशयसमतया च। आभिर्दशभिश्चित्ताशयविशुद्धिसमताभिरवतरति। स खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वः पञ्चमीं बोधिसत्त्वभूमिमनुप्राप्तः एषामेव बोधिपक्ष्याणां मार्गाङ्गानां सुपरिकर्मकृतत्वात्सुपरिशोधिताध्याशयत्वाच्च भूय उत्तरकालमार्गविशेषमभिप्रार्थयमानस्तथत्वानुप्रतिपन्नश्च प्रणिधानबलाधानतश्च कृपामैत्रीभ्यां सर्वसत्त्वापरित्यागतश्च पुण्यविज्ञानसंभारोपचयतश्च अप्रतिप्रस्रब्धितश्च उपायकौशल्याभिनिर्हारतश्च उत्तरोत्तरभूम्यवभासालोचनतश्च तथागताधिष्ठानसंप्रत्येषणतश्च स्मृतिमतिगतिबुद्धिबलाधानतश्च अप्रत्युदावर्तनीयमनसिकारो भूत्वा इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति। अयं दुःखसमुदयः आर्यसत्यमिति यथाभूतं प्रजानाति। अयं दुःखनिरोधः आर्यसत्यमिति यथाभूतं प्रजानाति। इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति। स संवृतिसत्यकुशलश्च भवति। परमार्थसत्यकुशलश्च भवति। लक्षणसत्यकुशलश्च भवति। विभागसत्यकुशलश्च भवति। निस्तीरणसत्यकुशलश्च भवति। वस्तुसत्यकुशलश्च भवति। प्रभवसत्यकुशलश्च भवति। क्षयानुत्पादसत्यकुशलश्च भवति। मार्गज्ञानावतारसत्यकुशलश्च भवति। सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यकुशलश्च भवति। स परसत्त्वानां यथाशयसंतोषणात्संवृतिसत्यं प्रजानाति। एकनयसमवसरणात्परमार्थसत्यं प्रजानाति। स्वसामन्यलक्षणानुबोधाल्लक्षणसत्यं प्रजानाति। धर्मविभागव्यवस्थानानुबोधाद्विभागसत्यं प्रजानाति। स्कन्धधात्वायतनव्यवस्थानानुबोधान्निस्तीरणसत्यं प्रजानाति। चित्तशरीरप्रपीडनोपनिपातितत्वाद्वस्तुसत्यम्, गतिसंधिसंबन्धनत्वात्प्रभवसत्यम्, सर्वज्वरपरिदाहात्यन्तोपशमात्क्षयानुत्पादसत्यम्, अद्वयानुत्पादसत्यम्, अद्वयाभिनिर्हारन्मार्गज्ञानावतारसत्यम्, सर्वाकाराभिसंबोधित्सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यं प्रजानाति अधिमुक्तिज्ञानबलाधानान्न खलु पुनर्निरवशेषज्ञानात्॥



स एवं सत्यकौशल्यज्ञानाभिनिर्हृतया बुद्ध्या सर्वसंस्कृतं रिक्तं तुच्छं मृषा मोषधर्म अविसंवादकं बालालापनमिति यथाभूतं प्रजानाति। तस्य भूयस्या मात्रया सत्त्वेषु महाकरुणा अभिमुखीभवति, महामैत्र्यालोकश्च प्रादुर्भवति॥



स एवं ज्ञानबलाधनप्राप्तः सर्वसत्त्वसापेक्षो बुद्धज्ञानाभिलाषी पूर्वान्तापरान्तं सर्वसंस्कारगतस्य प्रत्यवेक्षते यथा पूर्वान्ततोऽविद्याभवतृष्णाप्रसृतानां सत्त्वानां संसारस्रोतोऽनुवाहिनां स्कन्धालयानुच्छलितानां दुःखस्कन्धो विवर्धते, निरात्मा निःसत्त्वो निर्जीवो निष्पोषो निष्पुद्गल आत्मात्मीयविगतः, तं यथाभूतं प्रजानाति। यथा च अनागतस्यैव असत्संमोहाभिलाषस्य व्यवच्छेदः पर्यन्तो निःसरणं नास्त्यस्ति च, तच्च यथाभूतं प्रजानाति॥



तस्यैवं भवति - आश्चर्यं यावदज्ञानसमूढा बतेमे बालपृथग्जनाः, येषामसंख्येया आत्मभावा निरुद्धाः, निरुध्यन्ते निरोत्स्यन्ते च। एवं च क्षीयमाणाः काये न निर्विदमुत्पादयन्ति। भूयस्या मात्रया दुःखयन्त्रं विवर्धयन्ति। संसारस्रोतसश्च महाभयान्न निवर्तन्ते। स्कन्धालयं च नोत्सृजन्ति। धातूरगेभ्यश्च ग निर्विद्यन्ते। नन्दीरागतश्चारकं च नावबुध्यन्ते। षडायतनशून्यग्रामं च न व्यवलोकयन्ति। अहंकारममकाराभिनिवेशानुशयं च न प्रजहन्ति। मानदृष्टिशल्यं च नोद्धरन्ति। रागद्वेषमोहज्वलनं च न प्रशमयन्ति। अविद्यामोहान्धकारं च न विधमयन्ति। तृष्णार्णवं च नोच्छोषयन्ति। दशबलसार्थवाहं च न पर्येषन्ते। माराशयगहनानुगतश्च संसारसागरे विविधाकुशलवितर्कग्राहाकुले परिप्लवन्ते। अप्रतिशरणास्तथा संवेगमापद्यन्ते, बहूनि दुःखानि प्रत्यनुभवन्ति यदुत जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासान्। हन्त अहमेषां सत्त्वानां दुःखार्तानामनाथानामत्राणानामशरणानामलयनानामपरायणानामन्धानामविद्याण्डकोशपटलपर्यवनद्धानां तमोभिभूतानामर्थाय एकोऽद्वितीयो भूत्वा तथारूपं पुण्यज्ञानसंभारोपचयं बिभर्मि, यथारूपेण पुण्यज्ञानसंभारोपचयेन संभृतेन इमे सर्वसत्त्वा अत्यन्तविशुद्धिमनुप्राप्नुयुः, यावद्दशबलबलतामसङ्गज्ञाननिष्ठामनुप्राप्नुयुरिति॥



स एवं सुविलोकितज्ञानाभिनिर्हृतया बुद्ध्या यत्किंचित् कुशलमूलभारभते, तत्सर्वसत्त्वपरित्राणायारभते। सर्वसत्त्वहिताय सर्वसत्त्वसुखाय सर्वसत्त्वानुकम्पायै सर्वसत्त्वानुपद्रवाय सर्वसत्त्वपरिमोचनाय सर्वसत्त्वानुकर्षाय सर्वसत्त्वप्रसादनाय सर्वसत्त्वविनयाय सर्वसत्त्वपरिनिर्वाणायारभते॥



स भूयस्या मात्रया अस्यां पञ्चम्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्मृतिमांश्च भवति, असंप्रमोषधर्मतया मतिमांश्च भवति, सुविनिश्चितज्ञानतया गतिमांश्च भवति, सूत्रार्थगतिसंधायभाषितावबोधतया ह्रीमांश्च भवति, आत्मपरानुरक्षणतया धृतिमांश्च भवति, संवरचारित्रानुत्सर्गतया बुद्धिमांश्च भवति, स्थानास्थानकौशल्यसुविचारिततया ज्ञानानुगतश्च भवति, अपरप्रणेयतया प्रज्ञानुगतश्च भवति, अर्थानर्थसंभेदपदकुशलतया अभिज्ञानिर्हारप्राप्तश्च भवति, भावनाभिनिर्हारकुशलतया उपायकुशलश्च भवति लोकानुवर्तनतया। अतृप्तश्च भवति पुण्यसंभारोपचयतया। अप्रतिप्रस्रब्धवीर्यश्च भवति ज्ञानसंभारपर्येषणतया। अपरिखिन्नाशयश्च भवति महामैत्रीकृपासंभारसंभृततया। अशिथिलपर्येषणाभियुक्तश्च भवति तथागतबलवैशारद्यावेणिकबुद्धधर्मपर्येषणतया। स्वभिनिर्हृतमनसिकारानुगतश्च भवति बुद्धक्षेत्रविठपनालंकाराभिनिर्हृततया। विचित्रकुशलक्रियाभियुक्तश्च भवति लक्षणानुव्यञ्जनसमुदानयनतया। सततसमितं स्वभियुक्तश्च भवति तथागतकायवाक्चित्तालंकारपर्येषणतया। महागौरवोपस्थानशीलश्च भवति सर्वबोधिसत्त्वधर्मभणाकशुश्रूषणतया। अप्रतिहतचित्तश्च भवति बोधिचित्तमहोपायकौशल्यसंध्युपसंहितलोकप्रचारतया। रात्रिंदिवमन्यचित्तपरिवर्जितश्च भवति सर्वसत्त्वपरिपाचनाभियोगतया॥



स एवमभियुक्तो दानेनापि सत्त्वान् परिपाचयति, प्रियवद्यतयापि, अर्थक्रिययापि, समानार्थतयापि, रूपकायसंदर्शनेनापि, धर्मदेशनयापि, बोधिसत्त्वचर्याप्रभावनयापि, तथागतमाहात्म्यप्रकाशनतयापि, संसारदोषसंदर्शनेनापि, बुद्धज्ञानानुशंसापरिकीर्तनेनापि, महर्द्धिविकुर्वणाभिनिर्हारणानोपचारक्रियाप्रयोगैरपि सत्त्वान् परिपाचयति। स एवं सत्त्वपरिपाचनाभियुक्तो बुद्धज्ञानानुगतचित्तसंतानोऽप्रत्युदावर्तनीयकुशलमूलप्रयोगो वैशेषिकधर्मपरिमार्गणाभियुक्तः यानीमानि सत्त्वहितानि लोके प्रचरन्ति, तद्यथा - लिपिशास्त्रमुद्रासंख्यागणनानिक्षेपादीनि नानाधातुतन्त्रचिकित्सातन्त्राणि शोषापस्मारभूतग्रहप्रतिषेधकानि विषवेतालप्रयोगप्रतिघातकानि काव्यनाटकाख्यानगान्धर्वेतिहाससंप्रहर्षणानि ग्रामनगरोद्याननदीसरस्तडागपुष्करिणीपुष्पफलौषधिवनषण्डाभिनिर्हाराणि सुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरत्नाकरनिदर्शनानि चन्द्रसूर्यग्रहज्योतिर्नक्षत्रभूमिचालमृगशकुनिस्वप्ननिमित्तानि प्रदेशप्रवेशानि सर्वाङ्गप्रत्यङ्गलक्षणानि चारानुचारप्रयोगनिमित्तानि संवरचारित्रस्थानध्यानाभिज्ञाप्रमाणारूप्यस्थानानि, यानि चान्यान्यपि अविहेठनाविहिंसासंप्रयुक्तानि सर्वसत्त्वहितसुखावहानि, तान्यप्यभिनिर्हरति कारुणिकतया अनुपूर्वबुद्धधर्मप्रतिष्ठापनाय॥



तस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य....पेयालं...परिणामयति। तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपासते, तेषां च सकाशाद् गौरवचित्रीकारेण सत्कृत्य धर्मदेशनां शृणोति उद्गृह्णाति धारयति। श्रुत्वा च यथाबलं यथाभजमानं प्रतिपत्या संपादयति। भूयस्त्वेन च तेषां तथागतानां शासने प्रव्रजति। प्रव्रजितश्च श्रुतधारी धर्मभाणको भवति। स भूयस्या मात्रया श्रुताचारधारणीप्रतिलब्धो धर्मभाणको भवति अनेकेषां च बुद्धकोटिनियुतशतसहस्राणामन्तिके अनेककल्पकोटिनियुतशतसहस्राण्यसंप्रमोषतया। तस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पांस्तानि कुशलमूलान्युत्तप्यन्ते परिशुध्यन्ति प्रभास्वरतराणि च भवन्ति, अनेकानि कल्पशतानि...। तस्य तानि कुशलमूलान्युत्तप्यन्ते परिशुद्ध्यन्ति प्रभास्वरतराणि च भवन्ति। तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं मुसार्गल्वसृष्टं भूयस्या मात्रयोत्तप्यते परिशुध्यति प्रभास्वरतरं भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाविचारितानि भूयस्या मात्रयोत्तप्यन्ते परिशुद्ध्यन्ति, प्रभास्वरतराणि च भवन्ति, ज्ञानप्रयोगगुणाभिनिर्हारादसंहार्यविचारिततमानि च भवन्ति। तद्यथापि नाम भवन्तो जिनपुत्राश्चन्द्रसूर्यग्रहज्योतिर्नक्षत्राणां विमानालोकप्रभवातमण्डलीभिरसंहार्या भवति मारुतासाधारणा च, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाज्ञानचित्तविचारणानुगतान्यसंहार्याणि भवन्ति, सर्वश्रावकप्रत्येकबुद्धैर्लौकिकासाधारणानि च भवन्ति। तस्य दशभ्यः पारमिताभ्यो ध्यानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य सुदुर्जया नाम पञ्चमी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन संतुषितो भवति, देवराजः कृती प्रभुः सत्त्वानां सर्वतीर्थ्यायतनविनिवर्तनाय कुशलः सत्त्वान् सत्येषु प्रतिष्ठापयितुम्। यत्किंचित्.....॥



सुदुर्जया नाम् पञ्चमी भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project