Digital Sanskrit Buddhist Canon

१३. वाराणसी कृमि कीटोद्धारण प्रकरण

Technical Details
१३. वाराणसी कृमि कीटोद्धारण प्रकरण



अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः।

विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत॥

भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः।

नाद्यापिह समायाति कदागच्छेत्तदादिश॥

१४६

इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः।

गगनगंजमालोक्य तं पुनरेवमब्रवीत्॥

ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन्।

वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति॥

दृष्ट्वा स प्राणिनोऽनेकानसंख्येयान् सुदुःखितान्।

सविण्मूत्रमृदालग्नांस्तिष्ठत्येवं विचिन्तयन्॥

हा पापं कथमेतानि सविण्मुत्राश्रीतान्यहम्।

कृम्यसंख्यसहस्त्राणि प्रोद्धरेयं प्रबोधयन्॥

तत्र स चिन्तयन् मत्वा सत्त्वान् कृपया संविलोकयन्।

भ्रमररुपमाधाय भर्मते तदुपाचरन्॥

नमो बुद्धाय धर्माय संघायेति प्रणोदितम्।

मधुरशब्दमुच्चार्य भ्रमते स वियच्चरन्॥

तं खे भ्रमन्तमालोक्य सर्वे ते प्राणका अपि।

तत्कलारावमाकर्ण्य चिन्तयन्येवमुत्सुकाः॥

अहोऽयं सुखवान् पक्षी भ्रमते खेऽतियथेच्छया।

किमनेन कृतं पुण्यं चरते सुखम्॥

किमस्माभिः कृतं पापं येनामेध्याश्रिता वयम्।

इति विचिन्त्य ते सर्वे कृमयस्तत्सुखेच्छिताः॥

तद्विण्वमनुश्रुत्वा संतिष्ठन्ते तदुन्मुखाः॥

तथा ते कृमयः सर्वे तन्नामस्मृतिभाविताः।

तत्त्रिरत्ननमस्कारं धृत्वा तिष्ठन्ति चेतसा॥

तथा चैवं समुच्चार्य त्रिरत्ननाम चेतसा।

स्मृत्वा कृत्वा नमस्करं तिष्ठन्ति त्रिमणेर्मुदा॥

एतत्पुण्यविलिप्तास्ते सर्वे संजातपक्षकाः।

तत उड्डीय गंगायां निपतन्तस्त्यजन्त्यसून्॥

ततस्ते विमलात्मानः संप्रयाताः सुखावतीम्।

सर्वे सुगन्धमुखा नाम बोधिसत्त्वा भवन्त्यपि॥

ते तत्रामितभासस्य पीत्वा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य निर्वृपदमाप्नुयुः॥

१४७

एवमसौ महासत्त्वो लोकेश्वरः कृमीनपि।

प्रयत्नेन समुद्धृत्य प्रेषयति सुखावतीम्॥

तथा तस्य जगच्छास्तुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः॥

ये चास्य लोकनाथस्य श्रद्धया शरणे स्थिताः।

ध्यात्वा स्मृत्वा समुच्चार्य नाम भजन्ति सर्वदा॥

सदा ते सद्गतौ जाता दुर्गतौ न कदाचन।

सद्धर्मश्रीसुखापन्नाः संप्रयायुः सुखावतीम्॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य संप्राप्स्यन्ति जिनालयम्॥

इति मत्वा सदा भद्रसौख्यमिच्छन्ति ये भवे।

तेऽस्य त्रैलोकनाथस्य भजन्तु शरणे स्थिताः॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।

सर्वे समाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः॥



॥इति वाराणसीकृमिकीटोद्धारणप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project