Digital Sanskrit Buddhist Canon

५१ अजितसेनः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 51 ajitasenaḥ
५१ अजितसेनः।



अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण रोरुकं नगरं गत्वा येन अजितसेनो नाम गृहपतिस्तेनोपसंक्रम्य अजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



आह-मया कुलपुत्र अक्षयलक्षणो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भादक्षयबुद्धदर्शननिधानप्रतिलाभो भवति॥



गच्छ कुलपुत्र इयमिहैव दक्षिणापथे धर्मग्रामे शिवराग्रो नाम ब्राह्मणः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकोऽजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य अजितसेनं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अजितसेनस्य गृहपतेरन्तिकात्प्रक्रान्तः॥४९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project