Digital Sanskrit Buddhist Canon

४४ माया

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 44 māyā
४४ माया।



अथ खलु सुधनस्य श्रेष्ठिदारकस्य मायाया देव्याः सकाशं गमनाभिमुखस्य बुद्धगोचरविचारज्ञानप्रतिपन्नस्य एतदभवत्-केनोपायेन मया शक्यं सर्वलोकोच्चलितषडायतनानामप्रतिष्ठितानां कल्याणमित्राणां सर्वसङ्गसमतिक्रान्तकायानामसङ्गगतिगामिनीप्रतिपदाप्रतिपन्नानां धर्मकायसुविशुद्धानां कायकर्ममायासुनिर्मितशरीराणां ज्ञानमायागतलोकविचाराणां प्रणिधिरूपकायानां बुद्धाधिष्ठानमनोमयशरीराणामनुत्पन्नानिरुद्धकायानामसत्यामृषकायानामसंक्रान्तविनष्टकायानामसंभवाविभवकायानाम् अलक्षणैकलक्षणकायानाम्। अद्वयसंङ्गविनिर्मुक्तकायानाम्, अनालयनिलयकायानाम्, अनक्षतकायानां प्रतिभाससमनिर्विकल्पकायानां स्वप्नसमविचारकायानाम्, आदर्शमण्डलसमसदृशाक्रान्तकायानां दिक्समप्रशान्तप्रतिष्ठकायानां सर्वदिक्स्फरणनिर्माणकायानां त्र्यध्वासंभिन्नकायानामशरीरचित्तनिर्विकल्पकायानां सर्वलोकचक्षुष्पथसमतिक्रान्तकायानां समन्तभद्रचक्षुःप्रसरविज्ञेयविनयकायानाम् असङ्गगगनगोचराणां कल्याणमित्राणां दर्शनमारागयितुं संमुखीभावतामनुप्राप्तुं समवधानं चाप्तुं निमित्तं चोद्ग्रहीतुं घोषमण्डलं वा विज्ञातुं मन्त्रव्यवचारान् वा आज्ञातुमनुशासनीं चोद्ग्रहीतुम्॥



तमेवं चिन्तामनसिकारप्रयुक्तं रत्ननेत्रा नाम नगरदेवता गगनदेवतागणपरिवृता गगनतलगतमात्मानमुपदर्श्य नानाविभूषणविभूषितशरीरा अनेकाकारवर्णदिव्यकुसुमपुटपरिगृहीता संमुखमभ्यवकीरमाणा सुधनं श्रेष्ठिदारकमेतदवोचत्-चित्तनगरपरिपालनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्यसंवसनतया। चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यानलम्बनतया। चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यमीर्ष्यामात्सर्यशाठ्यापनयनतया। चित्तनगरसंतापप्रशमाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वधर्मनिध्यप्त्या। चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया। चित्तनगरभवनकोशव्यूहारक्षाप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसमाधिसमापत्तिध्यानविमोक्षविपुलधर्मविनयमानविहारवशवर्तितया। चित्तनगरावभासप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपर्षन्मण्डलसमुदयसमन्तभूमिप्रज्ञापारमिताप्रतिलम्भप्रतीच्छनतया। चित्तनगरोपस्तम्भप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतसंभवोपायमार्गस्वचित्तनगरसमवसरणतया। चित्तनगरदृढप्राकाराभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं समन्तभद्रबोधिसत्त्वचर्याप्रणिधानाभिनिर्हारचित्तविशुद्धये। चित्तनगरदुर्योधनदुरासदताभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमृद्यतया। चित्तनगरावभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसत्त्वतथागतज्ञानावभासप्रतिपद्यमानतया। चित्तनगराभिनिष्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतधर्ममेघसंप्रतीच्छनतया। चित्तनगरोपस्तम्भनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपुण्यसमुद्रस्वचित्ताशयसंप्रतीच्छनतया।

चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्फरणतया। चित्तनगरसंप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशलधर्मप्रतिपक्षाभिनिर्हरणतया। चित्तनगरप्रतिस्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलमहाकरुणासर्वजगदनुकम्पनतया। चित्तनगरद्वारविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यमाध्यात्मिकवाह्यवस्तुसर्वजगत्संप्रापणतया। चित्तनगरविशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरतिपराङ्भुखतया। चित्तनगरदृढस्थामाभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसंतत्यसंभवनतया। चित्तनगरवीर्यप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारसमार्जनवीर्याभिनिर्वर्तनतया। चित्तनगरप्रभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतमण्डलस्मृत्यवभासनतया। चित्तनगरविचयविधिज्ञेन ते कुलपुत्र सर्वतथागतधर्मचक्रसूत्रान्तविविधधर्मद्वारप्रविचयश्रुताभिज्ञतया। चित्तनगरनियामविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वजगदभिमुखसर्वज्ञताद्वारमार्गविविधसंदर्शनतया। चित्तनगराधिष्ठानविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतप्रणिधाननिर्हारविशुद्धये। चित्तनगरसंभारबलविवर्धनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुविपुलपुण्यज्ञानसंभारविवर्धनतया। चित्तनगरसमन्तप्रभासप्रमुञ्चनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वसत्त्वचित्ताशयेन्द्रियाधिमुक्तिसंक्लेशव्यवदानज्ञानाभिज्ञतया। चित्तनगरवशवर्तनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुनयसमवसरणतया। चित्तनगरप्रभास्वराभियुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतस्मृत्यवभासनतया। चित्तनगरस्वभावपरिज्ञाभियुक्तेन ते कुलपुत्र भवितव्यमशरीरसर्वधर्मनयप्रतिविध्यनतया। चित्तनगरमायोपमप्रत्यवेक्षणाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञताधर्मनगरगमनतया। एवं चित्तनगरपरिशुद्ध्यभियुक्तेन ते कुलपुत्र बोधिसत्त्वेन शक्यं सर्वकुशलसमार्जनमनुप्राप्तुम्। तत्कस्य हेतोः? तथा हि बोधिसत्त्वस्य एवं चित्तनगरपरिशुद्धस्य सर्वावरणानि पुरतो न संतिष्ठन्ते बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वा तथागतपूजोपस्थानावरणं वा सत्त्वसंग्रहप्रयोगावरणं वा बुद्धक्षेत्रपरिशुद्ध्यावरणं वा। सर्वावरणविगतेन हि कुलपुत्र चित्ताध्याशयेन कल्याणमित्रपर्येष्ट्यभियुक्तस्य बोधिसत्त्वस्य अल्पकृच्छ्रेण कल्याणमित्राण्याभासमागच्छन्ति। कल्याणमित्राधीना च कुलपुत्र बोधिसत्त्वानां सर्वज्ञता॥



तत्र धर्मपद्मश्रीकुशला शरीरकायिकदेवता ह्रीश्रीमञ्जरिप्रभावा अपरिमाणदेवतागणपरिवृता मायाया देव्या वर्णमुदीरयमाणा बोधिमण्डान्निष्क्रम्य सुधनस्य श्रेष्ठिदारकस्याभिमुखं गगनतले स्थित्वा स्वकस्वकेभ्योऽनेकरत्नवर्णानि रश्मिजालानि अनेकगन्धधूपविमलार्चिर्वर्णानि चित्ताशयप्रसादनवर्णानि चित्तप्रीतिवेगविवर्धनवर्णानि कायपरिदाहप्रह्लादनवर्णानि कायपरिशुद्धिसंदर्शनवर्णानि असङ्गकायविक्रमसंभवविषयाणि रश्मिजालानि प्रामुञ्चत्। तानि विपुलानि क्षेत्राण्यवभास्य सुधनस्य श्रेष्ठिदारकस्य सर्वत्रानुगतं समन्ताभिमुखं सर्वतथागतकायं संदर्शयित्वा सर्वावन्तं लोकं प्रदक्षिणीकृत्य सुधनस्य श्रेष्ठिदारकस्य मूर्धसंधौ निपतन्ति स्म। तानि मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्रविश्य अनुप्रसरन्ति स्म। समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्ताभिर्देवतारश्मिभिः, अथ तावदेव विरजःप्रभासं नाम चक्षुः प्रतिलेभे, यत् सर्वतमोन्धकारेण सार्धं न संवसति। वितिमिरं च नाम चक्षुः प्रतिलेभे, येन सत्त्वस्वभावमवतरति। विरजःपतिं च नाम चक्षुः प्रतिलेभे, येन च सर्वधर्मस्वभावमण्डलं व्यवलोकयति। विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रप्रकृतिं व्यवलोकयति। वैरोचनप्रभं च नाम चक्षुः प्रतिलेभे, येन तथागतधर्मशरीरं व्यवलोकयति। विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्तिं व्यवलोकयति। समन्तप्रभं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्तिभक्तिं व्यवलोकयति। असङ्गप्रभं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसागरप्रसरलोकधातुसंभवविभक्तिं व्यवलोकयति। समन्तावभासं च नाम चक्षुः प्रतिलेभे, येन सर्वतथागतधर्मेषु सूत्रान्तनयनिर्हारदिशं व्यवलोकयति। समन्तविषयं च नाम चक्षुः प्रतिलेभे, येनानन्तमध्यबुद्धविकुर्वितसत्त्वविनयाधिष्ठानं व्यवलोकयति। समन्तदर्शं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसमुत्पत्तिप्रसृतं बुद्धोत्पादं व्यवलोकयति॥



अथ खलु सुनेत्रो नाम राक्षसेन्द्रो बोधिसत्त्वसंगीतिप्रासादद्वारपालो दशानां राक्षससहस्राणां प्रमुखः सभार्यः सपुत्रः सस्वजनपरिवारः सुधनं श्रेष्ठिदारकं नानावर्णमनोज्ञगन्धैः कुसुमैरभ्यवकीर्य एवमाह-दशभिः कुलपुत्र धर्मैः समन्वागतो बोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम्। कतमैर्दशभिः? यदुत मायाशाठ्यापगतेन सुपरिशुद्धेनाशयेन, सर्वजगत्परिग्रहासंभिन्नया महाकरुणया, सर्वसत्त्वनिःसत्त्वस्वभावनिध्यप्त्या प्रत्यवेक्षया, सर्वज्ञतागमनावैवर्त्येनाध्याशयबलेन, तथागतमण्डलाभिमुखेनाधिमुक्तिबलेन, सर्वधर्मस्वभावविमलविशुद्धेन चक्षुषा, सर्वसत्त्वमण्डलासंभिन्नया महामैत्र्या, सर्वावरणविकिरणेन ज्ञानालोकेन, सर्वसंसारदुःखप्रतिपक्षच्छत्रभूतेन महाधर्ममेघेन, सर्वधर्मधातुश्रोत्रसमन्तप्रसृतेन कल्याणमित्रगमनाभिमुखेन ज्ञानचक्षुषा। एभिः कुलपुत्र दशभिर्धर्मैः समन्वागतो बोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम्। दशभिश्च समाधिनिध्यप्तिमुखैर्व्यवलोकयन् बोधिसत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम्। कतमैर्दशभिः? यदुत धर्मगगनविरजोविचारमण्डलेन च समाधिनिध्यप्तिमुखेन, सर्वदिक्समुद्राभिमुखचक्षुषा च समाधिनिध्यप्तिमुखेन, सर्वारम्बणाविकल्पाविचारेण च समाधिनिध्यप्तिमुखेन, सर्वदिक्तथागतमेघसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वज्ञज्ञानपुण्यसमुद्रोपचयगर्भेण च समाधिनिध्यप्तिमुखेन, सर्वचित्तोत्पादाविरहितकल्याणमित्रसंभवासन्नेन च समाधिनिध्यप्तिमुखेन, सर्वतथागतगुणकल्याणमित्रसुखसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रात्यन्ताविप्रवासेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रसमतासदासमन्तोपसंक्रमणप्रयोगेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रोपायचरितेष्वक्लान्तप्रयोगेन च समाधिनिध्यप्तिमुखेन। एभिः कुलपुत्र दशभिः समाधिनिध्यप्तिमुखैः समन्वागतो बोधिसत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम्। सर्वतथागतधर्मचक्रकल्याणमित्रमुखनिर्घोषं च नाम समाधिविमोक्षं प्रतिलभते, यत्र प्रतिपद्यमानो बोधिसत्त्वोऽसंभिन्नां सर्वबुद्धसमतामवतरति, असंभिन्नानि च सर्वत्रानुगतानि कल्याणमित्राणि प्रतिलभते॥



एवमुक्ते सुनेत्रेण राक्षसेन्द्रेण सुधनः श्रेष्ठिदारको गगनतलमवलोक्य एवमाह-साधु साधु आर्य, अनुकम्पकोऽस्माकमनुग्रहप्रवृत्तः कल्याणमित्राणां दर्शयिता। तत्साध्वमस्माकं सम्यगुपायमुखमुपदिशन् कथं परिक्रमाति? कतमां दिशमभिमुखं निर्जवामि? कस्मिन्नधिष्ठाने परिमार्गयामि? कतमदारम्बणमुपनिध्यायामि कल्याणमित्रदर्शनाय? आह-तेन हि कुलपुत्र समन्तदिक्प्रणिपतितेन शरीरेण सर्वारम्बणेन कल्याणमित्रस्मृत्युपनिबद्धेनाशयेन समन्तनिर्जवेन समाध्यनुगमेन स्वप्नोपमेन चित्तजवेन प्रतिभासोपमेन मनःशरीरविचारगमनेन कल्याणमित्रसकाशमुपसंक्रमितव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको यथानुशिष्टः सुनेत्रेण राक्षसेन्द्रेण प्रतिपद्यमानोऽद्राक्षीत्पुरतो धरणितलान्महारत्नपद्मसमुद्गतं सर्ववज्रशरीरदण्डं सर्वजगत्सागरमणिराजगर्भं सर्वमणिराजपत्रपङ्क्तिवैरोचनमणिराजकर्कटिकां सर्वरत्नवर्णगन्धमणिराजकेसरमसंख्येयरत्नजालसंछादितम्। तस्यां च महारत्न‍राजपद्मकर्कटिकायां धर्मधातुदिक्समवसरणगर्भं नाम कूटागारमपश्यच्चित्रं दर्शनीयं वज्रवैरोचनधरणितलसंस्थानं सर्वमणिराजमयपरिपूर्णस्तम्भसहस्रोपशोभितं सर्वरत्नसंघट्टितायामं जाम्बूनदविमलकनकदिव्यविन्यस्तपट्टमसंख्येयनानामुक्ताहारजालोपनिबद्धं मणिरत्न‍राजविचित्रभक्तिविन्यासं जम्बूध्वजमणिरत्नसमन्तव्यूहमसंख्येयरत्नवेदिकापरिवृतं समन्तदिग्मणिराजसोपानसुविभक्तम्। तस्य कूटागारस्य मध्ये चिन्ताराजमणिरत्नपद्मगर्भमासनमद्राक्षीत् सर्वलोकेन्द्रसंस्थानमणिविग्रहबिम्बप्रतिष्ठितं सर्वमणिरत्नविग्रहवर्णमिन्द्रध्वजप्रद्योतसंस्थानं वज्रमणिचक्रभूमितलप्रतिष्ठितं नानामणिराजपङ्क्तिव्यूहमनेकरत्नवेदिकापरिवृतं ज्योतिर्ध्वजमणिराजसुप्रत्यर्पितं नानारत्नव्यूहोपशोभितं दिव्यातिक्रान्तमणिराजवस्त्रसुप्रज्ञप्तमनेकवर्णविचित्रवस्त्ररत्नसुसंस्कृतं सर्वरत्नवस्त्रवितानविततगगनालंकारं सर्वरत्नजालसंछादितं समन्तदिक्सुविभक्तवज्रध्वजनिर्घोषं सर्वरत्नपट्टध्वजसुसमीरितविद्योतितं सर्वगन्धमणिराजध्वजविन्यस्तसमतालंकारं सर्वपुष्पधूपविचित्रकुसुमौघसंप्रवर्षणं सर्वरत्नकिङ्किणीध्वजसुसमीरितश्रवणमनःसुखमधुरनिर्घोषं नानारत्नभवनमुखद्वारप्रयुक्तं नानारत्नमणिविग्रहमुखानेकवर्णगन्धोदकप्रवृद्धवैरोचनमणिराजविग्रहगजेन्द्रमुखपद्मजालप्रयुक्तं नानावज्रसिंहमुखानन्तवर्णधूपमेघप्रयुक्तं ब्रह्मसंस्थानवैरोचनमणिराजमुखमहामैत्रीनयब्रह्मघोषनिर्नादप्रमुक्तं नानारत्न‍रजतमुखशुक्लपक्षोद्द्योतनमधुरनिर्नादरुतवर्णं त्र्यध्वबुद्धनामकनकघण्टामालामधुररुतप्रमुक्तनिर्घोषं सर्वबुद्धधर्मचक्रमहामणिराजघण्टामालामनोज्ञरुतरवणं सर्वबोधिसत्त्वप्रणिधिनानावज्रघण्टानिश्चरितनिर्घोषं चन्द्रध्वजमणिराजपङ्क्तिसर्वबुद्धप्रतिभासनिचितनामनिर्नादविज्ञपनं शुद्धगर्भमणिराजपङ्क्ति सर्वत्र्यध्वतथागतजन्मपरंपराप्रतिभासविज्ञपनमादित्यगर्भमणिराजपङ्क्ति सर्वविकुर्वितप्रतिपत्त्याकाशधातुपरमदशदिक्सर्वबुद्धक्षेत्रविधिपथरश्मिसंदर्शनम् अवभासध्वजमणिराजपङ्क्ति सर्वतथागतप्रभामण्डलावभासप्रमुञ्चनवैरोचनमणिराजपङ्क्ति सर्वजगदिन्द्रसदृशनिर्माणमेघतथागतपूजोपस्थानप्रमुञ्चनं चिन्तामणिराजपङ्क्ति समन्तभद्रबोधिसत्त्वविकुर्वितप्रतिक्षणसर्वधर्मधातुस्फरणं मेरुध्वजमणिराजपङ्क्ति सर्वदेवेन्द्रभवनमेघाप्सरोरुतनिगर्जितनिर्घोषं सर्वारम्बणतथागतस्तुतिमेघप्रमुञ्चनाचिन्त्यगुणवर्णनिर्देशं च तदासनमद्राक्षीत् अचिन्त्यरत्नव्यूहासनपरिवारम्॥



तस्मिंश्चासने मायादेवीं निषण्णामद्राक्षीत् त्रैलोक्यसमतिक्रान्तेन रूपेण, सर्वलोकाभिमुखेन सर्वभवगत्युद्गतेन रूपेण, यथाशयजगद्विज्ञप्तेन सर्वलोकानुपलिप्तेन रूपेण, विपुलपुण्यसंभूतेन सर्वजगत्सदृशेन रूपेण, सर्वसत्त्वसुखोपदर्शनेन सर्वजगत्परिपाकविनयानुकूलेन रूपेण, सर्वसत्त्वाभिमुखप्रलम्बितेन सर्वकालगगनजगद्विज्ञप्त्यसंभिन्नेन रूपेण, सर्वजगन्निष्ठाविज्ञप्त्याधिष्ठानेन अगतिकेन रूपेण, सर्वलोकगतिकेन रूपेण, सर्वलोकगतिनिरुद्धेन अनागतिकेन रूपेण, सर्वजगदसंभूतेन अनुत्पन्नेन रूपेण, अनुत्पत्तिसमधर्मनिरतेन अनिरुद्धेन रूपेण, सर्वलोकव्यवहारपरमेण असत्येन रूपेण, यथावत्प्रतिलब्धेन अमृषेण रूपेण, यथालोकविज्ञप्तेन अक्रान्तेन रूपेण, च्युत्युपपत्तिविनिवृतेन अविनष्टेन रूपेण, धर्मधातुप्रकृत्यविनाशेन अलक्षणेन रूपेण, त्र्यध्ववाक्पथपरमेण एकलक्षणेन रूपेण, अलक्षणसुलक्षणनिर्यातेन प्रतिभासकल्पेन रूपेण, सर्वजगच्चित्तयथाशयविज्ञप्तेन मायाकल्पेन रूपेण, ज्ञानमायापरिनिष्पन्नेन मरीचिकल्पेन रूपेण, प्रतिक्षणजगत्संज्ञाधिष्ठानपरमेण च्छायोपमेन रूपेण, प्रणिधानसर्वजगदनुबद्धेन स्वप्नोपमेन रूपेण, यथाशयजगद्विज्ञप्त्यसंभिन्नेन सर्वधर्मधातुपरमेण रूपेण, आकाशधातुप्रकृतिपरिशुद्धेन महाकरुणानिर्यातेन रूपेण, सत्त्ववंशपरिपालनप्रयुक्तेन असङ्गमुखनिर्यातेन रूपेण, प्रतिक्षणधर्मधातुस्फरणेन अनन्तमध्येन रूपेण, अनाविलसर्वजगन्निश्रितेन अप्रमाणेन रूपेण, सर्ववाक्पथसमतिक्रान्तेन सुप्रतिष्ठितेन रूपेण, सर्वजगद्विनयाधिष्ठाननिर्वृत्तेन अनधिष्ठितेन रूपेण, अधिष्ठानजगत्कायप्रयुक्तेन असंवृतेन रूपेण, प्रणिधानमायापरिनिष्पन्नेन अनभिभूतेन रूपेण, सर्वलोकाभ्युद्गतेन अयथावतेन रूपेण, शमथालोकविज्ञप्तेन असंभवेन रूपेण, यथाकर्मजगदनुबद्धेन चिन्तामणिराजकल्पेन रूपेण, यथाशयसर्वसत्त्वाभिप्रायपरिपूर्णप्रणिधिपरिपूर्णेन अविकल्पेन रूपेण, सर्वजगत्परिकल्पोपस्थितेन अधिकल्पेन रूपेण, सर्वजगद्विज्ञप्त्यकल्पेन अधिष्ठानेन रूपेण, संसाराविनिवृत्तिपरमेण विशुद्धेन रूपेण तथतासमनिर्विकल्पेन। इत्येवंप्रकारेण रूपेण सुधनः श्रेष्ठिदारको मायादेवीमद्राक्षीदरूपेण रूपप्रतिभासेन अवेदनेन रूपेण लोकदुःखवेदनाप्रशान्तिपरमेण, सर्वसत्त्वसंज्ञागतोच्चालितेन रूपेण परसत्त्वसंज्ञागतविज्ञप्तेन, अनभिसंस्कारधर्मतानिर्यातेन रूपेण मायागतकर्मविनिवृत्तेन, विज्ञानविषयसमतिक्रान्तेन रूपेण बोधिसत्त्वप्रणिधिज्ञानसंभवेन, अस्वभावेन रूपेण सर्वजगद्वाक्पथपरमेण शरीरेण, संसारे संतापनिरुद्धेन रूपेण धर्मकायपरमशीतीभावोपगतेन यथाशयजगद्रूपकायसंदर्शनीं सत्त्वाशयवशेन सर्वजगत्सदृशं सर्वजगद्रूपकायातिरेकं रूपकायं संदर्शयमानाम्। तत्र केचित्सत्त्वा मारकन्यारूपेण मारकन्यातिरेकरूपां मायादेवीमद्राक्षुः। केचित्सत्त्वा वशवर्त्यप्सरोतिरेकरूपां केचित्सुनिर्मिताप्सरोतिरेकरूपां केचित्संतुषिताप्सरोतिरेकरूपां केचित्सुयामाप्सरोतिरेकरूपां केचित्र्त्रायस्त्रिंशाप्सरोतिरेकरूपां केचिच्चातुर्महाराजिकाप्सरोतिरेकरूपां केचित्कुम्भाण्डेन्द्रकन्यातिरेकरूपां केचिन्महोरगेन्द्रकन्यातिरेकरूपां। केचित्सत्त्वा मनुष्येन्द्रकन्यातिरेकरूपां मायादेवीमपश्यन्॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रूपसंज्ञापगतः परसत्त्वाशयानवतरन् सर्वसत्त्वचित्ताशयगतेषु मायादेवीमपश्यत् सर्वजगदुपजीव्यपुण्यां सर्वज्ञतापुण्योपचितशरीरामसंभिन्नदानपारमिताप्रयोगां सर्वजगत्समताप्रतिपन्नां महाकरुणागोष्ठसर्वसत्त्वसमवसरणां सर्वतथागतगुणप्रतिपत्तिनिर्यातां सर्वक्षान्तिनयसागरावतीर्णां सर्वज्ञतावीर्यवेगविवर्धितचेतनां सर्वधर्ममण्डलपरिशुद्ध्यविवर्त्यवीर्यां सर्वधर्मस्वभावनिध्यप्तिनिर्यातां सर्वध्यानाङ्गनयनिष्पत्तिचित्तामसंभिन्नध्यानाङ्गविषयासाधारणतथागतध्यानमण्डलावभासप्रतिलब्धां सर्वसत्त्वक्लेशसागरोच्छोषणनिश्चयनानानिध्यप्तिपरमां सर्वतथागतधर्मचक्रप्रविचयविधिज्ञां सर्वधर्मनयसमुद्रव्यवचारणप्रज्ञां सर्वतथागतादर्शनावितृप्तां त्र्यध्वतथागतपरंपराव्यवलोकनाप्रतिप्रस्रब्धां सर्वबुद्धदर्शनद्वाराभिमुखां सर्वतथागतसमुदागममार्गपरिशुद्धिविमात्रताविधिज्ञां सर्वतथागतगगनगोचरां सर्वसत्त्वसंग्रहोपायविधिज्ञामनन्तमध्ययथाशयजगत्परिपाकविनयप्रतिभासप्राप्तां सर्वबुद्धकायविशुद्धिविमात्रतावतीर्णां सर्वक्षेत्रसागरपरिशुद्धिप्रणिधानसमन्वागतां सर्वसत्त्वधातुविनयाधिष्ठानपर्यवसानप्रणिधानपरिशुद्धां सर्वतथागतविषयपूजास्फरणचित्तां सर्वबोधिसत्त्वविकुर्वितवीर्यनिर्यातामनुत्तरधर्मकायपरिशुद्धामनन्तरूपकायसंदर्शनीं सर्वमारबलप्रमर्दनीं विपुलकुशलमूलबलोपपन्नां धर्मबलसंजातबुद्धिबुद्धबलावभासप्रतिलब्धां सर्वबोधिसत्त्वशिताबलपरिनिष्पन्नां सर्वज्ञतावेगबलसंजातां सर्वतथागतज्ञानविद्युदवभासितप्रज्ञामनन्तमध्यसत्त्वचित्तसमुद्रविचरणज्ञानां विपुलजगदाशयावतीर्णां परसत्त्वेन्द्रियविमात्रताज्ञाननयविधिज्ञामनन्तसत्त्वाधिमुक्तिविमात्रताज्ञानकौशल्यानुगतां दशदिगप्रमाणक्षेत्रसमुद्रकायस्फरणां सर्वलोकधातुविमात्रताज्ञाननयविधिज्ञां सर्वक्षेत्रसंभेदविधिज्ञाननयकौशल्यानुगतां सर्वदिक्सागरप्रसृतज्ञानदर्शनां सर्वाध्वसागरानुप्रसृतबुद्धिं सर्वबुद्धसागराभिमुखप्रणिपतितकायां सर्वबुद्धधर्ममेघसमुद्रसंप्रतीच्छनाभिमुखचित्तां सर्वतथागतगुणप्रतिपूरणप्रतिपत्तिनिर्याणप्रयुक्तां सर्वबोधिसंभारसंभवानुप्रसृतबुद्धिं सर्वबोधिसत्त्वप्रस्थानविचारविक्रान्तां सर्वबोधिचित्तोत्पादाङ्गपरिनिष्पन्नां सर्वसत्त्वपरिपालनप्रयुक्तां सर्वबुद्धवर्णमेघालोकप्रभावनां सर्वबोधिसत्त्वजिनजनेत्रीप्रणिधाननिर्याताम्। एतत्प्रमुखैर्जम्बुद्वीपपरमाणुरजःसमैर्दर्शननयैः सुधनः श्रेष्ठिदारको मायादेवीमपश्यत्। स तां दृष्ट्वा यत्प्रमाणा मायादेवी तत्प्रमाणं स्वकायमधिष्ठाय समन्तदिगभिमुखां मायादेवीं सर्वत्रानुगतेन कायेन प्रणिपतितः। तस्य प्रणिपतमानस्य अनन्तमध्यानि समाधिमुखानि अवक्रान्तानि। स तानि समाधिमुखानि व्यवलोक्य अनिमित्तीकृत्वा प्रभावयित्वा सारीकृत्वा अनुस्मृत्य स्फरित्वा प्रसरित्वा अवलोकयित्वा विपुलीकृत्वा अभिनिर्हृत्य मुद्रयित्वा तेभ्यः समाधिमुखेभ्यो व्युत्थाय मायादेवीं सपरिवारां सभवनासनां प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्ये मञ्जुश्रिया कुमारभूतेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य कल्याणमित्रपर्युपासनेन समादापितम्। सोऽहं कल्याणमित्रं पर्युपासमानोऽनुपूर्वेण यावत्तव सकाशमुपसंक्रान्तः। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षमाणः परिनिष्पन्नो भवति सर्वज्ञतायाम्। सा अवोचत्-अहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी। साहं कुलपुत्र अनेन विमोक्षेण समन्वागता यावन्ति इह लोकधातुसमुद्रे भगवतो वैरोचनस्य सर्वलोकधातुषु सर्वजम्बुद्वीपेषु चरमभविकबोधिसत्त्वजन्मविकुर्वितानि प्रवर्तन्ते, सर्वेषां च तेषां चरमभविकानां बोधिसत्त्वानामहं जननी। सर्वे ते बोधिसत्त्वा मम कुक्षौ संभवन्ति। मम दक्षिणात्पार्श्वान्निष्क्रमन्ति। इहैव तावदहं कुलपुत्र भागवत्यां चातुर्द्वीपिकायां कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य कुलबद्धकल्पेन सिद्धार्थं बोधिसत्त्वं जनित्रवती महताचिन्त्येन बोधिसत्त्वजन्मविकुर्वितेन॥



सा खल्वहं कुलपुत्र तदा राज्ञः शुद्धोदनस्य गृहगता भवामि। अथ बोधिसत्त्वस्य तुषितभवनाच्च्यवनकालसमये प्रत्युपस्थिते सर्वरोममुखेभ्य एकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः सर्वबोधिसत्त्वजननीगुणनयव्यूहाः सर्वतथागतजननीगुणमण्डलप्रभवप्रभासा नाम रश्मयो निश्चरित्वा सर्वावन्तं लोकधातुमवभास्य मम शरीरे निपत्य मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्राविशन्। समनन्तरप्रविष्टाभिश्च कुलपुत्र ताभिर्बोधिसत्त्वरश्मिभिरनेकनामधेयाभिर्नानाबोधिसत्त्वजननीविकुर्वितव्यूहप्रमुञ्चनीभिः, अथ तावदेव मम काये बोधिसत्त्वरश्मिमुखमण्डलाभिविज्ञप्ताः सर्वबोधिसत्त्वजन्मविकुर्वितनयव्यूहाः संदृश्यन्ते स्म अन्तर्गतेन परिवारेण। समनन्तरप्रविष्टाभिश्च कुलपुत्र मम काये ताभिर्बोधिसत्त्वरश्मिभिः, अथ तावदेव येषां बोधिसत्त्वानां तानि बोधिसत्त्वरश्मिमुखमण्डलानि विज्ञप्तानि जन्मनयविकुर्वितानि प्रवर्तन्ते, सर्वे ते मम चक्षुष आभासमगमन्, यदुत बोधिमण्डवराग्रगता बुद्धसिंहासननिषण्णा बोधिसत्त्वपर्षन्मण्डलपरिवृता लोकेन्द्राभिपूजिता धर्मचक्रं प्रवर्तयमानाः। ये च तैस्तथागतैः पूर्वबोधिसत्त्वचर्यां चरद्भिस्तथागता आरागिताः, तेऽपि सर्वे मम चक्षुष आभासमगमन्। प्रथमचित्तोत्पादजन्मविकुर्विताः साभिसंबोधिधर्मचक्रप्रवर्तनपरिनिर्वाणविकुर्विताः सर्वबुद्धक्षेत्रविशुद्धव्यूहाः, यानि च तेषां तथागतानां निर्माणमण्डलानि प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरन्ति, तान्यपि सर्वाणि मम चक्षुष आभासमगमन्। तस्या मम कुलपुत्र काये ताभिर्बोधिसत्त्वरश्मिभिरनुप्रविष्टाभिः सर्वजगदभ्युद्गतः कायः संस्थितोऽभूत्, आकाशधातुविपुलश्च कुक्षिः, न च मनुष्याश्रयप्रमाणादतिक्रान्तः। यावन्तश्च दशसु दिक्षु बोधिसत्त्वगर्भावासभवनव्यूहाः, ते सर्वे मम कायेऽन्तर्गता अनुप्रविष्टाः सर्वे संदृश्यन्ते॥



समनन्तरप्रादुर्भूतस्य च मम कुलपुत्र काये बोधिसत्त्वगर्भावासभवनव्यूहपरिभोगस्य, अथ तावदेव बोधिसत्त्वः सार्धं दशबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैरेकप्रणिधानैः सभागचरितैरेककुशलमूलैरेकव्यूहैरेकविमोक्षविहारिभिरेकज्ञानभूमिसंवासिभिरेकविकुर्वितनिर्यातैरेकप्रणिधानसमुदागतैरेक-चर्यानिर्यातैर्धर्मकायपरिशुद्धैरनन्तमध्यरूपकायाधिष्ठानैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधिविकुर्वितनिर्यातैर्नागेन्द्रगर्भमणिकूटागारगतैः सागरनागराजपूर्वंगमैरशीत्या नागेन्द्रसहस्रैः सर्वलोकेन्द्रसहस्रैश्चाभिपूज्यमानो महता बोधिसत्त्वविकुर्वितेन सर्वतुषितभवनच्युतिसंदर्शनेन एकैकस्मात्तुषितभवनात् सर्वलोकधातुप्रसृतचातुर्द्वीपोपपत्तिप्रतिलाभसंदर्शनेन अचिन्त्यसत्त्वपरिपाकोपायकौशल्यानुगतेन प्रमत्तसर्वसत्त्वसंचोदनेन सर्वाभिनिवेशोच्चालनेन महारश्मिजालप्रमुञ्चनेन सर्वलोकान्धकारविधमनेन सर्वापायदुःखव्युपशमनेन सर्वनिरयगतिनिवर्तनेन सर्वसत्त्वपूर्वकर्मसंचोदनेन सर्वसत्त्वधातुपरित्रायणेन सर्वसत्त्वाभिमुखकायसंदर्शनेन तुषितभवनाच्च्युत्वा सार्धं सपरिवारेण मम कुक्षौ प्राविशत्॥



ते सर्वे मम कुक्षौ त्रिसाहस्रलोकधातुविपुलेन यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजः-समलोकधातुविपुलेन आक्रमविक्रमेण अनुविचरन्ति स्म। सर्वाणि च दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपादमूलेषु सर्वबोधिसत्त्वपर्षन्मण्डलानि प्रतिचित्तक्षणमनभिलाप्यानि मम कुक्षौ समवसरन्ति स्म बोधिसत्त्वगर्भावासविकुर्वितं द्रष्टुम्। चत्वारश्च महाराजाः शक्रसुयामसंतुषितसुनिर्मितवशवर्तिनश्च देवेन्द्राः ब्रह्मेन्द्राश्च गर्भावासोपगतबोधिसत्त्वमुपसंक्रामन्ति स्म दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय सांकथ्यानुभावनाय। न चायं मम कुक्षिस्तावन्ति पर्षन्मण्डलानि प्रतीच्छन् विपुलीभवति। न चास्मान्मनुष्याश्रयादयं मम कायो विशिष्टतरः संतिष्ठते। तानि च तावन्ति पर्षन्मण्डलानि संप्रतीच्छति। सर्वे च ते देवमनुष्या नानाबोधिसत्त्वपरिभोगपरिशुद्धिव्यूहानपश्यन्। तत्कस्य हेतोः? यथापि तदस्यैव महाप्रणिधानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात्॥



यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायां जम्बुद्वीपे बोधिसत्त्वं कुक्षिणा संप्रतीच्छामि, एवं त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वचातुर्द्वीपिकाजम्बुद्वीपेषु संप्रतीच्छामि अनेन च विकुर्वितव्यूहेन। न चायं मम कायो द्वयीभवति नाद्वयीभवति, न चैकत्वे संतिष्ठते न बहुत्वे, यथापि नाम तदस्यैव महाप्रणिधानज्ञानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात्। यथा चाहं कुलपुत्र अस्य भगवतो वैरोचनस्य माता अभूवम्, तथा पूर्वकाणामपि तथागतानामनन्तमध्यानां माता अभूवम्। यत्र बोधिसत्त्वो लोक उपपादुक उपापद्यत पद्मगर्भे, तत्राहं नलिनीदेवता भूत्वा बोधिसत्त्वं संप्रतीच्छामि। लोकश्च मां बोधिसत्त्वजननीति संजानाति। यत्रोत्सङ्गे प्रादुर्बभूव, तत्राहमस्य जनन्यभूवम्। यत्र बुद्धक्षेत्रे प्रादुर्भवति, तत्राहं बोधिमण्डदेवता भवामि। इति हि कुलपुत्र यावद्भिरुपायमुखैश्चरमभविका बोधिसत्त्वा लोक उपपत्तिं संदर्शयन्ति, तावद्भिरुपायमुखैरहं बोधिसत्त्वजननी भवामि॥



यथा अहं कुलपुत्र इह लोकधातौ अस्य भगवतः सर्वबोधिसत्त्वजन्मविकुर्वितसंदर्शनेषु जनेत्र्यभूवम्, तथा भगवतः क्रकुच्छन्दस्यापि तथागतस्य, कनकमुनेः, काश्यपस्य तथागतस्य जनेत्र्यभूवम्। तथा सर्वेषां भद्रकल्पिकानामनागतानां तथागतानां जनेत्री भविष्यामि। तद्यथा मैत्रेयस्य बोधिसत्त्वस्य तुषितभवनगतस्य च्युतिसंदर्शनकाले प्रवृत्ते सर्वबोधिसत्त्वोपपत्तिसंभवगर्भसंवासविकुर्वितसंदर्शनप्रभासायां रश्म्यामुत्सृष्टायां प्रभासितेषु सर्वधर्मधातुनयतलेषु यावन्ति मम धर्मधातुनयतलानि चक्षुषोऽवभासमागमिष्यन्ति, येषु मैत्रेयेण बोधिसत्त्वेन मनुष्यलोके मनुष्येन्द्रकुलेषु जन्मोपपत्तिसंदर्शनेन सत्त्वा विनयितव्याः, तेष्वहं सर्वत्र बोधिसत्त्वजननी भविष्यामि। यथा च मैत्रेयस्य बोधिसत्त्वस्य, तथा सिंहस्य यो मैत्रेयस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तथा प्रद्योतस्य केतोः सुनेत्रस्य कुसुमस्य कुसुमश्रियः तिष्यस्य पुष्यस्य सुमनसो वज्रस्य विरजसः चन्द्रोल्काधारिणो यशसो वज्रशुद्धस्य एकार्थदर्शिनो सिताङ्गस्य पारंगतस्य रत्नार्चिःपर्वतस्य महोल्काधारिणः पद्मोत्तरस्य विघुष्टशब्दस्य अपरिमितगुणधर्मस्य दीपश्रियो विभूषिताङ्गस्य सुप्रयाणस्य मैत्रश्रियो निर्मितस्यानिकेतस्य ज्वलिततेजसोऽनन्तघोषस्य अनिनेमस्य अनिनेत्रस्य विमतिविकिरणस्य परिशुद्धस्य सुविशालाभस्य यशःशुद्धोदितस्य मेघश्रियो विचित्रभूतस्य सर्वरत्नविचित्रवर्णमणिकुण्डलस्य सागरमतेः शुभरत्नस्य अनिहतमल्लस्य परिपूर्णमनोरथस्य महेश्वरस्य इन्द्रश्रियोऽग्निश्रियः चन्दनमेघस्य सितविशालाक्षस्य श्रेष्ठमतेर्विभावितमतेरवरोपणराजस्योत्तापनराजमतेर्विभूषितस्य विभूतेः केशरनन्दिन ईश्वरदेवस्य ईश्वरस्य उष्णीषश्रियो वज्रज्ञानपर्वतस्य श्रीगर्भस्य कनकजालकायविभूषितस्य सुविभक्तस्य ईश्वरदेवस्य महेन्द्रदेवस्य अनिलश्रियो विशुद्धनन्दिनोऽर्चिष्मतो वरुणश्रियो विशुद्धमतेरग्रयानस्य निहितगुणोदितस्य अरिगुप्तस्य वाक्यनुदस्य वशीभूतस्य गुणतेजस्य वैरोचनकेतोर्विभवगन्धस्य विभावनगन्धस्य विभक्ताङ्गस्य सुविशाखस्य सर्वगन्धार्चिमुखस्य वज्रमणिविचित्रस्य प्रहसितनेत्रस्य निहतरागरजसः प्रवृद्धकायराजस्य वासुदेवस्य उदारदेवस्य निरोधनिम्नस्य विबुद्धेर्धूतरजसः अर्चिर्महेन्द्रस्य उपशमवतो विशाखदेवस्य वज्रगिरो ज्ञानार्चिज्वलितशरीरस्य क्षेमंकरस्य औपगमस्य शार्दूलस्य परिपूर्णशुभस्य रुचिरभद्रयशसः पराक्रमविक्रमस्य परमार्थविक्रामिणः शान्तरश्मेरेकोत्तरस्य गम्भीरेश्वरस्य भूमिमतेरसितस्य घोषश्रियो विशिष्टस्य विभूतपतेर्विभूतभूतस्य वैद्योत्तमस्य गुणचन्द्रस्य प्रहर्षिततेजसो गुणसंचयस्य चन्द्रोद्गतस्य भास्करदेवस्य भीष्मयशसो रश्मिमुखस्य शालेन्द्रस्कधस्य यशसः औषधिराजस्य रत्नवरस्य वज्रमतेः सितश्रियो निर्घौतालयस्य मणिराजस्य महायशसो वेगधारिणोऽमिताभस्य महासनार्चिषो मोहधर्मेश्वरस्य निहतधीरस्य देवशुद्धस्य दृढप्रभस्य विश्वामित्रस्य विमुक्तिघोषस्य विनर्दितराजस्य वाक्यच्छेदस्य चम्पकविमलप्रभस्य अनवद्यस्य विशिष्टचन्द्रस्य उल्काधारिणो विचित्रगात्रस्य अनभिलाप्योद्गतस्य जगन्मित्रस्य प्रभूतरश्मेः स्वराङ्गशूरस्य करुणावृक्षस्य धृतमतितेजसः कुन्दश्रियोऽर्चिश्चन्द्रस्य अनिहितमतेरनुनयविगतस्य अनिलम्भमतेरुपचितस्कन्धस्य अपायप्रमथनस्य अदीनकुसुमस्य सिंहविनर्दितस्य अनिहानार्थस्य अनावरणदर्शिनः परगणमथनस्य अनिलनेमस्य अकम्पितसागरस्य शोभनसागरस्य अपराजितमेरोरनिलयज्ञानस्य अनन्तासनस्य अयुधिष्ठिरस्य चर्यागतस्य उत्तरदत्तस्य अत्यन्तचन्द्रमसोऽनुग्रहचन्द्रस्य अचलस्कन्धस्य अग्रसानुमतेरनुग्रहमतेरभ्युद्धरस्य अर्चितनमस्यानुपगमनाम्नो निहततेजसो विश्ववर्णस्य अनिमित्तप्रज्ञस्य अचलदेवस्य अचिन्त्यश्रियो विमोक्षचन्द्रस्य अनुत्तरराजस्य चन्द्रस्कन्धार्चितब्रह्मणोऽकम्प्यनेत्रस्य अनुनयगात्रस्य अभ्युद्गतकर्मणोऽनुधर्ममतेरनुत्तरश्रियो ब्रह्मदेवस्य अचिन्त्यगुणानुत्तरधर्मगोचरस्य अपर्यन्तभद्रस्य अनुरूपस्वरस्य अभ्युच्चदेवस्य बोधिसत्त्वस्य। इति हि कुलपुत्र एतान् मैत्रेयप्रमुखाननागतांस्तथागतान् प्रमुखान् कृत्वा सर्वेषां भद्रकल्पिकानां तथागतानामर्हतां सम्यक्संबुद्धानामहमेव जननी भविष्यामि अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ। यथा च इह लोकधातौ, तथा दशसु दिक्षु अपरिमाणेषु लोकधातुषु अनन्तमध्यान् धर्मधातुनयानवतरमाणा यथा च मैत्रेयस्य तथागतस्य अनभिलाप्यैर्गुणविशेषैर्जननी भविष्यामि, एवमनभिलाप्यगुणविशेषैः सिंहस्य एवं यावद्रोचमस्य तथागतस्य जननी भविष्यामि। यथा च भद्रकल्पिकानां तथागतानाम्, एवमस्मिन् सर्वावति कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वलोकधातुषु सर्वजम्बुद्वीपेष्वपरान्तकोटीगतान् कल्पान् समन्तभद्रायां बोधिसत्त्वचर्यायां चरमाणा सर्वकल्पेषु सर्वसत्त्वपरिपाकविनयमधिष्ठाय सर्वेषामनागतानां तथागतानां बोधिसत्त्वभूतानां जननी भविष्यामि॥



एवमुक्ते सुधनः श्रेष्ठिदारको मायादेवीमेतदवोचत्-कियच्चिरप्रतिलब्धस्त्वया अयमार्ये महाप्रणिधानज्ञानमायागतव्यूहो बोधिसत्त्वविमोक्षः? आह-भूतपूर्वं कुलपुत्र अतीतेऽध्वनि अचिन्त्यानां चित्तविषयसमतिक्रान्तानामभिजातबोधिसत्त्वचक्षुष्पथविज्ञप्तानां विज्ञानगणनासमतिक्रान्तानां परेण शुभप्रभो नाम कल्पोऽभूत्। तस्मिन् खलु पुनः शुभप्रभे कल्पे मेरूद्गतश्रीर्नाम लोकधातुरभूद्विशुद्धसंक्लिष्टानेकरत्नमयी सचक्रवालसुमेरुसागरा पञ्चगतिप्रचारा चित्रा दर्शनीया। तस्यां खलु मेरूद्गतश्रियां लोकधातौ दश चातुर्द्वीपिककोटीशतान्यभूवन्। तेषां खलु दशानां चातुर्द्वीपिककोटीशतानां मध्ये सिंहध्वजाग्रतेजो नाम मध्यमा चातुर्द्वीपिकाभूत्, यस्यामशीतिराजधानीकोटीशतान्यभूवन्। तेषां खलु अशीतीनां राजधानीकोतीशतानां मध्ये ध्वजाग्रवती नाम मध्यमराजधान्यभूत्। तस्यां महातेजःपराक्रमो नाम राजा अभूच्चक्रवर्ती। तस्यां खलु पुनर्ध्वजाग्रवत्यां राजधान्यां चित्रमञ्जरिप्रभासो नाम बोधिमण्डोऽभूत्। तत्र नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत्। तस्मिन् खलु पुनश्चित्रमञ्जरिप्रभासे बोधिमण्डे विमलध्वजो नाम बोधिसत्त्वो निषण्णोऽभूत् सर्वज्ञताधर्माधिगमाय। तस्य सर्वज्ञताधर्माधिगमान्तरायाय सुवर्णप्रभो नाम मारो महासैन्यपरिवारोऽन्तर्धितकाय उपक्रान्तोऽभूत्। स च महातेजःपराक्रमश्चक्रवर्ती बोधिसत्त्ववशिताप्रतिलब्धोऽभूत् महर्द्धिविकुर्वितनिर्यातः। स ततो महासैन्याद्विपुलतरमुग्रतरं च महान्तं बलकायमभिनिर्माय तं बोधिमण्डं समन्तादनुपरिवारयामास मारसैन्यपराजयाय। तेन हि महती मारसेना विकीर्णा। तेन च भगवता विमलध्वजेन तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। अथ खलु नेत्रश्रीबोधिमण्डदेवता महातेजःपराक्रमस्य चक्रवर्तिनोऽन्तिके पुत्रसंज्ञामुत्पाद्य तस्य तथागतस्य चरणयोः प्रणिपत्य प्रणिधानमकार्षीत्-यत्र यत्राहं भगवन् उत्पद्येयम्, तत्र तत्रैष मे महातेजःपराक्रमश्चक्रवर्ती पुत्रो भवेत्। यदा चैषोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, तदाप्यहमेतस्य जननी भवेयम्। सैवं प्रणिधानं कृत्वा तस्मिन्नेव चित्रमञ्जरिप्रभासे बोधिमण्डे तस्मिन्नेव शुभप्रभे कल्पे दश नयुतानि तथागतानामारागयामास॥



तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत्? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूवम्। तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन महातेजःपराक्रमो नाम चक्रवर्त्यभूद्बोधिसत्त्ववशिताप्रतिलब्धो महर्द्धिकविकुर्वितनिर्यातो येन सा महती मारसेना विकीर्णा? न खल्वेवं द्रष्टव्यम्। अयं स भगवान् वैरोचनस्तथागतोऽर्हन् सम्यक्संबुद्धः तेन कालेन तेन समयेन महातेजःपराक्रमो नाम राजा चक्रवर्त्यभूत्। सा अहं कुलपुत्र तत उपादाय यत्रतत्रोपपन्नाः, सर्वत्र एष मम पुत्रत्वमुपागतः सर्वबुद्धक्षेत्रेषु बोधिसत्त्वचर्यां चरन् सर्वगतिमुखेषु सर्वोपपत्तिमुखेषु सर्वकुशलमूलमुखेषु सर्वबोधिसत्त्वचर्याविचारपराक्रमेषु सर्वजातकनयेषु सर्वदेवेन्द्रजन्मसु सर्वलोकेन्द्रगतेषु सर्वेश्वरभूमिषु सर्वगतिप्रभागेषु। यत्र यत्रोपपद्यते सत्त्वपरिपाकहेतोः, सर्वत्र अहमेवास्य जनन्यभूवम्। चरमे च भवेऽस्य अहमेव सर्वत्रानुगता जनन्यभूवम्। सर्वबोधिसत्त्वजन्ममुखेषु क्षणे क्षणे यावन्ति बोधिसत्त्वजन्मविकुर्वितान्यादर्शयामास, सर्वत्राहमेवास्य माता अभूवम्। अतीतानामपि तथागतानाम्, अनन्तमध्यानामपरिमाणानामहं जनन्यभूवम्। प्रत्युत्पन्नानामपि दशसु दिक्षु अनन्तमध्यानामपरिमाणानां तथागतानामहमेव जननीत्वं प्रत्यनुभवामि। यावतां च तथागतानामहं चरमे भवे बोधिसत्त्वमाता अभूवम्, सर्वेषां च तेषां तथागतानां नाभिमण्डलेभ्यो रश्मयो निश्चरित्वा महाकायमासनं चावभासयामासुः। एतमहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहं बोधिसत्त्वविमोक्षं प्रजानामि। किं मया शक्यं महाकरुणागर्भाणां बोधिसत्त्वानां सर्वज्ञतापरिपाकविनयापरितृप्तकुक्षीणां सर्वतथागतविकुर्वितरोममुखनिर्यातनिदर्शनवशवर्तिना चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव त्रिदशेन्द्रभवने सुरेन्द्राभा नाम देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपतव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको मायाया देव्याः पादौ शिरसाभिवन्द्य मायादेवीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मायादेव्या अन्तिकात्प्रक्रान्तः॥४२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project