Digital Sanskrit Buddhist Canon

४२ सुतेजोमण्डलरतिश्रीः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 42 sutejomaṇḍalaratiśrīḥ
४२ सुतेजोमण्डलरतिश्रीः।



अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायास्तामनुशासनीमनुस्मरन् तं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवबोधिसत्त्वविमोक्षं परिभावयन् विपुलीकुर्वन् अनुपूर्वेण येन लुम्बिनीवनं तेनोपजगाम। उपेत्य लुम्बिनीवनं प्रदक्षिणीकृत्य सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतां परिगवेषमाणोऽपश्यत्सुतेजोमण्डलरतिश्रियं लुम्बिनीदेवतां लुम्बिनीवनेषु सर्वरत्नद्रुमशाखामण्डलकूटागारे मणिपद्मगर्भसिंहासने निषण्णां विंशत्या वनदेवतानियुतशतसहस्रैः परिवृतां पुरस्कृतां धर्मं देशयमानां सर्वबोधिसत्त्वजन्मसमुद्रनिर्देशं नाम सूत्रान्तं संप्रकाशयमानां तथागतगोत्राभिजातानां बोधिसत्त्वानां गुणसमुद्रवेगविवर्धनाम्। दृष्ट्वा च येन सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तेनोपजगाम। उपेत्य सुतेजोमण्डलरतिश्रीलुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले, कथं बोधिसत्त्वचारिकां चरन्तः सत्त्वानामालोककरा भवन्तीति॥



एवमुक्ते सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-दशेमानि कुलपुत्र बोधिसत्त्वजन्मानि यैः समन्वागता बोधिसत्त्वा जाता भवन्ति तथागतकुलेषु। निर्याता बोधिसत्त्वाः प्रदक्षिणं बोधिसत्त्वकुशलैर्विवर्धन्ते, न वितिष्ठन्ते न विषीदन्ति न विवर्तन्ते न प्रतिप्रस्रभ्यन्ते न परिखिद्यन्ते न संसीदन्ति न मुह्यन्ति नावलीयन्ते न परित्रस्यन्ति न प्रणश्यन्ति। अनुगच्छन्ति सर्वज्ञतादिगनुगमम्। अनुस्मरन्ति धर्मधातुनयम्। परिपाकप्राप्ता भवन्ति बुद्धबोधौ। विपुलीकुर्वन्ति बोधिचित्तोत्पादम्। विवर्धन्ते सर्वपारमिताभिः। विवर्तन्ते सर्वलोकगतिभ्यः। संवर्तन्ते तथागतभूमौ। उत्तापयन्ति ज्ञानाभिज्ञताः। आमुखीभवन्ति बुद्धधर्मेषु। अनुगतार्था भवन्ति सर्वज्ञताविषये। कतमानि दश? यदुत-सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म। बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म। धर्मनयनिध्यप्तिप्रयोगाभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म। त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म। समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म। सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म। बुद्धबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म। समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म। धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म। तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमत्सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः आदित एव बुद्धोपस्थानाय प्रपूज्यते सर्वबुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् उपतिष्ठन् आरागयन् अविरागयन् तथागतदर्शनावितृप्तो बुद्धसत्कारप्रयुक्तबुद्धप्रीतिवेगविवर्धितचेतास्तथागतदर्शनप्रसादवेगसंजातः। अनिवर्तया श्रद्धया पुण्यं समार्जयन् अतृप्तः सर्वतथागतपूजासंभारसमुदानयनप्रयुक्तोऽप्रतिप्रस्रब्धप्रयोगो भवति। इदं कुलपुत्र बोधिसत्त्वानां सर्वबुद्धपूजोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म सर्वज्ञतासंभारकुशलमूलसंभवसमार्जनतायै संवर्तते॥



तत्र कुलपुत्र कतमद्बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति। यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय। सर्वबुद्धारागणचित्तमत्यन्ताभिराधनतायै। सर्वबुद्धधर्मपर्येष्टिचित्तं सर्ववस्त्वनपेक्षतायै। महाप्रस्थानचित्तं सर्वज्ञताभिमुखतायै। महामैत्रीचित्तं सर्वजगत्संग्रहप्रयोगस्फरणतायै। सर्वजगदपरित्यागचित्तं सर्वज्ञतासंनाहदृढतायै। अशाठ्यामायाचित्तं यथाभूतज्ञानावभासप्रतिलाभतायै। यथावादीतथाकारिचित्तं बोधिसत्त्वमार्गप्रतिपद्यनतायै। सर्वबुद्धाविसंवादनचित्तं सर्वतथागतप्रणिध्यनुपालनतायै। सर्वज्ञतामहाप्रणिधानचित्तमपरान्तकोटीगतसर्वसत्त्वपरिपाकविनयाप्रतिप्रस्रब्धये। एतत्प्रमुखैर्बुद्धक्षेत्रपरमाणुरजःसमैर्बोधिचित्ताङ्गसंभारैरभिनिष्पन्नः स बोधिसत्त्वो जातो भवति तथागतकुले। इदं कुलपुत्र बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मनयनिध्यप्तिप्रयोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वधर्मनयसंभवन्तिघ्यप्तिमुखचेताः सर्वज्ञतामार्गाकारप्रतिपूर्यभिमुखपरिणतचेताः अनवद्यकर्मसमुदाचारसंकल्पचेताः सर्वबोधिसत्त्वसमाधिनयसागरपरिशुद्ध्यभिमुखचेताः सर्वबोधिसत्त्वगुणप्रतिपत्तिपरिनिष्पन्नचेताः सर्वबोधिसत्त्वमार्गाङ्गव्यूहाभिनिर्हारचेता विपुलसर्वज्ञतारम्बणसंभवकल्पोद्दाहज्वलनकल्पाप्रतिप्रस्रब्धवीर्यचेताः सर्वजगत्परिपाकविनयप्रस्थानानन्तमध्यबोधिसत्त्वचर्याभिनिर्हारचेताः सर्वाचारशिक्षासुप्रतिपन्नबोधिसत्त्वगुणपरिनिष्पत्तिषु सर्वभावविभावनयानुभावनयप्रविष्टचेता भवति। इदं कुलपुत्र धर्मनयनिध्यप्तियोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः परिशुद्धो भवत्यध्याशयधातौ। अवभासप्राप्तो भवति बुद्धबोधौ। अवतीर्णो भवति बोधिसत्त्वनयसमुद्रेषु। सारो भवति दृढाध्याशयवज्रधातुसंगृहीतचेताः। विमुखीभवति सर्वभवगत्युपपत्तिषु। अभिमुखीभवति सर्वतथागतविकुर्वितपरिनिष्पत्तिषु। विशेषगामिनीप्राप्तो भवति बोधिसत्त्वतीक्ष्णेन्द्रियताविवर्धनतायै। कल्याणचित्तो भवत्यध्याशयप्रभास्वरतायै। अचलो भवति दृढमहाप्रणिधानविवर्धनतायै। सर्वतथागतसमन्वाहृतो भवति सर्वावरणपर्वतविकिरणतायै। प्रतिशरणभूतो भवति सर्वजगदुपजीव्यः। इदं कुलपुत्र बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः प्रयोगसंपन्नो भवति सर्वजगत्परिपाकविनयप्रतिपन्नः। सर्ववस्तुसंज्ञो च्चलितो भवति प्रमुक्तत्यागः। अत्यन्तविशुद्धो भवति अनन्तशीलः तथागतविषयसंवसनः। क्षान्तिसंपन्नो भवति सर्वबुद्धधर्मक्षान्त्यवभासप्रतिलब्धः। महावीर्यो भवति सर्वत उदारनिःशरणप्रतिपन्नः। ध्यानप्रमुक्तो भवति समन्तमुखसमाधिज्ञानमण्डलविशुद्धः। प्रज्ञावीर्यप्रभो भवति सर्वधर्मावभासप्रतिलब्धः। असङ्गचक्षुर्भवति बुद्धदर्शनसमुद्रविज्ञप्त्यवतीर्णः। सर्वधर्मतत्त्वविभुत्वप्रभावितो भवति सर्वलोकं परितोषयित्वा। सुप्रयुक्तो भवति यथावद्धर्मनयप्रतिलाभेषु। इदं कुलपुत्र बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो जातो भवति तथागतकुलेऽनुजातो भवति, तथागतवंशे निष्पन्नो भवति सर्वबुद्धधर्मनयमुखेषु, विशुद्धो भवत्यतीतानागतप्रत्युत्पन्नतथागतमहाप्रणिधानेषु। एकधनकुशलमूलो भवति सर्वतथागतकुशलमूलेषु। एकशरीरो भवति सर्वबुद्धैः। लोकोत्तरगामी शुक्लधर्मैः। महात्मधर्मविहारी भवति बुद्धाधिष्ठानदर्शनसमाधौ। सत्त्वविशुद्धिधर्मप्रतिपन्नो भवति यथाकाले। अप्रतिप्रस्रब्धप्रतिभानो भवति बुद्धधर्मपरिपृच्छासु। इदं कुलपुत्र बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो बुद्धबलप्रवेशावभासे न निवर्तते बुद्धक्षेत्रगमनेषु। न प्रत्युदावर्तते नानाबोधिसत्त्वगुणसमुद्रोपस्थानाय। न परित्रस्यति सर्वधर्ममायागतयथाभूतज्ञानेन। स्वप्नोपमं सर्वलोकं प्रतिविध्यति। प्रतिभासोपमं सर्वरूपविज्ञप्त्यधिष्ठानमभिनिर्हरति। निर्मितोपमाभिज्ञाविकुर्वितवशिताप्राप्तो भवति। छायोपमं सर्वभवगत्युपपत्तिषु मुखं संदर्शयति। प्रतिश्रुत्कोपमानि सर्वतथागतधर्मचक्राणि प्रजानाति। धर्मधातुनयनिर्देशपरमपारमिताप्राप्तो भवति नानार्थोपायनयनिर्देशप्रयुक्तः। इदं कुलपुत्र बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः कुमारभूत एव बोधिसत्त्वव्यवस्थानव्यवस्थितो भवति, यत्र प्रतिष्ठाय सर्वज्ञज्ञाननयं व्यवचारयति। एकैकत्र ज्ञाननयमुखेऽप्रमेयाः कल्पाः क्षयं व्रजेयुरप्रमेयं बोधिसत्त्वगोचरं निर्दिशतः। सर्वबोधिसत्त्वसमाधिषु च वशी भवति परमपारमिताप्राप्तः। प्रतिचित्तक्षणं सर्वचित्तक्षणेषु दशदिगनभिलाप्यबुद्धक्षेत्रगतानां तथागतानां पादमूलेषूपपद्यते। असंभिन्नैश्चारम्बणैरसंभिन्नान् समाधीन् समापद्यते। असंभिन्नेषु च धर्मेषु असंभिन्नज्ञानवशितां संदर्शयति। अपर्यन्तानि चारम्बणानि अनारम्बणे धाताववक्रामति। परीत्तैश्चारम्बणैरनन्तनिर्देशभूमिमवतरति। अप्रमेयां च धर्मतां परीत्तां महद्गतां वा प्रतिविध्यति। विज्ञप्तिसमं च सर्वलोकमवतरति। सर्वधर्मारम्बणानि सर्वविज्ञप्तिपथांश्च भावनया अनुगच्छति। इदं कुलपुत्र बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वत्र चित्तक्षणे नानाव्यूहानि बुद्धक्षेत्राणि अधितिष्ठति। सत्त्वनिर्माणे वैशारद्यपरमपारमिताप्राप्तश्च भवति। बुद्धनिर्माणकौशल्यप्राप्तश्च भवति। धर्मनिर्माणवैशारद्यविशुद्धश्च भवति। असङ्गवरधर्मधातुगोचरश्च भवति। यथाशयसर्वकायविज्ञप्त्यधिष्ठानकुशलश्च भवति। अचिन्त्यसत्त्वविनयकौशल्यगतश्च भवति। नानाचर्याभिसंबोधिसंदर्शकश्च भवति। अनावरणसर्वज्ञतामार्गाभिनिर्हारकुशलश्च भवति। तदनन्तरं धर्मचक्रप्रवर्तनकौशल्यं संदर्शयति। अनन्तमध्यसत्त्वविनयोपायाभिनिर्हारकुशलश्च भवति। कालप्राप्ते सत्त्वविनये सदासमाहितश्च भवति वैरोचनज्ञानगर्भकोशः। इदं कुलपुत्र बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म॥



तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो विविक्तो भवति सर्वत्र्यध्वतथागतैकीभावविषये। सर्वलोकधात्वानन्तर्यविषयं चावतरति। सर्वसत्त्वानां पूर्वान्तापरान्तच्युत्युपपत्तिषु चित्तानन्तर्योत्पादं जानाति। सर्वबोधिसत्त्वानां चर्याज्ञानानन्तर्यविषयं प्रजानाति। अतीतानागतप्रत्युत्पन्नानां च सर्वबुद्धानामभिसंबोधानन्तर्यं प्रजानाति। सर्वधर्माणां चोपकारकौशल्यानन्तर्यं प्रजानाति। सर्वकल्पसंवर्तविवर्तकल्पानां च पूर्वान्तापरान्तप्रत्युत्पन्नानां सनाम्नां सोपदेशानामानन्तर्यं प्रजानाति। यथापरिपाचितेषु च सत्त्वेषु यथाकालप्राप्तेषु अभिसंबोधिव्यूहविबुद्ध्यनविषयसंदर्शनाधिष्ठानज्ञानमभिनिर्हरति। सर्वबुद्धोत्पादेषु चाभिसंबोध्युपनयनधर्मचक्रप्रवर्तनकौशल्यनयानन्तर्यतां संदर्शयति अनन्तसत्त्वधातुविनयोपायाभिनिर्हारकौशल्येन। इदं कुलपुत्र बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म॥



इमानि कुलपुत्र बोधिसत्त्वानां दश बोधिसत्त्वजन्मानि येषु बोधिसत्त्वा जायन्ते उपपद्यन्ते समर्जयन्ति संवर्धयन्ति प्रतिपूरयन्ति संभवन्ति परिसंभवन्ति परिनिष्पद्यन्ते। सर्वक्षेत्रनिरवशेषानुबोधायैकव्यूहालंकारसमुदाचारानधितिष्ठन्ति। सत्त्वधातुनयाप्रतिप्रस्रम्भणाय अपरान्तकोटीगतकल्पाधिष्ठानानधितिष्ठन्ते। सर्वधर्मसमुद्रनानारम्बणानेकविचित्रनानापरंपरानिर्देशानन्तधर्मपरंपरास्रोतोऽभिसंबुध्यन्ते। अचिन्त्यां बुद्धवृषभितां धर्मधातुपरमाकाशधातुपर्यवसानां संदर्शयन्ति। अप्रमेयसत्त्वचर्यानानात्वसमुद्रेषु परिपाकविनयसंगृहीतेषु धर्मचक्रप्रवर्तनं संदर्शयन्ति। सर्वलोकधातून् बुद्धोत्पादाविरहितानधितिष्ठन्ति। सर्वधर्ममेघाननभिलाप्यस्वराङ्गसमुद्रविशुद्धिं सर्वारम्बणेषु प्रवर्तमानां विज्ञपयन्ति। अप्रमेयविहारितायामनावरणगतिं गताः सर्वधर्मरुचिरव्यूहानि बोधिसत्त्वमण्डलानि प्रभावयन्ति। यथाशयाधि मुक्तिषु सत्त्वेषु अप्रमेयबुद्धभूम्यनुगतसर्वलोकपरिनिष्पादनार्थमनन्तमध्यं धर्मकोषं संप्रकाशयन्ति॥



अथ खलु सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तस्यां वेलायामेतमेव बोधिसत्त्वजन्मार्थमभिद्योतयन्ती बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



अध्याशयेन विमलेन अनाविलेन

पश्यन्ति ये जिन न जातु भवन्ति तृप्ताः।

सर्वान् जिनान अपरान्तवियूहमेघान्

प्रणिध्येन्ति ते प्रथमजन्मस्थिताः सुमेधाः॥१॥



सर्वत्रियध्वगमशेष स्फरित्व लोकं

क्षेत्राणि सर्व तथ धर्म तथैव बुद्धान्।

सत्त्वप्रमोक्षप्रणिधानवियूहचित्तं

जन्मं द्वितीयमिदमुक्तमचिन्तियानाम्॥२॥



ये धर्ममेघ पिबमान न जातु तृप्ताः

निध्यप्तिमानस त्रियध्व‍असङ्गकायाः।

आकाशधातुविमला समचित्तकायाः

जन्मं तृतीयमिदमप्रतिमं हि तेषाम्॥३॥



ये ते महाकरुणसागरमोतरन्ति

अध्याशयैर्वजिरसारसुमेरुकल्पैः।

सर्वज्ञतानयसमुद्र विशाहमानाः

तेषां चतुर्थमिह जन्म नरर्षभाणाम्॥४॥



ये मैत्रया दशसु दिक्षु जगत्स्फरित्वा

अभिनिर्हरन्त्यमलपारमितासमुद्रान्।

परिपाचयन्ति जगु धर्मप्रभाभिरन्त

इमु जन्मु पञ्चमु महापुरुषाण तेषाम्॥५॥



धर्मस्वभावप्रतिविद्ध असङ्गचित्ताः

त्रैयध्विकाप्रतिमबुद्धकुलाभिजाताः।

ये धर्मधातुनयसागरमोतरन्ति

षष्ठं इदं विपुल जन्म विदून तेषाम्॥६॥



ये धर्मकाय परिशुद्ध असङ्गचित्ताः

क्षेत्राण्यशेषतु स्फरित्व स्वकैः शरीरैः।

निःशेषबुद्धबलतानुगमप्रविष्टा

जन्माथ सप्तममचिन्त्यमिदं बुधानाम्॥७॥



ये ज्ञानसागरनये वशितानुयाताः

सर्वज्ञतानयमुखं व्यवचारयन्ति।

सर्वं समाधिनयसागर ओतरन्ति

जन्माष्टमं मतमिदं तथताश्रयाणाम्॥८॥



ये धर्मक्षेत्रप्रसरान् परिशोधयन्ति

ये सर्वसत्त्वपरिपाकनप्रयुक्ताः।

बौद्धा विकुर्वितवियूह विदर्शयन्ति

तेषामिदं नवमु जन्म महाशयानाम्॥९॥



ये ते यथाबल जिनान तथा प्रविष्टाः

सर्वज्ञताविपुलवेगविवर्धमानाः।

ये धर्मधातुतलभेदनयेष्वसङ्गा-

स्तेषामिदं दशमु जन्मु जिनौरसानाम्॥१०॥



एभिः कुलपुत्र बोधिसत्त्वो दशभिर्जन्मभिस्तथागतकुले जात एवमालोककरो भवति सर्वसत्त्वानाम्। अपि तु खलु पुनः कुलपुत्र अहमप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य लाभिनी। आह-क एतस्य देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-अहं कुलपुत्र सर्वबोधिसत्त्वजन्मसंदर्शनोपसंक्रमणप्रणिधानपरिनिष्पन्ना। सा खल्वहं कुलपुत्र भगवतो वैरोचनस्य विपुलं जन्मसमुद्रमवतरामि। यदुत अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ बोधिसत्त्वजन्म अवतरमाणा भागवत्यां चातुर्द्वीपिकायामिह जम्बुद्वीपे लुम्बिनीवने बोधिसत्त्वजन्मसंदर्शने पूर्वप्रणिधानोपपन्ना। सा अहमिह बोधिसत्त्वजन्मानुस्मृतिं भावयमाना विहरामि। तस्या ममेह विहरन्त्या वर्षशतेन भगवांस्तुषितभवनाच्च्यविष्यतीति॥



अथास्मिन् लुम्बिनीवने दश पूर्वनिमित्तानि प्रादुर्बभूवुः। कतमानि दश? यदुत-सर्वमिदं लुम्बिनीवन समं संस्थितमपगतनिम्नोन्नतविषममपगतश्वभ्रप्रपातम्। इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वमिदं लुम्बिनीवनमुत्पसन्नशर्करकठल्लमपगतस्थाणुकण्टकं वज्रपृथिवीतलसंस्थानमनेकरत्नाभिकीर्णं समवस्थितम्। इदं द्वितीयं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वमिदं लुम्बिनीवनं सर्वरत्नद्रुमशालतालपङ्क्तिसुविभक्तालंकारं समवास्थिषत। इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वमिदं लुम्बिनीवनं दिव्यसमतिक्रान्तगन्धाङ्कुरप्ररूढं सर्वचूर्णकोशसंभूतं सर्वध्वजमेघपटलमण्डलजातं गन्धमणिविग्रहवृक्षमूलपरिसंस्थापितालंकारं समवास्थिषत। इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वमिदं लुम्बिनीवनं विविधदिव्यपुष्पमाल्याभरणकोशनिर्वृत्तसर्वालंकारपरिपूर्णं समवास्थिषत। इदं पञ्चमं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वस्मिन्निह लुम्बिनीवने सर्ववृक्षेषु महामणिरत्नकोशा अभिनिर्वृत्ताः। इदं षष्ठं पूर्वनिमित्तं प्रादुरभूत्। पुनः सर्वस्मिन्निह लुम्बिनीवने सर्वनलिनीषु सर्वाणि जलजरत्नपुष्पाणि शुङ्गीभूतानि धरणितलादभ्युद्गम्य वारिसमुद्गतानि समवास्थिषन्त। इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत्। पुनर्यावन्त इह लोकधातौ कामावचरा रूपावचराश्च देवपुत्रा नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा लोकेन्द्रजगदिन्द्रा वा, तेऽप्यस्मिन् लुम्बिनीवने सर्वे कृताञ्जलिपुटाः स्थिता अभूवन्। इदमष्टमं पूर्वनिमित्तं प्रादुरभूत्। पुनर्यावन्त इह चातुर्द्वीपिकायां लोकधातौ देवकन्या वा नागकन्या वा यक्षगन्धर्वासुरगरुडकिन्नरमहोरगकन्या वा, ताः सर्वाः प्रमुदितमानसाः सर्वपूजाविधिपरिगृहीतहस्ताः प्लक्षशाखाभिमुखाः प्रणतकायाः स्थिता अभूवन्। इदं नवमं पूर्वनिमित्तं प्रादुरभूत्। पुनर्दशभ्यो दिग्भ्यः सर्वतथागतानां नाभिमण्डलेभ्यो निश्चरमाणा बोधिसत्त्वजन्मविकुर्वितप्रदीपा नाम रश्मयो निश्चरित्वा सर्वमिदं लुम्बिनीवनमवभास्य तिष्ठन्ति स्म। तेषु च सर्वरश्मिमुखमण्डलेषु तेषां सर्वतथागतानां जन्मविकुर्वितानि प्रतिभासप्राप्तानि संदृश्यन्ते स्म। संप्रसवविकुर्विताः सर्वबोधिसत्त्वगुणाश्च बुद्धस्वरसंप्रयुक्तास्तेभ्यो रश्मिमुखमण्डलेभ्यो निश्चरमाणाः श्रूयन्ते स्म। इदं दशमं पूर्वनिमित्तं प्रादुरभूत्। इमानि दश पूर्वनिमित्तानि प्रादुर्भूतानि बोधिसत्त्वजन्मकालसमये प्रत्युपस्थिते, येषां प्रादुर्भावाद्वितर्कमभवत् सर्वलोकेन्द्राणां बोधिसत्त्वो जनिष्यत इति। सा खलु पुनरहं कुलपुत्र एषां दशानां पूर्वनिमित्तानां दर्शनादचिन्त्यं प्रीतिवेगं प्रतिलभे॥



पुनरपरं कुलपुत्र मायादेव्याः कपिलवस्तुनो महानगरान्निष्क्रमन्त्या इह लुम्बिनीवने दश महावभासपूर्वनिमित्तानि प्रादुरभूवन्, येषां प्रादुर्भावादप्रमेयाणां सत्त्वानां सर्वज्ञताधर्मालोकप्रीतिवेगा विवर्धिताः। कतमे दश? यदुत-धरणीतलगतेषु सर्वरत्नकूटागारगर्भेष्ववभासः प्रादुर्भूतः। सर्वगन्धकुसुममुकुलेष्ववभासः प्रादुर्भूतः। अशेषरत्नपद्ममुकुलेषु विकसमानेषु सर्वपत्रेभ्योऽवभासः प्रादुर्भूतः, मधुरश्च सुजातजातशब्द एभ्यो निश्चरति स्म। यश्च दशसु दिक्षु बोधिसत्त्वानां प्रथमचित्तोत्पादावभासः, स इदं लुम्बिनीवनमवभास्य अभ्युदितः। यच्च दशसु दिक्षु बोधिसत्त्वानां सर्वबोधिसत्त्वभूम्याक्रमणावभासविकुर्वितम्, तदिह लुम्बिनीवने प्रादुरभूत्। यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वपारमितापरिनिष्पत्तिज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव। यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वप्रणिधानवशिताज्ञानालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव। यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां परिपाकविनयज्ञानालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव। यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां धर्मधातुनयज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव। यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां बुद्धविकुर्वितजन्माभिनिष्क्रमणबोधिविबुध्यनज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव। इमानि दश महावभासनिमित्तानि प्रादुर्बभूवुः, यैरनन्तमध्यानां बोधिसत्त्वानां चित्ताशयगहनान्धकाराण्यवभासितानि॥



तत्र कुलपुत्र मायाया देव्याः प्लक्षद्रुमनिलयगतायाः संनिपतितानां सर्वलोकेन्द्राणां सर्वकामधातुकानां च देवपुत्राणां साप्सरोगणदेवकन्यापरिवाराणां संनिपतितानां सर्वेषां च रूपावचराणां देवपुत्राणां निरामगन्धानां सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां सपरिवाराणां संनिपतितानां बोधिसत्त्वपूजासंप्रयुक्तानां मायादेव्यास्तेजसा श्रिया वर्णेन रूपेण सर्वपूजाव्यूहाः कायाश्चावभासिता बभूवुः, अस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ याः प्रभाः, ता अपि सर्वा ग्रस्ताश्चाभिभूताश्चाभूवन्। सर्वरोमविवरविसृताश्च मायादेव्याः प्रभावभासास्तदन्याभिः प्रभाभिरनुपहता अनावृता अप्रव्याहृता असङ्गाः सर्वदिशः स्फरित्वा सर्वाणि नैरयिकाणि दुःखानि सर्वाणि तैर्यग्योनिकानि दुःखानि सर्वाणि च यामलौकिकानि दुःखानि सर्वभवगतिपर्यापन्नानां च सत्त्वानां सर्वदुःखानि संक्लेशांश्च प्रशमयित्वा तिष्ठन्ति भासन्ते तपन्ति विरोचन्ते स्म। इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने प्रथमं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र यस्मिन् समये मायाया देव्याः कुक्षौ सर्वावतीयं त्रिसाहस्रमहासाहस्रा लोकधातुरन्तर्गता प्रतिभासप्राप्ता संदृश्यते स्म, तस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ कोटीशतचातुर्द्वीपिकानां लोकधातूनां सर्वे जम्बुद्वीपेषु नानानामधेयासु राजधानीषु नानानामधेयेषु वनषण्डेषु नानावृक्षमूलेषु मायादेवी उपगता एवमेव संदृश्यते स्म सर्वलोकेन्द्रपरिवृता बोधिसत्त्वजन्मप्रत्युपस्थाना अचिन्त्येन बोधिसत्त्वजननीज्ञानविकुर्वितेन। इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने द्वितीयं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र मायाया देव्याः सर्वरोमविवरेभ्य एकैकस्माद्रोममुखाद्यावन्तो भगवता पूर्वं बोधिसत्त्वचर्यां चरता तथागता आरागिताः सत्कृता गुरुकृता मानिता पूजिताः, ते सर्वे संदृश्यन्ते स्म। यश्च तैस्तथागतैर्धर्मो देशितः, स सर्वस्तेभ्यो रोमविवरेभ्यो बुद्धस्वराङ्गसंप्रयुक्तो निखिलेन श्रूयते स्म। तद्यथापि नाम वारिराशे रजसि कनकपरमाणुरजसि वा आदर्शमण्डले वा स्वच्छे सुप्रसन्ने वा उदके गगनमण्डलमादित्यचन्द्रज्योतिग्रहगणप्रतिमण्डितं गम्भीरमेघपटलनिगर्जितनिर्घोषप्रतिभासप्राप्तं संदृश्यते स्म, एवमेव कुलपुत्र मायाया देव्याः सर्वरोममुखमण्डलेषु पूर्वतथागतविकुर्वितानि संदृश्यन्ते स्म सर्वधर्मदेशनानिर्घोषाणि। इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने तृतीयं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र मायाया देव्याः सर्वकायात्सर्वरोममुखमण्डलेभ्य एकैकस्माद्रोमविवराद्यावत्सु सर्वक्षेत्रेषु यावत्सु लोकधातुसमुद्रेषु यावत्सु लोकधातुवंशेषु यावत्सु लोकधातुसंज्ञागतेषु भगवान् बोधिसत्त्वचारिकामकार्षीत्। यत्प्रतिष्ठानेषु क्षेत्रेषु यत्संस्थानेषु यद्व्यूहेषु यच्छरीरेषु यत्पर्वतालंकारेषु यद्ग्रामनगरनिगमजनपदपट्टनालंकारेषु यदुद्याननदीहृदतडागसागरालंकारेषु यद्गगनमेघालंकारेषु यत्सत्त्वनिलयेषु यद्याननिर्देशेषु यत्कल्पनामसंख्यासु यद्बुद्धोत्पादप्रभवेषु यद्विशुद्धिपरमेषु यथायुःप्रमाणसत्त्वेषु यथालोकजन्मोपपत्तिषु यथासत्त्वसमवधानेषु यथाकल्याणमित्रसंनिश्रयेषु यथाकुशलधर्मप्रयोगेषु यथाधर्मप्रतिपत्यभियोगेषु बुद्धक्षेत्रेषु बोधिसत्त्वचारिकामचरन्, ते सर्वे बुद्धक्षेत्रप्रसरा मायाया देव्याः सर्वरोममुखेभ्यः संदृश्यन्ते स्म। यावद्भिश्च कायैर्भगवान् पूर्वं बोधिसत्त्वचारिकामकार्षीदविवर्त्यस्थानप्राप्तः, यैराकारैर्यैर्विहारैर्यैः परिभोगैर्यैः सुखदुःखप्रतिसंवेदीभिर्येषु जातिपरिवर्तेषु, तत्सर्वमेकैकस्मिन् रोमविवरे संदृश्यते स्म। सर्वेषु च तेषु तासु तासूपपत्तिषु मायादेवी बोधिसत्त्वस्य जननी बभूव। सर्वे च ते बोधिसत्त्वकाया मायाया देव्या रोमविवरेषु विकुर्वितप्रतिभासप्राप्ताः संदृश्यन्ते स्म। इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने चतुर्थं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र यावद्भिः कायैर्भगवान् पूर्वं बोधिसत्त्वचारिकामचरत् यद्वर्णैर्यत्संस्थानैर्यदाकारैर्यत्परिभोगैर्यत्सुखदुःखप्रतिसंवेदीभिर्यज्जातिपरिवर्तैः, ते सर्वे मायाया देव्याः काये सर्वरोममुखेषु प्रतिभासप्राप्ताः संदृश्यन्ते स्म। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य पञ्चमं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र यावन्तो भगवता पूर्वं बोधिसत्त्वचारिकां चरता दुष्करपरित्यागाः परित्यक्ताः, हस्तपादपरित्यागा वा कर्णनासापरित्यागा वा जिह्वादंष्ट्रापरित्यागा वा नयनोत्तमाङ्गपरित्यागा वा मांसशोणितपरित्यागा वा अस्थिमज्जापरित्यागा वा वक्षोहृदयपरित्यागा वा छविचर्मपरित्यागा वा बाह्याध्यात्मिकवस्तुपरित्यागा वा पुत्रदुहितृभार्यापरित्यागा वा आत्मभावपरित्यागा वा भोगरत्नपरित्यागा वा ग्रामनगरनिगमजनपदराष्ट्रराजधानीपरित्यागा वा धनधान्यकोशकोष्ठागारपरित्यागा वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतपरित्यागा वा विविधरत्नाभरणपरित्यागा वा शय्यासनपरित्यागा वा गृहविमानपरित्यागा वा सर्वोपभोगपरित्यागा वा, ते च दायकबोधिसत्त्वविग्रहकायै रूपैः परित्यजन्ति स्म। ते च प्रतिग्राहकायै रूपैः प्रतिगृह्णन्ति स्म। तानि च देशवस्तूनि यानि परित्यक्तानि, ते च देशप्रदेशाः, ते च बोधिसत्त्वपरिवाराः, सर्वे ते मायाया देव्याः सर्वरोमविवरेभ्यः प्रतिभासप्राप्ताः संदृश्यन्ते स्म। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य षष्ठं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र ....................... लुम्बिनीवनषण्डे समवसृता अभिजातजगद्विज्ञाना प्रादुरभवत्। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य सप्तमं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र यावन्तः सर्वदेवेन्द्रभवनव्यूहपरिभोगसमतिक्रान्ताः सर्वनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्येन्द्रभवनव्यूहपरिभोगसमतिक्रान्ताः सर्वबोधिसत्त्वपरिभोगाः, यदुत सर्वमणिराजकूटागारपरिभोगा वा मणिराजविमानपरिभोगा वा मणिराजजालपरिभोगा वा मणिराजविग्रहपरिभोगा वा मणिराजबिम्बपरिभोगा वा मणिराजव्यूहा वा सर्वाभरणपरिभोगा वा सर्वगन्धराजपरिभोगा वा शुभाप्रतिकूलसर्वारम्बणपरिभोगा वा, ते सर्वे मायाया देव्याः कुक्षेरन्योन्यासंभिन्ना निश्चरित्वा इह लुम्बिनीवने समन्तव्यूहाः समवास्थिषन्त। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्याष्टमं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र मायाया देव्याः कुक्षेः प्रथमतरं दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा बोधिसत्त्वा भगवतो वैरोचनस्य सदृशरूपवर्णसंस्थानाः सदृशलक्षणानुव्यञ्जनालंकाराः सदृशप्रभाः सदृशरश्मिप्रमुञ्चनाः सदृशलिङ्गलीलाः सदृशविक्रमाः सदृशविरोचनविकुर्विताः सदृशपरिवाराः सदृशव्यूहा निश्चरन्ति स्म भगवतो वर्णसमुद्रानुदीरयमाणाः। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य नवमं जन्मविकुर्वितम्॥



पुनरपरं कुलपुत्र बोधिसत्त्वस्य जन्मकालसमये प्रवृत्ते मायाया देव्याः पुरस्तादधो वज्रतलान्महापृथिवीमभिनिर्भिद्य सर्वरत्नव्यूहगर्भं नाम महामणिरत्नपद्ममभ्युद्गतमभूदपराजितमहावज्रमणिराजगर्भसर्वमणिराजकेसररश्मिव्यूहं दशबुद्धक्षेत्रपरमाणुरजःसमपत्रपङ्क्तिसुविभक्तं विविधमणिराजपत्रमण्डलं चिन्तामणिराजविशुद्धकर्णिकं सर्वरत्नवर्णाप्रमेयकेसरपङ्क्तिव्यूहम्, असंख्येयमणिराजरत्नव्यूहजालसंछन्नमभेद्यनारायणवज्रमणिराजेन्द्रकूटसंछादितं सर्वदेवेन्द्रकायपरिवृतं सर्वनागेन्द्रगन्धमेघाभिप्रवर्षितं दिव्यपुष्पपाणिपुटप्रयुक्तसर्वयक्षेन्द्रपरिवृतं सर्वगन्धर्वेन्द्रपूर्वबुद्धोत्पादस्थानमधुररुतसंगीतिनिर्घोषसंप्रयुक्तस्तुतिमेघाविष्कृतं निहतमानमददर्पसर्वासुरेन्द्रप्रणतशरीरनमस्कृतं सर्वगरुडेन्द्राभिप्रलम्बितरत्नपट्टगगनमेघालंकारबोधिसत्त्वगणसंचोदनसंगीतिसंप्रयुक्तैः प्रीतिमनोभिः सर्वकिन्नरेन्द्रैः संप्रेक्षितं सर्वमहोरगेन्द्रप्रीतिसंभवप्रयुक्तनयरुचिरनिर्घोषव्यूहमेघाभिप्रवर्षितम्। इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य दशमं जन्मविकुर्वितम्॥



इमानि कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य दश जन्मविकुर्वितानि प्रादुरभूवन्। ततः पश्चाद्बोधिसत्त्वोऽचिन्त्याप्रमाणप्रभासेचनकदर्शनो मायाया देव्याः कुक्षेरभ्युद्गतः सूर्यमण्डलमिव गगनतलात्, विद्युत्कलाप इव मेघसंघातात्, सांध्य इव महाघनः शैलशिखरान्तरात्, महाप्रदीप इव तमोऽन्धकारात्। इत्येवं बोधिसत्त्वो मायाया देव्याः कुक्षेरभिनिष्क्रमणं संदर्शयामास मायागतरूपविज्ञप्तिसंदर्शनधर्मतया अनागतधर्मतया अनुत्पादानिरोधलोकविज्ञप्तिसंदर्शनधर्मतया॥



इत्येवमहं कुलपुत्र भगवतो वैरोचनस्य जन्मविकुर्वितसमुद्रानवतरामि इह लुम्बिनीवने विहरमाणा। यथा चाहं कुलपुत्र स्यां भागवत्यां चातुर्द्वीपिकायां भगवतो वैरोचनस्य जन्मविकुर्वितसमुद्रानवतरामि, तथा सर्वावत्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वचातुर्द्वीपिकासु कोटीशतजम्बुद्वीपानां सर्वत्र भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि। यथा चाहं कुलपुत्र अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वचातुर्द्वीपिकासु कोटीशतजम्बुद्वीपानां भगवतो वैरोचनस्य कोटीशतं जन्मविकुर्वितानामवतरामि, एवं सर्वत्रिसाहस्रमहासाहस्रलोकधातुपर्यापन्नपरमाणुरजोन्तर्गतेषु सर्वबुद्धक्षेत्रपरमाणुरजःप्रवेशज्ञानानुगतेषु प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन बुद्धक्षेत्रपरमाणुरजःसमानि भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि। तदनन्तरेण चित्तेन बुद्धक्षेत्रसहस्रपरमाणुरजोन्तर्गतेषु बुद्धक्षेत्रेषु एकैकत्र बुद्धतत्समान्येव बोधिसत्त्वजन्मविकुर्वितान्यवतरामि। एतेन नयेन बुद्धक्षेत्रपरमाणुरजोन्तर्गतेषु बुद्धक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे सर्वाणि बोधिसत्त्वजन्मविकुर्वितान्यवतरामि, न च पर्यन्तमुपैमि। सर्वपरमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरंपराणां न च पर्यन्तमुपैमि सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे बुद्धसत्त्वजन्मपरंपराणाम्। यथा चेह लोकधातौ सर्वाणि बोधिसत्त्वजन्मविकुर्वितान्यवतरामि, तथा दशसु दिक्षु अनन्तमध्यासु लोकधातुषु सर्वपरमाणुरजःसु प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन सर्वाकाराणि सर्वबोधिसत्त्वजन्मविकुर्वितान्यवतराम्यप्रतिप्रस्रब्ध्यधिष्ठानयोगेन॥



एवमुक्ते सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामेवमाह कियच्चिरप्रतिलब्धस्त्वयायं देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितं संदर्शयमानो बोधिसत्त्वजन्मविमोक्षः? आह-भूतपूर्वं कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रकोटीपरमाणुरजःसमानां कल्पानां परेण परतरमीश्वरगुणापराजितध्वजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् समन्तरत्नायां लोकधातौ समापद्यते कल्पेऽशीतिबुद्धकोटीनियुतशतसहस्रप्रभवे। तस्यां खलु कुलपुत्र समन्तरत्नायां लोकधातौ विचित्रव्यूहप्रभा नाम मध्यमा चातुर्द्वीपिकाभूत्। तस्यां खलु चातुर्द्वीपिकायां मध्ये जम्बुद्वीपस्य मेरुविशुद्धव्यूहध्वजा नाम राजधान्यभूत्। तस्यां खलु राजधान्यां रत्नार्चिनेत्रप्रभो नाम राजा अभूत्। राज्ञः खलु कुलपुत्र रत्नार्चिनेत्रप्रभस्य राज्ञः सुहर्षितप्रभेश्वरा नाम भार्याभूत्। तद्यथापि नाम कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायामिह जम्बुद्वीपे मायादेवी भगवतो वैरोचनस्य जनेत्री, एवमेव कुलपुत्र तेन कालेन तेन समयेन तस्यां विचित्रव्यूहप्रभायां चातुर्द्वीपिकायां जम्बुद्वीपे सुहर्षितप्रभेश्वरा नाम तस्य भगवत ईश्वरगुणापराजितध्वजस्य तथागतस्य माता अभूत्। यथा तेषामशीतिबुद्धकोटीनियुतानां पूर्वंगमस्य प्राथमकल्पिकस्य भगवत ईश्वरगुणापराजितध्वजस्य तथागतस्य माता अभूत्। सा खलु कुलपुत्र सुहर्षितप्रभेश्वरा देवी बोधिसत्त्वस्य जन्मकालसमये विंशत्या स्त्रीनियुतशतसहस्रैः सार्धं सुवर्णपुष्पाभमण्डलं नाम महोद्यानं निर्ययौ, यत्र तमीश्वरगुणापराजितध्वजं कुमारं जनयामास अचिन्त्येन बोधिसत्त्वविकुर्वितेन। तेन खलु पुनः समयेन सुवर्णपुष्पाभमण्डलस्य नाम महोद्यानस्य मध्ये शुभरत्नविचित्रकूटं नाम कूटागारमभूत्। तस्मिन् कूटागारे सर्वकामंददवृक्षशाखामध्यालम्बतया सुहर्षितप्रभेश्वराया देव्याः स भगवानीश्वरगुणापराजितध्वजस्तथागतो जनितः। तेन खलु समयेन तस्य भगवतो जन्मकाले विमलसंभवप्रभा नाम धात्री प्रत्युपस्थिताभूत्। जातमात्रं च बोधिसत्त्वं लोकेन्द्रा विचित्रसुरभिमनोज्ञदिव्यपुष्पोत्करोद्गारिभिः परमसुरभिगन्धोदककलशैर्विस्नाप्य तदर्हाभिश्च अचिन्त्यासंख्येयाभिरुत्तमाभिः पूजाभिरभिपूज्य तस्या विमलसंभवप्रभाया धात्र्या अङ्के प्रायच्छन्। परिगृहीतमात्रे च तस्मिन् बोधिसत्त्वे तया धात्र्या उभाभ्यां पाणिभ्यामंसे च, तत्क्षणमेव सा धात्री महाप्रीतिप्रामोद्यवेगप्रतिलब्धा समन्तचक्षुर्विषयं नाम बोधिसत्त्वसमाधिं प्रत्यलभत, यस्य समाधेः सहप्रतिलाभात्तस्माद्दशसु दिक्षु नानालोकधातुस्थिता अप्रमेयास्तथागताश्चक्षुष आभासमगमन्। एष च अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनो बोधिसत्त्वविमोक्षोऽवक्रान्तः सुसूक्ष्मः तद्यथापि नाम तद्दिवसावक्रान्ते मातुः कुक्षौ गर्भविज्ञानम्, यस्य विमोक्षस्य प्रतिलम्भादनया सर्वतथागतजन्मविकुर्वितसंदर्शनमहाप्रणिधिरभिनिर्हृतः॥



तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूत्? न खलु पुनस्त्वया एवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूवम्। तत्किं मन्यसे कुलपुत्र-अन्यानि तेन कालेन तेन समयेन विंशतिस्त्रीनियुतशतसहस्राण्यभूवन्? न खल्वेवं द्रष्टव्यम्। इमानि तानि विंशतिदेवतानियुतशतसहस्राणि, यानीह लुम्बिनीवने प्रतिवसन्ति मम परिवाराः। तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन सुप्रहर्षितप्रभेश्वरा नाम देव्यभूदीश्वरगुणापराजितध्वजस्य कुमारस्य जनेत्री? न खल्वेवं द्रष्टव्यम्। इयं सा मायादेवी तेन कालेन तेन समयेन सुप्रहर्षितप्रभेश्वरा नाम देव्यभूत्। तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन रत्नार्चिनेत्रप्रभो नाम राजा अभूत्। न खल्वेवं द्रष्टव्यम्। अयं स राजा शुद्धोदनः तेन कालेन तेन समयेन् रत्नार्चिनेत्रप्रभो नाम राजा अभूत्। सा खल्वहं कुलपुत्र तत उपादाय सर्वचित्तक्षणेष्वविरहिता अभूवं भगवतो वैरोचनस्य बोधिसत्त्वजन्मविकुर्वितसागरावतरणतया सत्त्वनयवृषभिताविकुर्वितसागरावतरणतया॥



यथा चाहं कुलपुत्र अस्यां सहायां लोकधातौ भगवतो वैरोचनस्य महाप्रणिधानसमुद्रसागरसंभवानां तथागतानां सर्वचित्तक्षणेषु सर्वपरमाणुरजःप्रवेशसमवसृतेन ज्ञानचक्षुषा सर्वपरमाणुरजःसु क्षेत्रसमुद्रानवतरामि, तेषु च क्षेत्रेषु तथागतोत्पादसागरानवतरामि। यथा तेषां तथागतानां बोधिसत्त्वजन्मविकुर्वितमहासमुद्रानवतरामि, तथा दशसु दिक्षु अनन्तमध्यानां तथागतानां सर्वचित्तक्षणेषु बोधिसत्त्वजन्मविकुर्वितसागरानवतरामि। यथा च अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वपरमाणुरजःप्रसरपरंपरावतारेण सम्यक्संबुद्धबोधिसत्त्वजन्माभिमुखीभावगतान् बुद्धगुणानवतरामि, एवं दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःप्रसरान्तर्गतान् क्षेत्रसागरानवतरामि। तेषु च विपुलान् बुद्धसमुद्रानवतरामि। तांश्च बुद्धान् भगवतो बोधिसत्त्वभूतजन्मविकुर्वितसंमुखीभावगतान् पश्यामि। तथागतभूतानपि पूजयामि। तेषां च तथागतानां धर्मदेशनां शृणोमि, धर्मस्य च अनुधर्मं प्रतिपद्ये॥



अथ खलु सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता एवमेवाप्रमेयसर्वकल्पसर्वावरणबोधिसत्त्वजन्मविकुर्वितसंदर्शनबोधिसत्त्वविमोक्षं परिदीपयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



बुद्धपुत्र शृणु मह्य भाषितं

यस्मि पृच्छसि जनित्व गौरवम्।

शान्त दुर्दृशु जिनान गोचरो

हेतुकारणनयैर्निदर्शितः॥१॥



क्षेत्रकोटिपरमाणुसादृशान्

पूर्वकल्प स्मरमी अचिन्तियान्।

कल्प आदिरिव अनन्त नायको

यत्राशीतिनयुता जिनानभूत्॥२॥



ईश्वराजितगुणध्वजस्तदा

तेष्वभूत्प्रथमकस्तथागतः।

जानमान मय द्रष्टु नायकः

स्वर्णपुष्पप्रभवे वनोत्तमे॥३॥



नामतो विमलसंभवप्रभा

तस्य आसि अहु धात्रि पण्डिता।

लोकपाल मम अंसि तं स्थपी

जातमात्र कनकोत्तमप्रभम्॥४॥



अंसि तं ग्रहिय अग्रपुद्गलं

मूर्ध्निमस्य न प्रभोमि प्रेक्षितुम्।

* * * * तं अचिन्तियं

प्रेक्षमाण न च अन्तु पश्यमि॥५॥



लक्षणेभि प्रतिमण्डितं शुभं

कायमस्य विमलं सुदर्शनम्।

दृष्ट मे रतनबिम्बसादृशं

प्रीतिवेग अतुला विवर्धिताः॥६॥



चिन्तयित्व गुण तस्य मेऽमितान्

पुण्यसागर अमेय वर्धिताः।

दृष्ट्व तस्य च विकुर्वितोदधीन्

बोधिचित्तविपुलं मि संभुतम्॥७॥



प्रार्थयित्व जिनवर्णसागरान्

वर्धितः प्रणिधिसागरो मम।

सर्वक्षेत्रप्रसरा विशोधिता

सर्वदुर्गतिपथा विवर्तिताः॥८॥



पूजनाय सुगतानचिन्तियान्

सर्वक्षेत्रप्रसरेष्वनागतान्।

सत्त्वदुःखितविमोचनाय च

प्रोदितः प्रणिधिसागरो मम॥९॥



श्रुत्व धर्ममथ तस्य तायिनो

लब्धिमं वरविमोक्षमण्डलम्।

बोधि शोधितु चरित्व चारिकां

कल्पक्षेत्ररजकोटिसादृशान्॥१०॥



येषु यान्तकुपपन्न नायका

ते अशेष मयि सर्वि पूजिताः।

शासनं च मय तेषु धारितं

शोधना इमु विमोक्षसागरम्॥११॥



क्षेत्रकोटिपरमाणुभिः समा

येऽभवन् दशबला अतीतकाः।

धर्मचक्रु मय तेष धारितं

भावितं [वर]विमोक्षमण्डलम्॥१२॥



बुद्धक्षेत्रि रज यावतो इहो

तान् रजाग्रप्रसराब्धि पश्यती।

एकमेकि रजि क्षेत्रसागरान्

पूर्व शोधित जिनेन पश्यती॥१३॥



तेषु क्षेत्रप्रसरेषु नायकान्

जायतो वनवरेषु पश्यमि।

एकचित्तप्रसरे अचिन्तिया

दर्शयन्त विपुला विकुर्विता॥१४॥



पश्यमि क्वचि च क्षेत्रि नायकान्

प्रार्थयन्त वरबोधिमुत्तमाम्।

तिष्ठतं तुषितलोकं * * *

क्षेत्रकोटिनयुतैरचिन्तियैः॥१५॥



जायमान विपुलैर्विकुर्वितैः

क्षेत्रसागरशतेषु पश्यमि।

नारिसंघवर संपुरस्कृता

भाषमाणु धर्म नायकान्॥१६॥



क्षेत्रकोटिपरमाणुसदृशा-

नेकचित्तक्षणे वीर पश्यमि।

दर्शयन्त जगतामनेकधा

एकि क्षणि शान्तनिर्वृतिम्॥१७॥



जन्म यातुक जिनान पश्यमि

प्रेक्षमाण रजि क्षेत्रसागरान्।

जन्मि जन्मि बहुकायकोटिभिः

पूजि तेष करुणामुपागमि॥१८॥



क्षेत्रसागरनयैरचिन्तनै-

रक्षया गतिप्रचार यातुकाः।

तेषु सर्वजगदामुखा अहं

धर्ममेघ विपुलान् प्रवर्षमि॥१९॥



एतमहं जिनसुता अचिन्तियं

जानमी वरविमोक्षमण्डलम्।

कल्पकोटिनयुतैरचिन्तियै-

र्यं न शक्य अयु सर्व दर्शितुम्॥२०॥



एतमहं कुलपुत्र अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं बोधिसत्त्वानां चित्तक्षणे चित्तक्षणे सर्वकल्पप्रस्थानगर्भसंभूतचित्तानां सर्वधर्मनयनिध्यप्तिजातिनिदर्शकानां सर्वतथागतपूजाप्रणिधिसंभूताशयानां सर्वबुद्धधर्माभिसंबोधिप्रणिधिपरमाणां सर्वकुलगोत्रोपपत्तिगतिसंदर्शनप्रतिभासकल्पानां सर्वतथागतपादमूलपद्मगर्भोपपत्तीनां सर्वजगत्परिपाककालाभिज्ञानां सर्वविनयाभिमुखजन्मोपपत्तिविकुर्वितसंदर्शकानां सर्वक्षेत्रप्रसरविकुर्वितमेघसंदर्शकानां सर्वजगद्गतिजातिकुलप्रतिभासप्राप्तानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव कपिलवस्तुनि महानगरे गोपा नाम शाक्यकन्या प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वपरिपाकाय संसारे संसरितव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्द्य सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकात्प्रक्रान्तः॥४०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project