Digital Sanskrit Buddhist Canon

३६ प्रमुदितनयनजगद्विरोचना

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 36 pramuditanayanajagadvirocanā
३६ प्रमुदितनयनजगद्विरोचना।



अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यावेशाविष्टः कल्याणमित्रवचनप्रतिपत्तिसंभूतचित्तः कल्याणमित्रवैद्येष्वातुरसंज्ञासमुदाचारचित्तः कल्याणमित्रदर्शनमनसिकाराविक्षिप्तचित्तः कल्याणमित्रदर्शनसर्वावरणपर्वतविकिरणावकाशप्रतिलब्धचित्तः कल्याणमित्रदर्शनेन सर्वसत्त्वधातुपरित्राणमहाकरुणानयसागरावतरणप्रतिलब्धचित्तः कल्याणमित्रदर्शनेन धर्मधातुनयसागरज्ञानावभासप्रतिलब्धचित्तो येन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता तेनोपसंक्रान्तः॥



अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया कल्याणमित्रोपसंक्रमणकुशलमूलसंभारसंभवपरिपाकमुपादाय महासंभारसंभवकल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। महाविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। दुरवतरणवीर्यकर्मकल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। सुचिरविलग्नं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। अनन्तमध्यदिक्प्रवेशं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। दीर्घाध्वसंवसनसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। अनन्तकार्यसंपूर्णविज्ञप्तिसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। अनन्तमध्यमार्गव्यूहसंभारक्रमणं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। समन्तमुखविक्रमसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्। अनुच्चलनागमनविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत्॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्वज्ञतासंभारवीर्यपराक्रमेण कल्याणमित्रोपसंक्रमणेन, महाप्रणिधानसागराभिनिर्हारविक्रमेण कल्याणमित्रोपसंक्रमणेन, एकसत्त्वार्थमपरान्तकल्पापर्यन्तदुःखानुभवव्यवसितेन कल्याणमित्रोपसंक्रमणेन, एकपरमाणुरजसि सर्वधर्मधात्वनुचरणविलम्बविक्रमेण महावीर्यकवचवर्मणा कल्याणमित्रोपसंक्रमणेन, सर्वदिक्समुद्रप्रसरानुजवनेन कल्याणमित्रोपसंक्रमणेन, एकवालपथे अपरान्तकल्पबोधिसत्त्वचर्यासंवसनेन कल्याणमित्रोपसंक्रमणेन, बोधिसत्त्वचर्याप्राप्तस्य प्रतिचित्तक्षणं सकलसर्वज्ञताज्ञानप्रतिष्ठानेन कल्याणमित्रोपसंक्रमणेन, त्र्यध्वप्राप्तसर्वतथागतविकुर्वितव्यूहमार्गाक्रमणव्यवसितेन कल्याणमित्रोपसंक्रमणेन, सर्वधर्मधातुनयस्रोतःप्रसृतमार्गाक्रमेण कल्याणमित्रोपसंक्रमणेन, सर्वधर्मधातुनयारम्बणानुच्चलितेन सकलधर्मधातुस्फरणेन कल्याणमित्रोपसंक्रमणेन येन प्रमुदितनयनजगद्विरोचना रात्रिदेवता तेनोपसंक्रान्तः॥



सोऽपश्यत् प्रमुदितनयनजगद्विरोचनां रात्रिदेवतां भगवतः पर्षन्मण्डले पुष्पगर्भसिंहासननिषण्णां समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वसमाधिं समापन्नाम्। तस्याश्चापश्यत् सर्वरोमविवरेभ्यः सर्वसत्त्वाभिरोचनां सर्वसत्त्वाभिरुचितां सर्वसत्त्वदर्शनानुकूलां सर्वसत्त्वप्रियदर्शनविविधदानादिपारमिताचर्याभिद्योतनमेघान्निश्चरमाणन् यदुत सर्वसत्त्वयथाशयविज्ञप्तिसमरुतदानचर्यासंदर्शनमेघान् सर्वसत्त्वानुग्रहाविग्रहाय सर्ववस्त्वनवेक्षणतायै सर्वसत्त्वसमप्रयोगापरित्यागितायै सर्वसत्त्वसमचित्ततायै सर्वसत्त्वाविमाननापरित्यागतायै आध्यात्मिकबाह्यसर्ववस्तुपरित्यागितायै महादुष्करपरित्यागसंदर्शनतायै सर्वलोके यथाशयसत्त्वदानचर्यासंदर्शनतायै त्र्यध्वप्राप्तबोधिसत्त्वाचिन्त्यदुष्करचर्यापरित्यागनिर्माणमेघान्निश्चरित्वा दशसु दिक्षु सर्वलोकधातुप्रसरपर्यापन्नानां सर्वसत्त्वानां विज्ञप्तिमागच्छतोऽपश्यत् यदुताचिन्त्यबोधिसत्त्ववृषभिताविकुर्वितप्रतिलाभेन॥



सर्वरोमविवरेभ्यः सर्वसत्त्वसमापन्नानौपपत्तिनिर्माणकायमेघान्निश्चरित्वा सर्वलोकधातुपर्यापन्नान् सर्वसत्त्वान् स्फरित्वा अभिमुखं सर्वव्रतसमादानाकम्प्यतां संदर्शयमानान् सत्त्वधातुसमं नानातपोव्रतमण्डलमुद्योतयमानान् सर्वसर्वलोकनिश्रयतां सर्वविषयानवेक्षतांसर्वसंसारसंवासविमुखतां दिव्यमानुषसंपत्तिविपत्तिसुखसमवसरणतां संदर्शयमानान् अशुभमण्डलमुद्योतयमानान्, शुभसंज्ञाविपर्यासं लोके विनिवर्तयमानान्, अनित्यचलव्ययपरिणामधर्मतां परिदीपयमानान्, दुःखानात्मसर्वसंस्कारधर्मतां संदर्शयमानान्, तथागतविषयसंवासाविप्रवासतां रोचयमानान्, अत्यन्ततथागतशीलपरिशुद्धये सत्त्वान् समादापयमानान्, सर्वसत्त्वयथाशयरुतशीलचर्यां संदर्शयमानान्, सर्वसत्त्वसंतोषणशीलसुगन्धिकतां संदर्शयमानान्, सर्वसत्त्वान् परिपाचयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च सर्वसत्त्वधातुसमापन्नान् नानावर्णात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वानां सर्वाङ्गप्रत्यङ्गच्छेदाधिवासनतां संदर्शयमानान्, सर्वसत्त्वकायोत्पीडनोपक्रमणाधिवासनतां संदर्शयमानान्, सर्वसत्त्वासत्यवचनाक्रोशपरिभाषणकुत्सनपंसनताडनतर्जनाधिवासनतां संदर्शयमानान्, सर्वसत्त्वाक्षोभ्यतां संदर्शयमानान् सर्वसत्त्वसत्कारानुन्नामावनामतां संदर्शयमानान्, सर्वसत्त्वनिरभिमानतां संदर्शयमानान्, सर्वधर्मस्वभावक्षान्त्यक्षयताक्षयज्ञानतां संदर्शयमानान्, सर्वसत्त्वसर्वक्लेशप्रहाणाय क्षान्तिचर्यां संदर्शयमानान् सर्वसत्त्वानां, विसंस्थितदुर्वर्णाश्रयशरीरतां व्यावर्तयमानान् सर्वसत्त्वानामनुत्तरां तथागतवर्णविशुद्धिं संवर्णयमानान् सत्त्वान् परिपाचयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च सर्वसत्त्वसमान्नानावर्णसंस्थानारोहपरिणाहान् नानोपपत्तिकसत्त्वकायनिर्माणमेघान्निश्चार्य यथाशयान् सत्त्वान् स्फरित्वा सर्वज्ञतामहासंभारवीर्यपराक्रमतां संदर्शयमानान्, सर्वमारकलिविकिरणवीर्यतां बोध्यारम्भाक्षोभ्याविवर्त्यवीर्यतां सर्वसत्त्वसंसारसागरोत्तारणवीर्यतां सर्वाक्षणापायदुर्गतिविनिपातपथविनिवर्तनवीर्यतामज्ञानपर्वतविकिरणवीर्यतां सर्वतथागतपूजोपस्थानापरिखेदवीर्यतां सर्वबुद्धधर्मचक्रसंप्रतीच्छनसंधारणवीर्यतां सर्वावरणपर्वतनिर्भेदनविकिरणवीर्यतां सर्वसत्त्वपरिपाकविनयापरिखेदवीर्यतां सर्वबुद्धक्षेत्रपरिशोधनवीर्यतामनुत्तरां तथागतवीर्यविशुद्धिं संदर्शयमानान् सत्त्वान् परिपाचयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च नानावर्णसंस्थानान् विविधात्मभावनिर्माणमेघान्निश्चरित्वा नानोपायैः सत्त्वानां प्रीतिं संजनयमानान्, दौर्मनस्यं विनिवर्तयमानान्, सर्वकामरतिं विजुगुप्समानान्, ह्रीधर्मतां लोके प्रभावयमानान्, गुप्तेन्द्रियतायां सत्त्वान् प्रतिष्ठापयमानान्, अनुत्तरब्रह्मचर्यं संवर्णयमानान्, सभयं कामलोकमारविषयं संदर्शयमानान्, विगतकामरतीनामपि सर्वलोककामरतिविषयं संदर्शयमानान्, धर्मारामरत्यां सत्त्वान् प्रतिष्ठापयमानान्, अनुपूर्वध्यानसमाधिसमापत्तिसुखान्यभिनिर्हरमाणान्, सर्वसत्त्वसर्वक्लेशनिध्यप्तिचित्ततां संवर्णयमानान्, सर्वबोधिसत्त्वसमाधिसमुद्रविकुर्वणतां संदर्शयमानान्, बोधिसत्त्वाभिज्ञाविकुर्वितवृषभितां संदर्शयमानान्, सत्त्वानां प्रीतिं संजनयमानान्, प्रामोद्यमुत्पादयमानान्, दौर्मनस्यं व्यावर्तयमानान्, चित्तकल्यतामावहयमानान्, चित्तकर्मण्यतां कुर्वाणान्, आशयं विशोधयमानान्, इन्द्रियाण्युत्तापयमानान्, कायसुखं संजनयमानान्, धर्मप्रीतिवेगं विवर्धयमानान् सत्त्वान् परिपाचयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च सर्वोपपत्तिसदृशशरीरान्नानाकायमेघान्निश्चरित्वा सर्वक्षेत्रगतसर्वसत्त्वाभिमुखाभिरुचितदर्शनतायै सर्वकल्याणमित्रोपसंक्रमणापरिखेदतां संदर्शयमानान्, सर्वाचार्यगुरुकल्याणमित्रोपस्थानपरिचर्यापरिखेदतां संदर्शयमानान्, सर्वतथागतधर्मचक्रप्रवर्तनसंप्रतीच्छनसंधारणापरिखेदवीर्यतां संदर्शयमानान्, सर्वधर्ममुखसमुद्रान् प्रविचिन्वानान्, सर्वबुद्धसमुद्रावतारणनयं संवर्णयमानान्, सर्वधर्मलक्षणस्वभावनयमभिद्योतयमानान्, सर्वधर्मान्, समाधिद्वारं संदर्शयमानान्, सर्वसत्त्वदृष्टिपर्वतनिर्भेदनं प्रज्ञावज्रं संदर्शयमानान्, अनेकचित्तक्षणसमायोगेन सर्वसत्त्वाविद्यान्धकारविधमनप्रज्ञादित्यमण्डलोदागमं संदर्शयमानान्, सर्वसत्त्वप्रीतिसंजननतया सर्वज्ञतायां सत्त्वान् परिपाचयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च सर्वजगत्समानुदाराचिन्त्यनानावर्णविकल्पसंस्थान् आत्मभावनिर्माणमेघान्निश्चरित्वा यथाशयाधिमुक्तसर्वसत्त्वाभिमुखस्थितान् नानारुतमन्त्रसंस्कारनिर्देशैः सर्वलौकिकपुण्याभिज्ञतां संदर्शयमानान्, सर्वलौकिककृत्यप्रचारतश्च सर्वत्रैधातुकसंभवसंदर्शनतश्च सर्वत्रैधातुकनिःसरणदिक्संवर्णनतश्च सर्वदृष्टिकान्तारगहननिःसरणदिक्संदर्शनतश्च सर्वज्ञतामार्गविशेषतां संवर्णयमानान्, श्रावकप्रत्येकबुद्धभूमिपथसमतिक्रमं संदर्शयमानान्, संस्कारासंस्कारानुनयप्रतिघानुनयेऽप्रतिघानुनयतां संदर्शयमानान्, संसारनिर्वाणसुखासंनिश्रिततां संदर्शयमानान्, तुषितभवनवासादिपरंपरागमनाप्रतिप्रस्रब्धिं संदर्शयमानान्, बोधिमण्डप्रस्थानाभिसंबोधाप्रतिप्रस्रब्धिं संदर्शयमानान्, सर्वज्ञतायां सत्त्वान् परिदीपयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वक्षेत्रपरमाणुरजःसमानात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वलोकाभिमुखस्थितान् समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं संवर्णयमानान्, सर्वधर्मधातुविशुद्धिनिष्ठाप्रणिधानवैशेषिकतां संवर्णयमानान्, प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरिशुद्धिं संवर्णयमानान्, सर्वतथागतपूजोपस्थानाप्रतिप्रस्रब्धिं संवर्णयमानान्, प्रतिचित्तक्षणं सर्वधर्मनयसागरावताराप्रतिप्रस्रब्धिं संवर्णयमानान्, प्रतिचित्तक्षणं तथागतबलप्रवेशाप्रतिप्रस्रब्धतां संवर्णयमानान्, प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरमाणुरजःसमसर्वधर्मधातुनयसागरावतरणाप्रतिप्रस्रब्धीः संदर्शयमानान्, सर्वक्षेत्रेष्वपरान्ताधिष्ठानकल्पसंवाससर्वज्ञतामार्गविशुद्धिसंप्रकाशनाप्रतिप्रस्रब्धतां संवर्णयमानान्, प्रतिचित्तक्षणं तथागतबलप्रवेशाप्रतिप्रस्रब्धतां संदर्शयमानान्, सर्वत्र्यध्वनयसागरावताराप्रतिप्रस्रब्धतां संदर्शयमानान्, बोधिसत्त्वसर्वक्षेत्रर्द्धिविकुर्वितसंदर्शनाप्रतिप्रस्रब्धतां संदर्शयमानान्, बोधिसत्त्वप्रणिधानचर्यासंदर्शनेन सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमान् कायनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वाभिमुखस्थितानपर्यन्तं सर्वज्ञतासंभारबलं संदर्शयमानान्, अभेद्यापर्यादत्ताविनाशधर्मसर्वज्ञताचित्तबलं संदर्शयमानान्, अविवर्त्याप्रत्युदावर्त्याधिष्ठानाप्रतिप्रस्रब्धमनुत्तरसर्वबोधिसत्त्वचर्यासमुदागमबलं संदर्शयमानान्, सर्वसंसारदोषाननुलेपबलतां बोधिसत्त्वानां संवर्णयमानान्, सर्वमारमण्डलविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वक्लेशमलाननुलेपक्लेशबलतां बोधिसत्त्वानां संदर्शयमानान्, सर्वकर्मावरणपर्वतविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वकल्पसंवासबोधिसत्त्वचर्यापरिखेदमहाकरुणाबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वबुद्धक्षेत्रसंप्रकम्पनसंक्षोभणसर्वसत्त्वसंप्रहर्षणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वमारपरप्रवादिगणप्रमर्दनबलं बोधिसत्त्वानां संदर्शयमानान्, महाधर्मचक्रप्रवर्तनज्ञानबलं लोके प्रभावयमानान्, सर्वसत्त्वान् सर्वज्ञतायां परिदीपयमानानपश्यत्॥



सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमादानानन्तवर्णकायनिर्माणसमुद्रेमेघान्निश्चरित्वा दशदिगनन्तसत्त्वधातुस्फरणान् यथाशयाधिमुक्तानां सत्त्वानां बोधिसत्त्वचर्याज्ञानविक्रमं संदर्शयमानान्, सर्वसत्त्वधातुसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वचित्तसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वेन्द्रियसागरपरिज्ञाज्ञानं संदर्शयमानान्, सर्वसत्त्वचर्यासमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वपरिपाकविनयकालानतिक्रमणज्ञानं संदर्शयमानान्, सर्वधर्मधात्वानुरवणज्ञानं संदर्शयमानान्, प्रतिचित्तक्षणं सर्वधर्मधातुज्ञाननयसागरस्फरणज्ञानं संदर्शयमानान्, सर्वलोकधातुसमुद्रसंवर्तविवर्तज्ञानं संदर्शयमानान्, सर्वलोकधातुप्रतिष्ठानसंस्थानव्यूहविकल्पज्ञानं संदर्शयमानान्, सर्वतथागतपूजाविकुर्वितोपसंक्रमणपूजोपस्थानधर्मचक्रमेघसंप्रतीच्छनज्ञानं संदर्शयमानान्, एवं ज्ञानपारमिताचर्यासंदर्शनेन सत्त्वानां प्रीतिं संजनयमानानपश्यत्। चित्तं प्रसादयमानान् प्रामोद्यमुत्पादयमानान् हर्षं संजनयमानान् दौर्मनस्यं विनिवर्तयमानान् चित्तं विशोधयमानान् चित्तकल्यतामावर्तयमानान्, इन्द्रियाण्युत्तापयमानान् अधिमुक्तिबलं संजनयमानान् सर्वज्ञतायामवैवर्त्यान् कुर्वाणानपश्यत्॥



यथा च पारमिताचर्यासंदर्शनेन लोके सत्त्वान् परिपाकं व्रजतोऽपश्यत्, तथा सर्वबोधिसत्त्वधर्मनिगर्जनेन ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभाराः कल्याणमित्रारागणप्रयोगाः तथागतपादमूलोपसंक्रमणपूजोपस्थानप्रयोगाः कुशलधर्मचर्याभियोगप्रयोगाः, ये च दानपारमिताचर्यादुष्करपरित्यागाः, शीलपारमितापरिशोधनप्रयोगाः, महाराज्यैश्वर्यपरिवारभोगाधिपत्यपरित्यागाभिनिष्क्रमणप्रयोगाः, ये लोके दुष्करचर्यामहाव्रततपोमण्डलक्षान्तिनिर्हाराः, या बोधिसत्त्वव्रतसमादानप्रयोगाकम्प्यता, ये बोधिसत्त्वदृढसमादानधर्मसमुद्राः सर्वसत्त्वधातुदुष्कृतदुर्भाषितदुश्चिन्तिताधिवासनप्रयोगाः, कायिकचैतसिकपीडाधिवासनप्रयोगाः, या सर्वकर्माविप्रणाशधर्मताक्षान्तिः सर्वधर्माधिमुक्तिक्षान्तिः सर्वधर्मस्वभावनिध्यानक्षान्तिः, यत् सर्वज्ञतारम्भप्रयोगवीर्यम्, यत् सर्वबुद्धधर्मपरिनिष्पादनवीर्यम्, याः सर्ववीर्यपारमिताचर्याः ये ध्यानपारमितासंभाराः ध्यानपारमिताभियोगाः ध्यानपारमितापरिनिष्पत्तिविशुद्धिचर्याः, यानि बोधिसत्त्वसमाधिप्रतिलाभविकुर्वितानि, ये समाधिमुखसमुद्रावताराः, यानि ध्यानपारमिताचरितानि, ये प्रज्ञापारमितासंभाराः, ये बोधिसत्त्वमहाप्रज्ञादित्यमण्डलविशोधननयाः, ये महाप्रज्ञामेघसंभवाः, ये प्रज्ञानिधानसंभाराः, ये महाप्रज्ञामहासागरव्यवचारणनयप्रयोगाः, ये महोपायकौशल्यनयप्रयोगाः, ये महोपायकौशल्यपरिशुद्धिसंप्रयुक्ताः पूर्वयोगाः, यानि बोधिसत्त्वमहाप्रणिधिपारमिताशरीराणि, या महाप्रणिधिपारमितापरिनिष्पत्तयः, यानि महाप्रणिधानपारमिताचरितानि, ये महाप्रणिधानपारमितासंप्रयुक्ताः पूर्वयोगाः, ये बलपारमिताप्रतिलाभमहासंभाराः, ये बलपारमिताप्रत्ययाः , ये बलपारमितानयमहासागराः, ये बलपारमितानिर्देशाः, ये बलपारमितासंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमितानयाः, ये ज्ञानपारमिताप्रयोगाः, ये ज्ञानपारमिताविशुद्धिनयाः, या ज्ञानपारमितादिशः, ये ज्ञानपारमितानुगमाः, ये ज्ञानपारमिताप्रसराः, यानि ज्ञानपारमितानयसमवसरणानि, ये ज्ञानपारमिताविज्ञप्तिनयाः, यानि ज्ञानपारमिताप्रसरानुसरणानि, यानि ज्ञानपारमितास्फरणानि, ये ज्ञानपारमिताप्रविस्तराः, ये ज्ञानपारमिताकायाः, ये ज्ञानपारमितासमुद्रनयाः, ये ज्ञानपारमितापरिनिष्पत्तिसंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमिताचर्याप्रकारप्रविचयप्रवेशसंभवसमुदागमाः, ये ज्ञानपारमितासमवसरणनयसंप्रयुक्ता धर्माधर्मसंग्रहधर्मज्ञानानुगमाः कर्मज्ञानानुगमाः क्षेत्रज्ञानानुगमाः कल्पज्ञानानुगमाः त्र्यध्वज्ञानानुगमाः बुद्धोत्पादज्ञानानुगमा बुद्धज्ञानानुगमा बोधिसत्त्वज्ञानानुगमा बोधिसत्त्वचित्तसंभवज्ञानानुगमा बोधिसत्त्वव्यवस्थानज्ञानानुगमा बोधिसत्त्वसंभवज्ञानानुगमाः, बोधिसत्त्वप्रस्थानज्ञानानुगमाः, बोधिसत्त्वप्रणिधिज्ञानानुगमाः, बोधिसत्त्वधर्मचक्रज्ञानानुगमाः, बोधिसत्त्वधर्मप्रविचयज्ञानानुगमाः, बोधिसत्त्वधर्मसागरनयज्ञानानुगमाः, बोधिसत्त्वधर्मसमुद्रज्ञानानुगमाः, बोधिसत्त्वधर्मपरिवर्तज्ञानानुगमाः, बोधिसत्त्वधर्मनिधानज्ञानानुगमाः, बोधिसत्त्वधर्मगतिज्ञानानुगमाः, ये प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया यावदनन्तमध्यारम्बणज्ञानपारमितासंप्रयुक्ता बोधिसत्त्वधर्माः, तानस्याः सर्वरोमविवरेभ्य एकैकरोमविवरविसृतनानावर्णसत्त्वकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। यदुत अकनिष्ठसुदर्शनसुदृशातपोबृहच्छुद्धावासदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। एवं बृहत्फलपुण्यप्रसवानभ्रकदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। शुभकृत्स्नाप्रमाणशुभपरीत्तशुभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानापश्यत्। आभास्वराप्रमाणाभपरीत्ताभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। महाब्रह्मब्रह्मपुरोहितब्रह्मपार्षददेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। साप्सरोगणसदेवपुत्रवशवर्तिदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। साप्सरोगणसदेवपुत्रसुनिर्मितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। साप्सरोगणसदेवपुत्रसंतुषितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। साप्सरोगणसदेवपुत्रसुयामदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। साप्सरोगणसदेवपुत्रशक्रदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। धृतराष्ट्रगन्धर्वराजगन्धर्वपुत्रगन्धर्वकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। विरूढककुम्भाण्डराजकुम्भाण्डपुत्रकुम्भाण्डकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। विरूपाक्षनागराजनागपुत्रनागकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। वैश्रवणमहायक्षराजयक्षपुत्रयक्षकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। द्रुमकिन्नरराजकिन्नरपुत्रकिन्नरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। सुमतिमहोरगेन्द्रमहोरगपुत्रमहोरगकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। महाबलवेगस्थामगरुडेन्द्रगरुडपुत्रगरुडकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। राह्वसुरेन्द्रासुरपुत्रासुरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। यमधर्मराजयमपुत्रयमकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। सर्वमनुष्येन्द्रनरनारीदारकदारिकासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। एवं सर्वगतिपर्यापन्नसर्वसत्त्वसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। सर्वश्रावकप्रत्येकबुद्धर्षिसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। वाय्वप्तेजःस्कन्धदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। सागरनदीपर्वतवनस्पत्यौषधिवृक्षपृथिवीदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। उद्याननगरबोधिमण्डरात्रिदिवसगगनदिक्पादगामिनीशरीरकायिकदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। एवं यावद्वज्रपाणिसादृशात्मभावमेघनिश्चरितान् दश दिशः स्फरित्वा धर्मधातुनयप्रसरेषु सर्वसत्त्वसंमुखीभावस्थितान् सत्त्वान् परिपाचयमानानपश्यत्॥



ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभारमुखाः पूर्वजन्मसमुदागतकुशलचित्तपरंपराव्यवच्छेदनयाः, यानि च बोधिचित्तोत्पादप्रशंसापरंपरानन्तर्याणि च्युत्युपपत्तिपरिग्रहपरंपरानन्तर्याणि आत्मभावपरिग्रहपरंपरानन्तर्याणि नामचक्रपरंपरानन्तर्याणि कल्याणमित्रोपसंक्रमणपरंपरानन्तर्याणि बुद्धोत्पादारागणपरंपरानन्तर्याणि, धर्मपदव्यञ्जनोद्ग्रहपरंपरानन्तर्याणि बोधिसत्त्वमार्गप्रतिपत्तिचित्तपरंपरानन्तर्याणि समाधिप्रतिलाभपरंपरानन्तर्याणि समाधिप्रतिलाभाद्बुद्धदर्शनपरंपरानन्तर्याणि क्षेत्रदर्शनचक्षुस्फरणपरंपरानन्तर्याणि कल्पपरंपराज्ञानचक्रानन्तर्याणि धर्मधातुप्रतिवेधज्ञानपरंपरानन्तर्याणि सत्त्वधातुव्यवलोकनज्ञानपरंपरानन्तर्याणि धर्मधातुनयसागरावतरणपरंपराच्युत्युपपत्तिज्ञानपरंपरानन्तर्याणि दिव्यश्रोत्रपरिशुद्धिप्रत्यवेक्षणज्ञानपरंपरानन्तर्याणि सर्वसत्त्वधातुचित्तव्यवलोकनसरस्वत्यवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यचक्षुरवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यश्रोत्रविज्ञप्तिपरंपरानन्तर्याणि प्रथमपरसत्त्वचित्तज्ञानपरंपरानन्तर्याणि प्रथमात्मपरसत्त्वपूर्वनिवासानुस्मृतिज्ञानपरंपरानन्तर्याणि प्रथमाभावप्रतिष्ठानाभिसंस्कारर्द्धिप्रतिलाभप्रत्ययपरंपरानन्तर्याणि महर्द्धिविक्रमदिक्स्फरणपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षप्रतिलाभपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षसागराचिन्त्यनयावतारपरंपरानन्तर्याणि बोधिसत्त्वविकुर्वितपरंपरानन्तर्याणि बोधिसत्त्वविक्रमपरंपरानन्तर्याणि बोधिसत्त्वाक्रमपरंपरानन्तर्याणि बोधिसत्त्वसंज्ञागतपरंपरानन्तर्याणि बोधिसत्त्वमार्गावतारपरंपरानन्तर्याणि, यावद् यानि प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया बोधिसत्त्वसुसूक्ष्मज्ञानप्रवेशपरंपरानन्तर्याणि, तानि अस्याः सर्वरोमविवरेभ्यो निर्माणकायमेघान्निश्चरित्वा सत्त्वेभ्यो धर्मं देशयमानानपश्यत्। संप्रकाशयमानान् द्योतयमानान् संदर्शयमानान् उदीरयमानान् प्रविभजमानान् प्रविस्तरमानान् गणयतो निर्दिश्यमानान् विज्ञापयमानान् उपसंहरमाणानपश्यत्॥



केषांचिद्वातमण्डलीसंक्षोभनिर्घोषरुतेन देशयमानानपश्यत्। केषांचिदप्स्कन्धसंकच्छननिर्नादरुतेन, केषांचिज्ज्वलनार्चिनिगर्जितरुतेन, केषांचित् सागरगर्जितनिर्घोषरुतेन, केषांचित् पृथिवीसंकम्पननिर्नादरुतेन, केषांचिन्महापर्वतराजसंघट्टनसंहर्षणनिर्घोषनिर्नादरुतेन, केषांचिद्देवनगरसंकम्पनमधुरनिर्नादनिर्घोषरुतेन, केषांचिद्दिव्यविमानसंघट्टनरुतेन, केषांचिद्देवेन्द्ररुतेन, केषांचिन्नागेन्द्ररुतेन, केषांचिद्यक्षेन्द्ररुतेन, केषांचिद्गन्धवेन्द्ररुतेन, केषांचिदसुरेन्द्ररुतेन, केषांचिद्गरुडेन्द्ररुतेन, केषांचिन्महोरगरुतेन, केषांचिद्देवरुतेन, केषांचित्किन्नरेन्द्ररुतेन, केषांचिन्मनुष्येन्द्ररुतेन, केषांचिद्ब्रह्मेन्द्ररुतेन, केषांचिदप्सरःसंगीतिरुतेन, केषांचिद्दिव्यतूर्यसंप्रवादनरुतेन, केषांचिन्मणिराजनिर्घोषरुतेन, केषांचित् सर्वसत्त्वकायनानारुतैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सत्त्वानां प्रभावयमानानपश्यत्। एवं बोधिसत्त्वात्मभावमेघैर्नानाबोधिसत्त्वरुतैस्तथागतनिर्माणकायमेघैस्तथागतरुतविमात्रतास्वराङ्गनयैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सप्रथमचित्तोत्पादसंभवनिष्पत्तिसमुदागमं सविमोक्षविक्रीडितं सर्वसत्त्वानां विज्ञप्यमानानपश्यत्॥



तस्या एकैकेन निर्माणरूपमेघेन प्रतिचित्तक्षणमनभिलाप्यानभिलाप्यानि दशदिशि लोके बुद्धक्षेत्राणि विशोध्यमानानपश्यत्। अनन्तमध्यान् सत्त्वसमुद्रान् सर्वापायदुःखेभ्यो विमोच्यमानानपश्यत्। अनन्तमध्यं सत्त्वधातुं देवमनुष्यसंपत्तौ प्रतिष्ठाप्यमानानपश्यत्। अनन्तमध्यान् सत्त्वसमुद्रान् संसारसागरादुच्चाल्यमानानपश्यत्। अनन्तमध्यान् सत्त्वसमुद्रान् श्रावकप्रत्येकबुद्धभूमौ प्रतिष्ठाप्यमानानपश्यत्। प्रतिचित्तक्षणमनन्तमध्यान् सत्त्वसमुद्रान् दशभूमावावर्तमानान् सुधनः श्रेष्ठिदारकः पश्यति स्म, शृणोति व्यवचारयति अवचरति प्रतिविध्यति निध्यायति अनुगच्छति अनुसरति अनुप्रविशति समतयाधितिष्ठति यदुत प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अचिन्त्यसमन्तभद्रप्रीतिविपुलध्वजबोधिसत्त्वविमोक्षविकुर्वितवृषभितानुभावेन पूर्वसभागचरितत्वात्तथागताधिष्ठानाधिष्ठितत्वादचिन्त्यकुशलमूलपरिपाकेन समन्तभद्रायाश्च बोधिसत्त्वचर्याया भाजनीभूतत्वात्॥



अथ खलु सुधनः श्रेष्ठिदारको महाबोधिसत्त्वप्रीतिवेगसागरावभासप्रतिलब्धो दशदिक्तथागताधिष्ठितः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टौषीत्—

गम्भीरधर्मत जिनानां यत्र सुशिक्षितास्यमितकल्पान्।

दशदिशि लोकि अनुपूर्वं रूप यथाशयं जगु फरित्वा॥१॥



ज्ञात्वा निरात्मकमनाथं वितथ विसंज्ञिनं सततभ्रान्तम्।

ऋद्ध्या अनेकविध कायैश्वर्य विदर्शत्व जगु विनेसि॥२॥



अत्यन्तविज्वर प्रशान्ता धर्मशरीर अद्वयविशुद्धा।

द्वयानिश्रितं जगशेषं निर्मितमेघगर्जन विनेसि॥३॥



न च स्कन्ध‍आयतनधातौ निश्रयु तुभ्य विद्यति कदाचित्।

सर्वाङ्गपूर्णवररूपैश्वर्यं निगर्जनैर्जगु विनेसि॥४॥



अध्यात्मबाहिरविमुक्ता उच्चलिता द्वयोद्भवसमुद्रात्।

संसारसागरि अनन्तान् दर्शयसे गतीषु प्रतिभासान्॥५॥



न च तुभ्य इञ्जन कदाचिन्मन्यन स्यन्दना न च प्रपञ्चा।

लोके प्रपञ्चरतबालान् धर्मस्वभाव दर्शयि विनेसि॥६॥



एकाग्रचित्त बहुकल्पान् सर्वसमाधिसागरविहारैः।

पूजार्थमुत्सृजसि रोम्ना निर्मितमेघ दिक्षु सुगतानाम्॥७॥



बुद्धबलनयप्रवेशानोतरसि प्रतिक्षणमनन्तान्।

सर्वान् संग्रहप्रयोगं दर्शयसे यथास्वमवतारैः॥८॥



व्यवलोक्य त्वं भवसमुद्रं कर्मविचित्रितं विविधरूपान्।

धर्मेष्वनावरणमार्गं देशयती विशोधयसि सत्त्वान्॥९॥



रूपं ति लक्षणविचित्रं शुद्ध समन्तभद्रचरणेन।

सत्त्वानामाशयवशा त्वं देवत रूपु दर्शयसि लोके॥१०॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य एतदवोचत्-कियच्चिरं संस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियच्चिरप्रतिलब्धश्चायं त्वया देवते समन्तभद्रप्रीतिविपुलविमलवेगध्वजो बोधिसत्त्वविमोक्ष इति॥



अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



स्मरामि अतीत बहुकल्पान् क्षेत्ररजोपमास्तत परेण।

क्षेत्रं मणिप्रभसुखाभं तत्र प्रशान्तघोषु अनुकल्पः॥११॥



दशचातुर्द्वीपनयुतानां कोटिशतसहस्र परिपूर्णम्।

मणिपर्वताभपरिमाणं मध्यम चातुर्द्वीप सुविचित्रम्॥१२॥



दशराजधानिनयुतानां कोटिशतैः सहस्रपरिपूर्णम्।

गन्धध्वजा मणिप्रभासा मध्यमराजधानि रमणीया॥१३॥



तस्यां विशांपतिरभूषी पार्थिवचक्रवर्तिरभिरूपो।

द्वात्रिंशलक्षणसमङ्गी सोऽनुव्यञ्जनै रचितगात्रः॥१४॥



उपपादुको पदुमगर्भे काञ्चनवर्णसुप्रभशरीरो।

जम्बुध्वजं सकलु सर्व स्फरति प्रभाय सो गगनचारी॥१५॥



पुत्राण तस्य परिपूर्ण शूरवराङ्गरूपिण सहस्रा।

कोटी अमात्य परिपूर्णा पण्डित दक्ष विद्ध मेधावी॥१६॥



दश इस्त्रिकोटि परिपूर्णाः अप्सरसादृशा रतिविधिज्ञा।

ताः स्निग्धचित्त हितचित्ता मैत्रमना उपस्थिहिषु राज्ञः॥१७॥



सो चो महापृथिवीराजा पर्वतचक्रवालपरियन्ताः।

चत्वार द्वीप सुसमृद्धा धर्मबलेन आवसति सर्वान्॥१८॥



अहु चक्रवर्तिवरभार्या ब्रह्मरुतस्वरा रचनकाया।

विमलप्रभा कनकवर्णा स्फरमि प्रभाय योजनसहस्रम्॥१९॥



अस्तं गते दिनकररश्मि स्वपिति नृपे सपुत्रपरिवारैः।

संगीतिघोष उपशान्ते शयनगता अहु सुखप्रसुप्ता॥२०॥



रात्रिमध्यमकि यामे बुद्ध उत्पन्नु भू शिरिसमुद्रः।

तस्मिन् विकुर्वित अनन्ता दर्शि जिनो दशद्दिशि फरित्वा॥२१॥



तान् सर्वक्षेत्ररजतुल्यानो सिरिपूजितः प्रभसमुद्रान्।

नानाविकुर्वितशरीरान् येहि फरी दिशो दश अशेषाः॥२२॥



पृथिवी प्रकम्पित सशैला घोष निगर्जि ते जिन उत्पन्नो।

देवासुरा मनुजनागाः सर्वि प्रहर्षि ते जिन उत्पन्नः॥२३॥



बुद्धस्य निर्मितसमुद्रा निश्चरि सर्वरोमविवरेभ्यः।

ते चो दशद्दिशि फरित्वा लोकि यथाशये भणिषु धर्मम्॥२४॥



तांश्चो विकुर्वित अनन्तान् सुपिनि जिनो निदर्शि मम सर्वान्।

गम्भीर गर्जित श्रुणित्वा प्रीति ममा अभूषि सुपिनान्ते॥२५॥



दश रात्रिदेवतसहस्रा उपरि मम स्थिता नभतलस्मिन्।

वर्णानुदीर्यन्त जिनस्य दिव्यरुतेन मां भणि प्रबोध्य॥२६॥



उत्तिष्ठ देवमतिभार्ये एष जिनोपपन्न तव राज्ये।

कल्पान सागरशतेभि दुर्लभ संपश्यन् सुखि विशुद्धो॥२७॥



अहु प्रीतिसंभुत विबुद्धा पश्यमि आभ निर्मल विशुद्धाम्।

संपश्यऽक्ष्ण इयमाभा पश्यमि बुद्ध बोधिद्रुमराजे॥२८॥



द्वात्रिंशलक्षणविचित्रो रश्मिसमुद्र ओसरितु रोमात्।

अभ्युद्गतो यथ सुमेरु दक्षिणवामतो जिन समन्तात्॥२९॥



दृष्ट्वा मम प्रमुदितायाश्चित्तमुत्पन्नमीदृश भवेयम्।

प्रणिधिश्च मे कृतु उदारो बुद्धविकुर्वितं विपुल दृष्ट्वा॥३०॥



प्रतिबोधितः स मय राजा इस्त्रिगणश्च योऽस्य परिवारम्।

बुद्धप्रभा विपुल दृष्ट्वा सर्वि अभूषि प्रीणितशरीराः॥३१॥



उपसंक्रमी जिनसकाशं स्वामिन सार्ध याननयुतेभिः।

बहुप्राणिकोटिनयुतेभिः संपरिवारितः सबलकायः॥३२॥



पूजा कृता मयि जिनस्यो वर्षसहस्र विंशति अनूना।

निर्यातिता रतन सप्तो पृथिवी ससागरा च सुगतस्य॥३३॥



सूत्रासमुद्र गुणमेघान् प्रणिधिसमुद्र संभववियूहान्।

सर्वांस्तथागतप्रभवान् देशयते यथाशय जगस्मिन्॥३४॥



सा रात्रिदेवत हितार्थं बोधयि मां तदा करुणजाता।

तस्यां मम स्पृह उत्पन्ना ईदृश भूत्व बोधयि प्रमत्तान्॥३५॥



एतन्मम प्रणिधिचित्तं प्रथममुपपन्नमग्रवरबोधौ।

संसारसागरगताया नो मम निश्चिता भवसमुद्रैः॥३६॥



दश बुद्धकोटिनयुतानि ये मम पूजिता जनिय श्रद्धाम्।

संसारि देवमनुजेषू विषयरतिसुखान्यभिलषन्त्या॥३७॥



प्रथमो जिनः शिरिसमुद्रस्तत्समनन्तरं गुणप्रदीपः।

तृतीयो जिनो रतनकेतुर्बुद्ध चतुर्थ भूद्गगनप्रज्ञः॥३८॥



जिन पञ्चमः कुसुमगर्भः षष्ठु जिनो असङ्गमतिचन्द्रः।

जिनु धर्मचन्द्रप्रभुराजो अष्टमु ज्ञानमण्डलप्रभासः॥३९॥



रचनार्चिपर्वतप्रदीपो नवमु अभूषि तत्र द्विपदेन्दुः।

दशमस्त्रियध्वप्रभघोषस्ते मय पूजिता प्रमुदिताया॥४०॥



एतान् दश प्रमुख कृत्वा सर्वि त पूजिता नरवरेन्द्रा।

न च ताव लब्ध मय चक्षुर्येनि ममोत्तरि नयसमुद्रम्॥४१॥



सर्वाङ्गतस्तदनु सत्त्वक्षेत्रमभूषि सर्वरतनाभम्।

कल्पश्च देवशिरिनामा तत्र उत्पन्न बुद्ध शतपञ्च॥४२॥



शशिमण्डलाभु प्रथमोऽभू द्वितीयु अभूषि भास्करप्रदीपः।

ज्योतिध्वजस्तृतीयु बुद्धस्तस्य अनन्तरं मणिसुमेरुः॥४३॥



कुसुमार्चिसागरप्रदीपो ज्वलनशिरीष देवशिरिगर्भः।

ओभासराज प्रभकेतुर्दशमु समन्तज्ञानप्रभराजः॥४४॥



एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्राः।

स्कन्धालयेऽभिरतया मे धर्मि अनालये निलयबुद्ध्या॥४५॥



अर्वागतस्तदनु धर्मप्रदीपमेघशिरिनामा।

अत्र लोकधातु सुविचित्रः कल्प तदासि ब्रह्मप्रभनामा॥४६॥



तस्मिन् जिना अपरिमाणाः ते मय पूजिताः सपरिवाराः।

सर्वेष तेष सुगतानां धर्म श्रुतो मि गौरवि जनित्वा॥४७॥



प्रथमो जिनो रतनमेरुस्तत्समनन्तरं गुणसमुद्रः।

जिनु धर्मधातुस्वरकेतु धर्मसमुद्रगर्जन चतुर्थः॥४८॥



धर्मध्वजो धरणितेजा धर्मबलप्रभो गगनबुद्धिः।

धर्मार्चिमेरुशिखराभः पश्चिम तेषु मेघशिरिनामा॥४९॥



एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा।

न च मेष धर्मत विबुद्धा येनिम ओतरि जिनसमुद्रान्॥५०॥



तदनन्तरं सुगत आसी सूर्यप्रदीपकेतुशिरिनामा।

क्षेत्रा स बुद्धमति नाम्ना तत्र अभूच्च सोमशिरिकल्पः॥५१॥



तस्मिन्नशीतिनयुतानां या मय पूजिता दशबलानाम्।

विविधैरनन्तविपुलेभिः पूजमुखेभिर्नैकरुचिरेभिः॥५२॥



गन्धर्वराज प्रथमोऽभू द्वितीयु अभूषि बुद्धद्रुमराजः।

तृतियु जिनो गुणसुमेरुस्तत्समनन्तरं रतननेत्रः॥५३॥



वैरोचनप्रभवियूहो धर्मसमुद्रतेजशिरि बुद्धः।

लोकेन्द्रतेजशिरिभद्रः पश्चिमु सर्वधर्मप्रभराजः॥५४॥



एतान् दश प्रमुख कृत्वा पूजित ते मया सुगत सर्वे।

न तु ताव लब्ध मय ज्ञानं सद्धर्मसमुद्र येनवतरेयम्॥५५॥



तदनन्तरं सुपरिशुद्धं वज्रमाणि‍अभेद्यदृढतेजः।

क्षेत्रं समन्तप्रभमेघं नैकवियूहसंस्थितविचित्रम्॥५६॥



यस्मिन् विशुद्ध बहुसत्त्वाः कल्यतराः किलेशमलकृष्टाः।

कल्प प्रशान्तमतितेजाः बुद्धसहस्रसंभव वियूहा॥५७॥



प्रथमो जिनो वजिरनाभि द्वितीयु अभूदसङ्गबलधारी।

जिनु धर्मधातुप्रतिभासः सर्वदिशप्रदीपप्रभराजः॥५८॥



जिनु पञ्चमः करुणतेजा षष्ठ अभू जिनो व्रतसमुद्रः।

जिनु क्षान्तिमण्डलप्रदीपो अष्टम धर्ममण्डलप्रभासः॥५९॥



ओभाससागरवियूहः पश्चिमु तेष प्रशान्तप्रभराजः।

एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा॥६०॥



न च मेष धर्मत विबुद्धा गगनसमा स्वभावपरिशुद्धा।

यत्र स्थिहित्व विचरेयं चारिक सर्वक्षेत्रप्रसरेषु॥६१॥



तदनन्तरं च रमणीयं गन्धप्रदीपमेघशिरि नाम।

क्षेत्रं किलिष्टपरिशुद्धं कल्पु सुसंभवस्तद बभूव॥६२॥



उत्पन्न तत्र जिनकोटिस्तेभि वियूहितस्त दशकल्पः।

ते नायका भणिय धर्मा सो मय धारित स्मृतिबलेन॥६३॥



प्रथमो जिनो विपुलकीर्ति धर्मसमुद्रवेगशिरिराजः।

धर्मेन्द्रराज गुणघोष धर्मशिरिश्च देवमकुटश्च॥६४॥



ज्ञानार्चितेजशिरिनामा सप्तमु तेष आसि दुपदेन्द्रः।

जिनु अष्टमो गगनघोषो नवमु समन्तसंभवप्रदीपः॥६५॥



तेषां च पश्चिमकु बुद्धो ऊर्णशिरिप्रभासमतिनामा।

ते सर्वि पूजित नरेन्द्रा मार्गु न चैष शोधितु असङ्गः॥६६॥



तदनन्तरं वरवियूहा रत्नविचित्रसंस्थितशरीराः।

रतनध्वजाग्रमतिनामा पश्चिम लोकधातु सुविभक्ता॥६७॥



सारोचयश्च तद कल्पस्तत्र उत्पन्न बुद्ध शतपञ्च।

ते सर्वि सत्कृत स्वयंभू एत विमोक्ष समभिलषत्या॥६८॥



गुणमण्डलः प्रथमु नाम्ना शान्तनिर्घोष सागरशिरिश्च।

आदित्यतेज गिरिराजो लक्षणमेरु मेघरुतघोषः॥६९॥



धर्मेन्द्रराज गुणराजः पुण्यसुमेरु शान्तप्रभराजः।

एतान् दश प्रमुख कृत्वा सर्वि ति पूजिता मय नरेन्द्राः॥७०॥



मार्गु विशोधितु जिनानां यत्र समोसरी जिन अशेषा।

न च ताव लब्ध मय क्षान्तिर्या इममोतरे नयु जिनानाम्॥७१॥



तदनन्तरं सुरुचिराभः शान्तनिर्घोषहारमतिनामा।

अत्र लोकधातु परिशुद्धो अल्पकिलेशसत्त्व‍अधिवासः॥७२॥



कल्पः सुखाभिरतिनामा यत्र अशीति बुद्धनयुतासन्।

ते सर्वि पूजिता मय नरेन्द्रा मार्गु विशोधितो जिनवराणाम्॥७३॥



प्रथमो जिनः कुसुमराशिः सागरगर्भ संभवगिरिश्च।

देवेन्द्रचूड मणिगर्भ काञ्चनपर्वतो रतनराशिः॥७४॥



धर्मध्वजोऽथ वचनश्रीः पश्चिमु तेषु ज्ञानमति बुद्धः।

एतान् दश प्रमुख कृत्वा पूजित ते मया सुरनरेन्द्राः॥७५॥



अर्वागभूत्तदनु अस्ति क्षेत्र सुनिर्मितध्वजप्रदीपम्।

कल्प सहस्रशिरिनामा तत्र य बुद्धकोटिनयुतानि॥७६॥



शान्तध्वजः शमथकेतुः शान्तप्रदीप मेघशिरिराजः।

ओभासयन्तप्रभराजा मेघविलम्बितः सुरियतेजा॥७७॥



धर्मप्रदीपशिरि मेरु‍अर्चिशिरिश्च देवशिरिगर्भः।

तेषां च पश्चिमकु आसीत् सिंहविनर्दितो विदुप्रदीपः॥७८॥



एतान् दश प्रमुख कृत्वा पूजित ते मया सुगतचन्द्रा।

न च ताव लब्ध मय क्षान्तिर्या इममोतरे नयसमुद्रम्॥७९॥



अर्वागतस्तदनु अस्ति क्षेत्र समन्त‍आभशिरिनाम्नि।

कल्पो अनालयवियूहस्तत्र षडविंशद्बुद्धनयुतानि॥८०॥



प्रथमः समन्तगुणमेघस्तत्समनन्तरं गगनचित्तः।

बुद्धः सुसंभववियूहो गर्जितधर्मसागरनिर्घोषः॥८१॥



जिनु धर्मधातुस्वरघोषो निर्मितमेघसुस्वरशिरिश्च।

बुद्धः समन्तदिशतेजा धर्मसमुद्रसंभवरुतश्च॥८२॥



गुणसागरो गिरिप्रदीपो नवमु अभूदथात्र जिनसूर्यः।

आरागितश्चरमु तेषां रतनशिरीप्रदीपगुणकेतुः॥८३॥



यद निष्क्रमी स दुपदेन्द्रो रतनशिरिप्रदीपगुणकेतुः।

शशिवक्रदेवि अहमासी निष्क्रममाणु पूजिय नरेन्द्रम्॥८४॥



सो मे अनालयवियूह प्रणिधिसमुद्रसंभववियूहम्।

सूत्रं निगर्जसु नरेन्द्रः श्रुत्व मि धारितं स्मृतिबलेन॥८५॥



लब्धा मया विपुलचक्षुःशान्तसमाधि धारणिबलं च।

पश्याम्यहं जिनसमुद्रान् क्षेत्रपरंपरा क्षणक्षणेन॥८६॥



जातं हि मे करुणगर्भा मैत्रिनयं समन्तप्रभमेघम्।

बोधाय चित्तु नभतुल्य बुद्धबलाप्रमाणविपुलाभम्॥८७॥



दृष्ट्वा जगद्विपरियस्तं नित्यसुखप्रभासभिनिविष्टम्।

मोहार्थविद्यतमछन्नं क्लेशसमाकुल वितथसंज्ञि॥८८॥



दृष्टीगता गहनचारिं तृष्णवशानुगं विषमकर्म।

गतिषू अनेकविधरूपां कर्मविचित्रितां समुदयन्तम्॥८९॥



सर्वगतिच्युतिमुखेभिर्ये उपपत्तिभिः समुपपन्नाः।

जातीजरामरणपीडां कायिकचैतसिकामनुभवन्ति॥९०॥



तेषां तदा हितसुखार्थं चित्तमनुत्तरं समुपपन्नम्।

यत्र संभवो दशबलानां यात्तुक सर्वक्षेत्रप्रसरेषु॥९१॥



ततः संभुतः प्रणिधिमेघः सर्वजगत्सुखप्रवणगर्भः।

संभारसंभव अनन्ता मार्गसमुद्रनय‍अनुगतश्च॥९२॥



प्रस्थानमेघविपुलाभः सर्वपथप्रसन्नमुखवेगः।

विपुलांश्च पारमितमेघान् मुञ्चिषु धर्मधातुप्रसरेषु॥९३॥



भूम्याक्रमो विपुलवेगः सर्वत्रियध्वसागरनयेषु।

भूमिष्वसङ्गतिचारी एकक्षणेन सर्वजिनगामी॥९४॥



अपि चाप्यहं सुगतपुत्र चर्य समन्तभद्र अवक्रान्ता।

दश धर्मधातुतलभेदास्तेष समुद्रनयमवतरामि॥९५॥



तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विशांपतिर्नाम राजाभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय स्थितः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। मञ्जुश्रीः कुमारभूतः तेन कालेन तेन समयेन विशांपतिर्नाम राजा अभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय प्रतिपन्नः। यया चाहं रात्रिदेवतया प्रबोधिता, सा समन्तभद्रेण बोधिसत्त्वेन निर्मिता। तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन भद्रमतिर्नाम चक्रवर्तिभार्या अभूत् स्त्रीरत्नम्? न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन भद्रमतिर्नाम चक्रवर्तिभार्या अभूवं स्त्रीरत्नम्। साहं तया रात्रिदेवतया प्रतिबोध्यं बुद्धदर्शने समादापिता। इयच्चिरोत्पादितं मे कुलपुत्र अनुत्तरायां सम्यक्संबोधौ चित्तम्। साहं तेन चित्तोत्पादेन बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् न जातु दुर्गतिविनिपातेषु उपपन्ना। सततसमितं देवमनुष्यगतिपरायणा। सर्वत्र च अविरहिता तथागतदर्शनेनाभूवम्। यावन्मे भगवतो रत्नश्रीप्रदीपगुणकेतोस्तथागतस्यार्हतः सम्यक्संबुद्धस्य सहदर्शनादयं समन्तभद्रप्रीतिविपुलविमलवेगध्वजो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलाभादहमेवंरूपेण सर्वसत्त्वपरिपाकविनयार्थेन प्रत्युपस्थिता॥



एतमहं कुलपुत्र समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वतथागतपादमूलेषु प्रतिक्षणं सर्वज्ञताप्रस्थानमहावेगसागरप्रतिलब्धानां बोधिसत्त्वानां सर्वप्रस्थानमुखेषु प्रतिक्षणं महाप्रणिधानसागरावताराप्रतिप्रस्रब्धानां प्रतिचित्तक्षणं सर्वप्रणिधानसागरनयेषु अपरान्तकल्पचर्यामण्डलाभिनिर्हारकुशलानाम्, एकैकस्यां च चर्यायां सर्वबुद्धक्षेत्रपरमाणुरजःसमकायाभिनिर्हारकुशलानाम्, एकैकेन च कायेन सर्वधर्मधातुनयसागरस्फरणनाम्, एकैकस्मिंश्च धर्मधातुनयसागरे सर्वबुद्धक्षेत्रेषु यथाशयसत्त्वकायविज्ञप्तिचर्यासंदर्शनकुशलानाम्, एकैकस्मिंश्च क्षेत्रपरमाणुरजस्यनन्तमध्यतथागतसमुद्रावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागतविकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागतविकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्य पूर्वान्तकल्पबोधिसत्त्वचर्यासंभारसंभवसमुदागमावतारकुशलानाम्, एकैकस्य च तथागतस्य विमलधर्मचक्रसंप्रत्येषणसंधारणकुशलानां सर्वत्र्यध्वतथागतविकुर्वितनयसागरावतरणकुशलानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव तथागतपर्षन्मण्डलसमनन्तरं समन्तसत्त्वत्राणोजःश्री नाम रात्रिदेवता प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यामण्डलमवतरितव्यम्, कथं परिशोधयितव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः॥३४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project