Digital Sanskrit Buddhist Canon

३३ स्थावरा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 33 sthāvarā
३३ स्थावरा।



अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन मगधविषये बोधिमण्डे स्थावरा पृथ्वीदेवता तेनोपसंक्रान्तः। दशपृथिवीदेवताशतसहस्राणि अन्योन्यमेवं वाचमुदीरयामासुः-अयं स आगच्छति, यः सर्वसत्त्वानां प्रतिशरणभूतो भविष्यति। अयं स तथागतगर्भ आगच्छति, यः सर्वसत्त्वानामविद्याण्डकोशं निर्भेत्स्यति। अयं स धर्मराजकुलोदित आगच्छति, योऽसङ्गवरविमलधर्मराजपट्टमाबन्धिष्यति। अयं स ज्ञाननारायणवज्रप्रहरणशूर आगच्छति, यः सर्वपरप्रवादिचक्रं प्रमर्दिष्यति। अथ तानि स्थावराप्रमुखानि दशपृथिवीदेवताशतसहस्राणि महापृथिवीचालं कृत्वा गम्भीरजलधरनिर्नादं जनयित्वा सर्वं त्रिसाहस्रं लोकधातुमुदारेणावभासेनावभास्य सर्वरत्नाभरणालंकारप्रतिमण्डितशरीराणि विद्युल्लताकलापा इव गगनतले लम्बमानाः, प्ररोहद्भिः सर्ववृक्षाङ्कुरैः, प्रफुल्लद्भिः सर्वपुष्पवृक्षैः, प्रवर्षद्भिः सर्वनदीस्रोतोभिः, उन्नमद्भिः सर्वोत्ससरोह्रदतडागैः, प्रवर्षद्भिर्महागन्धोदकवर्षैः, प्रवायद्भिः कुसुमौघोत्करप्रवाहिभिर्महावातैः, प्रवादयद्भिः तूर्यकोटीनियुतशतसहस्रैः, प्रसरद्भिः दिव्यविमानाभरणमकुटैः, प्रणदद्भिः गोवृषगजव्याघ्रमृगेन्द्रैः, प्रगर्जद्भिः देवासुरोरगभूताधिपतिभिः, संघट्टमानैर्महाशैलेन्द्रैः उत्प्लवद्भिः, निधिचयकोटीशतसहस्रैः उन्नमद्भिः, धरणीतलादभ्युद्गतानि॥



अथ स्थावरा पृथिवीदेवता सुधनं श्रेष्ठिदारकमेवमाह-स्वागतं ते कुलपुत्र। अयं स पृथिवीप्रदेशो यत्र ते स्थित्वा कुशलमूलान्यवरोपितानि यत्राहं प्रत्यक्षा। किमिच्छसि तद्विपाकफलैकदेशं द्रष्टुम्? अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य स्थावरायाः पृथिवीदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-इच्छाम्यार्ये॥



अथ खलु स्थावरा पृथिवीदेवता पादतलाभ्यां महापृथिवीं पराहत्य असंख्येयमणिरत्ननिधानकोटीशतसहस्रप्रतिमण्डितामुपदर्श्य एवमाह-इमानि कुलपुत्र मणिरत्ननिधानकोटीनियुतशतसहस्राणि तवानुगामीनि, तव पुरोजवानि, तव यथेच्छोपभोग्यानि, तव पुण्यविपाकनिर्जातानि, तव पुण्यबलरक्षितानि। तेभ्यस्त्वं गृहीत्वा यत्कार्थं तत्कुरुष्व। अपि त्वहं कुलपुत्र ज्ञानदुर्योधनगर्भस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सा अहमेतेन बोधिसत्त्वविमोक्षेण समन्वागता दीपंकरतथागतमुपादाय बोधिसत्त्वस्य नित्यानुबद्धा सततमारक्षाप्रतिपन्ना। ततः प्रभृति अहं कुलपुत्र बोधिसत्त्वस्य चित्तचरितं व्यवचारयामि, ज्ञानविषयमवगाहयामि, सर्वप्रणिधानमण्डलमवतरामि, बोधिसत्त्वचर्याविशुद्धिमनुगच्छामि, सर्वसमाधिनयमनुसरामि, सर्वबोधिसत्त्वाभिज्ञाचित्तविपुलतां स्फरामि। सर्वबोधिसत्त्वबलाधिपतेयतां सर्वबोधिसत्त्वासंहार्यतां सर्वक्षेत्रजालस्फरणतां सर्वतथागतव्याकरणसंप्रतीच्छनतां सर्वकालाभिसंबोधिसंदर्शनतां सर्वधर्मचक्रप्रवर्तननयं सर्वसूत्रान्तसंप्रभाषणधर्ममेघनयं महाधर्मावलोकावभासनयं सर्वसत्त्वपरिपाचनविनयज्ञाननयं सर्वबुद्धविकुर्वितसंदर्शननयं च अनुगच्छामि संधारयामि संप्रतीच्छामि॥



एष च मे कुलपुत्र ज्ञानदुर्योधनगर्भो बोधिसत्त्वविमोक्षः सुमेरुपरमाणुरजःसमानां कल्पानां परेण परतरेण चन्द्रध्वजायां लोकधातौ सुनेत्रस्य तथागतस्यान्तिकात्प्रतिलब्धः अवभासव्यूहे कल्पे। सा अहं कुलपुत्र इमं ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षमायूहन्ती निर्यूहन्ती संवर्धयन्ती विपुलीकुर्वाणा अविरहिताभूवं तथागतदर्शनेन यावद् भद्रकल्पात्। अत्र च मया अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिताः। सर्वेषा च मे तेषां तथागतानां बोधिमण्डोपसंक्रमणविकुर्वितं दृष्टम्। सर्वेषां च अहं तेषां तथागतानां कुशलमूलेषु साक्षीभूता। एतमहं कुलपुत्र ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वतथागतानुबद्धानां बोधिसत्त्वानां सर्वबुद्धकथानुधारिणां सर्वतथागतज्ञानगहनप्रविष्टानां चित्तक्षणधर्मधातुस्फरणानुजवानां तथागतसमताशरीराणां सर्वबुद्धाशयविमलगर्भाणां सदाभिनिर्हृतसर्वबुद्धोत्पादानामसंभिन्नसर्वबुद्धकायदूतानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इदमिहैव जम्बुद्वीपे मगधविषये कपिलवस्तु नाम नगरम्। तत्र वासन्ती नाम रात्रिदेवता प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य स्थावरायाः पृथिवीदेवताया अन्तिकात्प्रक्रान्तः॥३१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project