Digital Sanskrit Buddhist Canon

३० अवलोकितेश्वरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 30 avalokiteśvaraḥ
३० अवलोकितेश्वरः।



अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेरनुशासनीमनुविचिन्तयन्, तं बोधिसत्त्वाधिमुक्तिकोशं निगमयन्, तद्बोधिसत्त्वानुस्मृतिबलमनुस्मरन्, तं बुद्धनेत्रपरंपराबलं संधारयन्, तं बुद्धानन्तर्यानुसंधिमनुगच्छन्, तं बुद्धनामश्रोत्रानुगममनुस्मरन्, तं बुद्धधर्मदेशनानयमनुलोमयन्, तं बुद्धधर्मसमुदागमव्यूहमवतरन्, तद्बुद्धाभिसंबोधिविनर्दितमधिमुच्यमानः, तदचिन्त्यं तथागतकर्माभिमुखीकुर्वन् अनुपूर्वेण येन पोतलकः पर्वतस्तेनोपसंक्रम्य पोतलकं पर्वतमभिरुह्य अवलोकितेश्वरं बोधिसत्त्वं परिमार्गन् परिगवेषमाणोऽद्राक्षीदवलोकितेश्वरं बोधिसत्त्वं पश्चिमदिक्पर्वतोत्सङ्गे उत्ससरःप्रस्रवणोपशोभिते नीलतरुणकुण्डलकजातमृदुशाद्वलतले महावनविवरे वज्ररत्नशिलायां पर्यङ्कं बद्ध्वा उपविष्टं नानारत्नशिलातलनिषण्णापरिमाणबोधिसत्त्वगणपरिवृतं धर्मं देशयमानं सर्वजगत्संग्रहविषयं महामैत्रीमहाकरूणामुखोद्योतं नाम धर्मपर्यायं संप्रकाशयन्तम्। दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रहर्षितविकसितानिमिषनयनः कृताञ्जलिपुटः कल्याणमित्रप्रसादवेगानुगताविक्षिप्तचेताः कल्याणमित्रेषु सकलबुद्धदर्शनसंज्ञी कल्याणमित्रप्रभवसर्वधर्ममेघसंप्रतीच्छनसंज्ञी कल्याणमित्राधीनसर्वगुणप्रतिपत्तिसंज्ञी कल्याणमित्रसमवधानदुर्लभसंज्ञी कल्याणमित्रोद्भवदशबलज्ञानरत्नप्रतिलाभसंज्ञी कल्याणमित्रसमुद्भवाक्षयज्ञानालोकसंज्ञी कल्याणमित्राश्रयसंवर्धितपुण्यप्रवालसंज्ञी कल्याणमित्रसंप्रकाशितसर्वज्ञताद्वारसंज्ञी कल्याणमित्रोद्देशितमहाज्ञानसागरावतारसंज्ञी कल्याणमित्रसंजनितसर्वज्ञतासंभारसमुदयसंज्ञी येन अवलोकितेश्वरो बोधिसत्त्वस्तेनाभिजगाम॥



अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं दूरत एव आगच्छन्तमवलोक्य आमन्त्रयामास-एहि। स्वागतं ते अनुपमोदाराचिन्त्यमहायानसंप्रस्थिता जातमूलकविविधदुःखोपद्रुताप्रतिशरणसर्वजगत्परित्राणाशया सर्वलोकातिक्रान्तानुपमाप्रमेया सर्वबुद्धधर्माध्यक्षताभिलाषिन् महाकरूणावेगाविष्ट सर्वजगत्परित्राणमते समन्तभद्रदर्शनचर्याभिमुख महाप्रणिधानमण्डलपरिशोधनचित्त सर्वबुद्धधर्ममेघसंधारणाभिलषितकुशलमूलोपचयातृप्ताशयकल्याणमित्रानुशासनीसम्यक्प्रवृत्तमञ्जुश्रीज्ञानसागरसंभूत गुणकमलाकर बुद्धाधिष्ठानप्रतिलाभाभिमुखः समाध्यालोकवेगप्रतिलब्ध सर्वबुद्धधर्ममेघसंधारणाभिलषितचित्त बुद्धदर्शनप्रीतिप्रसादवेगप्रहर्षितमानस अचिन्त्याप्रमाणसुचरितवेगाभिष्यन्दितचेतः गुणप्रतिपत्तिवेगविशुद्धपुण्यज्ञानकोश स्वयमभिज्ञामुखसर्वज्ञज्ञानमात्रवेगपरसंदर्शाभिप्राय महाकरुणावेगविपन्नमूलतथागतज्ञानालोकवेग संधारणमते॥



अथ खलु सुधनः श्रेष्ठिदारको येन अवलोकितेश्वरो बोधिसत्त्वस्तेनोपसंक्रम्य अवलोकितेश्वर बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु अवलोकितेश्वरो बोधिसत्त्वो जाम्बूनदसुवर्णवर्णं विचित्राप्रमेयप्रभाजालवाहव्यूहमेघप्रमुञ्चनं दक्षिणं बाहुं प्रसार्य लक्षणानुव्यञ्जनविसृतविविधविमलामितकायचित्तप्रह्लादसंजननरश्मिप्रतानसंकुसुमितं पाणिं सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अहं कुलपुत्र महाकरुणामुखाविलम्बं नाम बोधिसत्त्वचर्यामुखं प्रजानामि। एतच्च कुलपुत्र महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं सर्वजगदसंभिन्नसत्त्वपरिपाकविनयनप्रवृत्तं समन्तमुखस्रोतविज्ञप्तिसत्त्वसंग्रहविनयपर्युपस्थानम्। सोऽहं कुलपुत्र महाकरुणामुखाविलम्बबोधिसत्त्वचर्यामुखे प्रतिष्ठितः सर्वतथागतानां च पादमुलान्न विचलामि, सर्वसत्त्वकार्येषु च अभिमुखस्तिष्ठामि। दानेनापि सत्त्वान् संगृह्णामि। प्रियवादितया अर्थक्रियया समानार्थतयापि सत्त्वान् संगृह्णामि। रूपकायविदर्शनेनापि सत्त्वान् परिपाचयामि। अचिन्त्यवर्णसंस्थानरूपदर्शनविशुद्ध्या रश्मिजालोत्सर्गेणापि सत्त्वान् प्रह्लाद्य परिपाचयामि। यथाशयघोषोदाहारेणापि यथाभिमतेर्यापथसंदर्शनेनापि विविधाधिमुक्तिसभागधर्मदेशनयापि नानारूपविकुर्वितेनापि कुशलधर्मोपचयप्रवृत्तसत्त्वचित्तसंचोदनयापि आशयानुरूपविचित्रापरिमाणनिर्माणसंदर्शनेनापि नानाजात्युपपन्नसत्त्वसभागरूपसंदर्शनेनापि एकावासनिवासेनापि सत्त्वान् संगृह्णामि परिपाचयामि। तेन मया कुलपुत्र इदं महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं परिशोधयता सर्वजगत्प्रतिशरणप्रणिधिरुत्पादितः, यदुत सर्वसत्त्वप्रपातभयविगमाय सर्वसत्त्वसंत्रासकभयप्रशमनाय सर्वसत्त्वसंमोहभयविनिवर्तनाय सर्वसत्त्वबन्धनभयसमुच्छेदाय सर्वसत्त्वजीवितोपरोधोपक्रमभयव्यावर्तनाय सर्वसत्त्वोपकरणवैकल्यभयापनयनाय सर्वसत्त्वजीविकाभयव्युपशमनाय। सर्वसत्त्वाश्लोकभयसमतिक्रमणाय सर्वसत्त्वसांसारिकभयोपशमनाय सर्वसत्त्वपर्षच्छारद्यभयविगमाय सर्वसत्त्वमरणभयव्यतिक्रमाय सर्वसत्त्वदुर्गतिभयविनिवर्तनाय सर्वसत्त्वतमोन्धकारविषमगत्यप्रत्युदावर्त्यावभासकरणाय सर्वसत्त्वविषभागसमवधानभयात्यन्तविगमाय सर्वसत्त्वप्रियविप्रयोगभयनिरोधाय सर्वसत्त्वाप्रियसंवासभयापनयनाय सर्वसत्त्वकायपरिपीडाभयसंयोगाय सर्वसत्त्वचित्तपरिपीडनभयनिर्मोक्षणाय सर्वसत्त्वदुःखदौर्मनस्योपायाससमतिक्रमाय सर्वजगत्प्रतिशरणप्रणिध्यभिनिर्हारः कृतः। अनुस्मृतिमुखं च मे सर्वलोकेऽधिष्ठितं सर्वसत्त्वभयव्युपशमनाय। स्वनामचक्रं मे सर्वलोकेऽभिविज्ञप्तं सर्वसत्त्वभयविगमाय। सर्वजगदनन्ताकृतिभेदशमथो मे कायेऽधिष्ठितो यथाकालजगत्प्रतिविज्ञप्तये। सोऽहं कुलपुत्र, अनेनोपायेन सत्त्वान् सर्वभयेभ्यः परिमोच्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अविवर्त्यान् करोमि बुद्धधर्मप्रतिलाभाय। एतमहं कुलपुत्र महाकरुणामुखाविलम्बस्य बोधिसत्त्वचर्यामुखस्य लाभी। किं मया शक्यं समन्तभद्राणां बोधिसत्त्वानां सर्वबुद्धप्रणिधानमण्डलविशुद्धानां समन्तभद्रबोधिसत्त्वचर्यागतिंगतानां कुशलधर्माभिसंस्काराव्यवच्छिन्नस्रोतानां सर्वबोधिसत्त्वसमाधिश्रोत्रसदासमाहितानां सर्वकल्पसंवासचर्याविवर्त्यस्रोतानां सर्वत्र अध्वनयानुगतस्रोतानां सर्वलोकधात्वावर्तपरिवर्तस्रोतकुशलानां सर्वसत्त्वाकुशलचित्तव्युपशमकरस्रोतानां सर्वसत्त्वकुशलचित्तसंवर्धनस्रोतानां सर्वसत्त्वसंसारस्रोतोविनिवर्तिकरस्रोतानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



तत्रेदमुच्यते—



कृत्वा प्रदक्षिणु स्तवित्व च गौरवेण

प्रकान्त दक्षिणपथं सुधनः सुदान्तः।

सो पश्यते रत्नपर्वतकन्दरस्थं

अवलोकितेश्वरमृषिं करुणाविहारिम्॥१॥



वज्रामये गिरितटे मणिरत्नचित्रे

सिंहासने पदुमगर्भि निषण्ण धीरो।

देवासुरैर्भुजगकिन्नरराक्षसैश्च

परिवारितो जिनसुतैर्वदि तेष धर्मम्॥२॥



दृष्ट्वोपजात अतुला सुधनस्य प्रीति

उपगम्य वन्दति क्रमौ गुणसागरस्य।

ओवाच देहि मम आर्य कृपां जनित्वा

शिक्षां तु अहु लभे इम भद्रचर्याम्॥३॥



बाहुं प्रणम्य विमलं शतपुण्यचित्रं

प्रभमेघजाल विपुलं शुभ मुञ्चमानः।

मूर्ध्नि स्थिहित्व सुधनस्य विशुद्धसत्त्वो

अवलोकितेश्वरु विदू वचनं भणाति॥४॥



एकं विमोक्षमुख जानमि बुद्धपुत्र

सर्वजिनान करुणाघनज्ञानगर्भम्।

संभूत सर्वजगत्रायणसंग्रहाय

सर्वत्र वर्तति ममाप्यथ आत्मप्रेम॥५॥



त्रायामि सर्वजनतां व्यसनैरनेकैः

ये गाढबन्धनगतारिषु हस्तप्राप्ताः।

गात्रेषु विद्ध तथ चारकसंनिरुद्धा

मुच्यन्ति बन्धनगता मम नाम श्रुत्वा॥६॥



उत्सृष्टः वध्य नृपतीन कृतापराधाः

क्षिप्ता इषु न च क्रमन्ति शरीरि तेषाम्।

छिद्यन्ति शस्त्र परिवर्तति तीक्ष्ण धारा

ये नामधेयु मम तत्र अनुस्मरन्ति॥७॥



राजान मध्यगत ये च विवादप्राप्ता

विजिनन्ति सर्वरिपवोऽथ शुभे लभन्ते।

वर्धन्ति सर्व यश मित्रकुले धनानि

भोन्ती अधर्षिय स्मरित्वन मह्य नाम॥८॥



चोरंभया अरिभया अटवीप्रवेशाः

सिंहऋद्धद्वीपिचमरीमृगव्यालकीर्णाः।

गच्छन्ति निर्भय जिनित्वन सर्वशत्रून्

ये नामधेयु मम केचिदनुस्मरन्ति॥९॥



क्षिप्ता मनागिरितटीतु प्रदुष्टचित्तै-

रङ्गारकर्षु ज्वलिता अपि चो वधार्थम्।

पद्माङ्कुरा जलनिधि ज्वलना भवन्ति

ये नामधेयु मम केचिदनुस्मरन्ति॥१०॥



प्रक्षिप्त सागरजले न मरेन्ति तत्र

नद्यां न चोह्यति न दह्यति चाग्निमध्ये।

सर्वे अनर्थ न भवन्त्यपि चार्थसिद्धिः

नामं ममा अनुस्मरित्व मुहूर्तकं पि॥११॥



हडिदण्डबन्धनिगडाश्च तथा कुदण्डा

अवमानना तथ विमानन ठम्भनाश्च।

आक्रोशताडनविभर्त्सनतर्जनाश्च

मम नामधेयु स्मरमाण लभन्ति मोक्षम्॥१२॥



ये वैरिणो विवरछिद्रगवेषिणश्च

नित्यप्रदुष्टमन ये च अवर्णवादी।

सहदर्शनेन तद मैत्रमना भवन्ति

भेष्यन्ति वर्णि श्रुत मह्य स्मरित्व नाम॥१३॥



वेतालमन्त्रथ कखोर्द सदा प्रयुक्ता

घातार्थ तेष रिपवः स्तिमिता भवन्ति।

तेष शरीरि न क्रमन्ति विषा अशेषा

ये नामधेषु मम केचिदनुस्मरन्ति॥१४॥



नागेन्द्राराक्षसगणैर्गरुडैः पिशाचैः

कुम्भाण्डपूतनविहेडकरौद्रचित्तैः।

ओजोहरैर्भयकरैः सुपिनान्तरेऽपि

शाम्यन्ति सर्वि मम नाम अनुस्मरित्वा॥१५॥



मातापितासुहृदज्ञातिकबान्धवेहि

नाविप्रयोगु न पि चाप्रियसंप्रयोगः।

न धनक्षयो नापि उपैति दरिद्रभावं

नामं ममा अनुसरित्व मुहूर्तकं पि॥१६॥



न च गच्छति च्युत इतो नरकं अवीचिं

न तिरश्चयोनि न च प्रेत न चाक्षणानि।

देवे मनुष्य उपपद्यति शुद्धसत्त्वो

यो नामधेयु मम केचिदनुस्मरन्ति॥१७॥



न च अन्धकाणबधिरा न पि चर्चिगात्रा

न च रौद्र खञ्जा अथ चाटक प्रेक्षणीया।

सर्वेन्द्रियैरविकला बहुकल्पकोट्यो

भोन्ती नरा मम स्मरित्वन नामधेयम्॥१८॥



अवलोकितेति मम ते सुगतिं वज्रन्ति

यो पुष्पमुष्टि मम ओकिरते शरीरे।

धूपांश्च धूपयति यश्च ददाति छत्रं

विस्तारिकै पुज करोति प्रसन्नचित्तो

मम बुद्धक्षेत्रि स च भेष्यति दक्षिणीयः॥१९॥



उपपद्यते इतु च्यवित्वन शुद्धसत्त्वो

बुद्धान संमुख दशद्दिशि लोकधातौ।

बुद्धांश्च पश्यति शृणोति च तेष धर्मं

ये नामधेयु मम केचिदनुस्मरन्ति॥२०॥



एते तथान्य क्षयितुं निमितुं न शक्या

यावच्चुपायि अहु सत्त्व विनेमि लोके।

एको विमोक्ष मम भावितु बुद्धपुत्र

नाहं गुणान् गुणधराण विजानि सर्वान्॥२१॥



अष्टापदाकृतु दशद्दिशि लोकधातौ

कल्याणमित्र समुपासित सूधनेन।

न च तृप्तु धर्म श्रुणमाणु जिनौरसानां

कस्मान्न प्रीति भवति श्रुणमान धर्मम्॥२२॥



तेन खलु पुनः समयेन अनन्यगामी नाम बोधिसत्त्वः पूर्वस्यां दिशि गगनतलेनागत्य सहाया लोकधातोश्चक्रवालशिखरे प्रत्यष्ठात्। समन्तरप्रतिष्ठापितौ च अनन्यगामिना बोधिसत्त्वेन सहाया लोकधातोश्चक्रवालशिखरे पादौ, तत्क्षणादियं सहालोकधातुः षड्विकारं प्राकम्पत, अनेकरत्नमयी च संस्थिताभूत्। तथारूपा च अनन्यगामिना बोधिसत्त्वेन कायात् प्रभा प्रमुक्ता, यया प्रभया सर्वचन्द्रसूर्यप्रभा पर्यादत्ताः, सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालानामग्निमणिज्योतिषां च प्रभा जिह्मीकृताः, सर्वमहानरकाश्चावभासिताः, सर्वतिर्यग्योनियमलोकगतिगहनं चावभासितम्, सर्वापायदुःखानि च तदनन्तरं प्रशान्तानि। सर्वसत्त्वानां च क्लेशा न बाधन्ते। विविधशोकशल्यदुःखानि च प्रस्रब्धानि। सर्वं चेदं बुद्धक्षेत्रं सर्वरत्नमेघैरभिप्रवर्षन् सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाव्यूहसर्वपूजामेघैरभिप्रवर्षन् भगवन्तमुपसंक्रान्तः। स चास्याश्रयः सर्वसत्त्वभवनप्रतिभासप्राप्तो यथाशयसत्त्वसंतोषणाभिमुखः। तस्मिंश्च पोतलके पर्वतेऽवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकमुपसंक्रान्तः संदृश्यते स्म॥



अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत्-पश्यसि त्वं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमिह पर्षन्मण्डले संप्राप्तम्? आह-पश्यामि आर्य। आह-एतं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकोऽवलोकितेश्वरस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकात्प्रक्रान्तः॥२८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project