Digital Sanskrit Buddhist Canon

२८ वसुमित्रा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 28 vasumitrā
२८ वसुमित्रा।



अथ खलु सुधनः श्रेष्ठिदारकस्तया महाप्रज्ञाविद्युतावभासितचित्तः, तं सर्वज्ञज्ञानालोकं निध्यायन्, तं धर्मतास्वभावबलावभासं समनुपश्यमानः, सर्वसत्त्वरुतविज्ञप्तिकोशं धारणीनयं दृढीकुर्वन्, तं सर्वतथागतधर्मचक्रसंधारणं धारणीनयं विपुलीकुर्वन्, तं सर्वजगच्छरणं महाकरुणाबलमुपस्तम्भयन्, तं सर्वधर्मनयालोकमुखसमुत्थानं सर्वज्ञतावेगं प्रत्यवेक्षमाणः, तां विपुलधर्मधातुमण्डलस्फरणप्रणिधिपरिशुद्धिमनुवर्तमानः, तं सर्वधर्मदिगवभासज्ञानालोकमुत्तापयमानः, तत्सर्वधर्मदशदिग्लोकधातुव्यूहस्फरणमभिज्ञानबलं निर्हरन्, तं सर्वबोधिसत्त्वकर्मस्मृत्युपादानारम्भनिस्तीरणप्रणिधिं परिपूरयन् अनुपूर्वेण येन दुर्गे जनपदे रत्नव्यूहं नगरं तेनोपसंक्रान्तो वसुमित्रां भागवतीं परिमार्गन्। तत्र ये पुरुषा वसुमित्राया भागवत्या गुणानभिज्ञा ज्ञानगोचराविधिज्ञाश्च, तेषामेतदभवत्-किमस्य एवं शान्तदान्तेन्द्रियस्य एवं संप्रजानस्य एवमभ्रान्तस्य एवमविक्षिप्तमानसस्य एवं युगमात्रप्रेक्षिणः एवं वेदनाभिरपर्यादत्तचित्तस्य एवमनिमित्तग्राहिणः सर्वरूपगतेषु उत्क्षिप्तचक्षुषः एवमव्यग्रमानसस्य गम्भीरचेष्टस्याभिरूपस्य सागरकल्पस्य अक्षोभ्यानबलीनचित्तस्य वसुमित्रया भागवत्या कार्यम्? न हीदृशा रागरता भवन्ति, न विपर्यस्तचित्ताः। नेदृशानामशुभसंज्ञा समुदाचरति। नेदृशाः कामदासा भवन्ति। नेदृशाः स्त्रीवशगा भवन्ति। नेदृशा मारगोचरे चरन्ति। नेदृशा मारविषयं निषेवन्ते। नेदृशाः कामपङ्के संसीदन्ति। नेदृशा मारपाशैर्बध्यन्ते। नाकार्यकारिणो भवन्ति। ये पुनर्वसुमित्राया भागवत्या गुणविशेषाभिज्ञा ज्ञानगोचरप्रत्यक्षा वा, ते एवमाहुः-साधु साधु कुलपुत्र, सुलब्धास्ते लाभाः, यस्त्वं वसुमित्रां भागवतीं परिप्रष्टव्यां मन्यसे। नियमेन त्वं बुद्धत्वं प्रार्थयसे। नियमेन त्वं सर्वसत्त्वप्रतिशरणमात्मानं कर्तुकामः। नियमेन त्वं सर्वसत्त्वानां रागशल्यमुद्धर्तुकामः। नियमेन त्वं शुभसंज्ञां विकरितुकामः। एषा कुलपुत्र वसुमित्रा भागवती नगरशृङ्गाटकस्योत्तरेण स्वगृहे तिष्ठति॥



अथ खलु सुधनः श्रेष्ठिदारक इदं वचनमुपश्रुत्य तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन वसुमित्राया भागवत्या निवेशनम्, तेनोपसंक्रम्य तद्गृहमद्राक्षीद्विपुलं च विस्तीर्णं च दशरत्नप्राकारपरिक्षिप्तं दशरत्नतालपङ्क्तिपरिवृत्तम्। दशभिः परिखाभिर्गन्धोदकाभिर्दिव्यरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाभिः अष्टाङ्गोपेतवारिपरिपूर्णाभिः कनकवालिकासंस्तीर्णतलाभिः मनोहरगन्धलुलितसुगन्धीकृतोदकाभिः अनेकरत्नप्राकारोपशोभिताभिः समन्तादनुपरिक्षिप्तम्, सर्वरत्नमयभवनविमानकूटागारसुविभक्तोद्विद्धनिर्यूहतोरणगवाक्षजालार्धचन्द्रसिंहपञ्जरविचित्रज्योतिर्ध्वजमणिरत्नोज्ज्वलिततेजसम्, असंख्येयविविधरत्नप्राकारोपशोभितं वैडूर्यखचितरत्नहारसंस्कृततलं सर्वदिव्यसुभगन्धवासितोपचारं महाकालागरुधूपधूपितसुगन्धं सर्वानुलेपनविलिप्तोपचारं सर्वरत्नखोटकरचितप्राकारं विविधरत्नप्रत्यर्पितजाम्बूनदजालसंछादितकूटं कनकघण्टाजालशतसहस्रवातेरितप्रमुक्तमधुरमनोज्ञनिर्घोषं सर्वरत्नपुष्पमेघप्रसृतप्रकीर्णरत्नकुसुमालंकारं सर्वरत्नविचित्रध्वजोपशोभितद्वारं नानामणिरत्नप्रभाज्वालालोकापर्यन्तनिर्देशं प्रभूतमणिविचित्रद्रुमशाखावज्रशिलाप्रकटनिधिशतसहस्रनिचयाक्षयकोशं दशमहोद्यानप्रतिमण्डितम्। स तत्रापश्यद्वसुमित्रां भागवतीमभिरूपां प्रासादिकां दर्शनीयां परमया शुभवर्णपुष्कलतया समन्वागतां सुवर्णवर्णच्छविमभिनीलकेशीं सुविभक्तसमाङ्गप्रत्यङ्गशरीरां सर्वकामधातुकदेवमनुष्यातिक्रान्तवर्णरूपसंस्थानशोभां ब्रह्मातिरेकस्वरां सर्वसत्त्वरुतमन्त्रविधिज्ञां सर्वस्वरव्यूहोपेतकान्तस्वरां चक्राक्षरव्यूहविमोक्षकौशल्यानुगतां सर्वशिल्पशास्त्रकौशलनिर्यातां धर्मज्ञानमायाकौशलसुशिक्षितां सर्वाकारबोधिसत्त्वोपायनयप्रतिलब्धां विचित्ररत्नाभरणविभूषितां मनोज्ञकायां सर्वरत्नमयप्रभास्वरजालसंछादितशरीराम् असंख्येयदिव्यमणिरत्नाभरणव्यूहप्रतिमण्डितोज्ज्वलदेहां चिन्ताराजमहामणिरत्नाबद्धमकुटां वज्ररत्नविचित्रसिंहकान्तमणिरत्नोपशोभितमध्यवैडूर्यमणिहारावसक्तकण्ठामभिन्नकुशलमूलचर्यासभागैकप्रणिधानमनाप-महापरिवारामक्षयपुण्यज्ञानमहानिधानकोशाम्। तया च सर्वं तद्गृहं सर्वरत्नभवनविमानव्यूहं स्वशरीरनिर्यातया प्रेमणीयया कायप्रह्लादसुखसंजनन्या चित्तौद्बिल्यप्रीतिकरण्या उदारया प्रभया स्फुटभवभासितमपश्यत्॥



अथ खलु सुधनः श्रेष्ठिदारको वसुमित्राया भागवत्याः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। सा अवोचत्-मया कुलपुत्र विराग कोटीगतो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः। साहं कुलपुत्र देवानामप्सरोरूपवर्णसंस्थानारोहपरिणाहातिरेकप्रभास्वरविशुद्ध्या यथाशयाधिमुक्तानामाभासमागच्छामि। एवं नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याणां कन्यारूपवर्णसंस्थानारोहपरिणाहातिरेकप्रभास्वरविशुद्धा यथाशयाधिमुक्तानामाभासमागच्छामि। ये च सत्त्वा मामुपसंक्रामन्ति रागपर्यवस्थितचेतसः, तेषामहं कुलपुत्र सर्वेषां रागविरागतायै धर्मं देशयामि। ते च तं धर्मं श्रुत्वा रागविरागतामनुप्राप्नुवन्ति, असङ्गविषयं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचिन्मम सहदर्शनेन रागविरागतामनुप्राप्नुवन्ति, प्रामोद्यरतिं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचिदालपनमात्रेण रागविरागतामनुप्राप्नुवन्ति, असङ्गस्वरकोशं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचित्पाणिग्रहमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वबुद्धक्षेत्रानुगमनप्रतिष्ठानं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचिदेकावासमात्रकेण रागविरागतामनुप्राप्नुवन्ति, विसंयोगालोकं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचित्प्रेक्षितमात्रेण रागविरागतामनुप्राप्नुवन्ति, प्रशान्ताकारव्यूहं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचिद्विजृम्भितमात्रेण रागविरागतामनुप्राप्नुवन्ति, परप्रवादिविक्षोभणं च नाम बोधिसत्त्वासमाधिं प्रतिलभन्ते। केचिन्निमीलनमत्रेण रागविरागतामनुप्राप्नुवन्ति, बुद्धविषयालोकं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचिदालिङ्गनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्संग्रहापरित्यागगर्भं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। केचित्परिचुम्बनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्पुण्यकोशसंस्पर्शनं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते। ये केचित्सत्त्वा ममान्तिकमुपसंक्रामन्ति, सर्वांस्तानहमत्रैव विरागकोटीगते असङ्गसर्वज्ञताभूम्यभिमुखे बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि॥



आह-कुत्र त्वया आर्ये कुशलमूलमवरोपितम्, कीदृशं च कर्मोपचितम्, यस्यास्तवेयमीदृशी संपत्? आह-स्मरामि कुलपुत्र, अतीतेऽध्वनि अत्युच्चगामी नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। तस्य कुलपुत्र अत्युच्चगामिनस्तथागतस्य सत्त्वानामनुकम्पार्थं सुमुखां नाम राजधानीं प्रविशतः इन्द्रकीलमाक्रामतः सर्वं तन्नगरं प्राकम्पत। विपुलविस्तीर्णं च अनेकरत्नमयं संस्थितमभूत् अनेकरत्नप्रभाव्यूहं विविधरत्नपुष्पाभिकीर्णं नानादिव्यतूर्यप्रमुक्तनिर्घोषम्। उदाराप्रमेयदेवकायमेघप्रच्छन्नं च अन्तरीक्षं संस्थितमभूत्। अहं च कुलपुत्र तेन समयेन सुमतिर्नाम श्रेष्ठिभार्या अभूवम्। ततो मे बुद्धप्रातिहार्यसंचोदितया स्वामिना सार्धं प्रधावित्वा तस्य तथागतस्य वीथीमुखमुपसंक्रान्तस्य उदारप्रसादजातया एका रत्नकाकणिः प्रतिपादिता। तदा च मञ्जुश्रीः कुमारभूतस्तस्य भगवतोऽत्युच्चगामिनस्तथागतस्योपस्थानकोऽभूत्। तेनाहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता। एतमहं कुलपुत्र विरागकोटीगतं बोधिसत्त्वविमोक्षं प्रजानामि। किं मया शक्यमनन्तोपायज्ञानकौशलप्रतिष्ठितानां बोधिसत्त्वानां विपुलाक्षयपुण्यकोशानामपराजितज्ञानविषयाणां चर्यां ज्ञातुम्, गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे शुभपारंगमं नाम नगरम्। तत्र वेष्ठिलो नाम गृहपतिश्चन्दनपीठं तथागतचैत्यं पूजयति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको वसुमित्राया भागवत्याः पादौ शिरसाभिवन्द्य वसुमित्रां भागवतीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वसुमित्राया भागवत्या अन्तिकात् प्रक्रान्तः॥२६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project