Digital Sanskrit Buddhist Canon

६ सुप्रतिष्ठितः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 6 supratiṣṭhitaḥ
६ सुप्रतिष्ठितः।



अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनी तं च समन्तनेत्रं धर्मपर्यायमनुस्मरन्, तच्च तथागतविकुर्वितमनुविचिन्तयन्, तांश्च धर्मपदव्यञ्जनमेघान् धारयन्, तांश्च धर्ममुखसागरानवतरन्, तं च धर्मविधिमनुविलोकयन्, तांश्च धर्मावर्तनयानवगाह्यमानः, तच्च धर्मगगनं समवसरन्, तच्च धर्ममण्डलं परिशोधयन्, तं च धर्मरत्नद्वीपमनुविचारयन्, अनुपूर्वेण येन सागरतीरं लङ्कापथस्तेनोपसंक्रम्य पूर्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया। एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध ऊर्ध्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया। सोऽपश्यत्सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणमसंख्येयदेवताशतसहस्रपरिवृतम्, तच्च गगनतलं दिव्यपुष्पमेघाभिकीर्णमद्राक्षीदसंख्येयदिव्यतूर्यमेघनिर्घोषम्, असंख्येयपट्टपताकालंकारं देवेन्द्रैः सुप्रतिष्ठितस्य भिक्षोः पूजकर्मणि। अचिन्त्यकालागुरुमेघोन्नतनिगर्जनं च गगनतलमपश्यत् नागेन्द्रैः। असंख्येयदिव्यमनोज्ञवचनोपचारस्तुतिसर्ववाद्यतूर्यसंगीतिनिर्घोषांश्च किन्नरेन्द्रैः संप्रयोजितान् गगनतलादश्रौषीत्। अचिन्त्यांश्च सूक्ष्मस्फुटवस्त्रमेघान् गगनतले प्रीतिमनोभिर्महोरगेन्द्रैः प्रहितान् प्रसृतानपश्यत् सुप्रतिष्ठितस्य भिक्षोः स्पृहमाणरूपैः। अचिन्त्यांश्च मणिरत्नमेघान् असुरेन्द्रगगनतलमधिष्ठितान् अचिन्त्यगुणव्यूहावभासमपश्यत्। अचिन्त्यांश्च गरुडेन्द्रगणानुदारमानवरूपबलसंस्थानान् गरुडेन्द्रकन्यापरिवारान् अविहिंसापरमान् प्राञ्जलीभूतान् गगनतलेऽपश्यत्। अचिन्त्यानि च यक्षेन्द्रशतसहस्राणि सपरिवाराणि विकृतशरीराणि गगनतलगतानपश्यत् सुप्रतिष्ठितस्य भिक्षोर्मैत्र्याधिपतेयतया। अचिन्त्यानि च राक्षसेन्द्रशतसहस्राणि सपरिवाराणि गगनतले अनुपरिवर्तमानानि सुप्रतिष्ठितस्य भिक्षोरारक्षाप्रतिपन्नान्यपश्यत्। अचिन्त्यानि च ब्रह्मेन्द्रशतसहस्राणि गगनतले कृताञ्जलिपूटानि अभिप्रेतमनोज्ञवचनोपचारस्तुतिप्रत्युदाहारप्रयुक्तान्यपश्यत्। अचिन्त्यानि च शुद्धावासकायिकदेवताशतसहस्राणि गगनतले विमानगतान्यपश्यत् सुप्रतिष्ठितस्य भिक्षोः पूजाकर्मणि॥



अथ खलु सुधनः श्रेष्ठिदारकः सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्राञ्जलिः सुप्रतिष्ठितं भिक्षुं नमस्कृत्य एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बुद्धधर्मा अन्वेष्टव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः समुदानयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः संहर्तव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः सेवितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा भावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा अनुवर्तितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिपिण्डयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिभावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा विशोधयितव्याः सर्वबोधिसत्त्वकार्यपरिप्रापणाय? कथं बोधिसत्त्वेन बुद्धधर्मा अनुगन्तव्याः? श्रुतं च म आर्यो बोधिसत्त्वानामवादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बुद्धधर्मेषु प्रयोक्तव्यम्, यथा प्रयुज्यमानोऽविरहितो भवति बुद्धदर्शनेन, यथाभूतविप्रवासाय अविरहितो भवति बोधिसत्त्वदर्शनेन। सर्वबोधिसत्त्वकुशलमूलैकध्यातायै अविरहितो भवति बुद्धधर्मैः। ज्ञानानुगमायाविरहितो भवति सर्वबोधिसत्त्वप्रणिधानैः। सर्वबोधिसत्त्वकार्यपरिप्रापणाय अविरहितो भवति बोधिसत्त्वचर्यया। सर्वकल्पसंवासापरिखेदतायै अविरहितो भवति सर्वबुद्धक्षेत्रस्फरणेन। सर्वलोकधातुपरिशुद्धये अविरहितो भवति बुद्धविकुर्वितदर्शनेन। सर्वतथागतविकुर्वितविज्ञप्त्यै अविरहितो भवति संस्कृतावासेन। निर्मितोपमबोधिसत्त्वचर्यायाः सर्वभवगतिच्युत्युपपत्त्यायतनस्वशरीरानुगमनतायै अविरहितो भवति धर्मश्रवणेन। सर्वतथागतधर्ममेघसंप्रतीच्छनतायै अविरहितो भवति ज्ञानालोकेन त्र्यध्वज्ञानानुगमानुसरणतायै॥



एवमुक्ते सुप्रतिष्ठितो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बुद्धधर्मान् सर्वज्ञताधर्मान् स्वयंभूधर्मान् परिपृच्छसि। अहं कुलपुत्र असङ्गमुखस्य बोधिसत्त्वविमोक्षस्य लाभी। एतं मे कुलपुत्र असङ्गमुखं बोधिसत्त्वविमोक्षमायूहता निर्यूहता अनुसरता विभजता विचिन्वता प्रविचिन्वता प्रतिभासयता प्रभासयता असङ्गकोटिर्नाम ज्ञानालोकः प्रतिलब्धः, यस्य प्रतिलम्भान्नास्ति मे सर्वसत्त्वचित्तचरितावभासेषु सङ्गः। नास्ति सर्वसत्त्वच्युत्युपपत्तिपरिज्ञासु सङ्गः। नास्ति पूर्वनिवासानुस्मृतिमुखावतारेषु सङ्गः। नास्त्यपरान्तकल्पसर्वजगत्संवासेषु सङ्गः। नास्ति प्रत्युत्पन्नाध्वसर्वजगद्विज्ञप्तिषु सङ्गः। नास्ति सर्वसत्त्वरुतमन्त्रसंवृतिपरिज्ञानेषु सङ्गः। नास्ति सर्वसत्त्वसंशयच्छेदेषु सङ्गः। नास्ति रात्रिंदिवक्षणमुहूर्तकालसंज्ञागतावतारेषु सङ्गः। नास्ति दशदिग्बुद्धक्षेत्रेसु अशरीरस्फरणतासु सङ्गः, यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलम्भेन। अस्याहं कुलपुत्र अनभिसंस्कारिकाया ऋद्धेरनुभावेन इह गगनतले चंक्रमामि, तिष्ठामि, निषीदामि, निषद्यामि, विविधानीर्यापथान् कल्पयामि, अन्तदर्धामि प्रादुर्भवामि, धूमायामि प्रज्वलामि। एको भूत्वा बहुधा भवामि, बहुधा भूत्वैको भवामि। आविर्भावं तिरोभावं प्रत्यनुभवामि। तिरःकुड्यं तिरःप्राकारमसज्जन् गच्छामि तद्यथापि नाम आकाशे। आकाशेऽपि पर्यङ्केन क्रमामि तद्यथापि नाम पक्षी शकुनिः। पृथिव्यामपि उन्मज्जननिमज्जनं करोमि तद्यथोदके। उदकेऽप्यसज्जमानो गच्छामि तद्यथा पृथिव्याम्। धूमायामि प्रज्वलामि तद्यथापि नाम महानग्निस्कन्धः। पृथिवीमपि कम्पयामि। इमावपि चन्द्रसूर्यौ एवं महर्द्धिकौ एवं महानुभावौ एवं महौजस्विनौ पाणिना संपरिमार्जयामि। यावद्ब्रह्मलोकं काये च संवर्तयामि। गन्धधूपपटलमेघसंछन्नं लोकं कृत्वा प्रज्वलामि। सर्वरत्नार्चिमेघसंछन्नं लोकं कृत्वा सर्वजगत्सदृशनिर्मितमेघान् प्रमुञ्चामि। अनन्तवर्णप्रभाजालमेघान् प्रमुञ्चन् समन्ताद्दिशो निर्यामि-यदुत पूर्वां दिशं निर्यामि, दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध उर्ध्वामपि दिशं निर्यामि। एकैकेन चित्तक्षेणेन पूर्वस्यां दिशि एकं लोकधातुमतिक्रमामि। द्वावपि दशापि लोकधातुशतमपि लोकधातुसहस्रमपि लोकधातुशतसहस्रमपि लोकधातुकोटीमपि लोकधातुकोटीशतमपि लोकधातुकोटीसहस्रमपि लोकधतुकोटीशतसहस्रमपि लोकधातुकोटीनियुतशतसहस्रमपि, अपरिमाणानपि लोकधातूनप्रमेयान्, असंख्येयानपि अचिन्त्यानपि अतुल्यानपि अमाप्यानपि असमन्तानपि अपर्यन्तानपि असीमाप्राप्तानपि अनभिलाप्यानभिलाप्यानपि लोकधातूनतिक्रमामि। ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु, तेषु तेषु लोकधातुप्रसरेषु, तासु तासु लोकधातुदिक्षु, तेषु तेषु लोकधातुपरिवर्तेषु, तेषु तेषु लोकधातुसमवसरणेषु, तेषु तेषु लोकधातुसंभवेषु, तेषु तेषु लोकधातुनिर्देशेषु, तेषु तेषु लोकधातुद्वारेषु, तेषु तेषु लोकधातुकल्पनिर्देशेषु, तेषु तेषु लोकधात्ववतारेषु, तेषु तेषु लोकधातुबोधिमण्डव्यूहेषु, तेषु तेषु लोकधातुपर्षन्मण्डलेषु ये बुद्धाभगवन्तो धर्मंदेशयन्ति, तेषां तथागतानामेकैकं तथागतमनन्तबुद्धक्षेत्रपरमाणुरजःसमैः कायनानात्वैरेकैकेन कायेन अनन्तबुद्धक्षेत्रपरमाणुरजःसमैः पूजामेघैः प्रवर्षन्नुपसंक्रमामि। उपसंक्रम्य पूजां करोम्यप्रतिप्रस्रब्धः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्ववस्त्रैः सर्वध्वजैः सर्वपताकाभिः सर्ववितानैः सर्वजालैः सर्वविग्रहैः। यच्च ते बुद्ध भगवन्तो भाषन्ते देशयन्ति उदीरयन्ति संप्रकाशयन्ति संवर्णयन्ति परिदीपयन्ति उपदिशन्ति निर्दिशन्ति प्रभावयन्ति, तत्सर्वमाजानामि, उद्गृह्णामि। या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि। यथा पुर्वस्यां दिशि, एवमेव दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि एकमपि लोकधातुमतिक्रमामि। द्वावपि दशापि लोकधातुशतमपि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि लोकधातूनतिक्रमामि। ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु तासु तासु लोकधातुविशुद्धिषु, यावत् तेषु तेषु लोकधातुषु पर्षन्मण्डलेषु धर्मं देशयन्ति, तान् सर्वान् पश्यामि। तेषां च तथागतानां पूजां करोमि सर्वपुष्पैर्यावत्सर्वपरिग्रहैः। यच्च ते बुद्धा भगवन्तो भाषन्ते यावत्प्रभावयन्ति तत्सर्वमाजानामि उद्गृह्णामि। या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि। येषां च सत्त्वानामाभासमागच्छामि, यैः समागच्छामि, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ। ये च सत्त्वा ममाभासमागच्छन्ति, सूक्ष्मा वा उदारा वा हीना वा प्रणीता वा सुखिता वा दुःखिता वा, तेषां सर्वेषां तत्प्रमाणां कायमधितिष्ठामि परिपाकविनयकालानतिक्रमणतायै। ये च सत्त्वा मामुपसंक्रामन्ति तान् सर्वानत्रैव समन्तजवेऽमोघविक्रमपर्यवसाने बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि। एतमहं कुलपुत्र समन्तजवं तथागतपूजोपस्थानप्रयोगं सर्वसत्त्वपरिपाकानुकूलमसङ्गमुखं बोधिसत्त्वविमोक्षं प्रजानामि। किं मया शक्यं बोधिसत्त्वानां महासत्त्वानां महाकरुणाशीलानां महायानप्रतिपत्तिशीलानां बोधिसत्त्वमार्गाविप्रवासशीलानासङ्गशीलानां बोधिसत्त्वाशयगर्भाविपातनशीलानां बोधिचित्तापरित्यागशीलानां बुद्धधर्माध्यालम्बनशीलानां सर्वज्ञतामनसिकाराविप्रवसितशीलानां गगनसमशीलानां सर्वलोकानिश्रितशीलानामविनष्टशीलामनुपहतशीलानामखण्डशीलानामच्छिद्रशीलानामशबलशीलानामकल्माषशीलानां विशुद्धशीलानां विरजोनिर्मलशीलानां बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे वज्रपुरं नाम द्रमिडपट्टनम्। तत्र मेघो नाम द्रमिडः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथम् प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः सुप्रतिष्ठितस्य भिक्षोः पादौ शिरसाभिवन्द्य सुप्रतिष्ठितं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुप्रतिष्ठितस्य भिक्षोरन्तिकात् प्रक्रान्तः॥४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project