Digital Sanskrit Buddhist Canon

५ सागरमेघः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 5 sāgarameghaḥ
५ सागरमेघः।



अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनीमनुविचिन्तयन्, तं लोकमनुस्मरन्, तं बोधिसत्त्वविमोक्षं विचारयन्, तं बोधिसत्त्वसमाधिनयमनुमार्जन्, तं बोधिसत्त्वसागरनयमवलोकयन्, तं बुद्धमण्डलमभिमुखमधिमुच्यमानः, तं बुद्धदर्शनदिशमभिलषन्, तं बुद्धसमुद्रमनुविचिन्तयन्, तां बुद्धपरंपरामनुस्मरन्, तं बुद्धनयानुगममनुगच्छन्, तं बुद्धगगनमनुविलोकयन्, अनुपूर्वेण येन सागरमुखं दिक्प्रत्युद्देशो येन च सागरमेघो भिक्षुस्तेनोपसंक्रम्य सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सागरमेघस्य भिक्षोः पुरतः प्राञ्जलिः स्थित्वा एतदवोचत्-अहमार्य अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितोऽनुत्तरं ज्ञानसागरमवतर्तुकामः। न च जाने कथं बोधिसत्त्वा विवर्तन्ते लोकवंशात्। आवर्तन्ते तथागतवंशे। उत्तरन्ति संसारसागरात्। अवतरन्ति सर्वज्ञज्ञानसागरम्। उच्चलन्ति बालपृथग्जनभूमीः। संपद्यन्ते तथागतकुले। विवर्तन्ते संसारस्रोतसः। प्रवर्तन्ते बोधिसत्त्वचर्यास्रोतसि, निवर्तन्ते संसारसागरगतिचक्रात्। आवर्तन्ते बोधिसत्त्वचर्याप्रणिधानचक्रम्। प्रमर्दयन्ति सर्वमारमण्डलम्। द्योतयन्ति सर्वबुद्धमण्डलप्रभवम्। शोषयन्ति तृष्णासागरम्। विवर्धयन्ति महाकरुणातोयम्। पिथन्ति सर्वाक्षणापायदुर्गतिविनिपातद्वाराणि। विवृश्चन्ति स्वर्गनिर्वाणद्वारम्, विनिर्भिन्दन्ति त्रैधातुकनगरकपाटम्। विवृण्वन्ति सर्वज्ञतापुरद्वारकपाटम्। विजहन्ति सर्वोपकरणतृष्णाम्। उत्पादयन्ति सर्वजगत्संग्रहप्रणिधिम्॥



एवमुक्ते सागरमेघो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यत्त्वया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न हि कुलपुत्र अनवरोपितकुशलमूलानां सत्त्वानां बोधाय चित्तमुत्पद्यते। समन्तमुखकुशलावभासप्रतिलब्धानामुपायगर्भमार्गसमाधिज्ञानालोकावभासितानां विपुलपुण्यसागरसंभृतसंभाराणां सर्वशुक्लोपचयाप्रतिप्रस्रब्धानां सर्वकल्याणमित्रोपस्तब्धोपायापरिखिन्नानां कायजीवितनपेक्षाणां सर्ववस्तूद्ग्रहविगतानामनिम्नोन्नतपृथिवीसमचित्तानामा प्रकृतिकृपास्नेहानुगतानां सर्वभवगतिसंवासाभिमुखानां तथागतविषयाभिलाषिणां सत्त्वानां बोधाय चित्तमुत्पद्यते। यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय, महामैत्रीचित्तम् सर्वजगत्समयोगतायै, सुखचित्तं सर्वजगद्दुःखस्कन्धव्युपशमनाय, हितचित्तं सर्वाकुशलधर्मविनिवर्तनतायै, दयाचित्तं सर्वभयारक्षायै, असङ्गचित्तं सर्वावरणविनिवर्तनतायै, विपुलचित्तं सर्वधर्मधातुस्फरणतायै, अनन्तचित्तमाकाशधातुसमवसरणसमतानुगमाय, विमलचित्तं सर्वतथागतदर्शनविज्ञप्त्यै, विशुद्धचित्तं त्र्यध्वावशेषज्ञानस्फरणतायै, ज्ञानचित्तं सर्वावरणज्ञानविनिवर्तनतायै सर्वज्ञज्ञासागरावतरणतायै॥



अहं कुलपुत्र पूर्णानि द्वादश वर्षाणि इह सागरमुखे दिक्प्रत्युद्देशे विहरामि इमं महासागरमारम्बणीकृत्य आमुखीकृत्य, यदुत महासागरस्य विपुलाप्रमाणतामनुविचिन्तयन् विमलप्रसन्नतां च गम्भीरदुरवगाहतां च अनुपूर्वनिम्नसुस्थितां च अनेकरत्नाकरविचित्रतां च वारिस्कन्धाप्रमाणतां च अचिन्त्योदारवर्णविमात्रतां च अनन्तभूतां च विचित्रोदारप्रणाधिवासनतां च महामेघप्रतिच्छन्नतां च अन्तरापुर्णतां च अनुविचिन्तयन्। तस्य मम कुलपुत्र एवं भवति-अस्ति न पुनरन्यः कश्चिदिह लोके योऽस्मान्मनासागराद्विपुलतरश्च विस्तीर्णतरश्च अप्रमाणतरश्च गम्भीरतरश्च विचित्रतरश्च। तस्य मम कुलपुत्र एवं योनिशश्चिन्तामनसिकारप्रयुक्तस्य महासागरस्याधस्तान्महापद्मं प्रादुरभूत्। अपराजितमणिरत्नेन्द्रनीलमणिवज्रदण्डं महावैडूर्यमणिरत्नावतंसकं जाम्बूनदसुवर्णविमलविपुलपत्रं कालानुसारिचन्दनकलिकाव्यूहम् अश्मगर्भरत्नकेसरोपेतं सागरविपुलविस्तीर्णप्रमाणं दशासुरेन्द्रशतसहस्रसंधारितदण्डगर्भं दशमणिरत्नशतसहस्रविचित्ररत्नजालसंछन्नं दशनागेन्द्रशतसहस्रगन्धोदकमेघाभिप्रवर्षितं दशगरुडेन्द्रशतसहस्रमुखप्रलम्बितपट्टमणिदामहारं दशकिन्नरेन्द्रशतसहस्रहितचित्तसंप्रेक्षितं दशमहोरगेन्द्रशतसहस्रमुखप्रणतोपचारं दशराक्षसेन्द्रशतसहस्रप्रणतकायाभिपूजितं दशगन्धर्वेन्द्रशतसहस्रविचित्रतूर्यसंगीतिस्तुतोपचितं दशदेवेन्द्रशतसहस्रदिव्यपुष्पगन्धमाल्यधूपविलेपनचूर्णचीवरच्छत्रध्वजपताकामेघाभिप्रवर्षितं दशब्रह्मेन्द्रशतसहस्रमूर्धप्रणतोपचारं दशशुद्धावासकायिकादेवताशतसहस्रकृताञ्जलिपुटनमस्कृतं दशचक्रपरिवर्तमनुजेन्द्रशतसहस्रसप्तरत्नप्रत्युद्गताभिपूजितं दशसागरदेवताशतसहस्राभ्युद्गतनमस्कृतं दशज्योतीरसमणिरत्नशतसहस्ररश्मिव्यूहावभासितं दशपुण्यशुद्धमणिरत्नशतसहस्रसुनिश्चितविन्यस्तोपशोभितं दशवैरोचनमणिरत्नशतसहस्रविमलगर्भं दशश्रीमणिरत्नशतसहस्रमहाश्रीप्रतापनं दशविचित्रकोशमणिरत्नशतसहस्रानन्तावभासितं दशजम्बूध्वजमणिरत्नशतसहस्रसुपरिगृहितस्थितप्राप्तोपशोभितं दशवज्रसिंहमणिरत्नशतसहस्रापराजितव्यूहं दशसूर्यगर्भमणिरत्नशतसहस्रोदारोत्तप्तोपचितं दशरुचिरमणिरत्नशतसहस्रविविधवर्णोपचारं दशचिन्ताराजमणिरत्नशतसहस्राक्षयव्यूहप्रभोज्ज्वलितम्। तच्च महापद्मं तथागतलोकोत्तरकुशलमूलनिर्जातं बोधिसत्त्वाशयंसंप्रस्थितं सर्वदिगभिमुखविज्ञपनं मयागतधर्मनिर्यातं निरामगन्धकर्मसंभुतम् अरणाधर्मतानयव्यूहं स्वप्नसमधर्मतासमुदाचारम् अनभिसंस्कारधर्मनयमुद्रितम् असङ्गधर्मनयानुगतं समन्ताद्दशदिक्कुलधर्मधातुस्फरणं बुद्धविषयप्रभावभासनाकुलम्, यस्य न शक्यमसंख्येयैरपि कल्पशतसहस्रैराकारगुणसंस्थानवर्णव्यूहपर्यन्तोऽधिगन्तुम्। तच्च महापद्मं तथागतकायपर्यङ्कपरिष्फुटं परिपूर्णं पश्यामि। तं च तथागतकायमित उपादाय यावद्भवाग्रपरमं पश्यामि। तस्य च तथागतस्य अचिन्त्यमासनव्यूहं पश्यामि। अचिन्त्यपर्षन्मण्डलव्यूहान्। अचिन्तियान् प्रभामण्डलव्यूहान्। अचिन्त्यां लक्षणसंपदमचिन्त्यामनुव्यञ्जनचित्रतामचिन्त्यां बुद्धवृषभिताम्। अचिन्त्यं बुद्धविकुर्वितम्। अचिन्त्यां तथागतवर्णविशुद्धिम्। अचिन्त्यामवलोकितमूर्धिताम्। अचिन्त्यां प्रभूतजिह्वतां पश्यामि। अचिन्त्यान् बुद्धसरस्वतीव्यूहान् शृणोमि। अचिन्त्यां बलाप्रमाणताम्, अचिन्त्यां वैशरद्यव्यूहविशुद्धिम्, अचिन्त्यं प्रतिसंविद्बलाभिनिर्हारमनुगच्छामि। अचिन्त्यं पूर्वबोधिसत्त्वचर्यासमुदागममनुस्मरामि। अचिन्त्यमभिसंबोधिविकुर्वितं पश्यामि। अचिन्त्यं धर्ममेघाभिनिगर्जितम्, अचिन्त्यं समन्तदर्शनविज्ञप्त्याश्रयव्यूहं शृणोमि। अचिन्त्याप्रमाणां वामदक्षिणेन शरीरविभक्तिम्, अचिन्त्यं सत्त्वार्थकायपरिप्राप्तिं पश्यामि॥



स च मे तथागतो दक्षिणं पाणिं प्रसार्य शिरसं परिमार्ज्य समन्तनेत्रं नाम धर्मपर्यायं सर्वतथागतविषयं बोधिसत्त्वचर्याप्रभावनं सर्वधर्मधातुतलप्रभेदावभासनं सर्वधर्ममण्डलसमवसरणावभासनं सर्वक्षेत्रमण्डलाकारविशुद्ध्यालोकं सर्वपरप्रवादिमण्डलविकिरणं सर्वमारकलिप्रमर्दनं सर्वसत्त्वधातुसंतोषणं सर्वसत्त्वचित्तगहनावभासनं सर्वसत्त्वयथाशयविज्ञापनं सर्वसत्त्वेन्द्रियचक्रपरिवर्तप्रभासनं प्रकाशयति। तं चाहं समन्तनेत्रं धर्मपर्यायमुद्गृह्णामि संधारयामि प्रवर्तयामि पुनिध्यायामि एवंरूपेणोद्गहेण, यस्य लिख्यमानस्य महासमुद्राप्स्कन्धप्रमाणा च मषिः, सुमेरुपर्वतराजमात्रकलमसंचयः क्षयं व्रजेत्। न च तस्य धर्मपर्यायस्य एकैकस्मात्परिवर्तादेकैकस्माद्धर्मद्वाराकैकस्माद्धर्मनयादेकैकस्माद्धर्मयोनेः एकैकस्माद्धर्मपदप्रभेदात् क्षय उपलभ्यते, न ऊनत्वं वा पर्यादानं वा पर्यवस्थानं वा पर्यन्तनिष्ठा वा॥



इति हि कुलपुत्र पूर्णानि द्वादश वर्षाण्यहमिमं समन्तनेत्रं धर्मपर्यायमुद्गृहीतवान्। एवंरूपेणोद्गहेण यदेकदिवसेन असंख्येयन् परिवर्तान् पर्यवाप्नोमि श्रुतोद्गहणधारण्यालोकावभासेन। असंख्येयान् परिवर्तानवतरामि शान्तमुखधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् अवतरामि शान्तमुखधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् समवसरामि अनन्तावर्तधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् विभावयामि प्रतिचिनोमि भूम्यवचारणानुगमधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् पर्याददामि तेजोवतीधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् अभिनिर्हरामि पद्मव्यूहधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् संप्रकाशयामि स्वरविविक्तधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् प्रतिभजामि गगनगर्भधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् प्रविस्तरामि ज्योतिषकूटधारण्यालोकावभासेन। असंख्येयान् परिवर्तान् परिसंस्थापयामि सागरगर्भधारण्यालोकावभासेन। ये च मे केचित् सत्त्वा उपसंक्रामन्ति पूर्वस्यां दिशि देवा वा देवेन्द्रा वा नागा वा नागेन्द्रा वा यक्षा वा यक्षेन्द्रा वा असुरा वा असुरेन्द्रा वा गरुडा वा गरुडेन्द्रा वा महोरगा वा महोरगेन्द्रा वा मनुष्या वा मनुष्येन्द्रा वा ब्रह्माणो वा ब्रह्मेन्द्रा वा, तान् सर्वानत्रैव समन्तनेत्रे तथागतबोधिसत्त्वचर्यावभासे धर्मपर्याये प्रतिष्ठापयामि निवेशयामि। सर्वेषां च तेषामेव समन्तनेत्रं धर्मपर्यायं रोचयामि निरूपयामि परिदीपयामि संवर्णयामि संदर्शयामि विभजामि विस्तारयामि उत्तानीकरोमि विवरामि प्रमुञ्चामि अवभासयामि। यथा पुर्वस्यां दिशि, एवं दक्षिणायाः पश्चिमाया उत्तराया उत्तरपूर्वायाः पुर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध उर्ध्वायाश्च दिशः ये केचित् सत्त्वा उपसंक्रामन्ति-पूर्ववत्॥



एतमहं कुलपुत्र, एकं धर्मपर्यायं जानामि। किं मया शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुं सर्वबोधिसत्त्वचर्यासमुद्रावतीर्णानां परिशुद्धप्रणिध्यनुगमेन, सर्वप्रणिधानसागरावतीर्णानां सर्वकल्पसंवासव्यवच्छेदाय, सर्वसत्त्वसंसारावतीर्णानां यथाशयचर्यानुवर्तनतायैः सर्वजगच्चित्तसागरावतीर्णानामज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानामसङ्गदशबलज्ञानावलोकसंजननतायै, सर्वसत्त्वेन्द्रियसागरावतीर्णानां परिपाचनविनयकालानतिक्रमणतायै, सर्वक्षेत्रसागरावतीर्णानां सर्वक्षेत्रविशुद्धिप्रणिध्यभिनिर्हारेण, सर्वबुद्धसागरावतीर्णानां तथागतपूजोपस्थानप्रणिधिबलेन, सर्वधर्मसागरावतीर्णानां ज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानां प्रतिपत्यनुगमेन, सर्वजगन्मन्त्रसागरावतीर्णानां सर्वमन्त्रेसु धर्मचक्रप्रवर्तनाभिनिर्हरणतायै॥



गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे इतः षष्टियोजनैः सागरतीरं नाम लङ्कापथम्। तत्र सुप्रतिस्थितो नाम भिक्षुः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या॥



अथ खलु सुधनः श्रेष्ठिदारकः सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अवलोक्य सागरमेघस्य भिक्षोरन्तिकात् प्रक्रान्तः॥३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project