Digital Sanskrit Buddhist Canon

यक्षादिसमाश्वासनं द्वादशं प्रकरणम्

Technical Details
यक्षादिसमाश्वासनं द्वादशं प्रकरणम्।



ततोऽवलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टाः। अनेकानि नानावर्णानि नीलपीतलोहितावदातानि माञ्जिष्ठस्फटिकरजतवर्णानि। गत्वा च विश्वभूवस्तथागतस्य पुरतो व्यवस्थितानि। तदा ते देवा नागा यक्षा राक्षसा असुरा गरुडाः किन्नरा महोरगा मनुष्याः संनिपतिताः। अनेकानि बोधिसत्त्वशतानि संनिपतितानि॥



अथ तेषां बोधिसत्त्वेनां मध्ये गगनगञ्जो नाम बोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्–कुतो भगवन् रश्मय आगच्छन्ति ? भगवानाह–एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवने विहरति, तेन तस्मान्निष्क्रामित्वा अमी रश्मयः प्रमुक्ताः। ततोऽमी रश्मय आगच्छन्ति, पुनस्तस्यैव सकाशं गताः॥



अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–केनोपायेन पश्येयमहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह–एष कुलपुत्र इहैवागच्छत्यवलोकितेश्वरः। यदा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवनान्निष्क्रान्तः, तदा जेतवने महाविहारे दिव्यानि पुष्पवर्षाणि पतन्ति, दिव्यानि कल्पवृक्षशतानि परमशोभनीयानि, रत्नालंकारशतसहस्राणि प्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि, काशिकवस्त्रसच्चीवराणि प्रलम्बितानि, लोहितदण्डानि सुवर्णरूप्यपत्राणि अनेकानि पुष्पवृक्षशतानि अनेकानि पुष्करिणीशतानि पुष्पपरिपूर्णानि परमशोभनीयानि प्रादुर्भूतानि॥



अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–नागच्छति भगवन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः ? भगवानाह–एष कुलपुत्र ततो बलेरसुरेन्द्रस्य भवनान्निष्कम्य परमभीषणीयं तमोन्धकारं नाम पृथिवीप्रदेशं यक्षराक्षसानां भूमिं अमनुष्यावचरमपृथिवीप्रदेशं तत्र गच्छति। यत्र कुलपुत्र चन्द्रादित्यौ न ज्ञायेते, तत्र च पृथिवीप्रदेशे वरदो नाम चिन्तामणिरत्न‍राजोऽस्ति। स च तत्रावभासं कुरुते। अनेकानि यक्षराक्षसशतसहस्राणि तस्मिन् द्वीपे प्रतिवसन्ति। यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रतिवसति, तदा दर्शनमात्रात्सर्वयक्षराक्षसाः परमहृष्टतुष्टाः प्रमुदितहृदया भवन्ति। अथ तेऽवलोकितेश्वरस्य पुरस्ताद्धावन्ति, निर्धावन्ति, धावित्वा पादयोः प्रणिपत्य संभाषयन्ति–मा त्वं भगवन् श्रान्तक्लान्तो यस्त्वं चिरकालेन दृष्टः, यस्त्वमस्यां तमोन्धकारायां भुमौ विहरसि। स कथयति–अनेकानि कर्तव्यानि मे। न च मयैकसत्त्वस्यार्थे आत्मभावः परिनिष्पादितः। अपि तु सर्वसत्त्वानामन्तिके मया महाकरुणाचित्ततोत्पादयितव्या॥



अथ ते सर्वे यक्षराक्षसा दिव्यसुवर्णरत्नमयं सिंहासनं प्रसमयन्ति तस्यावलोकितेश्वरस्यार्थे विचित्रैः पुष्पमयैः संछादितम्, यत्र च भगवान्निषद्य धर्मं देशयति। स तैर्यक्षराक्षसैर्नीत्वा तत्र दिव्यसुवर्णरत्नमये सिंहासने विश्रामितः। ततः अवलोकितेश्वरस्तेषां यक्षराक्षसानां धर्म देशयति–शृण्वत्तु भवन्तः। आर्यकारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य चतुष्पादिकामपि गाथां ये श्रोष्यन्ति, श्रुत्वा च धारयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति, योनिशं च मनसि करिष्यन्ति, तेषामिदं पुण्यस्कन्धसंचोदनो भविष्यति। तद्यथापि नाम कुलपुत्राः शक्यं मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्राः शक्यं मया महासमुद्रस्यैकमुदकबिन्दुं गणयितुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्राः द्वादशगङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाद्वादशकल्पानेकस्थाने धारयेयुः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, तेऽपि तथागताः सर्वे सहिता भूत्वा कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुं न शक्नुवन्ति स्म, प्रागेवाहमेकाकी तमोन्धकारभूमौ विहरामि॥



तद्यथापि नाम कुलपुत्राश्चतुर्महाद्वीपेष्वेकैकद्वीपप्रमाणं गृहं विहारं वा कारयेद्दिव्यसुवर्णरत्नमयम्, तत्र गृहे विहारे वा स्तूपसहस्रं कुर्यात्, तेषां चैकदिने धात्वावरोपणं कुर्यात्, यच्च तेषां धात्वावरोपणेषु पूजायां पुण्यस्कन्धम्, ततो बहुतरं कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धम्। तद्यथापि नाम कुलपुत्राः पञ्च महानद्यो सहस्रनदीपरिवारा महासमुद्रमुपसंक्रामन्ति, एवमेव कुलपुत्रा अस्य कारण्डव्यूहमहायानसूत्ररत्न‍राजस्य चतुष्पादिकामपि गाथां शृण्वतां पुण्यौघप्रवाहमुपप्रवहति॥



अथ ते यक्षराक्षसा अवलोकितेश्वरमेतदवोचन्–ये सत्त्वाः कारण्डव्यूहं महायानसूत्ररत्न‍राजं लिखापयिष्यन्ति, तेषां किदृशं पुण्यस्कन्धं भवति? स आह–अप्रमेयं तेषां कुलपुत्राः पुण्यस्कन्धं प्रभवति। ये कारण्डव्यूहं महायानसूत्ररत्न‍राजं लिखापयन्ति, तैश्चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भवन्ति। ते राजानो भवन्ति, चक्रवर्तिनश्चतुर्द्वीपेश्वरा भवन्ति। ते सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां जनयन्ति। ये सततपरिग्रहं कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य नाममनुस्मरन्ति, मुच्यन्ते ते ईदृशात्संसारिकाद्दुःखात्। जातिजराव्याधिमरणशोकपरिदेवनादुःखदौर्मनस्योपायासपरिमुक्त भवन्ति। यत्र यत्रोपपद्यन्ते, तत्र तत्र जातौ जातौ जातिस्मरा भवन्ति। तेषां च कायात् गोशीर्षचन्दनगन्धो वास्यति। नीलोत्पलगन्धिनो मुखा भवन्ति। परिपूर्णगात्राश्च भवन्ति। महानग्ना अपरिमाणपुण्यबलसमन्वागताश्च ते सत्पुरूषा भविष्यन्ति। न कदाचित् यक्षत्वं न राक्षसत्वं न प्रेतत्वं न पिशाचत्वं न पूतनात्वं न कटपूतनात्वं न मनुष्यदारिद्र्यं प्रत्यनुभविष्यन्ति। गङ्गानदीवालुकासमानां बुद्धानां भगवतां सेवापुण्यस्कन्धेन समन्वागता भविष्यन्ति। येऽपि केचित् कुलपुत्राः सत्त्वा अस्मात् कारण्डव्यूहमहायानसूत्ररत्न‍राजादेकाक्षरमपि नामधेयमपि चतुष्पादिकामपि गाथां लिखापयिष्यन्ति, तेषां पञ्चानन्तर्याणि कर्माणि निरवशेषं परिक्षयं गमिष्यन्ति। ते चाभिरूपा भविष्यन्ति। प्रासादिका भविष्यन्ति। दर्शनीयाश्च भविष्यन्ति। बहुजनप्रियमनापदर्शनेन च भविष्यन्ति। तेषां न कश्चित् काये व्याधिः प्रभविष्यति। न चक्षुरोगं न श्रोत्ररोगं न घ्राणरोगं न जिह्वारोगं न कायरोगम्। न हीनाङ्गानि भविष्यन्ति। न प्रत्यन्तिकेषु जनपदेषु प्रत्याजायन्ते। न म्लेच्छेषु न पापकुलेषु नोरभ्रिकेषु न कौक्कुटिकेषु न जत्येषु(?) प्रत्याजायन्ते। सुपरिशुद्धकायाश्च ते सत्पुरुषा भविष्यन्ति॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व एवं तेषां यक्षराक्षसानां तमोन्धकारवासिनां सर्वेषां चानुलोमिकां धर्मदेशनां कृतवान्। ते यक्षराक्षसास्तां धर्मदेशनां शुभां श्रुत्वा केचित् स्रोतआपत्तिफले प्रतिष्ठिताः। केचित् सकृदागामिफले, केचिदनागमिफले, केचिदर्हत्त्वे, केचित् प्रभुत्वबोधौ प्रतिष्ठिताः॥



अतो येनार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रम्य पादयोः प्रणिपत्य एवं कथयन्ति–इहैव भगवन् विहरस्व, मान्यत्र स्थाने क्वचिद्गच्छ, वयं ते उपस्थानपरिचर्यां करिष्यामः, वयं च तवान्तिके अस्मिन्नेव तमोन्धकारभूमौ तवार्थाय दिव्यानि सौवर्णमयानि चंक्रमणानि करिष्यामः। मा भगवन्नन्यत्र प्रदेशं गच्छस्व, वयं तवादर्शनात् कथं तिष्ठामः? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तांश्च यक्षराक्षसानेतदवोचत्–अनेकानि च मया कुलपुत्राः सत्त्वानि बोधिमार्गे नियोजयितव्यानि। अथ ते सर्वे यक्षराक्षसाः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः। ते परस्परमेवमाहुः–गमिष्यति अयमस्माकमवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽन्यतरं पृथिवीप्रदेशम्, तद्वयं धर्मसांकथ्यविप्रहीणा भविष्यामः। किमस्माभिः कर्तव्यम्? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्यास्तमोन्धकाराया भूम्याः संप्रस्थितः। अथ ते तमोन्धकारप्रतिवासिनो यक्षराक्षसास्तस्य भगवतोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति स्म। अथ अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेतदवोचत्–प्रतिनिवर्तयध्वम्। दूरतमेवमाह(?)॥



ते यक्षराक्षसाः पादौ शिरसा वन्दित्वा त्रिःप्रदक्षिणीकृत्य तत्रैव च प्रक्रान्ताः॥



इति यक्षादिसमाश्वासनं नाम द्वादशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project