Digital Sanskrit Buddhist Canon

काञ्चनमयभूम्याद्युपस्थानं दशमं प्रकरणम्

Technical Details
काञ्चनमयभूम्याद्युपस्थानं दशमं प्रकरणम्।



अथे सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्-अतिदुर्लभं भगवन् अस्यावलोकितेश्वरस्य विकुर्वितानि श्रूयन्ते गुणोद्भावनानि च। भगवानाह-अपि च कुलपुत्र तस्माद् वज्रकुक्षेर्यदा निष्क्रान्तः, काञ्चनमय्यां भूम्यां प्रविष्टः, तदा गुणोद्भावनां शृणु। तदपि पूर्वतरप्रवचनम्। तदपि समतिक्रम्य विश्वभूर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन कालेन तेन समयेन अहं सर्वनीवरणविष्कम्भी बोधिसत्त्वः क्षान्तिवादी ऋषिरभूत् गिरिगह्वरान्तरकर्वटस्थानवासी, मनुष्याणामवचरे पृथिवीप्रदेशे व्यहरन्। तदा कालानुकालं मया तस्य विश्वभुवः तथागतस्य सकाशात् गुणोद्भावना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता विविधसर्वसत्त्वपरिपाचनम्। अस्ति सर्वनीवरणविष्कम्भिन् सा काञ्चनमयी नाम भूमिरस्ति यदुत्तरस्यां काञ्चनमय्यां भूम्यां गत्वा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽधोमुखानां सत्त्वानां धर्मं देशयति स्म। आर्याष्टाङ्गिकमार्गं निर्वाणमुपदर्शयति। स ततः काञ्चनमय्या भूम्या निष्क्रमित्वा रूप्यमय्यां भूम्यां प्रविशति। तत्र स पश्यति चतुष्पादिकानि सत्त्वानि पुरुषपुद्गलानि। दृष्ट्वा तेषामवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानामेव धर्मं देशयति-शृण्वन्तु भवन्तः सर्वे पुरुषपुद्गला अभिमुखं धर्मपर्यायं प्रचलमानसुचेतसा निर्वाणिकम्। सत्वरमनुविचिन्तयत॥



अथे ते सर्वे पुरुषा अवलोकितेश्वरस्य पुरतः स्थित्वा एतदवोचत्- आश्वासय त्वम्। अन्धभूतानां सत्त्वानां मार्गमुपदर्शको भव। अत्राणानां सत्त्वानां त्राणं भव। अशरणानां सत्त्वानां शरणं परायणं मातापितृभूतो भव। तमोभिभूतानां सत्त्वानां प्रनष्टमार्गाणां दीपभूतो भव। सचेतक, महाकरुणया मोक्षमार्गस्योपदर्शक, सुखितास्ते सत्त्वा ये तव सततं परिग्रहं नाममनुस्मरन्ति, उदीरयन्ति च। इदं च समागाढतरं दुःखं न कदाचित्प्रत्यनुभवन्ति, मुञ्चन्ति ते हीदृशं दुःखं यावद्यादृशं वयं प्रत्यनुभवामः॥



अथ स तेषां सत्त्वानां कारण्डव्यूहं नम महायनसूत्ररत्न‍राजं कर्णपुटे निश्चारयति स्म। ते च सत्त्वा अमुं धर्मपर्यायं श्रुत्वा अन्योन्यविहितश्रोतृकर्णपुटा निश्चरन्ति स्म। तदपि ते पुरुषाः श्रुत्वा अवैवर्तिकभूमिनिष्पादिताः परमसुखसमर्पिताः संस्कृताः॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्या रूपमय्या निष्क्रम्यान्यतरायां भूम्यां प्रविशति सत्त्वपरिपाकाय महाकरुणासंपीडितहृदयोऽयोमय्यां भूम्यां यत्र स राजा बलिरसुरेन्द्रो बद्धः। स तस्यैव सकाशमुपसंक्रान्तः। उपसंक्रम्य च राज्ञो बलेरसुरेन्द्रस्य दूरतश्चक्षुर्दर्शनं याति स्म सुवर्णबिम्बमिव रश्मिभिः प्रमुञ्चमानैर्नानावर्णैः॥



इति काञ्चनमयभूम्याद्युपस्थानं नाम दशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project