Digital Sanskrit Buddhist Canon

असुराश्वासनं नवमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Asurāśvāsanaṁ navamaṁ prakaraṇam
असुराश्वासनं नवमं प्रकरणम्।



अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-परमाश्चर्याद्भुतप्राप्तोऽहं भगवन्। न च मे कदाचिदस्माभिरीदृशो विषयो दृष्टो वा श्रुतो वा, यादृशोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विषयः। तादृशस्तथागतानामपि न संविद्यते॥



भगवानाह- अस्ति कुलपुत्र अस्मिन्नेव जम्बुद्वीपे वज्रकुक्षिर्नाम गुहा। अत्र अनेकान्यसुरकोटीनियुतशतसहस्राणि प्रतिवसन्ति स्म। तत्र कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वोऽसुररूपेणासुराणां धर्मं देशयति। इमं च कारण्डव्यूहमहायानसूत्ररत्न‍राजमुद्देशयति। धर्मश्रवणायागतानसुरानेवं च कथयति स्म-असुराणां धर्मं शृण्वन्तु भवन्तः। ये चान्येऽसुरपर्षदस्ते मैत्रचित्ताः शान्तचित्ताः दयाचित्ताः सत्त्वानामन्तिके हितसुखचित्ता भावं समन्वाहृत्य इमं कारण्डव्यूहं धर्मपर्यायं श्रोतव्यम्॥



अथ तेऽसुराः कृतकरपुटा अवलोकितेश्वरस्यान्तिकमिमं धर्मपर्यायं शृण्वन्ति स्म। ते सुखिता लोके ये ईदृशं चिन्तामणिसदृशं कारण्डव्यूहं महायानसूत्ररत्न‍राजमभिमुखीकुर्वन्ति, शृण्वन्ति, श्रुत्वा चाभिश्रद्दधास्यन्ति, प्रतीष्यन्ति, लिखिष्यन्ति, लिखापयिष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पूजयिष्यन्ति, चिन्तयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, भावयिष्यन्ति, परमप्रीत्या गौरवेणाध्याशयेन च नमस्कुर्वन्ति। तेषां च पञ्चानन्तर्याणि कर्माणि क्षपयन्ति, क्षपयित्वा परिशुद्धकाया भविष्यन्ति, जातिस्मराश्च। मरणकाले द्वादश तथागता उपसंक्रमिष्यन्ति, ते च सर्वे तथागता आश्वासयिष्यन्ति-मा भैषीः कुलपुत्र, त्वया कारण्डव्यूहं महायानसूत्ररत्न‍राजं श्रुतम्। विविधास्तेऽर्थमार्गाः सज्जीकृताः सुखावती गमनाय च। तत्र सुखावत्यां लोकधातौ तवार्थे विचित्रं च ते छत्रं सिहासनं सज्जीकृतम्, दिव्यमौलीकुण्डलस्रग्दाममीदृशस्य निमित्तम्, मरणकालसमयपरिपन्थित एव सुखावतीमनुगच्छति। एवं स रत्नपाणे प्रतिविशिष्टतरं पुण्यफलं दर्शयन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो निर्वाणिकीं भूमिमुपदर्शयति स्म। असुराणां निर्वाणपथमुपदर्शितं सर्वपापमतिनिवारणार्थमनुत्तरे बोधिमार्गे प्रतिष्ठापनार्थम्॥



अथे रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसाभिवन्द्य तत्रैव प्रक्रान्तः॥



इति असुराश्वासनं नाम नवमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project