Digital Sanskrit Buddhist Canon

अवलोकितेश्वरपुण्यस्कन्धकथनं सप्तमं प्रकरणम्

Technical Details
अवलोकितेश्वरपुण्यस्कन्धकथनं सप्तमं प्रकरणम्।



अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत्–परिपृच्छेयमहं भगवन् प्रश्नव्याहरणमुद्देशम्–किदृशोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यसंभारः ? भगवानाह–शृणु कुलपुत्र। निर्देशयामि अस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणात् पुण्यसंभारस्य प्रमाणम्। तद्यथा–अपि नाम कुलपुत्र केचिदेव सत्त्वा गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाः दिव्यकल्पपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजघण्टापताकाभिर्विविधाभिः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थिता भवन्ति, यश्च तेषां तथागतानां पुण्यस्कन्धः प्रभवति, अवलोकितेश्वरस्यैकवालाग्रे स पुण्यस्कन्धः। तद्यथा–अपि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण चतुर्महाद्वीपेषु रात्रिंदिवमविच्छिन्नं देवो वर्षति, तच्छक्यमेकैकं बिन्दुं गणयितुम्। न तु कुलपुत्र अवलोकितेश्वरस्य शक्यं मया पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र महासमुद्रश्चतुरशीतियोजनसहस्राणि गाम्भीर्येण, अप्रमेयो वैपुल्येन, वडवामुखपर्यन्तम्, तन्मया शक्यमेकैकं बिन्दुं गणयितुम्। न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु ये केचिच्चतुष्पादा सिंहव्याघ्रऋक्षतरक्षुमृगोष्ट्रशृगालादयो गोगर्दभाः पशवः हस्तिनोऽश्वा महिषा मार्जारादयः, एतेषु चतुष्पदेषु शक्यते मयैकैकं रोमं गणयितुम्। न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र कश्चिदेव कुलपुत्रो वा कुलदुहिता वा परमाणुरजोपमास्तथागता अर्हतः सम्यक्संबुद्धा दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेद्धस्तशतसहस्रप्रमाणम्, कारयित्वा चैकदिने ध्यानावरोपणं कुर्यात्, तच्छक्यं मया कुलपुत्र तेषां सौवर्णरजतमयानां तथागतानां करणेषु पुण्यस्कन्धं गणयितुम्। न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकं पत्राणि गणयितुम्, न त्ववलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु स्त्रीपुरुषदारकदारिकास्ते सर्वे स्रोतापत्तिफले सकृदागामिफलेऽनागामिफलेऽर्हत्त्वे प्रत्येकबोधौ नियोजयेयम्। यश्चैतेषु पुण्यस्कन्धः, अवलोकितेश्वरस्य पूर्ववद्बालग्रे स पुण्यस्कन्धः॥



इत्यवलोकितेश्वरपुण्यस्कन्धकथनं नाम सप्तमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project