Digital Sanskrit Buddhist Canon

विविधरश्मिनिःसरणं पञ्चमं प्रकरणम्

Technical Details
विविधरश्मिनिःसरणं पञ्चमं प्रकरणम्।



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कीदृशी भगवंस्त्वया गुणोद्भावना अवलोकितेश्वरस्य श्रुता? भगवानाह–यदा सर्वदेवा नागा यक्षा गन्धर्वा राक्षसा असुरा मरुतो गरूडा गन्धर्वाः किन्नरा महोरगा मनुष्याः संनिपतिताः संनिषण्णा अभूवन्, तदा भगवान्। महासंनिपातं दृष्ट्वा तासां पर्षदां मध्ये धर्मसांकथ्यं कर्तुमारब्धः। तदा भगवतो मुखद्वारान्नानावर्णा अनेकरश्मयो निःसरन्ति स्म। तद्यथा–नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णनानाविधरश्मयो निश्चरन्ति स्म। निश्चरित्वा च दशदिग्विदिक्षु सर्वान् लोकान् धातुनवभास्य पुनरेवागत्य तं शिखिनं भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो मुखद्वारे प्रविष्टाः॥



इति विविधरश्मिनिःसरणं नाम पञ्चमं प्रकरणम्।

समाप्तोऽयं सर्वनीवरणाविष्कम्भिसंवादो नाम प्रथमः काण्डः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project