Digital Sanskrit Buddhist Canon

चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Candrādyutpattirnāma caturthaṁ prakaraṇam
चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम्।



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–भगवन, अद्यापि नागच्छत्यवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः ? भगवानाह – अनेकानि कुलपुत्र सत्त्वकोटिनियुतशतसहस्राणि परिपाचयति। दिने दिने स आगत्य परिपाचयति। नास्ति कुलपुत्र ईदृशं प्रतिभानं तथागतानामपि यादृशमार्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य॥



अथ सर्वनीवरणविष्कम्भी आह–केन प्रकारेण भगवन् ? भगवानाह–भूतपूर्वं कुलपुत्र विपश्यी नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन कालेन तेन समयेनाहं सर्वनीवरणनिष्कम्भिन् सुगन्धमुखो नाम वणिक्पुत्रोऽभूवम्। तदा मे श्रुता विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्– कीदृशी त्वया भगवन् गुणोद्भावना श्रुता ? एताः सर्वा प्रवदताम्। विज्ञराज भगवन् मे प्रबोधय, यादृशी त्वया भगवन् गुणोद्भावना आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता॥



भगवानाह– चक्षुषोश्चन्द्रादित्यावुत्पन्नौ, ललाटान्महेश्वरः, स्कन्धेभ्यो ब्रह्मादयः, हृदयान्नारायणः, दंष्ट्राभ्यां सरस्वती, मुखतो वायवो जाताः, धरणी पादाभ्याम्, वरुणश्चोदरात्। यदैते देवा जाता आर्यावलोकितेश्वरस्य कायात्, अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो महेश्वरं देवपुत्रमेतदवोचत्–भविष्यसि त्वं महेश्वरः कलियुगे प्रतिपन्ने। कष्टसत्त्वधातुसमुत्पन्न आदिदेव आख्यायसे स्रष्टारं कर्तारम्, ते सर्वसत्त्वा बोधिमार्गेण विप्रहीणा भविष्यन्ति, य ईदृशपृथग्जनेषु सत्त्वेषु सांकथ्यं कुर्वन्ति॥



आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका।

आलयः सर्वभूतानां लीलया लिङ्गमुच्यते॥ १॥



ईदृशं मया कुलपुत्र विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना श्रुता॥



तदप्यतिक्रम्य शिखी नाम तथागतोऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन कालेन तेन समयेनाहं सर्वनीवरणविष्कम्भिन् दानशूरो नाम बोधिसत्त्वो महासत्त्वोऽभूवम्। तस्य शिखिनस्तथागतस्य सकाशादवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्वस्य गुणोद्भावना श्रुता॥



इति चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project