Digital Sanskrit Buddhist Canon

आर्यसागरनागराजपरिपृच्छा नाम महायानसूत्रम्

Technical Details
चतुर्धर्मोद्दानसूत्रम्

(ख) संस्कृते पुनरुद्धृतम्



भारतीयभाषायाम्-

आर्यसागरनागराजपरिपृच्छा नाम महायानसूत्रम्।

भोटभाषायाम्-फग्-पा-क्लु-यि-ग्यल-पो-ग्य-छोस्-युस्पा-येस्-

जा-वा-थेक्-पा-छेन्-पो-म्दो।



नमः सर्वबुद्धबोधिसत्त्वेभ्यः।



एवं मया श्रुतम्।एकस्मिन् समये भगवान् बुद्धः सागरनागराजावसथे विहरति स्म सार्द्धं सार्धद्वादशशतभिक्षूणां महासंघेन बहुभिश्च बोधिसत्त्वमहासत्त्वैः। तस्मिन् समये भगवान् बुद्धः सागरनागराजमवोचत्-नागाधिपते, चतुर्णां धर्मोद्दानानामभिधाने क्रियमाणे तदभिधानेन चतुरशीतिधर्मस्कन्धसहस्राणामभिधानं कृतं भवति। कतमानि चत्वारि ? तथाहि-



सर्वेषां संस्काराणाम् अनित्यतायां बोधिसत्त्वानं महासत्त्वानां निर्दिष्टमक्षयज्ञानं प्रवर्तते।

सर्वेषां सास्रवाणां धर्माणां दुःखतायां बोधिसत्त्वानं महासत्त्वानां र्निर्दिष्टमक्षयज्ञानं प्रवर्तते।

सर्वेषां धर्माणाम् अनात्मतायां बोधिसत्त्वानां महासत्त्वानां निर्दिष्टमक्षयज्ञानं प्रवर्तते।

निर्वाणस्य शान्ततायां बोधिसत्त्वैर्महासत्त्वैर्निर्दिष्टमक्षयज्ञानं प्रवर्तते।



नागाधिपते, एतेषां चतुर्णां धर्मोद्दानानामभिधाने क्रियमाणे तदभिधानेन चतुरशीतिधर्मस्कन्धसहस्राणामभिधानं कृतं भवति।



इदमवोचत् भगवान्। आत्तमनसो भिक्षवः सर्वे च बोधिसत्त्वा भगवतो भाषितमभ्यनन्दन्निति।



॥आर्यसागरनागराजपरिपृच्छानाम महायानसूत्रं समाप्तम्॥



भारतीयोपाध्यायेन सुरेन्द्रबोधिना महालोचावा-वन्देज्ञानसेनेन चेदमनूदितं व्यवस्थापितं च।



॥भवतु सर्वमङ्गलम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project