Digital Sanskrit Buddhist Canon

निदानपरिवर्तः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nidānaparivartaḥ prathamaḥ
आर्यराष्ट्रपालपरिपृच्छा नाम महायानसूत्र

नमः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यः॥

निदानपरिवर्तः प्रथमः।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महताभिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः पञ्चभिश्च बोधिसत्त्वसहस्रैः, सर्वैरसङ्गप्रतिभानैः क्षान्तिप्रतिलब्धैर्निहतमारप्रत्यर्थिकैः सर्वबुद्धधर्मात्यासन्नीभूतैरेकहातिप्रतिबद्धैर्धरणीप्रतिलब्धैः समाधिप्रतिलब्धैरनन्तप्रतिभानप्रतिलब्धैरसङ्गवैशारद्यप्रतिरृद्धिवशितापरमपारमिप्राप्तैर्यावत्सर्वगुणवर्णपर्यादत्तैः। तद्यथा-समन्तभद्रेण च नाम बोधिसत्त्वेन महासत्त्वेन, समन्तनेत्रेण च बोधिसत्त्वेन महासत्त्वेन, समन्तावलोकितेन च समन्तरश्मिना च समन्तप्रभेण च उत्तरमतिना च वर्धमानमतिना च अनन्तमतिना च विपुलमतिना च अक्षयमतिना च धरणीधरेण च जगतींधरेण च जयमतिना च विशेषमतिना च धारणीश्वरराजेन च बोधिसत्त्वेन महासत्त्वेन। मञ्जुश्रीप्रमुखैश्च षष्टिभिरनुपमचित्तैः भद्रपालपूर्वंगमैश्च षोडशभिःसत्पुरुषैः ब्रम्हणा च सहांपतिना शक्रेण च देवानामिन्द्रेण चतुर्भिश्च लोकपालैः सुसीमेन च देवपुत्रेण सुस्थितमतिना च देवपुत्रेण सर्वैश्च देवेन्द्रैर्नागेन्दैः किन्नरेन्द्रैर्गन्धर्वेन्द्रैर्यक्षेन्द्रैरसुरेन्द्रैर्गरुडेन्द्रैः सर्वैरनेकजातिशतसहस्रपरिवारैस्तत्रैव पर्षदि संनिपतितैः संनिषण्णैः॥

अथ खलु भगवान् श्रीगर्भसिंहासने संनिषण्णो मेरुरिवाभ्युद्गतः सर्वपर्षन्मण्डलात्, सूर्य इव सर्वलोकमवभासयन्, चन्द्र इव सर्वजगदवभासयन्, ब्रम्हेव प्रशान्तविहारी, शक्र इव दुरासदकायः, चक्रवर्तीव सप्तबोध्यङ्गरत्नसमन्वागतः, सिंह इवानात्मशून्यसर्वधर्मवादी, अग्निस्कन्ध इव सर्वजगदवभासकरः, सर्वदेवप्रभासमणिरत्नसमुच्चयमणिराजवद्देदीप्यमानः, सर्वं त्रिसाहस्रमहासाहस्रं लोकधातुमाभया स्फुरित्वा ब्रम्हस्वररुतरवितेन सर्वसत्त्वविज्ञापनानुगतेन घोषेणाशुविनिश्चितार्थः सर्वधर्मपरमपारमिप्राप्तः पर्षद्गतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्, स्वर्थंसुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रम्हचर्यं संप्रकाशयति स्म॥

अथ खलु प्रामोद्यराजो नाम बोधिसत्त्वो महासत्त्वस्तस्यामेव पर्षदि संनिपतितोऽभूत् संनिषण्णः। स भगवन्तं सिंहासनस्थं सूर्यसहस्रातिरेकया प्रभया सर्वपर्षन्मण्डलं जिह्मीकुर्वन्तमतीव विरोचमानं दृष्ट्वा हृष्टतुष्टः प्रसादावर्जिरहृदय उत्थायासनात्कृतकरपुटो भगवन्तमाभिर्गाथाभिरभ्यष्टावीत्-



अभिभूय जिनो जगदेतान् देवगणासुरकिन्नरनागान्।

श्रावकबुद्धसुतान् मेरुतेजा भासति हेमगिरिः स यथैव॥ १॥

मेरुरिवामरसंघनिवासः सागरमध्यगतोऽपि विराजन्।

कृपसागरमध्यगतोऽसौ मुञ्चति रश्मिसहस्रशतानि॥ २॥

ब्रम्हविहारगतः स च ब्रम्ह ब्रम्हपुरस्थ इवाभिरराज।

ध्यानविमोक्षसमाधिविहारी भासति सर्वजगे वरसत्त्वः॥ ३॥

शक्र इव त्रिदशेषु विराजन् देवतमध्यगतः पृथुतेजाः।

भासति सर्वजगे मुनिराजा लक्षणचित्रित ज्ञानगुणाढ्यः॥ ४॥

द्वीपचतुर्नृपतिर्ह्यवभासी शोभति लोकमिमं त्वनुभासन्।

आर्यपथे च नेयोजयमानः शोभति एष कृपाशयबुद्धिः॥ ५॥

अग्निमणिप्रभध्यामकरोऽसौ भासति खे प्रतियन्निव सूर्यः।

सूर्यसहस्रविशिष्टप्रभासो भासति बुद्धरविर्जगतीह॥ ६॥

चन्द्र इवामल भाति निशीथे भासति सर्वजगेषु विशुद्धः।

पूर्णशशाङ्कनिभं जिनवक्त्रं सर्वप्रभामभिभूय विभाति॥ ७॥

पर्वतमूर्धनि अग्निर्यथैव रात्रिप्रशान्त प्रभासति सत्त्वान्।

मोहतमो निखितं विनिहत्य भासति ज्ञानप्रभासु महर्षिः॥ ८॥

पर्वतकन्दरधीरनिनादी त्रासयतीह मृगान् भुवि सिंहः।

शून्यनिरात्मनिनादि नरेन्द्रः भासयते हि तथापरतीर्थ्यान्॥ ९॥

सन्मणिराज इवोज्ज्वलतेजा भासति सर्वमणीनभिभूय।

काञ्चनवर्णनिभो जिनकायो भासति सर्वजगत्यभिभूय॥ १०॥

न च तेऽस्ति समः क्वचि लोके उत्तरि नापि च विद्यति सत्त्वः।

पुण्यतु ज्ञानतु वीर्यौपायैः सर्वगुणैश्च समो न तवास्ति॥ ११॥

भासयते हि जगन्नरवीरो दृष्टु मया गुणसागर नाथः।

गौरवजातविवर्धितप्रीतिः पादतले पतितोऽस्मि जिनाय॥ १२॥

स्तुत्य मया रूपसागरबुद्धिं सर्वगुणाकर लोकप्रदीपम्।

पुण्यमुपार्जितमत्र तेन सर्वजगत्स्पृशतां वरबोधिम्॥ १३॥



अथ खलु प्रामोद्यराजो बोधिसत्त्वो महासत्त्वो भगवन्तमाभिर्गाथाभिरभिष्टुत्य कृताञ्जलिपुटोऽनिमिषाभ्यां नयनाभ्यां तथागतकायमवलोकयन् धर्मधातुमेव विचारयमाणो गम्भीरं दुरवगाहं दुर्दृशं दुरनुबोधमतर्क्यं तर्कापगतं शान्तं सूक्ष्मं चानुप्रविशन्, अचिन्त्यं बुद्धगोचरमनुविचारयमाणः, सर्वधर्मप्रसृतं तथागतज्ञानमनुचिन्तयमानः, असमसमं बुद्धविषयं संपश्यमानः, अचिन्त्यं तथागतोपायविषयगोचरमवतरन्, दह्र्मधातुनयस्वभावावतारतां च बुद्धानां भगवतामवकल्पयमानः, अनालयगगनगोचरा हि बुद्धा भगवन्त इति संपश्यन्, भूतकोट्यकोटिस्वभावावतारं सर्वधर्माणामित्यधिमुच्यमानः, अनावरणं च बुद्धविमोक्षमभिलषमाणः, ध्रुवं शिवं शाश्वतं च बुद्धानां भगवतां कायमित्यवतरमाणः, सर्वबुद्धक्षेत्रप्रसरानुगतां सर्वसत्त्वाभिमुखता च तथागतकायस्यावतरन्, अपरान्तकल्पकोटिभिरपि नास्ति बुद्धानां भगवतां गुणपर्यन्तं इत्यनुस्मरन्, प्रामोद्यराजो बोधिसत्त्वो महासत्त्वस्तूष्णीव्यवस्थितोऽभूत् धर्मधातुमेव विचारयमाणः॥

तेन खलु पुनः समयेन आयुष्मान् राष्ट्रपालः श्रावस्त्यां त्रैमास्यं वर्षमुपगतः। त्रैमास्यात्ययेन कृतचीवरो निष्ठितचीवरः स पात्रचीवरमादाय भिक्षुसंघेन सार्धं नवकैरादिकर्मिकैरचिरप्रव्रजितैरनुपूर्वेण जनपदचारिकां चरन् येन राजगृहं महानगरं येन च गृध्रकूटः पर्वतराजस्तेनोपसंक्रान्तः॥

अथ खल्वायुष्मान् राष्ट्रपालो येन भगवांस्तेनोपसंक्रामत्। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणिकृत्यैकान्तेऽतिष्ठत्। एकान्तस्थितश्चायुष्मान् राष्ट्रपालः कृताञ्जलिपुटो भगवन्तमाभिर्गाथाभिरभ्यष्टवीत्-

वन्दमो नरवरं प्रभंकरं वन्दमो गगनतुल्यमानसम्॥ १४॥

कीर्तयन्ति तव वर्ण नायकाः क्षेत्रकोटिप्रसरात्समन्ततः।

श्रुत्व बुद्धसुत एन्ति हर्षिताः पूजनाय गुणसागरं मुनिम्॥ १५॥

पूज कृत्व सुगतानुरूपतो धर्म श्रुत्व विरजं महामुनेः।

यान्ति क्षेत्र स्वक हृष्टमानसा वर्णमाल तव तां प्रभाषतः॥ १६॥

कल्पकोटिनयुतानचिन्तियान् सत्त्वकारणमचारचारिकाम्।

नो च अस्ति तव खिन्न मानसं एषमाण वरबोधिमुत्तमाम्॥ १७॥

दानशीलचरितोऽसि नायका क्षान्तिवीर्य अपि ध्यानशिक्षितः।

प्रज्ञुपाय सद पारमिं गता तेन वन्दसि महाविनायकम्॥ १८॥

ऋद्धिपादवरभिज्ञकोविदम् इन्द्रियैर्बलविमोक्षशिक्षितम्।

सर्वसत्त्वचरिते गतिं गतं वन्दमो असमज्ञानपारगम्॥ १९॥

चित्तधार जगतः प्रजानसे या चरिर्यथ च कर्मसंभवः।

येन वा नयमुखेन मुच्यते तं च वेत्सि भगवन्नरोत्तमा॥ २०॥

रागद्वेष जहि मोहसंभवं येन सत्त्व त्रिरपायगामिनः।

येन यान्ति सुगतिं च कर्मणा जानसे सुकृतदुष्कृतं जगे॥ २१॥

ये जगद्धितकरा अतीतकाः सांप्रतं च नरदेवपूजिताः।

ये अनागत गुणाग्रपारगास्तां च सर्वसुगतान् प्रजानसे॥ २२॥

क्षेत्रशुद्धिरपि चापि संभवो बोधिसत्त्वगणाः श्रावकास्तथा।

यावदायुरथ वा महर्षिणां सर्वथा ह्यखिलतो विजानसि॥ २३॥

निर्वृतौ च स्थिति धर्म यादृशी यादृशी च जिनधातुपूजना।

धर्मकोशधर तत्र यादृशा तान् प्रजानसि नरोत्तमाखिलान्॥ २४॥

ज्ञान दशबलस्य विदितं ह्यनावृतं वर्तते सततमध्वसु त्रिषु।

सर्वधर्मनययुक्तमानसा ज्ञानसागर जिना नमोऽस्तु ते॥ २५॥

नास्ति ते समसमः कुतोत्तरो लक्षणैश्च प्रतिमण्डिताश्रयः।

तारकाभिरिव खं विचित्रितं वन्दमो मुनिवरं नरोत्तमम्॥ २६॥

रूपमप्यसमकं मनोरमं जिम्ह कुर्वति जगत्सदेवकम्।

ब्रम्ह शक्र अकनिष्ठदेवता अग्रतस्तव न ते विराजिते॥ २७॥

काञ्चनाचल इवासि निर्मलः स्निग्ध केश मृदु दक्षिणोत्थिता।

मेरुराज इव उष्णिषोद्गतो भासते विपुलपुण्यसंभवः॥ २८॥

रश्मिकोटिनियुतान् प्रमुञ्चतो राजतोर्ण तव च भ्रुवोस्तटे।

नेत्र उत्पलनिभं मनोरमं येन वीक्ष्यसि जगत्कृपाशयः॥ २९॥

पूर्णचन्द्र इव निर्मले नभे भासते तव मुखं विनायक।

तृप्यते न हि निरीक्षको जनो वन्दमो सुवदनं नरोत्तमम्॥ ३०॥

हंसबर्हिमृगराजविक्रमा मत्तवारणविलम्बगामिनः।

कम्पयन् व्रजसि मेदिनीतलं वन्दमो दशबलं दृढव्रतम्॥ ३१॥

दीर्घवृत्तरुचिरा कराङ्गुली शुद्धताम्र नखजालचित्रितम्।

उत्थितः स्पृशति जानुमण्डले वन्दमो कनकवर्णसंनिभम्॥ ३२॥

चित्रयन् व्रजसि मिदिनीतलं चक्रजालचितपादविक्रमैः।

पादरश्मिपरिपाचिताश्च्युता देवलोकमुपयान्ति मानवाः॥ ३३॥

धर्मराज धनसप्तदायका धर्मदानपति दान्तमानसा।

शासमानु जग धर्मचर्यया धर्मस्वामि प्रणमामि नायकम्॥ ३४॥

मैत्र वर्म स्मृति खड्गमुत्तमं शील चापमिषु प्रज्ञुपायतः।

येन क्लेशरिपवो विघातितां जातिमृत्युभवतृष्णवर्धकाः॥ ३५॥

तीर्ण तारयसि सत्त्वकोटियो मुक्त मोचयसि बन्धनाज्जगत्।

मार्ग दर्शयसि क्षेम निर्ज्वरं येन यान्ति सुगताः शिवं पदम्॥ ३६॥

यत्र जातिमरणा न विद्यते विप्रयोग न च दुःखसंभवः।

तं शिवं पदवरं ह्यसंस्कृतं देशितासि करुणामुपेत्य हि॥ ३७॥

स्तुत्य लोकप्रवरं महामुनिं सर्वधर्मवशिपारगं जिनम्।

पुण्यमत्र यदुपार्जितं मया तेन बोधिमभिबुध्यतां जगत्॥ ३८॥

अथ खल्वायुष्मान् राष्ट्रपालो भगवन्तमाभिर्गाथाभिरभिष्टुत्य कृताञ्जलिपुट उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवेचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात्पृष्टः प्रश्नव्याकरणाय। एवमुक्ते भगवानायुष्मान्तं राष्ट्रपालमेतदवोचत्-पृच्छ त्वं राष्ट्रपाल यद्यदेवाकाङ्क्षसि। अहं ते तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि॥

एवमुक्ते आयुष्मान् राष्ट्रपालो भगवन्तमेतदवोचत्-कतमैर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः सत्त्वधर्मगुणविशेषतामनुप्राप्नोति, अपराधीनज्ञानतां च प्रतिलभते, आशुप्रज्ञतां चानुप्राप्नोति, विनिश्चयप्रतिभानतां च प्रतिलभते, आलोकतां च प्रतिलभते, सर्वज्ञताप्रवेशं सत्त्वपरिपाकं विमतिप्रहाणं काङ्क्षप्रहाणं सर्वज्ञताविनिश्चयं प्रतिलभते, सत्त्वावतारकौशल्यं यथा वादितथाकारितां च भूतसंधायवचनं सत्त्वकौशल्यतां च, बुद्धानुस्मृतिप्रतिलाभं सर्वप्रश्नपरिपृच्छनतां च, सर्वधर्मधारणतां च क्षिप्रं च सर्वज्ञता मनुप्राप्नोति ? अथ खल्वायुष्मान् राष्ट्रपालस्तस्यां वेलायामिमा गाथा अभाषत-

बोधिसत्त्वचर्या सुनिश्चिता तत्त्वतो भवति योऽस्य संभवः।

ज्ञागसागरकथाविनिश्चयं भाषतां मम जिनो नरोत्तमा॥ ३९॥

उत्तप्तचामिकरविग्रहोपमा अग्रसत्त्ववर पुण्यसंचया।

त्वं हि त्राण लयनं परायण अग्रचर्यममलं वदाद्य मे॥ ४०॥

ज्ञानलोतु(पु ?) भवते क्षयः कथं धारणी अमृत बोधि उद्गतम्।

प्रज्ञासागर कथं विशुध्यते येन छिन्दति जनेऽस्य संशयम्॥ ४१॥

संसरन् सुबहुकल्पकोटियः खेदबुद्धि न च जातु जायते।

वीक्ष्य लोकमपि दुःखपीडितं तेषमर्थकुशलं निषेवते॥ ४२॥

क्षेत्रशुद्धिपरिवारसंपदं आयुरग्र्यमथ क्षेत्रसंपदम्।

सत्त्वकारणकथा निरुत्तरा बोधिचर्यममलां प्रकाशय॥ ४३॥

मारभञ्जन कुदृष्टिशोधना तृष्णशोषण विमुक्तिस्पर्शना।

धर्मनेत्रि रयिन प्रमुह्यत सत्त्वरत्न निगदोत्तमां चरिम्॥ ४४॥

रूप भोग प्रतिभानसंपदं स्निग्धवाक्पर्षदश्च तोषणी।

मेघवत्सुगत तर्पयञ्जगत् देशयस्यपि च बुद्धगोचरम्॥ ४५॥

मञ्जुघोष कलविङ्कुसुस्वरा कुमतिप्रणाशना।

धर्मकाम पर्षत्समागता तर्पयामृतरसेन तां प्रभो॥ ४६॥

अस्ति छन्द प्रवराग्रबोधये धर्मछन्द विहितो न युज्यते।

देशनासमय एष नायका काल एष वररत्नश्रावणे॥ ४७॥

बोधिकाङ्क्षु मम विद्यते मुने आशयं मम जिन प्रजानसे।

प्रार्थयामि न जिनस्य हेठनां साधु उत्तमचरिं प्रकाशय॥ ४८॥

एवमुक्ते भगवानायुष्मान्तं राष्ट्रपालमेतदवोचत्-साधु साधु राष्ट्रपाल। साधु साधु पुनस्त्वं राष्ट्रपाल यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे।बहुजनहिताय त्वं राष्ट्रपाल प्रतिपन्नो बहुजनसुखाय अर्थाय हिताय देवानां च मनुष्याणां च, एतर्हि चानागतानां च बोधिसत्त्वानां महासत्त्वानां संपरिग्रहाय। तेन हि राष्ट्रपाल शॄणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्ये। साधु भगवन्नित्यायुष्मान् राष्ट्रपालो भगवतः प्रत्यश्रोषीत्। भगवांस्तस्यैतदवोचत्-

चतुर्भी राष्ट्रपाल धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व एतां परिशुद्धिं प्रतिलभते। कतमैश्चतुर्भिः ? यदुत आरागाध्याशयप्रतिपत्त्या सर्वसत्त्वसमचित्ततया शून्यताभावनतया यथावादितथाकारितया। एभी राष्ट्रपाल चतिर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व एतां परिशुद्धिं प्रतिलभते। इयमत्र धर्मता॥

तत्रेदमुच्यते -

आशयेन हि सदाभियुक्तका बोधिमार्ग अविवर्त्यमानसाः।

नो च शाठ्य न खिलं न मायता तेषु विद्यति अनन्तज्ञानिनाम्॥ ४९॥

दृष्ट्व सत्त्व दुखिताननायकान् जातिव्याधिजरमृत्युमर्दितान्।

तारणार्थ भवतो * * जगत् धर्मनाव समुदानयन्ति ते॥ ५०॥

सर्वसत्त्वसमचित्त सूरता एकपुत्रकवदीक्षते जगत्।

सर्वमेतदपि मोचयाम्यहम् एवमाशय तथाग्रपुद्गलाः॥ ५१॥

शून्यतासु सततं गतिं गत नैव चात्म न च सत्त्व विद्यते।

स्वप्नमायसदृशं हि संस्कृतम् अत्र बाल अबुधो विमोहिता॥ ५२॥

वाचया यथ वदन्ति ते बुधास्तत्र चैव प्रतिपत्तिया स्थिताः।

दान्त शान्त सद दोषवर्जिता बोधिसत्त्वमार्गनिरता जिनात्मजाः॥ ५३॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानामाश्वासप्रतिलाभा धर्माः। कतमे चत्वारः ? धारणी प्रतिलाभः कल्याणमित्रप्रतिलाभः गम्भीरधर्मक्षान्तिप्रतिलाभः परिशुद्धशीलसमाचारता। इमे राष्ट्रपाल चत्वारि बोधिसत्त्वानामाश्वासप्रतिलाभा धर्माः। इयमत्र धर्मता॥

तत्रेदमुच्यते -

लाभिनो भवन्ति धारणीषु ते सदा महायशा

धारयन्ति येन धर्म श्रेष्ठ सर्वबुद्धभाषितम्।

न च प्रणाशयन्ति जातु भूयु वर्धते रति

असङ्गमेव तेषु ज्ञान सर्वधर्मपारगाः॥ ५४॥

कल्याणमित्रमाप्नुवन्ति बोधि अङ्गवर्धका

देशयन्ति श्रेष्ठ मार्ग तस्य येन यान्ति नायकाः।

न क्वचिच्च ते भवन्ति पापमित्रसेवका

दूरतो विवर्जयन्ति तेऽग्निवच्च दाहनात्मकान्॥ ५५॥

गम्भीर धर्म श्रुत्व धीर शून्यतोपसंहितं

न चात्मसत्त्वजीवदृष्टि तेषु भोन्ति सर्वशः।

अच्छिद्रशील ते भवन्ति शान्तदान्तमानसा

अनुत्तरे च बुद्धशीलि स त्व तां नियोजयेत्॥ ५६॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां संसारप्राप्तानां प्रीतिकरणा धर्माः। कतमे चत्वारः ? बुद्धदर्शनं राष्ट्रपाल बोधिसत्त्वानां प्रीतिकरणो धर्मः। अनुलोमधर्मश्रवणं राष्ट्रपाल बोधिसत्त्वानां प्रीतिकरणो धर्मः। सर्वस्वपरित्यागः। अनुपलम्भधर्मक्षान्तिः। इमे राष्ट्रपाल बोधिसत्त्वानां संसारप्राप्तानां चत्वारः प्रीतिकरणा धर्माः। इयमत्र धर्मता॥

तत्रेदमुच्यते -

पश्यन्ति ते नरोत्तमं संबुद्धं सर्वजातिषु

सर्वलोक भासयन्त तेजसा समन्ततः।

पूजयंस्तथा नरेन्द्रराज प्रेमगौरवस्थिता

वराग्रबोधिमेषमाण सत्त्वमोक्षकारणात्॥ ५७॥

शृणोति धर्म नायकान शान्तमानुलोमिकम्

आशयेन श्रुत्व धीर योनिशः प्रयुज्यते।

अनोपलम्भधर्म श्रुत्व काङ्क्ष नास्य जायते

निःसत्त्व इति सत्त्वधर्म नात्र आत्म विद्यते॥ ५८॥

सर्वस्वपरित्यागि सो भवेत इत्यमग्रहो

प्रहृष्टचित्त दृष्ट्व चैव याचकमुपागतम्।

ग्रामराष्ट्रमेदिनीं च पुत्र दार जीवितं

संत्यजन्ति सर्व नास्य जायते च चित्तैञ्जना॥ ५९॥

चतुर्षु राष्ट्रपाल धर्मेषु बोधिसत्त्वेनानपेक्षेण भवितव्यम्। कतमेषु चतुर्षु ? गृहवासाद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम्। प्रव्रजित्वा राष्ट्रपाल बोधिसत्त्वेन लाभसत्कारादनपेक्षेण भवितव्यम्। कुलसंस्तवाद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम्। कायजीविताद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम्। एषु चतुर्षु राष्ट्रपाल धर्मेषु बोधिसत्त्वेनानपेक्षेण भवितव्यम्। इयमत्र धर्मता॥

तत्रेदमुच्यते -

त्यक्त्वा गेहमनन्तदोषगहनं चिन्तानपेक्षा सदा

तेऽरण्ये रतिमाप्नुवन्ति गुणिनः शान्तेन्द्रियाः सूरताः।

न स्त्रीसंस्तवु नैव चापि पुरुसैस्तेषां क्वचिद्विद्यते

एकाकी विहरन्ति खड्गविमलाः शुद्दाशया निर्मलाः॥ ६०॥

लाभैर्नापि च तेषु हर्षित मनो लीयन्त्यलार्भैर्न च

अल्पेच्छा इतरेतरैरभिरता मायाकुहावर्जिताः।

सत्त्वार्थाय च वीर्ययुक्तमनसो दाने दमेऽवस्थिता

ध्याने वीर्यगुणे च पारमिगताः संबुद्धज्ञानार्थिनः॥ ६१॥

काये चाप्यनपेक्ष्य जीवित तथा त्यक्त्वा प्रियान् बान्धवाम्

युज्यन्ते सद बोधिमार्ग सुदृढा वज्रोपमाध्याशयाः।

कायश्छिद्यति खण्डशश्च न भवेत्तेषां च चित्तेञ्जना

भूयो वीर्यमिहारभन्ति सुदृढं सर्वज्ञताकाङ्क्षिणः॥ ६२॥



चत्वार इमे राष्ट्रपाल बोधिसत्त्वानामननुतापकरणा धर्माः। कतमे चत्वारः ? शीलाखण्डनता राष्ट्रपाल बोधिसत्त्वानामननुतापकरणो धर्मः, अरण्यवासाकुत्स्यजनता, चतुणामार्यवंशानामनुवर्तनता, बाहुश्रुत्यप्रतिलाभो राष्ट्रपाल बोधिसत्त्वानामननुतापकरणो धर्मः। इमे राष्ट्रपाल चत्वारो बोधिसत्त्वानामननुतापकरणा धर्माः। इयमत्र धर्मता॥

तत्रेदमुच्यते -

रक्षन्ति शीलममलं मणिरत्नतुल्यं

न च तेषु भोति अनुशील सुसंयतो वा।

तत्रेव शीलि सद सत्त्व नियोजयन्ति।

आकाङ्क्षमाणमिममुत्तमबुद्धशीलम्॥ ६३॥

शून्ये च ते हि निवसन्ति शुभे अरण्ये

नैवात्मसंज्ञ भवतेऽपि न जीवसंज्ञा।

तृणकाष्ठकोथसम पशयति सत्त्वरूपं

स्त्री नेह नास्ति च पुमान्न च आत्मनीयम्॥ ६४॥

चतुरार्यवंशनिरता अकुहा आशाठ्या

अध्याशयेन च प्रयुज्यति सोऽप्रमत्तः।

कुर्वन्ति च श्रुतिगुणेषु सदाभियोगं

संप्रार्थयन् सुगतज्ञानमहानुभावम्॥ ६५॥

भवचारके जगदवेक्ष्य इदं ह्यनाथं

जातीजरामरणशोकहतं रुजार्तम्।

समुदानयित्व प्रवरां शिवधर्मनावं

संतारयन्ति जनतां भवसागरौघात्॥ ६६॥

न त्राणमन्य शरणं हि परायणं वा

लोकस्य संस्कृतगतौ भ्रमतोऽस्ति कश्चित्।

मयि सर्व एव परिमोचयितव्य सत्त्वा

इत्यर्थमेव प्रणिधिर्मम अग्रबोधौ॥ ६७॥

चतस्र इमा राष्ट्रपाल आजानेयगतयो बोधिसत्त्वेनानुगन्तव्याः। कतमाश्चतस्रः ? सुगतिप्रतिलाभः, स च बुद्धोत्पादसमवधानतया। गुरुशुश्रूषणा, सा च निरामिषसेवनतया। प्रान्तशय्यासनाभिरतिः, सा च लाभसत्कारानपेक्षतया। प्रतिभानप्रतिलाभः, स च गम्भीरधर्मक्षन्तिसमन्वागततया। इमा राष्ट्रपाल चतस्र आजानेयगतयोऽनुगन्तव्याः। इयमत्र धर्मता॥

तत्रेदमुच्यते -

वनकन्दरेषु सततं निवसन्ति धीरा

लाभेन ते सद अनर्थिक भोन्ति नित्यम्।

प्रतिभानवान् सद भवन्ति असङ्गबुद्धी

गम्भीरधर्मकुशला विगतप्रपञ्चाः॥ ६८॥

शुश्रूषकाः सद भवन्ति गुरुषु नित्यं

यथ ते वदन्ति हि तथैव च ते प्रयुक्ताः ।

आरागयन्ति सुगतान् बहावोऽप्रमेयान्

कुर्वन्ति पूज विपुलां जिनज्ञानहेतोः॥६९॥

श्रेष्ठा गतिर्भवति चापि महाशयानां

देवेषु चैव मनुजेषु च मूर्ध्नप्राप्ताः।

सम्बोधिमार्ग सद सत्त्व समादयन्ति

संयोजयन्ति कुशलेषु दशस्वथापि॥ ७०॥

श्रुत्वा च बुद्धगुण ते च भवन्ति तुष्टा

आसन्न ते तु नचिराद्भविता हि मह्यम्।

संबुध्यतेऽपि च शिवां विरजाग्रबोधिं

मोचिष्य सत्त्वनियुतानि अनन्तदुःखात्॥ ७१॥



चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां बोधिचर्यापरिशोधका धर्माः। कतमे चत्वारः ? अप्रतिहतविज्ञानविरहितस्य बोधिसत्त्वचर्या, कुहनलपननिष्पेषणपरिवर्जितस्यारण्यवासः, सर्वस्वपरित्यागिनो विपाकाप्रतिकाङ्क्षता, रात्रिंदिवं धर्मकामता धर्मभाणकानां च स्खलितागवेषणता। इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारो बोधिसत्त्वचर्यापरिशोधका धर्माः॥

अथ खलु भगवंस्तस्यां विलायामिमा गाथा अभाषत -

न खिल मल न चापि रोषचित्तं

न च पुनरेषति कस्यचित् सदोषम्।

अशठ अकुह निष्प्रपञ्चचित्तो

भवति अनुत्तरबोधिमीप्समानः॥ ७२॥

गृहमतिविषमं च शोकमूलं

कुजनसमागमयोनिमस्य दूरम्।

त्यजति तदनपेक्ष्य प्रव्रजित्वा

गिरिगहने विचरन्ति मोक्षकामाः॥ ७३॥

अरण्य विविध सेवमानो

भवति अनिश्रित सर्वज्ञात्रलाभे।

काय अपि च जीवितेऽनपेक्षो

विहरति सिंह इवोत्त्रसन् जितारिम्॥ ७४॥

भवति च इतरेतरेण तुष्टः

शकुनिसमः सद संचयं विहाय।

न च भवति निकेतु सर्वलोके

ज्ञान गवेषति नित्य बोधिमार्गे॥ ७५॥

एक विहरति यथैव खड्गो

न च पुन स त्रसते यथैव सिंहः।

न च भुवि विश्वसते मृगेव त्रस्तो

न च पुनरुन्नमते स पूजनेन॥ ७६॥

जगदिदमभिवीक्ष्य च प्रपाते

प्रपतितमुद्यते प्रमोक्षहेतोः।

अहमपि जगतोऽस्य त्राणभूतो

यदि कुशलेषु चरेयमप्रमत्तः॥ ७७॥

सुमधुरवचनः स्मिताभिलाषी

अकलुषचित्त प्रियाप्रियेषु नित्यम्।

विहरति न च सज्जतेऽनिलो वा

नरवरचर्यामिमाभीप्समानः॥ ७८॥

शून्यतमधिमुक्तमानिमित्तं

विचरति संस्कृत सर्वमायभूतम्।

शमदमनिरतो विशालबुद्धिः

अमृतरसेन च सर्वदा स तुष्टः॥ ७९॥

प्रतिवदसि यथा (वसपथा ?) च बोधिमार्गे

स तु परिशोधयते सदाशयं च।

धारणीप्रतिलाभमेषमाणः

सहति च दुःख सतां गुणाभिकाङ्क्षी॥ ८०॥

इमु चरिमभिवीक्ष्य बोधिसत्त्वो

यो भवतेऽर्थिकु शो भवेत तुष्टः।

य इह भवति बोधये असक्तो

जनयति दोषशतानि सोऽल्पबुद्धिः॥ ८१॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां प्रपाताः। कतमे चत्वारः ? अगौरवता राष्ट्रपाल बोधिसत्त्वानां प्रपातः। अकृतज्ञता शाठ्यसेवनता राष्ट्रपाल बोधिसत्त्वानां प्रपातः। लाभसत्काराध्यवसानं राष्ट्रपाल बोधिसत्त्वानां प्रपातः। कुहनलपनतया लाभसत्कारनिष्पादनं राष्ट्रपाल बोधिसत्त्वानां प्रपातः। इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारः प्रपाताः॥

अथ खलु भगवांस्तस्या वेलायामिमा गाथा अभाषत -

नित्यमगौरव ते हि भवन्ति आर्यगुरुष्वपि मातृपितृषु।

अकृतज्ञ शठाश्च भवन्ति नित्यमसंयतचारिण मूढाः॥ ८२॥

अध्यवसानपराः सद लाभे ते कुहशाठ्याप्रयोगरताश्च।

कश्चिदपीह समो मम नास्ति वक्ष्यति शीलगुणेषु कथंचित्॥ ८३॥

ते च परस्परमेव च द्विष्टा छिद्रगवेषणनित्यप्रयुक्ताः।

कृषिकर्मवणिज्यरताश्च श्रवणा (श्रमणा) हि सुदूरत तेषाम्॥ ८४॥

एवमसंयत पश्चिमकाले भिक्षव शीलगुणेषु सुदूरे।

तेऽन्तर हापयिष्यन्ति मधर्मं (मद्धर्मं ?) भण्डनविग्रह ईर्ष्यवशेन॥ ८५॥

बोधिपथादपि नित्य सुदूरे आर्यधनादपि ते च सुदूरे।

मोक्षपथं च विहाय प्रणीतं पञ्चसु ते गतिषु भमिष्यन्ति॥ ८६॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारका धर्माः। कतमे चत्वारः ? अश्रद्दधानता राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः। कौसीद्यं राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः। मानो राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः। परपूजेर्ष्यामात्सर्यचित्तं राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः। इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारो बोधिपरिपन्थकारका धर्माः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अश्रद्धाः कुसीदाः सद मूढचित्ता

अभिमानिनस्तेऽपि सदा च क्रोधना।

क्षमिणश्च दृष्ट्वा सद भिक्षु युक्तं दास्यन्ति दण्डं व्रजतो विहारात्॥ ८७॥

परस्य पूजार्थमिहेर्ष्य जाता

अवस्थानु चित्तस्य च तेषु नास्ति।

अवतारप्रेक्षी स्खलितां गवेषी

कोऽस्यापराधोऽस्तिह चोदयिष्ये॥ ८८॥

दूरे इतस्ते मम शासनस्य

गुणद्वेषिणस्ते हि अपायनिम्नाः।

त्यक्त्वा जिनस्यापि च शासनं ते

यास्यन्त्यपायं ज्वलितं प्रचण्डम्॥ ८९॥

श्रुत्वा च तेषामिह पापचर्याम्

अधर्मयुक्तां च गतिं सुदारुणाम्।

युज्यध्व नित्यं सद बोधिमार्गे

मा तप्स्यथा दुर्गतिषूपपन्नाः॥ ९०॥

बहुकल्पकोटीभि कदाचि बुद्धो

उत्पद्यते लोकहितो महर्षिः।

लब्धोऽधुना स प्रवरः क्षणोऽद्य

त्यज प्रमादं यदि मोक्षकामः॥ ९१॥



चत्वार इमे राष्ट्रपाल पुद्गला बोधिसत्त्वेन न सेवितव्याः। कतमे चत्वारः ? पापमित्रं राष्ट्रपाल पुद्गलो बोधिसत्त्वेन न सेवितव्यः। उपलम्भदृष्टिको राष्ट्रपाल पुद्गलो बोधिसत्त्वेन न सेवितव्यः। सद्धर्मप्रतिक्षेपकः पुद्गलो राष्ट्रपाल बोधिसत्त्वेन न सेवितव्यः।आमिषलोलुपः पुद्गलो राष्ट्रपाल बोधिसत्त्वेन न सेवितव्यः। इमे राष्ट्रपाल चत्वारः पुद्गला बोधिसत्त्वेन न सेवितव्याः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

ये पापमित्राणि विवर्जयन्ति कल्पाणमित्राणि सदा भजन्ति।

वर्धन्ति ते बोधिपथेषु नित्यं यथ शुक्लपक्षे दिवि चन्द्रमण्डलम्॥ ९२॥

उपलम्भदृष्ट्यां च सदा निविष्टा आत्मे निविष्टास्तथ जीवपोषे।

विषकुम्भवत्ते सद वर्जयन्ति ये बुद्धज्ञानेन भवन्ति अर्थिकाः॥ ९३॥

क्षिपन्ति ये धर्म नरोत्तमानां शान्तं विरागममृतानुकूलम्।

तान् वर्जयेन्मीढघटां यथैव य इच्छते बुध्यितुमग्रबोधिम्॥ ९४॥

अध्योषिता आमिष पात्रचीवरे कुलसंस्तवे चैव सदाभियुक्ताः।

कुर्वीत सार्धं न हि तेषु संस्तवं तान् वर्जयेदग्निखधां (खदां) यथैव॥ ९५॥

यस्येप्सितं धर्षयितुं हि मारं प्रवर्तितुं चक्रवरं ह्यनुत्तरम्।

सत्त्वार्थमेवं विपुलं च कर्तुं वर्ज्याश्च तेनापि च पापमित्राः॥ ९६॥

विवर्जयित्वा च प्रियाप्रियाणि लाभं यशो भण्डनमानमीर्ष्याम्।

एषेत नित्यं सद बुद्धज्ञानं य इच्छते बुध्यितुमग्रबोधिम्॥ ९७॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां दुःखविपाका धर्माः। कतमे चत्वारः ? ज्ञानेनाभिमन्यनता राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः। ईर्ष्यामात्सर्यचित्तं राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्माः। अनधिमुक्ती राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः। अपरिशुद्धज्ञानक्षान्तिसंभोगपर्येष्टी राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः। इमे राष्ट्रपाल बोधिसत्त्वानां दुःखविपाका धर्माः॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

धर्मधरा भुवि ये तु भवन्ति पूजित सर्वजगेषु भवन्ति।

अवमन्यति तानि आज्ञः (?) तेन स विन्दति दुःखमनन्तम्॥ ९८॥

विषमेण स देशति भोगेन् छन्दरुचिः सद ज्ञानि अशुद्धे।

मानोन्नत यश्च हि नित्यं नमते गुरुआर्यजनेषु॥ ९९॥

अधिमुक्ति न विद्यति बुद्धे धर्मगणे च न तस्यधिमुक्तिः।

शिक्ष धुतेषु न तस्यधिमुक्तिः पापमतेस्त्रिरपायमुखस्य॥ १००॥

स इतश्च्युतो हि मनुजेषु कर्मवशादबुधो हि विमूढः।

नरकेष्वथ तिर्यग्गतिषु प्रेतगतिषु च वन्दति दुःखम्। १०१॥

यस्य मतिर्भुवि लोकप्रदीपो दुःखक्षयान्तकरो नरवीरः।

तेन अपायपथं प्रविहाय बोधिपथः सततं हि निषेव्यः॥ १०२॥

चत्वारीमानि राष्ट्रपाल बोधिसत्त्वानां बन्धनानि। कतमानि चत्वारि ? परावमन्यनता बोधिसत्त्वानां बन्धनम्। लौकिकेनोपायेन भावनताप्रयोगनिमित्तसंज्ञा बोधिसत्त्वानां बन्धनम्। अनिगृहीतचित्तस्य ज्ञानविरहितस्य प्रमादसेवनता राष्ट्रपाल बोधिसत्त्वस्य बन्धनम्। प्रतिबद्धचित्तस्य कुलसंस्तवो राष्ट्रपाल बोधिसत्त्वस्य बन्धनम्।इमानि राष्ट्रपाल बोधिसत्त्वानां चत्वारि बन्धनानि॥

अथ खलु भगवंस्तस्यां वेलायामिमा गाथा अभाषत -

अवमन्यति नित्य परस्य भावयते सद लौकिकध्यानम्।

बध्यति तेभि स दृष्टिशतेभिः पङ्कि गजो यथ दुर्बलकायः॥ १०३॥

कुलसंस्तवबन्धनयुक्तो यस्तु प्रमत्त सदा ग्रहचित्तः।

ज्ञानविवर्जित मूढमतिश्च बध्यति एभि अयुक्तचरीभिः॥ १०४।

यो ह्यत इच्छति दुःखभयेभ्यो जातिजरामरणादिविमोक्षम्।

सो अवमन्यन मन्यन त्यक्त्वा युज्यति बोधिपथे सततं च॥ १०५॥

दुःखमनन्त सहित्वमशेषं सर्वसुखादनपेक्षि भवित्वा।

त्यक्त्व प्रियाप्रियज्ञात्रमशेषं बुद्ध भवन्ति विकल्मष धीराः॥ १०६॥

षट्सु प्रयुज्यत भूमिगुणेषु बलेन्द्रियज्ञाने।

सर्वगुणैश्च सदा समुपेता बुद्ध भवेज्जरपञ्जरमुक्तः॥ १०७॥

कल्प अचिन्तिय पूर्व चरन्तः सत्त्वहिताय चरन् वरबोधौ।

दानदमे नियमेऽपि च नित्यं सुस्थित आसि त्यजित्व च ज्ञातीन्॥ १०८॥

प्रान्तवने सद नित्य रतोऽहं शोषित आश्रयु बोधिनिदानम्।

न च संसृतु वीर्यं कदाचिदेषत ज्ञान महापुरुषाणाम्॥ १०९॥

भवचारके जगति दृष्ट्वा पञ्चगतिभ्रमभ्रामित सत्त्वान्।

कृत्व कृपां विपुलामिह पूर्वे आर्जित बोधि बलाज्जगदर्थे॥ ११०॥

दुहितृस्वसुताः प्रियभार्याः त्यक्त पुरा धनधान्य प्रभूताः।

जीवित इष्ट मही सुसमृद्धा एषत बोधिवरां बहुकल्पान्॥ १११॥

फलपुष्पजलाढ्य सुरम्य आसि वने मुनि क्षान्तिरतोऽहम्।

छिन्न करौ चरणौ कलिराज्ञा नैव मनोऽपि तदा मम दुष्टम्॥ ११२॥

वनकन्दरि श्यामकु नाम आसि मुनिर्भरतो गुरुजीर्णो।

दृढबाणहतेन नृपेण नैव मनं परिदूषितमासीत्॥ ११३॥

शैलतटादनपेक्ष्य शरीरं प्रोत्सृजतश्च सुभाषितहेतोः।

काये न च मे न च जीवे बोधिनिमित्तमवेक्ष्य बभूव॥ ११४॥

व्याघ्रिसुतानपि जीवितहेतोस्त्यज्य तनुं परितर्पित व्याघ्री।

गगनेऽभ्यनदन् सुरसंघाः साधु महापुरुष स्थिरवीर्य॥ ११५॥

अतिदानरतश्च यदासीत् माणव पूर्वभवेषु चरंश्च।

शोषितु रत्ननिदान समुद्रः प्राप्य मणिं सुखिताः कृत सत्त्वाः॥ ११६॥

सुतसोम महीपतिरासीत् विश्रुतकीर्ति चरंश्च यदाहम्।

वध्यगतं कृतकृत्यनयैर्मे राजशतं परिमोचितमाशु॥ ११७॥

दुःखित वीक्ष्य नरं च दरिद्रं त्यक्त मया प्रियमेव शरीरम्।

प्राप्य धनं स कृतश्च मयाढ्यः सर्वददेन नृपेण सता मे॥ ११८॥

शरणागत वीक्ष्य कपोतं स्वं पिशितं विनिकृत्य शरीरात्।

दत्तमपि स्वतनुर्न भयार्तस्त्यक्त इहापि नृपेण सता मे॥ ११९॥

कृत्स्नमुपार्जितमाप्य भिषग्भिर्भैषजमप्रतिमं मम पूर्वम्।

जीवित त्यज्य परस्य ददौ तं केसरिराज बभूव यदाहम्॥ १२०॥

चरता च पुरा जगदर्थे मद्रि पतिव्रत त्यक्त सपुत्रा।

दुहिताप्यनपेक्ष्यदसंघ आसि नृपात्मजो यद सुदंष्ट्रः॥ १२१॥

वर्षसहस्र मया परिपूर्णा मर्षित दुष्कराश्चतुरशीति।

उत्तप्तवीर्यु यद आसीत् अर्थधनश्रियोऽपि च पुरा मे॥ १२२॥

जिनधातुस्तूपपुरतो मे ज्वलित आश्रयः परमभक्त्या।

पूजा कृता दशबलानाम् आसि नृपात्मजि विमलतेजाः॥ १२३॥

रौद्राक्ष एव च रुषित्वा याचितवान् स चापि मम शीर्षम्।

दत्तं निकृत्य च मया तद् राज यदा च चन्द्रप्रभ आसीत्॥ १२४॥

सर्वत्र ग्रामनगरेषु वीथिमुखेषु भैषजमुदारम्।

सत्त्वार्थ स्थापित् मया ते पुण्यसमो बभूव च यदाहम्॥ १२५॥

स्रीणाम् सहस्रमभिरूपाः काञ्चनमुक्तिभूषितशरीराः।

त्यक्तां पूर्वभवेषु चरता मे आसि यदा शुभो नृपति पूर्वे॥ १२६॥

पुष्पैर्वरैरपि च गन्धैः काञ्चनमुक्तिकाप्रवर श्रीमान्।

त्यक्तश्च मे मकुट पूर्व आसि नृपो यदा रतनचूडः॥ १२७॥

मृदुतूलपिचूपमसूक्ष्मौ कोमलपद्मपत्रसुकुमारौ।

त्यक्तौ करौ सचरणौ मे पूर्व नृपेण धृतिमता च॥ १२८॥

विनिगृह्य राक्षसिशतानि निर्घृणदारुणप्रबलचण्डा।

कृत मानुषा बदरद्वीपे सिंहल सार्थवाह यद आसीत्॥ १२९॥

कामेषु मृर्च्छितमना मे बालि स राक्षसी प्रमदसंज्ञा।

पञ्चशतानि वणिजानां मोक्षित ते यदा भवे सुनेत्रः॥ १३०॥

चत्वारि कोटि प्रमदानाम् अप्सरतुल्यरूपिणां विहाय।

प्रव्रज्य निर्गतु जिनस्य शासने पुण्यरश्मि यद आसीत्॥ १३१॥

मयि त्यक्तमङ्गुलि उदारा सत्त्वहितार्थमेव चरता मे।

जालार्चिता विमलशुद्धा काञ्चनवर्ण पार्थिव यद आसीत्॥ १३२॥

शुभ नीलपद्मसमवर्णा नेत्र मनोरमा हृदयकान्ता।

त्यक्ता मया च जगदर्थे उत्पलनेत्रे पार्थिव यदासीत्॥ १३३॥

प्रियविप्रयोगहत दृष्ट्वा स्त्री च प्रनष्टरूपमतिवेषा।

परिमोचिता करुणया मे केशव वैद्यराज यद आसीत्॥ १३४॥

व्याध्यातुरं च नरमीक्ष्य स्वं रुधिरं प्रदत्तमपि मेऽभूत्।

निर्व्याधितः स च कृतो मे प्राग्भव सर्वदर्शि यदभूवम्॥ १३५॥

हिवा स्वमस्थि च शरीराद् व्याधिकृशस्य मज्ज मया दत्तम्।

न च सत्त्व त्यक्त मय जातु आसि नृपो यदा कुसुम नाम॥ १३६॥

सर्वस्वकोशमपि त्यक्त्व जीवित त्यक्त मे प्रिय मनापम्।

नरु मोक्षितो व्यसनप्राप्त आसि नृपोऽर्थसिद्धि यद पूर्वम्॥ १३७॥

चक्राङ्कितं कमलतुल्यं पणियुगं प्रदमत्तमनपेक्षम्।

नृप आशुकेतु यद आसीद् बोधिमभीप्समान जगदर्थे॥ १३८॥

नृप सर्वदर्शि यद आसीत् कारुणिको जनार्थहितकामः।

त्यक्ता मया चतुरोऽपि च द्वीपाः स्फीतनरैर्व्रनरीशतैश्च॥ १३९॥

मृदु कोमलं विकलगौरं ऊरु तच्छित्त्व हॄष्टमुदिताया।

दत्तं स्वमांस रुधिरं मे ज्ञानवती यदासि नृपपुत्री॥ १४०॥

कनकाभपीनसुकुमारं त्यक्त स्तनद्वयं हॄदयकान्तम्।

स्त्री प्रेक्ष्य मे क्षुधतृषार्तं सा रूप्य (प ?) वतीति वनिता यदाभूत्॥ १४१॥

वरभूषणानपि सुरम्यान् रत्नमनेकवस्त्ररथयानान्।

संत्यक्त दुस्त्यजमनेकं विश्रुतश्रीनृपेण च मयाभूत्॥ १४२॥

राज्ञः सुतो तु विकृतज्ञः तारित सागराद्यद कृतज्ञः।

रत्नार्थ नेत्र मम तेन उद्धृत नैव मे रुषित चित्तम्॥ १४३॥

मा भूत्पिपीलिकवधो मे त्यक्त वराश्रयोऽपि चनपेक्ष्य।

न च चित्त कम्पित तदा मे त्यक्त पूर्वभवेषु गोध यद आसीत्॥ १४४॥

उपस्थानगौरवरतोऽहं वृद्धचरीषु नित्य रत आसीत्।

न च मानवानपि च स्तब्ध आसि कपिंजलो विचरमाणः॥ १४५॥

शरणागतस्य च मयार्थे त्यक्त समुच्छ्रयः कृप जनित्वा।

न च त्यक्त वानरगतेन व्याधनरः शराभिनिहतेन॥ १४६॥

गजवशगतेन शोषितो मे तनुरपि वृद्धगुरुं जगत्स्मरित्वा।

सुरुचिरमशनं मया न भुक्तं मोक्षित आत्म गजा यदा तदासीत्॥ १४७॥

ऋक्षपतिरभूव शैलदुर्गे हिमहत सप्त दिनानि रक्षितो मे।

पुरुष वधकु तेन मे प्रयुक्तो न च प्रतिघात कृतश्च मे तदास्मिन्॥ १४८॥

आसि गजो हिमकुन्दनिकाशो बोधिवराश्रित बुद्धगुणार्थी।

स विषेण शरेण च विद्धो दंष्ट्रवरांस्त्यजमान न द्विष्टः॥ १४९॥

वनगोचरि खण्डकद्वीपे तित्तिरिपोतक मैत्रविहारी।

सहदर्शनेन शमितोऽग्निं देवगणा कुसुमानि क्षिपन्ति॥ १५०॥

गङ्गतरङ्गजलैर्हियमाणः तारित मे यद आसि मृगत्वे।

वधका मम तेनपनीता नैव मनो मम तत्र प्रदुष्टम्॥ १५१॥

तारित पञ्चशतं वणिजानां सागरमध्यगताश्च अनाथाः।

तैश्च हतः क्षुधितैश्च तदाहं कच्छपयोनिगतोऽपि च मैत्रः॥ १५२॥

बोधिचरिं चरमाणहु पूर्वं मत्स्य बभूव यदा जलचरी।

त्यक्त मयाश्रय सत्त्वहिताय भक्षित प्राणिसहस्रशतेभिः॥ १५३॥

व्याधिशताभिहतं जगदीक्ष्य समुच्छ्रय कृत्वा।

सत्त्व कृताः सुखिता निरुजाश्च प्राणकु सौम्य तदा च यदासीत्॥ १५४॥

सिंह बभूव यदा मृगराजा स्थामबलान्वित कारुणिकश्च।

विद्ध शरेण न दूषित चित्तं मैत्रि तदा वधकेऽपि तदा मे॥ १५५॥

शङ्खतुषारनिभो हयराजा आसि पुरा च समुद्रतटेऽहम्।

राक्षसिमध्यगता वणिजो मे तारित कृत्व कृपां करुणां च॥ १५६॥

बोधिचरिं चरमाण जनार्थे आसि कुणाल अहं यद पक्षी।

वर्जित कामगुणा बहुदोषा नो च वशं प्रमदान गतोऽहम्॥ १५७॥

आसि शशो वनगुल्मनिवासी शासती तं सुकृते शशवर्गम्।

मुनिराश्रमवासि क्षुधार्तस्तस्य कृतेन मयाश्रयु त्यक्तः॥ १५८॥

आसि शुको द्रुमपुष्पफलाढ्यो शुष्कद्रुमो न च मे स हि त्यक्तः।

दृष्ट कृतज्ञ तदा मम शक्रस्तं कृतवांस्तरु पत्रफलाढ्यम्॥ १५९॥

वानरसंघमुपद्रुत दॄष्ट्वा नागनृपेण विवर्जीतदेशम्।

राजभयात्तु विमोक्षित ते मे वानरराज अहं यद आसीत्॥ १६०॥

शुक भूत पुरा गुरुहेतोः शालि हरंश्च नरेण गृहीतः।

किं नु शुका हरसे मम शालि नाशयतेऽपि च पक्षि मशस्यम् ( मत्सस्यम्)॥ १६१॥

शुक सोऽब्रवीद्भद्र शृणुष्व चौर्य हरामि न ते अहु शालिम्।

जीर्णगुरुद्वयपोषणहेतोः शालि हरामि कृपार्थ तु तेषाम्॥ १६२॥

बीज प्रकीर्ण यदा प्रथमं ते भाग ददामि सर्वजनस्य।

तच्च गिरं वदतो मम श्रुत्वा तेनापि चौर्य भवेन्न कदाचित्॥ १६३॥

साधु शुका हर शालि यथेष्टं दुर्लभ मानुष यस्यिमु भक्तिः।

मानुष त्वं मय तीर्यगतेहा साधु दमः शम संयम तुभ्यम्॥ १६४॥

इत्येवमानि चरितानि पूर्व चरन्त दुष्कर कृतानि।

न च मे मनसि तत्र भवि खेद एषत उत्तमां विरज बोधिम्॥ १६५॥

आध्यात्मिकं ह्यथ च बाह्यं नास्ति हि वस्तु यन्मया न दत्तम्।

शीले च क्षान्ति तथ वीर्य ध्यान उपाय प्रज्ञ चरितोऽहम्॥ १६६॥

मांसं त्वचं तथपि च मज्ज शोणितमेव दत्त स्वशरीरात्।

प्रान्ते गुहासु च यदा मे शोषित आश्रयोऽपि चरता मे॥ १६७॥

धुतयान देशित जिनेभिः यत्र प्रयुज्यतो जिन भवन्ति।

तत्र धुते सततं च प्रयुक्तो आसि चरन्त पुरे अहु नित्यम्॥ १६८॥

एतादृशा व्रत उदारा ये च निषेविता चरता मे।

श्रुत्वा च तेषमिमाश्चर्यमेकपदे न भविष्यति छन्दः॥ १६९॥

हास्यु भविष्यति इम श्रुणित्वा शासनमेतदेव च तडानीम्।

आहारमैथुनपरास्ते मिद्धसदाभिभूत शतकाङ्क्षाः॥ १७०॥

धर्मद्विषः सद अनार्याः शासनदूषका गुणविहीनाः।

श्रुत्वा च धर्ममिम शान्तं नैष जिनोक्त इत्यभिवदन्ति॥ १७१॥

आचार्यो मे श्रुतसमुद्रो आसि बहुश्रुतः कथिकश्रेष्ठः।

तेनापि चैष प्रतिषिद्धो बुद्धवचो हि नैष तु कथंचित्॥ १७२॥

परतोऽप्यभूदपि च वृद्धः तस्य गुरुः स शामितगुणौघः।

तेनापि नैष हि गृहीतो मात्र प्रयुज्यथ वितथमेतत्॥ १७३॥

यत्रात्म नास्ति न च जीवो देशित पुद्गलोऽपि न कथंचित्।

व्यर्थः श्रमोऽत्र घटते यः शीलप्रयोग संवरक्रिया च॥ १७४॥

यद्यस्ति चैव महायानं नात्र हि आत्म सत्त्व मनुजो वा।

व्यर्थः श्रमोऽत्र हि कृतो मे यत्र न चात्मसत्त्वौपलब्धिः॥ १७५॥

कवितानि हैव स्वमतानि पापमतैः कुतीर्थिकमतैश्च।

भाषेत नो जिन कदाचित् वाचमिमां हि भिक्षुपरिभाषाम्॥ १७६॥

ह्रीरपत्रापशीलचरिताश्च ध्वाङ्क्ष प्रगम्भ उद्धतप्रचण्डाः।

भविता हि भिक्षव ममेह शासनि ईर्ष्यमानमददग्धाः॥ १७७॥

विध्यन्त हस्त तथा पादांश्चीवरकर्णका निधुनन्तः।

काषायकण्ठ विचरन्ता ग्रामकुलेषु मद्यमदमत्ताः॥ १७८॥

बुद्धस्य ते ध्वज गृहीत्वा सेवकरा गृहस्थजनतायाम्।

लेखं वहन्ति सततं ते शासनदं विहाय गुणराशिम्। १७९॥

गोगर्दभाश्वपशुदानात्संभवते हि दास्य पि तेषाम्।

कृषिकर्मवाणिज्यप्रयोगा युक्तमनाश्च तेऽनिशमार्याः॥ १८०॥

नैषामनार्यमपि वाच्यं नैव च किंचिदस्ति यदकार्यम्।

स्तौपिक सांघिकं ह्यपि च वित्तं पौग्दलिकं च यच्च सममेषाम्॥ १८१॥

भिक्षुण वीक्ष्य च गुणाढ्यं तेष्वपि चाप्यवर्ण कथयन्ति।

दुःशील वञ्चक प्रविश्य कुहास्ते स्त्री च विनाशयन्ति हि सुघोराः॥ १८२॥

गृद्धो गृहीण तथा कामैर्यादृशे प्रव्रजित्व ते गृद्धाः।

भार्यां सुता दुहितरश्च तेषु भविष्य गृहिसमानम्॥। १८३॥

यत्रैव सत्कृत कुले ते चीवरपिण्डपातपरिभोगैः।

तस्यैव दारपरिगृद्धा क्लेशवशानुगाः सद अनार्याः॥ १८४॥

कामा इमे खलु न सेव्याः पातन तिर्यक्प्रेतनिरयेषु।

वक्ष्यन्ति ते सद गृहीणां ते च स्वयमदान्त अनुपशान्ताः॥ १८५॥

स्वयमेव ते यथ अदान्ताः शिष्यगणोऽपि तेष न सुदान्तः।

आहारमैथुनकथायां रात्रिदिवानि तेषु गमिष्यन्ति॥ १८६॥

सेवार्थमेव न गुणार्थं ते खलु संग्रहं ददति तेषाम्।

शिष्यगणैः स्वकैः परिवृतोऽहं पूज जने सदात्र चल सिध्य॥ १८७॥

कथयन्ति तेऽपि च जनस्य संग्रह एष मे करुणयैषाम्।

उपस्थाम प्रार्थयामि तेभ्य शिष्यगणेभ्य एव न कदाचित्॥ १८८॥

रोगाभिभूत बहु तत्र कुष्ठिलाश्चित्रगात्रसुविरूपाः।

प्रव्रजिष्यन्ति नरकेषु आगता आगता सद अनार्याः॥ १८९॥

उद्देशसंवरविहीना भिक्षुगुणेषु ते सद वियुक्ताः।

गृहिणो न तेऽपि व्न च भिक्षू वर्जित ते यथा श्मशान इव दारुः॥ १९०॥

शिक्षासु चादर न तेषां स्यान्न च प्रातिमोक्षविनये वा।

उद्दामगाः स्ववशगास्ते अङ्कुशमुक्तका इव गजेन्द्राः॥ १९१॥

वनवासिनामपि हि तेषां ग्रामगतं भविष्यति हि चित्तम्।

क्लेशाग्निना प्रपतितानां चित्तमवस्थितं हि न च तेषाम्॥ १९२॥

विस्मृत्य बुद्धगुण सर्वान् शिक्षधुतांश्च तेऽपि च उपायान।

मदमानदर्पपरिपूर्णां ते प्रपतन्ति दारुणवीचीम्॥ १९३॥

राजकथारताश्च सततं ते चोरकथाभिकीर्तनरताश्च।

ज्ञातिनिषेवने च निरतास्ते चिन्तयमान रात्रिंदिवसानि॥ १९४॥

ध्यानं तथाध्ययनं त्यक्त्वा नित्य विहारकर्मणि नियुक्ताः।

आवासगृध्रकुटीकास्ते च अदान्तशिष्यपरिवाराः॥ १९५॥

न च कर्मिको ह्यहं विहारे आत्मन हेतुरेष हि कृतो मे।

ये भिक्षवो ममानुकूलास्तेष्ववकाशमस्ति हि विहारे॥ १९६॥

ये शीलवन्त गुणवन्तो धर्मधरा जनार्थमभियुक्तां।

दमसंयमे सततयुक्ताः संग्रह तेषु ते न कुरुते च॥ १९७॥

लयनं ममैतदुद्दिष्टं सार्धविहारिणोऽपि च ममेदम्।

संमोदिकस्य च ममेदं गच्छ न तेऽस्ति वास इह कश्चित्॥ १९८॥

शय्यासनं निखिल दत्तं भिक्षवः स्थापिता इह प्रभूताः।

न च लाभसंभव इहास्ति किं परिभोक्ष्यसेऽत्र व्रज भिक्षो॥ १९९॥

शय्यासनोद्दिशन तेषां नैव भविष्यतेऽपि च कदाचित्।

गृहिसंचयाश्च भवितारस्ते च प्रभूतभाण्डपरिवाराः॥ २००॥

निर्भर्त्सिता पि च समन्तात्ते हि ममौरसाश्चरिमकाले।

वचनं न चैते मम् हि स्मृत्वा प्रान्तवने तदाभिनिवसन्ति॥ २०१॥

हा शासनं जिनवरस्य नाशमुपेक्ष्य हि नचिरेण।

लाभाभिभूत गुणद्विष्टा भिक्षवः प्रादुर्भूत बहु यत्र॥ २०२॥

परिभूतकाश्च सततं ते पश्चिमकालि शीलगुणयुक्ताः।

ते चाप्यरण्यवनवासी ग्राम विहाय राष्ट्रनगराणि॥ २०३॥

सद सत्कृता गुणविहीना भेदक सूचकाः कलहकामाः।

ते शास्तृसंमत जनस्य ते च भविष्यन्ति मानमददग्धाः॥ २०४॥

इम शासनं गुणनिधानं सर्वगुणाकारं परमरम्यम्।

नाशं प्रयास्यति ममेह शीलविपत्तिरिर्ष्यमददोषैः॥ २०५॥

रत्नाकरो यथ विलुप्तः स्थास्यति पद्मिनीव परिशुष्का।

यूप वररत्नमयं भग्नं नश्यति शासनं चरिमकाले॥ २०६॥

प्रेतादृशश्चरिमकाले धर्मविलोप वर्ततो सुघोरः।

ते चापि भिक्षव अदान्ता नाशयितारः शासनं ममेदम्॥ २०७॥

म चर्यसेवनिरतानां दूरत संगतिः क्वचन तेषाम्।

प्रेतगतिर्न्रकेऽपि च वासः तिर्यगतिश्च इतो हि च्युतानाम्॥ २०८॥

अनुभूय तीव्रकटुकानि दुःखमनन्त वर्षशतमनेकैः।

लब्ध्वा स मानुषभवं वा जायति दुःखितः सतत शोच्यः॥ २०९॥

अन्धोऽथ वा बधिर काणो जायति चित्रगात्र सुविरूपा।

बीभत्सरूपभयदर्शी पापचरीमिमां सतत सेवी॥ २१०॥

विश्रम्भतेऽस्य न च कश्चित् श्रद्दधतेऽस्य चापि न च वाक्यम्।

निर्भर्स्तितो भवति नित्यं योऽभिनिषेवते विषमचर्याम्॥ २११॥

ते रोगदुःखशततप्तास्ताडित लोष्टकाष्ठप्रहरेभिः।

क्षुत्तृष्ण येन परितप्तास्ते च भवन्ति सदा सुपरिभूताः॥ २१२॥

दुःखा अनन्त इति ज्ञात्वा दूर पापचर्यं विजहित्वा।

सेवेथ साधुचरि नित्यं मा भवितानुताप इह पश्चात्॥ २१३॥

यस्य प्रियो भवति बुद्धो आर्यगणश्च शिक्ष धुतधर्माः।

अभियुज्यथा सततमेवं त्यक्त्व च ज्ञात्रलाभयशकीर्ति॥ २१४॥

मायोपमं हि (भि ?) दुरमेतत्स्वप्नसमं च संस्कृतमवीक्ष्यम्।

नचिराद्भविष्यति वियोगः सर्वप्रियैर्न नित्यमिह कश्चित्॥ २१५॥

उद्युज्यतां घटत नित्यं पारमितासु भूमिषु बलेषु।

मा जातु संशयत वीर्यं यावन्न बुध्यथा प्रवरबोधिम्॥२१६॥



निदानपरिवर्तः प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project