Digital Sanskrit Buddhist Canon

१६ तथतापरिवर्तः षोडशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 16 tathatāparivartaḥ ṣoḍaśaḥ
१६ तथतापरिवर्तः षोडशः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-सर्वधर्मानुपलम्भो बतायं भगवन् धर्मो देश्यते। नायं भगवन् धर्मः क्वचित्प्रतिहन्यते। अप्रतिहतलक्षणो बतायं भगवन् धर्मः आकाशसमतया सर्वपदानुपलब्धितः। अप्रतिमलक्षणो बतायां भगवन् धर्मोऽद्वितीयत्वात्। अप्रतिलक्षणो बतायं भगवन् धर्मो निष्प्रत्यर्थिकत्वात्। अपदो बतायं भगवन् धर्मोऽनभिनिर्वृत्तत्वात्। अनुत्पादो बतायं भगवन् धर्मः सर्वोपपत्यनुपपत्तित्वात्। अपथो बतायं भगवन् धर्मः सर्वपथानुपलब्धित्वात्॥



अथ खलु देवानामिन्द्रो ब्रह्मा सहापतिस्ते च कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन्-अनुजातो बतायं भगवन् भगवतः श्रावक आर्यसुभूतिः स्थविरः। तत्कस्य हेतोः? तथा हि भगवन् यं यमेव अयमार्यसुभूतिः स्थविरो धर्मं देशयति, तं तमेव धर्मं शून्यतामारभ्य देशयति॥



अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रं ब्रह्माणं च सहापतिं तांश्च कामावचरान् रूपावचरांश्च देवपुत्रानामन्त्रयते स्म-यद्देवपुत्रा एवं वदथ-अनुजातोऽयं सुभूतिः स्थविरस्तथागतस्येति। अजातत्वात्सुभूतिः स्थविरोऽनुजातस्तथागतस्य। अनुजातस्तथतां सुभूतिः स्थविरस्तथागतस्य। यथा तथागततथता अनागता अगता, एवं हि सुभूतितथता अनागता अगता। एवं हि सुभूतिः स्थविरस्तथागततथतामनुजातः। आदित एव सुभूतिः स्थविरस्तथागततथतामनुजातः। तत्कस्य हेतोः? या हि तथागततथता, सा सर्वधर्मतथता। या सर्वधर्मतथता, सा तथागततथता। या च तथागततथता, या च सर्वधर्मतथता, सैव सुभूतेः स्थविरस्य तथता। तां तथतामनुजातः सुभूतिः स्थविरः। अतोऽनुजातस्तथागतस्य। सापि च तथता अतथता। तां तथतामनुजातः। एवं हि सुभूतिः स्थविरस्तथागतमनुजातः। तथागतस्य या सा तथतायाः स्थितिता, तया स्थितितया सुभूतिः स्थविरस्तथागतमनुजातः।



यथा तथागततथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा, एवं हि सुभूतितथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा। एवं हि सुभूतिः स्थविरस्तया तथतया अविकारो निर्विकारोऽविकल्पो निर्विकल्पस्तथागतस्यानुजातः। यथा च तथागततथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते, एवं सर्वधर्मतथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते। तत्कस्य हेतोः? या च तथागततथता, या च सर्वधर्मतथता, एकैवैषा तथता अद्वयाद्वैधीकारा अद्वयतथता। न क्वचित्तथता, न कुतश्चित्तथता, न कस्यचित्तथता। यतः सा न कस्यचित्तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता। एवं हि सुभूतिः स्थविरोऽनुजातस्तथागतस्याकृततथतया। या च अकृततथता, न सा कदाचिन्न तथता। यतश्च सा न कदाचिन्न तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता। एवं हि सुभूतिः स्थविरोऽनुजातस्तथागतम्। यथा तथागततथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा, एवं सुभूतितथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा। एवमेव च तथागततथतयाभिनिर्मितः सुभूतिश्चेति द्वयमप्यलुप्तमेतदभिन्नं भेदकानुपलब्धितः। एवं हि सुभूतिः स्थविरस्तथागतमनुजातः। यथा तथागततथता नान्यत्र सर्वधर्मतथतायाः, एवं हि सुभूतितथता नान्यत्र सर्वधर्मतथतायाः। या नान्यत्र सर्वधर्मतथतायाः, न सा कस्यचिन्न तथता। सैव सा तथता सर्वधर्मतथता। तां तथतां सुभूतिः स्थविरोऽनन्यतथतानुगमेनोपगतः। न चात्र कश्चिन्न क्वचिदनुगतिमुपगतः। एवं हि सुभूतिः स्थविरस्तथागतमनुजातः। यथा तथागततथता नातीता न अनागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना।



एवं हि सुभूतिः स्थविरस्तां तथतामनुजातस्तथागतमनुजात इत्युच्यते। तथागततथतयापि ह्यनुगतस्तथतां तथागततथतया अतीततथतामनुगतः। अतीततथतया तथागततथतामनुगतः। तथागततथतया अनागततथतामनुगतः। अनागततथतया तथागततथतामनुगतः। तथागततथतया प्रत्युत्पन्नतथतामनुगतः। प्रत्युत्पन्नतथतया तथागततथतामनुगतः। तथागततथतया अतीतानागतप्रत्युत्पन्नतथतामनुगतः। अतीतानागतप्रत्युत्पन्नतथतया तथागततथतामनुगतः। इति हि सुभूतितथता च अतीतानागतप्रत्युत्पन्नतथता च तथागततथता च अद्वयमेतदद्वैधीकारम्। एवं सर्वधर्मतथता च सुभूतितथता च अद्वयमेतदद्वैधीकारम्। यैव च भगवतो बोधिसत्त्वभूतस्य तथता, सैव भगवतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तथता। इयं सा तथता, यया तथतया बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सन् तथागत इति नामधेयं लभते। अस्यां खलु पुनस्तथातगतथतायां निर्दिश्यमानायामियं महापृथिवी तस्यां वेलायां षड्विकारमष्टादशमहानिमित्तमकम्पत्, प्राकम्पत्, संप्राकम्पत्, अचलत् प्राचलत् संप्राचलत्, अवेधत् प्रावेधत् संप्रावेधत्, अरणत् प्रारणत् संप्रारणत्, अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत् तथागतस्यैवानुत्तरां सम्यक्संबोधिमभिसंबुध्यमानस्येति। पुनरपरं सुभूतिः स्थविरस्तान् देवपुत्रानामन्त्रयते स्म-एवं हि देवपुत्राः सुभूतिः स्थविरस्तथागतमनुजातः॥



पुनरपरं सुभूतिः स्थविरो न रूपमनुजातो न वेदनां न संज्ञां न संस्कारान् न विज्ञानमनुजातो न स्रोतआपत्तिफलमनुजातो न सकृदागामिफलं न अनागामिफलं न अर्हत्त्वफलमनुजातो न प्रत्येकबुद्धत्वमनुजातो न बुद्धत्वमनुजातः। तत्कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यैरनुजायेत, ये चानुजायेरन्। एवं हि सुभूतिः स्थविरस्तथागतमनुजातः॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-गम्भीरचर्येयं भगवन् यदुत तथता। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। गम्भीरचर्येयं शारिपुत्र यदुत यथता। अस्मिन् खलु पुनस्तथतानिर्देशे निर्दिश्यमाने त्रयाणां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि, पञ्चानां च भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, पञ्चभिश्च देवपुत्रसहस्रैः पूर्वपरिकर्मकृतैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, षष्टेश्च बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि॥



अथ खल्वायुष्मान् शारिपुत्रस्तेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि विदित्वा भगवन्तमेतदवोचत्-को भगवन् हेतुः कः प्रत्ययो यदेतेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि? भगवानाह-एतैः शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि, सर्वत्र च दानं दत्तं शीलं रक्षित्यं क्षान्त्या संपादितं वीर्यमारब्धं ध्यानान्युत्पादितानि। ते खलु पुनरिमे प्रज्ञापारमितया अपरिगृहीता उपायकौशल्येन च विरहिता अभूवन्। किंचापि शारिपुत्र एतेषां बोधिसत्त्वानामस्ति मार्गः शून्यता वा आनिमित्तचर्या वा अप्रणिहितमनसिकारता वा, अथ च पुनरेतैरुपायकौशल्यविकलत्वाद्भूतकोटिः साक्षात्कृता, श्रावकभूमौ निर्जाताः, न बुद्धभूमौ। तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर्योजनशतिको वा द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा पञ्चयोजनशतिको वा आत्मभावो भवेत्। स त्रायस्त्रिंशेषु देवेषु वर्तमानो जम्बूद्वीपमागन्तव्यं मन्येत। स खलु पुनः शारिपुत्र पक्षी शकुनिरजातपक्षो वा भवेत्, शीर्णपक्षो वा भवेत्, छिन्नपक्षो वा भवेत्। स त्रायस्त्रिंशतो देवनिकायादात्मानमुत्सृजेत्-इह जम्बूद्वीपे प्रतिष्ठास्यामीति मन्येत। अथ तस्य पक्षिणः शकुनेस्ततः पततः आकाशे अन्तरीक्षे स्थितस्य अन्तरा चित्तस्यैवं भवेत्-अहो बताहं पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठेयमिति। तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिः प्रतिबलः पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठातुम्? आयुष्मान् शारिपुत्र आह-नो हीदं भगवन्। भगवानाह-सचेत्पुनरेवं चिन्तयेत्-अहो बताहमकृतोऽनुपहतो जम्बूद्वीपे प्रतिष्ठेयमिति। तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिरकृतोऽनुपहतो जम्बूद्वीपे प्रतिष्ठेत्? शारिपुत्र आह-नो हीदं भगवन्। कृतश्च स भगवन् उपहतश्च भवेज्जम्बूद्वीपे च पतितः सन् मरणं वा निगच्छेत् मरणमात्रकं वा दुःखम्। तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति-यदस्य महांश्चात्मभावो भवति, पक्षौ चास्य न भवतः, उच्चाच्च प्रपतति॥



एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। किं चापि शारिपुत्र बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, शीलं रक्षेत्, क्षान्त्या संपादयेत्, वीर्यमारभेत, ध्यानानि, समापद्येत, महच्चास्य प्रस्थानं भवेत्, महांश्चास्य चित्तोत्पादो भवेदनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। सचेदयं प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवेत्, एवं श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति॥



पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तच्छीलं तं समाधिं तां प्रज्ञां तां विमुक्तिं तद्विमुक्तिज्ञानदर्शनं समन्वाहरति, आधारयति निमित्तयोगेन, न स तथागतानामर्हतां सम्यक्संबुद्धानां शीलं न जानाति न पश्यति। न समाधिं न प्रज्ञां न विमुक्तिं न विमुक्तिज्ञानदर्शनं तथागतानामर्हतां सम्यक्संबुद्धानां जानाति, न पश्यति। सोऽजानन्नपश्यन् शून्यतायाः शब्दं शृणोति। स तं शब्दं निमित्तीकरोति। तं शब्दं निमित्तीकृत्य अनुत्तरायां सम्यक्संबोधौ परिणामयितुमिच्छति। ततो वेदितव्यमेतत्-स्थास्यत्ययं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वेति। तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति-यत्प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितो भवति॥



शारिपुत्र आह-यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि-यो बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितः, किंचापि स बहुनापि पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश्च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम्। तस्मात्तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम्। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-एवमेतच्छारिपुत्र, एवमेतत्। यः शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः, उपायकौशल्येन च विरहितः, किंचापि स बहुना पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश्च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम्। तस्मात्तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम्॥



अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैः, ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता, दुरभिसंभवा भगवन् अनुत्तरा सम्यक्संबोधिः। परमदुरभिसंभवा भगवन् अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्। अथ खलु भगवांस्तान् शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान् सहापतिमहाब्रह्मप्रमुखान् रूपावचरांश्च देवपुत्रानामन्त्रयते स्म-एवमेतद्देवपुत्राः, एवमेतत्। गम्भीरेयं देवपुत्राः प्रज्ञापारमिता। दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं दुष्प्रज्ञैर्हीनवीर्यैर्हीनाधिमुक्तिकैरनुपायकुशलैः पापमित्रसंसेविभिः॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यद्भगवानेवमाह-दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति, कथं भगवन् दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः? परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्, यत्र न कश्चिदभिसंबुध्यते? तत्कस्य हेतोः? शून्यत्वाद्भगवन् सर्वधर्माणाम्। न स कश्चिद्धर्मः संविद्यते यो धर्मः शक्योऽभिसंबोद्धुम्। तथा हि भगवन् सर्वधर्माः शून्याः। यस्यापि भगवन् धर्मस्य प्रहाणाय धर्मो देश्यते, सोऽपि धर्मो न संविद्यते। एवं यश्चाभिसंबुध्येत अनुत्तरां सम्यक्संबोधिम्, यच्चाभिसंबोद्धव्यम्, यश्च जानीयात्, यच्च ज्ञातव्यम्, सर्व एते धर्माः शून्याः। अनेनापि भगवन् पर्यायेण ममैवं भवति-स्वभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं न दुरभिसंभवेति। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-असंभवत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। असद्भूतत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। अविकल्पत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। अविठपित्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्॥



अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-शून्यमित्यनेनाप्यायुष्मन् सुभूते पर्यायेण दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्। तत्कस्य हेतोः? न ह्यायुष्मन् सुभूते आकाशस्यैवं भवति-अहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति। एवं च आयुष्मन् सुभूते इमे धर्मा अभिसंबोद्धव्याः। तत्कस्य हेतोः? आकाशसमा ह्यायुष्मन् सुभूते सर्वधर्माः। यदि चायुष्मन् सुभूते स्वभिसंभवा भवेदनुत्तरा सम्यक्संबोधिः, न त्वेवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः। यस्मात्तर्ह्यायुष्मन् सुभूते गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तन्तेऽनुत्तरयाः सम्यक्संबोधेः, तस्मादायुष्मन् सुभूते एवं विज्ञायते-दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः। परमदुभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति॥



एवमुक्ते आयुष्मन् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-किं पुनरायुष्मन् शारिपुत्र रूपं विवर्तते अनुत्तरायाः सम्यक्संबोधेः? शारिपुत्र आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्योऽन्यत्र विज्ञानात् स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र या रूपतथता, सा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र या वेदनातथता संज्ञातथता संस्कारतथता, या विज्ञानतथता, सा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र रूपमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह-नो हीदमायुष्मन् सुभूते।



सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र रूपतथता अनुत्तरां संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र रूपं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र रूपतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-तकिं मन्यसे आयुष्मन् शारिपुत्र तथता विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते।



सुभूतिराह-तत्किं मन्यसे आयुष्मन् शारिपुत्र तथतायां स धर्मः, यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-तत्कतमः पुनरायुष्मन् शारिपुत्र स धर्मो यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? यस्तस्यामेव धर्मतायां स्थितः सर्वधर्मास्थानयोगेन? कतमो वा पुनः स शारिपुत्र धर्मो या तथता? कच्चिद्वा पुनरायुष्मन् शारिपुत्र तथता विवर्तिष्यते? आह-नो हीदमायुष्मन् सुभूते। सुभूतिराह-एवमायुष्मन् शारिपुत्र सत्यतः स्थितितोऽनुपलभ्यमानानां सर्वधर्माणां कतमः स धर्मः, यो विवर्तिष्यते अनुत्तरयाः सम्यक्संबोधेः? एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-यया धर्मनयजात्या आयुष्मान् सुभूतिः स्थविरो निर्दिशति, तया न स कश्चिद्धर्मो यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः। ये च खलु पुनरिमे आयुष्मन् सुभूते त्रयो बोधिसत्त्वयानिकाः पुद्गलास्तथागतेनाख्याताः, एषां त्रयाणां व्यवस्थानं न भवति। एकमेव हि यानं भवति यदुत बुद्धयानं बोधिसत्त्वयानं यथा आयुष्मतः सुभूतेर्निर्देशः॥



अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रमेतदवोचत्-किं पुनरायुष्मन् शारिपुत्र आयुष्मान् सुभूतिः स्थविरः एकमपि बोधिसत्त्वं नाभ्युपगच्छति श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा। प्रष्टव्यस्तावदयमायुष्मान् सुभूतिः स्थविरः। अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं पुनस्त्वमायुष्मन् सुभूते एकमपि बोधिसत्त्वं नाभ्युपगच्छसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र या तथतायास्तथता, तत्र तथतायामेकमपि बोधिसत्त्वं समनुपश्यसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? शारिपुत्र आह-न ह्येतदायुष्मन् सुभूते। तथतापि तावत् त्रिभिराकारैर्नोपलभ्यते, प्रागेव बोधिसत्त्वः। सुभूतिराह-किं पुनरायुष्मन् शारिपुत्र तथता एकेनाप्याकारेणोपलभ्यते? आह-न ह्येतदायुष्मन् सुभूते। सुभूतिराह-कच्चित्पुनस्त्वमायुष्मन् शारिपुत्र तथतायामेकमपि बोधिसत्त्वधर्मं समनुपश्यसि? आह-न ह्येतदायुष्मन् सुभूते। सुभूतिराह- एवमायुष्मन् शारिपुत्र सत्यतः स्थितितस्तस्य बोधिसत्त्वधर्मस्यानुपलभ्यमानस्य कुतस्तवैवं भवति-अयं श्रावकयानिकः, अयं प्रत्येकबुद्धयानिकः, अयं महायानिक इति? एवमेतेषामायुष्मन् शारिपुत्र बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यमेतत्-निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति॥



अथ खलु भगवानायुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु सुभूते। एवमेतत्सुभूते, एवमेतत्। प्रतिभाति ते सुभूते यथापि नाम तथागतानुभावेन बुद्धाधिष्ठानेनेदं वदसि। एवमेतेषां बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यमेतत्-निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति। अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-कतमया भगवन् बोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः? भगवानाह-अनुत्तरया शारिपुत्र सम्यक्संबोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः॥



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-अनुत्तरायां भगवन् सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन कथं स्थातव्यं कथं शिक्षितव्यम्? भगवानाह-अनुत्तरायां सुभूते सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु समं स्थातव्यम्। सर्वसत्त्वेषु समं चित्तमुत्पादयितव्यम्। न विषमचित्तेन परे आलम्बितव्याः। मैत्रचित्तेन परे आलम्बितव्याः। हितचित्तेन परे आलम्बितव्याः। कल्याणचित्तेन परे आलम्बितव्याः। निहतमानचित्तेन परे आलम्बितव्याः। अप्रतिहतचित्तेन परे आलम्बितव्याः। अविर्हिसाचित्तेन परे आलम्बितव्याः। अविहेठनाचित्तेन परे आलम्बितव्याः। सर्वसत्त्वेषु मातृसंज्ञामुपस्थाय पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां चोपस्थाप्य परे आलम्बितव्याः। एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामन्तिके स्थातव्यम्, एवं शिक्षितव्यम्-सर्वसत्त्वानामहं नाथ इति। स्वयं च सर्वपापनिवृत्तौ स्थातव्यम्। दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यमारब्धव्यं ध्यानं समापत्तव्यं प्रज्ञायां परिजयः कर्तव्यं, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादो व्यवलोकयितव्यः, अन्येषामपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम्। एवं सत्येषु यावद्बोधिसत्त्वन्यामावक्रान्तौ सत्त्वपरिपाचने च स्थित्वा अन्येषामपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम्। तस्यैवं स्पृहयत एवं शिक्षमाणस्य अनावरणं रूपं यावद्धर्मस्थितिरनावरणा भविष्यतीति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां तथतापरिवर्तो नाम षोडशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project