Digital Sanskrit Buddhist Canon

१० स्वप्ननिरुक्तिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 10 svapnaniruktiḥ


 



१०। स्वप्ननिरुक्तिः।



 



नमः सर्व्वज्ञाय।



 



विनयेष्वभि(सुवा)धर्म्मेषु सूत्रेषु जिनपुङ्गवैः।



धर्म्माः स्वप्नोपमाः ख्याता विष्पष्टार्थं तत् कथ्यते॥



स्वप्नं सत्यमसत्यं वा [...........]विदेव वा।



माया यथा प्रतिष्ठानं सतां किमिह सम्मतम्॥



 



स्वतः सत्यमबोधेन तद्बोधे या(व)त्यलीकताम्।



प्रथमे [तु]स्वतः ज्ञानं द्वितीये नास्तिता भवेत्॥



प्रबोधात् कल्पिता योहे नानुभूतिरपोह्यते।



सच्चित्रप्रकाशात्मा यद्य[द]स्त्यनुभवो महान्॥



 



क्षणध्वंस्यालयात् मौलात् प्रवृत्तिभ्यो विचित्रता।



ताश्च तत्र तदाकारा चिद्देशितं तदिष्यते॥



स्वप्नात् स्वप्नं यदेव स्यात् चिच्चित्रालीकता तदा।



नैव सत्यं असद्वित्तेर्न चोच्छेदः प्रकाशतः॥



 



किमन्यन्निकृतं नाम[ना]म्नौ मायेति वा कृतम्।



नाम्नि न युज्यते नाम अप्रतिष्ठा त्वनामनि।



षट् निबहद्वितयं [च]चत्वारो बोधये मताः।



स्वप्नतुल्यमिदं विश्वमित्थमुक्तं जिनोत्तमैः॥



किं चास्थानमतो विद्धि बुद्धसर्व्वस्वमुत्तमम्।



सम्वित्त्या सद्गुरोर्यत्नात् चर्य्यया च विशेषतः॥



 



॥स्वप्ननिरुक्तिः समाप्तेति॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project