Digital Sanskrit Buddhist Canon

अथ पञ्चचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha pañcacatvāriṁśaḥ paṭalavisaraḥ
अथ पञ्चचत्वारिंशः पटलविसरः।



अथखलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। सर्वां च शुद्धावासभवनसन्निपतितां देवगणानामन्त्रयते स्म। शृण्वन्तु भवन्तो देवसङ्घाः ! मञ्जुश्रियस्य कुमारभूतस्य महाऋद्धिविकुर्वणप्रातिहार्यविक्रीडितचेष्टितबालरूपस्वरूपनिदर्शनयथाशयत्वसन्तोषणमहायानाग्रधर्मप्रापणं सत्त्वपाकसंयोजनमुद्रामन्त्रप्रभावतत्रसत्त्वयोजनमभिप्रायसम्पूरणार्थं मुद्रापटलं परमगुह्यतमं सर्वमन्त्रतन्त्रकल्पेषु बीजभूतं सारभूतं परमरहस्यं महागुह्यतमं परमोत्तरतन्त्रेषु सर्वलौकिकलोकोत्तरेषु अप्रकाश्यं परमगोप्यं नाशिष्याणां च देयम् अश्राद्धानामनुत्पादितबोधिचित्तानां मत्सरिणामन्यतीर्थायतनभक्त्यानां महायानाग्रधर्मविद्वेषिणां सर्वमन्त्रतन्त्रेषु अगौरवजातानाम्। एतेषां प्रकाश्य अन्येषां प्रकाश्यमिति समयज्ञानां बुद्धशासने प्रतिपन्नानां सुरूपसुवेषश्राद्धमविकलचित्तसन्धानमहोत्साहा सर्वमन्त्रेषु च सगौरव सर्वबुद्धबोधिसत्त्वेषु प्रत्येकबुद्धार्यश्रावक सर्वदेव सब्रह्मचारी सप्रतीसादरजातेषु सत्त्वेषु महासन्नाहसन्नद्धेषु सकलसत्त्वाधात्वोत्तारणाभ्युद्यमोद्यतेषु महाकारुणिकेषु क्षान्तिसौरभ्यसुवचस्केषु सत्त्वेष्वेतेषां देयमन्येषामदेयमित्याहु च॥



एक मुद्रागणः श्रेष्ठः प्रयुक्तो मन्त्रयोजितः।

करोति कर्म विविधा मनेष्टा मनुयोजिता॥

जापिभिः सर्वकालं तु प्रयोक्तव्यः सिद्धिमिच्छता।

नाम्ना त्रैलोक्यविख्यातः बुद्धैः अजितः सदा॥

स्त्रीसम्पत्करो ह्येष प्रथितः सर्वजन्तुभिः।

श्रीवत्सो नाम मुद्रोऽयं प्रमुखोऽष्टशते भुवि॥

मुद्राणामष्टशतं ज्ञेयं मञ्जुघोष ! शृणोहि मे।

पुरा जिनवरैर्गीतं बुद्धपुत्रैश्च धारितम्॥

अहं वक्ष्ये प्रत्यहं वर्त्तमानमनागतम्।

अर्थार्थं समनुमोद्ये रक्ष्येऽहं भुवनत्रये॥

मञ्जुघोषस्तथा हृष्टः उवाच वदतां वरम्।

देशयन्तु महात्मानो बुद्धाः सर्वत्र पूजिताः॥

यं श्रुत्वा पुरुषाः प्राज्ञाः नियतं बोधिमाश्रये।

सर्वेषां तु प्रवृत्तानां जपहोमव्रते स्थिताम्॥

ध्रुवं मन्त्रास्तु सिद्ध्येयुरिमैर्मुद्रैस्तु मुद्रिताः।

अध्येष्येऽहं महावीरं शाक्यसिंहं नरोत्तमम्॥

अस्माकं सत्त्वमर्थाय धर्मकोशार्थपूरणम्।

महायानाग्रधर्मार्थं मन्त्रचर्यार्थसाधक॥

दुर्दान्तदमकं पुण्यं पवित्रं पापनाशनम्।

देशयन्तु महावीरा पटलं मुद्रसम्भवम्॥

पूरणार्थं तु मुद्राणां सूचनार्थं तु देवताम्।

अनुकम्पार्थं तु जापिनाम्॥

एवमुक्त्वा तु मञ्जुश्रीः कुमारो बालरूपिणः।

निरीक्ष्य सुगतश्रेष्ठं सुखो मञ्जुरवस्तदा॥

उवाच मधुरां वाणीं मुनिश्रेष्ठो विनायक।

कलविङ्करुतः श्रीमां मेघदुन्दुभिनिःस्वनः॥

ब्रह्मस्वरेण वचसा वाचो मभ्याचचक्ष सः।

शृणोथ भूतगणाः सर्वे कल्पार्थं मन्त्रदेवताम्॥

समयं सर्वदैवानां मुख्यं मुद्राश्च दैवतम्।

समतिक्रान्तबुद्धैस्तु प्रत्येकार्हतसाधकैः॥

कः पुनरन्यसत्त्वैस्तु विद्यादैवतलौकिकैः।

एष मुद्रागणज्येष्ठः सर्वमुद्रेषु कत्थ्यते॥

यं तथा जापिनः सर्वे नियतं सिद्ध्यन्ति देवता।

आदौ किसलयं नाम्ना द्वितीयं भवति मेखला॥

तृतीयं सुमेखला चैव चतुर्थी सुमनुसोद्भवा।

पञ्चमी सङ्कलेत्याहुः षष्ठी रेखा प्रघुष्यते॥

सुवर्णा सप्तमी ज्ञेया माला भवति चाष्टमी।

नवमी अङ्कुशी ख्याता दशमी सप्तदशच्छदा॥

एकादशी भवेत् कुन्ता सुकुन्ता द्वादशी भवेत्।

कर्दमी त्रयोदशी चात्र पटही पञ्चदशी भवेत्॥

षोडशी तु भवेद् यष्टिः मुष्टिः सप्तदशी विदुः।

अष्टादश समाख्याता वज्रमाला प्रगीयते॥

हेममालोनविंशा तु पद्ममाला थ विंशति।

नागी नागमुखी चैव तृतीया भवति महामुखी॥

वक्त्रा च वक्त्रसहिता छत्री भवति लोहिता।

लोहिता चाष्टविंशा तु नीललोहितिका सिनी॥

ज्योत्स्ना जनि तामसी द्वात्रिंशा कथिता भुवि।

तारा सुतारा तारावर्ता सुमुद्रजापि॥

घोररूपिणी विख्याता रात्री भयदा सदा।

महाप्रभावेति विख्याता या मुद्रा भुवि लोचना॥

सप्तत्रिंशतिमुद्रास्तु सङ्ख्या ह्येषा प्रगीयते।

श्वेता पण्डरा चैव एवला मामकी च या॥

महाभयहरी देवी भ्रुकुटी तु प्रगीयते।

अजिता अपराजिता ख्याता जया विजया पराजिता॥

साधकी साधनी चैव तारा श्वेतेति गीयते।

घटकर्परमित्याहुः सुगती गतिशोधिका॥

पद्मी पद्मसुता चैव वज्री वज्रमनोद्भवा।

स्त्रीसङ्ख्या गणो मुद्रैः पुरुषाणां तु प्रगीयते॥

भद्रं मुद्रपीठं तु आसनं शयनं भुवि।

स्वयम्भूशम्भुचक्रश्च कुलिशो मुसलस्तथा॥

स्वस्तिको लिङ्गमुद्रश्च पक्षिराड् गरुत्मनः।

मुद्रो गरुडध्वजो ज्ञेयः विष्णुरुद्रसवासवः॥

ब्रह्मा पद्मोद्भवः श्रीमां श्रीसम्पुट एव च।

तथ्यं यमलमुद्रं च मयूरासनमेव तु॥

विदितं सर्वदिग् धीमां कार्त्तिकेयार्थदः सदा।

कुमारस्यानुचरो ज्ञेयः मञ्जुघोषस्य॥

तस्य मुद्रं महावीर्यं ता ताः शक्तिधरः सदा।

मयूरासनमुद्रं तु तस्यैवैतत् प्रयुज्यते॥

अनेन बद्‍ध्वा मन्त्रेण कार्त्तिकेयस्य युक्तितः।

यावन्तो लौकिका मुद्रा शैवाश्चैव सवासवाः॥

सर्वे भवन्ति बद्‍ध्वा वै वश्यार्थं हि प्रयुज्यते।

एष मुद्रा करो ह्यर्थां पुष्कलां साधु चेष्टिताम्॥

प्रसन्नो बुद्धपुत्रस्य मञ्जुघोषस्य धीमतः।

बुद्धशासनमवतीर्णो बालरूपी महर्द्धिकः॥

कार्त्तिकेयोऽथ विख्यातः मन्त्रमुख्येऽथ लौकिके।

सर्वेषां च प्रयोक्तव्यो बालिशानां विशेषतः॥

ग्रहमातरकूष्माण्डैः गृहीता कटपूतनैः।

दैत्यदानवयक्षैश्च पिशाचोरगराक्षसैः॥

क्रव्यादैर्मानुषैश्चापि नित्यं चापि विमोक्षकः।

रौद्रसत्त्वेऽथ दुष्टेभिः पिशिताशनव्यन्तरैः॥

मुद्रितेभिश्च मनुजैर्मुद्रोऽयं सम्प्रमोक्षकः।

सर्वसत्त्वार्थयुक्तश्च प्रयुक्तः सुखदः सदा॥

संक्षेपेण तु उक्तोऽयं विस्तरश्चैव संज्ञकम्।

अपरं मुद्रं प्रवक्ष्यामि यं बद्‍ध्वा सुखी भवेत्॥

जापिनः सर्वकर्मेषु प्रयुक्तस्याप्यमोघवाम्।

नाम्ना बुद्धासनो नाम महामुद्रा प्रकत्थ्यते॥

विस्तरः सर्वतन्त्रेषु पठ्यते तां निबोधत।

यं बद्‍ध्वा जापिनः सर्वे नियतं बोधिपरायणाः॥

कः पुनः सिद्धिकामानां भोगालिप्सपरायणम्।

पूर्वव चौक्षसमाचारः स्थित्वा च प्राङ्मुखः शुचिः॥

उभौ हस्तौ समौ कृत्वा अञ्जल्याकारमाशृतौ।

कुर्याद् विकासितौ चाग्रे उभावङ्गुष्ठनामितौ॥

मध्यमाङ्गुलिमाश्लिष्टौ कुण्डलाकारचिह्नितौ।

पर्यङ्केनोपविष्टे तु नाभिदेशे तदा न्यसेत्॥

एष मुद्रावरः श्रेष्ठः सर्वकर्मेषु योजितः।

उत्तमेषु च उत्तिष्ठे नाधमे मध्यमेऽपि वा॥

क्षिप्रमर्थकरो ह्येष सिद्धः सर्वत्र युज्यते।

महापुण्यो पवित्रोऽयं मङ्गल्यमघनाशनः॥

सर्वपापहरः पुण्यः मुद्रोऽयं सिद्धिहेतवः।

द्वितीयमपरं मुद्रा महामुद्रा प्रकत्थ्यते॥

नाम्ना शत्रुञ्जयी नाम सर्वविघ्नविनाशिनी।

यं बद्‍ध्वा शत्रवः सर्वां वशं कुर्यान्न संशयः॥

सर्वेच्छोषमायान्ति गच्छन्ते वाथ दासताम्।

रागो द्वेषश्च मोहश्च स्वपक्षः सगणैः सह॥

लोकमात्सर्यमानश्च विचिकित्सा कथंकथा।

प्रमाद्यो माया कौसीद्यं साध्येष्या कुमार्गता॥

मित्थ्यादृष्टिदशे माने दन्ते स्तम्भे च लुब्धता।

दशा कुशलपथा कर्मा सर्वे ते शत्रवः स्मृताः॥

एष शत्रुगणः प्रोक्तो बुद्धैर्बुद्धसु तैस्तथा।

एष मार्गेष्ववस्थाभिः प्राणिनो य च माशृता॥

बुद्धशासनहन्तारः तेषां मुद्रा प्रयुज्यते।

इयं मुद्रा महामुद्रा गीतं बुद्धैः पुरा सदा।

प्रयोक्तव्या प्राणिनां ह्येषा दमनार्त्थं पापनाशनी।

तथैव पुरतः स्थित्वा उभौ पाणिसमाश्रये॥

समाश्लिष्टौ थ तौ कृत्वा अञ्जल्याकारमाशृतौ।

अङ्गुष्ठयुगले क्षिप्रं तर्जन्यौ संन्यसेदुभौ॥

कुण्डलाकारसंश्लिष्टौ तृतीये पर्वमाश्रयेत्।

एषा अर्थकरी मुद्रा द्वितीया कथिता जिनैः॥

शत्रूणां नाशयेत् क्षिप्रं हृदयांसि प्रदोषिणाम्।

तृतीयं मुद्रं प्रवक्ष्यामि मञ्जुघोष ! शृणोहि ताम्॥

नाम्ना शल्यहरी दिव्या सर्वशल्यविनाशिनी।

सर्वत्र योजिता मुद्रा सर्वव्याधिचिकित्सकी॥

विषशस्त्रकृतां दोषां जलपावकसम्भवाम्।

अनिलोद्भवदोषांश्च दुष्टसत्त्वगरप्रदाम्॥

क्रव्यादां मानुषांश्चापि सविषां स्थावरजङ्गयाम्।

यच्च देहगतां शल्यां नारीणां प्रसवात्मिनाम्॥

संसाराभिरतां चान्यां प्राणिनां दोषपीडिताम्।

सर्वनेतास्तथा शल्याः विशल्यकरणी ह्ययम्॥

एष मुद्रा महामुद्रा स्मरिता सर्वजन्तुभिः।

विशल्या सुखिता क्षिप्रं भवते नात्र संशयः॥

नाममात्रेण ते मर्त्या मन्त्रस्यास्य प्रभावतः।

सर्वव्याधिविनिर्मुक्ता विचरन्ते महीतले॥

पूर्ववच्चौक्षसमाचारा शुचिर्वस्त्रशुची तदा।

बध्नीयान्मुद्रवरं श्रेष्ठं तृतीयं पापनाशनम्॥

उभौ हस्तौ समायोज्य विपरीताकारसम्भवाम्।

समौ व्यक्तौ अञ्जल्याकारौ हृदयस्थाने तु तं न्यसेत्॥

एष मुद्रा महामुद्रा सर्वानर्त्थनिवारणी।

यं बद्‍ध्वा जापिनः सर्वे नियतं बोधिपरायणाः॥

चतुर्थी तु महामुद्रां महायक्षीं तमादिशेत्।

महाप्रभावा विज्ञेया सर्वमन्त्रेषु जापिनाम्॥

अत्र यक्षगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः।

मन्त्रदेवतसर्वेषु उत्तमाधममध्यमाः॥

सर्वसत्त्वैस्तु सम्पूज्या मुद्रेयं सम्प्रगीयते।

आदौ बद्‍ध्वा जपेन्मन्त्रं होमसाधनकर्मसु॥

सर्वत्र योजिता पुण्या सर्वमन्त्राणि साधयेत्।

वज्रपाणिस्तथा मान्त्रः सर्वमुद्रेश्वरी ह्ययम्॥

पठिता लोकनाथैस्तु पुरा ज्येष्ठैर्ह्यतीतकैः।

तथैव शुचिनो भूत्वा स्थित्वा उदङ्मुखस्तदा॥

बध्नीयान्मुद्रवरे श्रेष्ठेः सर्वकर्मेषु जापिनः।

दमनार्थं सर्वभूतानाम्॥

यथायं कुरुते क्षिप्रं यः सत्त्वाचेष्टितं भुवि।

उभौ हस्तौ तदा न्यस्य सम्पुटाकारवेष्टितौ॥

कुर्यात् त्रिसूचिकाकारं अङ्गुष्ठौ कन्यसमध्यमौ।

अन्योन्यसंश्लिष्टौ चतुर्भिश्चाप्यथ नामितौ॥

कुर्यान्मुद्रवरं ह्युक्तं शिरःस्थाने तु संस्थितम्।

यं दृष्ट्वा सर्वभूता वै विद्रवन्ति न संशयः॥

पञ्चमी तु महामुद्रा शृणु त्वं मञ्जुरवः सदा।

नाम्ना त्रिसमया चैव महापुण्यतमा शिवा॥

दुर्दान्तदमनी नित्यं सर्वसत्त्वार्त्थसाधनी।

घोररूपी महेशाक्षा कालरात्रिसमप्रभा॥

कृतान्तरूपिणी भीमा यमस्यापि भयानिका।

चण्डा च चण्डरूपीति दुःप्रेक्षा दुःसहा सदा॥

रुद्रवासवयक्षेषां राक्षसग्रहमातराम्।

देवाननुसरांश्चैव मन्त्रमुख्यां महर्द्धिकाम्॥

सर्वसत्त्वा तथा नित्यं दुर्दान्तदमकी हिता।

अकालमृत्युविनाशाय मृत्युनाशाय वै हिता॥

सृष्टा सर्वबुद्धैस्तु कृतान्तस्यापि भयावहा।

यं बद्‍ध्वा पुरुषा नित्यं समयज्ञा भवन्ति ह॥

ये च मन्त्राश्रिता नित्यं तेऽपि मुक्ता जपे रता।

तेषां सिद्ध्यन्ति मन्त्रा वै अयत्नेनैव देहिनाम्॥

अजापिनोऽपि भवेज्जापी अशुचिः शुचिनो भवेत्।

संयुक्तः क्रोधराजेन यमान्तेनेह मुद्रया।

सर्वकर्मकरा ह्येषा संयुक्ता तत्त्वदर्शिभिः।

सर्वविघ्नविनाशार्थं सर्वव्याधिचिकित्सना॥

सर्वसत्त्वार्थसम्भारा सर्वदुष्टनिवारणा।

सर्वासां पूरणार्थाय विहिता मुनिवरैः पुरा॥

एष मुद्रा हिता लोके समयभ्रंशाच्च पूरणी।

बद्‍ध्वा तु मुद्रवरं श्रेष्ठं समयज्ञस्तत्क्षणाद् भवेद्॥

सर्वेषां चैव मन्त्राणां लौकिकानां च ततोत्तमात्।

प्रविष्टो मण्डलो ज्ञेयः मुद्रा मन्त्रेण ईरितः॥

तथैव शुचिनो भूत्वा पूर्ववत् सर्वकर्मसु।

त्रिसूच्याकार तथा वज्रं अङ्गुलीभिः समाचरेत्॥

ज्येष्ठमध्यम‍अङ्गुल्यौ अङ्गुष्ठैश्च सता न्यसेत्।

मूर्ध्नि स्थाने ततः कृत्वा अपसव्येन भ्रामयेत्॥

एष मुद्रवरा श्रेष्ठा प्रयुक्तः सर्वकर्मसु।

एता पञ्च महामुद्रा लोकनाथैस्तु भाषिता॥

नियतं पुरुषवरा बद्‍ध्वा सम्बोध्यग्रं स्पृशन्ति ह।

सर्वासां पूरयत्येते जापिनां मनसोद्भवाम्॥

सर्वतथ्यं यथाभूतं दर्शयन्ति यथेप्सितम्।

अपरे मुद्रवरा श्रेष्ठा पञ्च चैव प्रकाशिता॥

शिरः वक्त्रोऽथ गात्रं च उत्पलं कवचं तथा।

एते मुद्रवरा दिव्या मञ्जुघोषस्य धीमतः॥

पुरा लोकवरैर्मुख्यैः कथिता तत्त्वदर्शिभिः।

अहं च मञ्जुरवं वक्ष्ये कत्थ्यमानं निबोध्यताम्॥

शृणुष्वैकमना नित्यं मुद्रा मुद्रवरोत्तमाम्।

पूर्ववच्चौक्षसमाचारः स्थित्वा धातुवराग्रतः॥

बध्नीयात् करपुटे नित्यं मुद्रां पञ्चार्थसंज्ञिकाम्।

उभे करपुटाग्रे तु कुड्मलाकारकारिते॥

दद्युः शिरवरे नित्यं शिरमुद्रेति संज्ञितम्।

यथैवोत्पलमुद्रा तु न्यस्तः दुरवरे सदा॥

सा च सर्वतः क्षिप्ता गात्रमुद्रा विधीयते।

स चैव कुतो ज्ञेया वक्त्रमुद्रा तु सा भवेत्॥

तथैव हस्तौ संन्यस्य नाभिस्थाने तु संन्यसेत्।

ईषि तर्जन्याङ्गुल्यनाभिमात्मनः संस्पृशेत्॥

सा भवेत् कवचमुद्रा तु आत्मरक्षा तु सा भवेत्।

सर्वत्र योजिता ह्येते सफला सर्वार्थसाधिका॥

एते मुद्रा महामुद्रा मङ्गल्या मघनाशना।

जापिभिः सर्वकालं तु प्रयोक्तव्याः सफला हिताः॥

महावीर्या महापुण्या सर्वानर्थनिवारिका।

यं बद्‍ध्वा पुरुषा नित्यं नियतं बोधिपरायणाः॥

अपरे पञ्च महामुद्रा लोकनाथस्य तापिनः।

मुनिने शाक्यसिंहाय तथा रत्नशिखे गुरौ॥

सुपुष्पाय सुकेशाय तथा सुमनसोरवे।

सङ्कुसुमाय च बुद्धाय तथा पद्मोत्तरे वरे॥

सम्पूर्णाय सुनेत्राय शुद्धा चैव जगद्गुरोः।

पितामहाय चैव मुक्ताय जगद्वराम्बरमुक्तये॥

एतेषानां च बुद्धानामन्येषां च महात्मनाम्।

अतीतानागता सत्त्वां वर्तमानां स्वयम्भुवाम्॥

सर्वेषानां च बुद्धानां मूर्ध्नि सम्भूतिलक्षणा।

महाप्रभावा महामुद्रा समन्ताज्ज्वालमालिनः॥

उष्णीषा इति विख्याता तृधातुसमालये।

चक्रवर्त्ती महापुण्यो मङ्गल्यो मघनाशना॥

सर्वेषां च विद्यानां विद्याराजः स्मृतः प्रभुः।

एकाक्षरसंयुक्तः मन्त्रो सुगतमूर्धजः॥

मुद्रो तस्य विदो ज्ञेयो प्रभुरेकाक्षरस्य तु।

चक्रवर्त्ती जिनकुले जात मुद्रः परमेश्वरः॥

उभौ हस्तौ समाश्लिष्य सम्पुटाकारचिह्नितौ।

मुष्टियोगेन बद्‍ध्वा वै मध्याङ्गुल्यौ सुसूचितौ॥

ईषित् सङ्कोच्यवत्कृत्वा कुण्डलाकारदर्शितौ।

एष सर्वत्रगे मुद्रा सर्वमन्त्रेश्वरो विदो॥

मूर्धानं देवतं कृत्वा सुषिराकारकुड्मलम्।

ईषिन्नामिततर्जन्यौ कन्यसं तु सुपूजितौ॥

एष मुद्रवरः श्रेष्ठः तेजोराशे तु कथ्यते।

तदेव सम्पुटं चाग्र्या छत्राकारसंज्ञकम्॥

विकास्याङ्गुली सर्वां सितातपत्रेति संज्ञितम्।

जयोष्णीषं हितं देवं हि मध्याङ्गुल्यौ सुसूचितौ॥

तदेव विसारितौ चाग्रे पाणिभिः सर्वतो गतैः।

उष्णीषसङ्कभवा ज्ञेया सर्वत्रार्थदर्शिभिः॥

मुनिमूर्धजसम्भूता मुद्रा अग्रा प्रगीयते।

पञ्चमा तु भवेत् सा तु सर्वमुष्णीषसम्भवा॥

अनेन वै सर्वबुद्धानां यावन्तमुष्णीषमूर्धजाम्।

सर्वे ते च समायान्ति सर्वकर्मेषु योजिता॥

सर्वे मुनिवरैर्मुद्रा ये गीता भुवनत्रये।

सर्वेषां तु मुद्राणां मुद्रेयं परमेश्वरी॥

अनेनाबाहयेन्मन्त्रां अनेनैव विसर्जयेत्।

अनेन सर्वकर्माणि कुर्यात् सर्वत्र जापिनः॥

एते पञ्च महामुद्रा पुरा गीता मुनिवरैः।

सर्वकमार्थयुक्ता वै सर्वमुष्णीषसाधिका॥

यावन्तो मुनिवरैः गीता उष्णीषा भुवनत्रये।

सर्वेषां तु सर्वत्र इमे पञ्चार्थपूरणा॥

सर्वमुष्णीषतो ज्ञेया मुद्रा वै च असङ्ख्यका।

तेषां पञ्च वरा प्रोक्ता सर्वमुष्णीषसाधनी॥

अवलोकितमुद्रस्य पञ्च वैते सुमुद्रकाः।

प्रकृष्टा पद्मकुले श्रेष्ठा मुद्रे ते भुवि मण्डले॥

उष्णीषं च शिरोवक्त्रपद्ममुद्रा च कथ्यते।

महाकरुणजा देवी तारा भवति पञ्चमी॥

पूर्व चौक्षसमाचारः धौतवस्त्र सुजप्तधीः।

पाणिना शिरसा मृश्य ऊर्ध्वहस्तो भवेन्नरः॥

वामपाणितले लेख्यां मुष्टियोगेन वेष्टयेत्।

एष उष्णीषमुद्रोऽयं अवलोकितमूर्धजाम्॥

तदेव शिरवरे दत्त्वा शिरमुद्रा प्रगीयते।

तदेव सङ्कुचितौ चापि नाभिदेशे प्रतिष्ठितौ॥

विकास्य अङ्गुली सर्वां पद्ममुद्रेति सा विदोः।

उपरिष्टादेव वक्त्रान्ते हस्तौ तौ न समाशृते॥

अन्योन्यमिश्रितौ हस्तौ विरलाङ्गुलिमाश्रितौ।

तदेव वक्त्रमुद्रा तु पद्मकेतोऽथ गीयते॥

या तु पद्मध्वजे मुद्रा नागलोके प्रकथ्यते।

स भवेन्मुष्टियोगेन उभौ हस्तौ समाश्रितौ॥

उभौ तर्जन्यतां चोर्ध्वौ सूचीभूतौ सुचिह्नितौ।

अङ्गुष्ठपीडितौ श्रेष्ठौ तारामुद्रेति कथ्यते॥

एषा मुद्रवरा श्रेष्ठा करुणा पद्मध्वजे विदोः।

इत्येवं पञ्च महामुद्रा कथिता पद्मालये सदा॥

बोधिसत्त्वस्य मुख्ये ता लोकेशस्य महात्मने।

अत्र पद्मकुले भवन्ति बन्धं सर्वकर्मसु॥

मन्त्रनाथेश्वरो ये च विद्या देवतलौकिका।

सर्वे ते अत्र वै मुद्रे मुद्रा यान्ति सुमुद्रिता॥

ये च यक्षेश्वरा गीता वज्रपाणिमहर्द्धिका।

महामन्त्रार्त्थरौद्राश्च क्रोधप्राणहरा तथा॥

ये चान्ये लौकिका मुख्या मन्त्रयुक्ताश्च देवता।

सर्वे ते च समायान्ति मुद्रैरेतैः सुमुद्रिता॥

एते मुद्रा महामुद्रा पवित्रा पापनाशना।

यं बद्ध्वा जापिनः सर्वे क्षिप्रमायान्ति क्षिप्रतः॥

मुक्ता ताथागती मुद्रा अन्येषां परमेश्वरी।

अवलोकितनाथस्य सर्वव्याधिचिकित्सने॥

मुद्रै तो पञ्च महाभोगा विचरन्ति महीतले।

स्त्रीरूपधारिणो भूत्वा सर्वसत्त्वार्थयोजिता॥

यं बद्‍ध्वा पुरुषा प्राज्ञ ! नियतं बोधिपरायणा।

अपरा पञ्च महामुद्रा वज्रपाणि महर्द्धिका॥

य एष वज्रेश्वरः श्रीमां सर्वमन्त्रेश्वरः प्रभुः।

दशभूम्यपतिः श्रीमां सर्वानर्थनिवारकः॥

महाभयप्रदो चण्डः दुष्टसत्त्वनिवारणः।

दर्दान्तदमको धीमां दक्षः सत्त्वार्थसिद्धिषु॥

यक्षरूपेण सत्त्वानां आत्मना चेष्टिने भुवि।

सत्त्वार्थक्रियायुक्तः धर्मार्थमवतारयेत्॥

बोधिसम्भारमर्थाय विचेरुर्यक्षरूपिणः।

ये ते सत्त्वा हिता लोके यक्षिण्या सह मोहिता॥

तेषां सिद्धिर्न भवेन्मन्त्रां वाचा दुश्चरितेरिताम्।

बोधिसत्त्वो महापुण्यः बहुरूपी महर्द्धिकः॥

प्रदोष्य चित्तं मन्त्रेशे कुतः सिद्ध्यन्ति मानवाः।

मुद्रैता पञ्च वरा प्रोक्ता बुद्धैश्चापि महर्द्धिका॥

वज्रपाणिर्महापुण्या तां च क्षिप्र सुयोजयेत्।

तथैव हस्तावुद्वर्त्य श्वेतचन्दनकुङ्कुमैः॥

तथैव सम्पुटाकारौ कुड्मलाकारवेष्टितौ।

शिरःस्थाने तथा न्यस्तौ चापि सुस्थितौ॥

सा तु वज्रशिरा ज्ञेया महामुद्रा हिता विदोः।

यक्षसेनापतेर्मुद्रा द्वितीया भवति मूर्धजा॥

उष्णीषमुद्रा हिता लोके उष्णीषं यक्षपतेर्हितम्।

तदेव वज्रं शिरामुद्रा ऊर्ध्वमञ्जलिस्थापिताम्॥

एष मुद्रा महामुद्रा उष्णीषेति प्रगीयते।

तृतीया वज्रोद्भवा नाम ललाटस्थाने तु सा भवेत्॥

संन्यस्ताञ्जलिसम्पूर्णा ध्रुवौ मध्येष्वनामिकौ।

एषा वज्रोद्भवा नाम वज्रपाणेऽर्थसाधिका॥

चतुर्थी तु महामुद्रा वज्रवक्त्रेति गीयते।

उत्तानौ हस्ततलौ न्यस्य वेणिकाकारसम्भवौ॥

वक्षःस्थाने तथा न्यस्य मध्याङ्गुल्यां सुसूचितौ।

एषा मुद्रा महामुद्रा वरा यक्षवरे हिता॥

सर्ववज्रालया च सा।

पञ्च मात्रा महामुद्रा वज्रपाणि महर्द्धिका॥

तथैव हस्तौ संन्यस्य नाभिस्थाने तु कारयेत्।

तर्जन्या कुञ्चितौ कृत्वा अङ्गुष्ठाग्रे तु नामयेत्॥

तृतीये पर्वमाश्लिष्य कन्यसौ च सुसंस्थितौ।

बद्‍ध्वो च वेणिकाकारां शेषैरङ्गुलिभिस्तदा॥

एषा वज्रालया नाम महामुद्रा प्रगीयते।

अत्रैव सर्वमुद्रा तु लौकिका ये च वज्रिणे॥

शैवाः शक्रकाश्चापि रिषीणां च महर्द्धिका हिता।

सा वरा मतङ्गिनो ह्यग्रा मुद्रा प्रोक्ता महात्मभिः॥

यक्षराक्षसप्रेतैश्च कूष्माण्डैः कटपुतनैः।

ये तु मुद्रा वरा प्रोक्ता विष्ण्वीन्द्रैश्च वनाह्वयैः॥

ईशानमातरैर्लोकग्रहैश्चापि + + + + + +।

भास्करेन्दुविवस्वाक्षैर्वसवश्चापि सुपूजितैः रक्षात्मकैः॥

सृष्टा मुद्रवरा ये तु सर्वभूतगणैः सदा।

सर्वे चैव समायान्ति मुद्रेऽस्मिं वज्रमालये॥

प्रथिता मुद्रवरा ह्यग्रा कुलेऽस्मिं वज्रमाह्वये।

मुक्ता तथागतीं मुद्रां अवलोकीशस्यापि महात्मनः।

मुद्रा ह्येके ते वै अन्येषां प्रभुरिष्यते।

एषा मुद्रा महामुद्रा यक्षसेनापतेर्विदोः॥

यं बद्‍ध्वा पुरुषा नियतं सर्वे बोधिपरायणाः।

एषा मुद्रा वरः श्रेष्ठः परमाहुस्तथागताः॥

हत्येता पञ्च महामुद्रा वज्रपाणे यशस्विनः।

जापिभिः सर्वकालं तु स्मर्तव्या च महाभये॥

आशु नश्यन्ति भूता वै क्रव्यादा पिशिताशिना।

यक्षराक्षसप्रेतांसि कूष्माण्डाः कटपूतना॥

देवगन्धर्वमनुजाः किन्नराश्च ससिद्धकाः।

ग्रहमुख्यवरा गरुडा मातराश्च महर्द्धिकाः॥

येऽपि ते लोकमुख्याश्च ब्रह्माविष्णुमहेश्वराः।

सर्वसत्त्वाश्च वै लोके येषु सवर्त्र माशृताः॥

सर्वे ते दृष्टमात्रं वै विद्रवन्ति न संशयः।

एते मुद्रा जिनैह्यासी वज्रधृते प्रभोः॥

मन्त्रनाथस्य यक्षेशे लोकीशस्यापि महात्मने।

तस्माच्च जापिभिः सर्वैः नियतं सिद्धिलिप्सुभिः॥

स्मर्तव्या जपकाले तु सर्वमन्त्रेषु सिद्धिदा।

योऽसौ किसलयेत्याहुः मुद्रामादौ प्रगीतवाम्॥

तथैव हस्तौ संन्यस्य उरःस्थाने न्यसेद् बुधः।

तामादौ वेणिकां कृत्वा अङ्गुलीभिः समन्ततः॥

सा विद्या किसलये मुद्रा लौकिकां मन्त्रदेवताम्।

तामादौ योजयेत् क्षिप्रं क्षुद्रकर्मेषु धीमताम्॥

ज्वररोगगता सर्वान् नाशयेन्नात्र संशयः।

सैव सुमनसा ज्ञेया कन्यसाङ्गुलिनामितौ॥

पटही तु भवेत् सा तु मध्यमाङ्गुलिनामितौ।

कन्दर्पी च भवेत् सा च उभौ अङ्गुष्ठमुच्छ्रितौ॥

घटखर्परिका ज्ञेया अनामिकाग्रसुनामितौ।

तथैव कुड्मलं कृत्वा हस्ताग्रौ च सुभूषितौ॥

उत्पलाकारचिह्नं तु मुद्रमुत्पलमुच्यते।

विकासितोभयौ हस्तौ अङ्गुलीभिः समन्ततः॥

एषा वै पद्ममुद्रा तु भवे ज्योत्स्ना सनामितौ॥

तथैव योजितां सर्वां अङ्गुल्याग्राग्रकारिता॥

एषा सुपर्णिने मुद्रा सुपर्णीति प्रगीयते।

तदेव लम्पुटाकारं विपर्यस्ताकारचेष्टितम्॥

सा भवेद् यमलमुद्रा तु गरुत्मस्यापि महात्मने।

तथैव हस्तौ संन्यस्य मुष्टियोगेन योजितौ॥

उभयाङ्गुष्ठमध्यस्थौ लिङ्ग मुद्रेति गीयते।

उत्थिताङ्गुष्ठमध्यस्थौ तदेवं शङ्खमिष्यते॥

तदेव हस्तौ विस्रज्य जया भवति विश्रुता।

विजया भवते मुद्रा कन्यसाङ्गुलिवेष्टितौ॥

अनामिकाभिः समायुक्ता अजिता भवति पूरणी।

विसृज्य हस्तौ संयुक्तौ वामहस्तेन मीलयेत्॥

अङ्गुष्ठाग्रमधो नाम्य मुष्टिं बद्‍ध्वेह पण्डितः।

एषापराजिता ज्ञेया मुद्रेयं च सुपूजिता॥

चतुःकुमार्यो विधि ज्ञेया भगिन्येषु प्रकीर्तिता।

तुम्बुरुस्त्वेष विख्यातः ज्येष्ठभ्राता प्रकल्प्यते॥

नौयानसमाश्रिता ह्येते अम्भोधेस्तु निवासिनः।

विचरन्ति इमं स्थाने महापुण्यमहर्द्धिकाः॥

वश्यार्थं सर्वभूतानां सृष्ट्वा ब्रह्मविदो विदे।

सर्वत्र पूजिता ह्येता गुह्यमन्त्रैस्तु योजिता॥

अमोघा सिद्धिमेतांसि सर्वकर्मेषु योजिता।

क्षिप्रमर्थकराः सिद्धा मङ्गल्या मघनाशनाः॥

शुचिना शुचिकर्मेषु साधनीया तथोत्तमैः।

उत्थितं ज्वलनं शान्तं खचरं कायि सिद्धये॥

मध्यं समध्यकर्मेषु अशौचं कश्मलादिषु।

ये चापि पापकर्मा वै नित्योच्छिष्टाश्च देहिनाम्॥

तेषां सिद्ध्यन्त्ययत्नेन क्षुद्रकर्माणि वै सदा।

तथैव हस्तौ संयम्य नाभिदेशे समानयेत्॥

मध्यमाङ्गुल्यतः सूच्या वेणिकाकार वेष्टयेत्।

सुमेखला च सा मुद्रा उद्वेष्टा भवति मेखला॥

तमेव मधतलौ न्यस्तौ मुद्रा भवति सम्पुटा।

सैवमुच्छ्रिता ग्रीवे श्रीसम्पुटमुच्यते॥

नाभिस्थाने तदा न्यस्य अपसव्येन भ्रामयेत्।

रजनी मुद्रवरा ह्येषा दुष्टसत्त्वनिवारणी॥

दक्षिणे करमुद्यम्य मुष्टियोगेन माश्रयेत्।

मुद्रामुष्टिवरेत्याहुः सर्वमन्त्राणि चूर्णनी॥

सैवाङ्गुलिमुत्सृज्य उभौ हस्तौ प्रयोजिता।

मुष्टिमुद्रा वरेत्याहुः पिशिताशननाशनी॥

सा तु सङ्कुचिता ज्ञेया अङ्गुल्याग्रौ सुकुञ्चितौ।

मुद्रा सुकुन्ता विज्ञेया कुन्ता चैव प्रसारितैः॥

तारा सुतारा विधिज्ञेया एकरूपौ उभौ भवेत्।

उत्पलाकारसंन्यस्ता तर्जनीभिः सुसंहता॥

एकसूचिकमित्येव सम्पुटाकारवेष्टितौ।

तदेव प्रसारिता हस्तौ तारा भवति घुष्यते॥

तदेव हस्तौ संन्यस्य अञ्जल्याकारकारितौ।

तर्जन्या मिश्रितौ श्रेष्ठौ तृतीये पर्वणि स्थिते॥

अङ्गुष्ठौ चान्ते मुद्रा भवति लोचना।

तदेवाङ्गुलिमुत्सृज्य तर्जन्यौ सम्प्रयोजितौ॥

तदेव विहिता मुद्रा मुद्रा मामक्या सम्प्रयोजिता।

एवला मुद्रवरेत्याहु मध्यमाङ्गुल्यैः सुनामितैः॥

श्वेता याभ्रमुद्रा वै करैश्चात्र प्रसारितैः।

पण्डरा तु भवेन्मुद्रा मुष्टिभिः सम्प्रपीडितैः॥

महाप्रभावा महापुण्या तर्जन्यावुच्छ्रितावुभौ।

तदेव हस्तौ सम्मिश्र सम्पुटाकारवेष्टितौ॥

तर्जनीभिः ततो कृत्वा नेत्राकारं तु पीडयेत्।

भ्रुकुटी मुद्रवरा ख्याता महाभयहरी सदा॥

इत्येते चाष्ट मुद्रा वै कथिता जिनवरैः पुरा।

महाप्रभावा महापुण्या महेशाख्या महर्द्धिका॥

सर्वमुद्रेषु सर्वत्र मन्त्रैश्चापि विशेषतः।

सर्वत्र पूजिता ह्येते स्मर्तव्यार्थफलप्रदा॥

महारक्षा पवित्राश्च मङ्गल्यमघनाशनाः।

सर्वत्र पूजिता बुद्धैः सर्वमन्त्रांश्च साधयेत्॥

तारा भृकुटी चैव श्वेता पण्डरवासिनी।

मामकी लोचना चैव सुतारा तारवर्तिनी॥

इत्येते च महामुद्रा पठिता लोकतत्त्विभिः।

एष रक्षाविधिः प्रोक्तः महारक्षेषु कथ्यते॥

महापापहरी ह्येता महामुद्रा स्वयम्भुवे।

लोकीशस्य च वीरस्य महायक्षपतेस्तथा॥

एते मुद्रा महापुण्या नियता सिद्धिहेतवः।

कथिता लोकमुख्यैश्च सम्बुद्धैश्च यशस्विभिः॥

तथैव हस्तौ संन्यस्य वैणिकाकारसम्भवौ।

सम्पीडितौ विपर्यस्तौ मुद्रा भवति सङ्कुला॥

तथैव सूचिकाग्रं तु अङ्कुशस्याहु वर्णितः।

तथैव करपुटोऽग्रं वै उन्ननाम्यो शिरःस्थितौ॥

विकास्य अङ्गुलीं सर्वां छत्रा भवति शोभना।

संयम्य मुष्टिकामारौ रात्री भवति देवता॥

तामसी विसृतैर्नित्यं मुद्रा भवति तत्त्वतः।

तथैव अङ्गुलां वेष्टौ ऊर्ध्वमङ्गुष्ठनामितौ॥

विषनिनीशना सृष्टा रेखमुद्रा यशस्विभिः।

मनसा नामितौ ज्ञेया महामानसमुद्रितैः॥

तथैव हस्तावुत्सृज्य एकहस्तेन मीलयेत्।

तर्जन्यौ वेष्टयेन्मध्यां एषा सा गरुडध्वजा॥

उभौ हस्तौ समायुक्तौ वेणिमाशृत्य मध्यजौ।

हंसमालेति मुद्रेयं नाम्ना सर्वत्र गीयते॥

तदेव विसृतौ हस्तौ तृसूच्याकारवेष्टितौ।

सा भवेत् वज्रमुद्रा तु मुद्रा श्रेष्ठतमा हिता॥

प्रकृष्टा सर्वमुद्राणां वज्रपाणेः समाहिता।

तदेव विसृताङ्गुल्यौ पद्ममाला तु सा भवेत्॥

ज्येष्ठा मुद्रवरा ख्याता पद्मकेतोः समा भवेत्।

एषा मुद्रवरा दिव्या महापुण्या महोद्भवा॥

प्रयुक्ता सर्वकर्मेषु सिद्धिमायान्ति देहिनाम्।

भुवि मण्डलविख्याता प्रसिद्धा सर्वकर्मसु॥

वक्त्रार्थवक्रिता ज्ञेया उभौ पाणितले समे।

सन्यस्ताङ्गुलिमग्रे तु तर्जन्याङ्गुलिमुच्छ्रिता॥

मुद्रा वक्त्रमिति ज्ञेया अर्द्धवक्त्रा तु कन्यसैः।

समौ मुष्टितलौ ज्ञेयौ अङ्गुष्ठोत्तमनामितौ॥

लोहितामुद्रमित्याहुः मध्यमानामितसुलोहिता।

नीललोहितिका ज्ञेया मुद्रा रुद्रस्य मूर्ध्नजा॥

महाप्रभावा विख्याता या मुद्रा भुविमण्डले।

सर्वबिघ्नहरी देवी दुष्टसत्त्वनिवारणी॥

सा मुद्रा कथ्यते लोके शृणुध्वं भूतिकांक्षिणः।

तथैव हस्तौ संयम्य मुष्टिमादौ प्रकल्पयेत्॥

विसृतौ मध्यमौ ज्ञेयौ ईषित् सङ्कुचिताथ सूचितौ।

महामुद्रा इति ख्याता मुद्रा सा भयसूदनी॥

तथैव सूच्याग्रौ तौ हस्तौ सुव्यक्तमीलितौ।

एषा विष्णुमिति ख्याता मुद्रा सर्वत्र पूजिता॥

ब्राह्मी तु भवे उभौ अङ्गुष्ठमिश्रितौ।

तथैव कुड्मलाकारा मुद्रा वैन्द्रीति उच्यते॥

सा भवेन्माहेश्वरी मुद्रा उभौ कन्यसमुच्छ्रितौ।

तदेव हस्तावुत्सृज्य नृत्ययोगेन माश्रयेत्॥

वामबाहुस्तदा नित्यं उभयाग्रं प्रकल्प्यते।

दक्षिणं भुजमाश्लिष्य तर्जन्याकारवेष्टितम्॥

एषा वज्रधरा नित्यं वराहीति प्रकल्प्यते।

तदेव विसृतौ बाहू नृत्ययोगेन कल्पितौ॥

उभौ तर्जन्याकारतः क्षिप्रौ वज्रचामुण्डि मुच्यते।

स एव विसृताकारौ उभौ पाणौ समाशृतौ॥

ऊर्ध्वमाशृत्य गता दृष्टिः घोरा चामुण्डि मुच्यते।

कौमारी तु भवेन्मुद्रा कार्त्तिकेयस्य महामही॥

तदेव हस्तौ विन्यस्य सूच्याग्रं तु मीलयेत्।

विसृतैरङ्गुलीभिश्च इयं मुद्रा सर्वमातरी॥

एषा सर्वमुद्राणां मातराणां तु महर्द्धिका।

एतेन सर्वकर्मा वै बालिशानां तु कल्पयेतु॥

सूतिकानां च नारीणां गर्भस्थानं च देहिनाम्।

रक्षमोक्षणमुद्रेषु प्रेतव्यन्तरकश्मलैः॥

मोक्षणार्थं तु कल्पीत ग्रहमातरनैरृताम्।

हितार्थं प्राणिनां लोके मुद्रा भवति सुखावहा॥

श्रेयसः सर्वमन्त्राणां भूतानां प्रयुक्ता सुखदा हिता।

क्षुद्रकर्मेषु सर्वत्र योजयेत् सर्वत्र जापिनः॥

एते मुद्रा सदा मन्त्रैरेतैरेव प्रयोजयेत्।

तथैव हस्तौ संन्यस्य स्वकुण्डलाभोगवेष्टितौ॥

अङ्गुलीभिः समन्ताद् वै मुद्रा नागीति गीयते।

तथैव मङ्गुलिमध्यस्थौ सूच्याग्रं तु मीलितौ॥

भवेन्नागमूखी मुद्रा प्रकृष्टा सर्वकर्मसु।

या सा मुद्रवरा ज्ञेया माला लोके प्रकल्पते॥

तथैव हस्तौ संन्यस्य अङ्गुलीभिः समन्ततः।

वेणिकाकार वद्ध्वा वै मुष्ट्याकारं तु कारयेत्॥

तथैव सम्पुटाकारौ अङ्गुष्ठौ मध्यनामितौ।

सा भवेन्मालमुद्रा तु सर्वकर्मार्थसाधनी॥

तथैव मङ्गुलिभिर्नित्यं उच्छ्रितैः सप्तभिः सदा।

सा तु सप्तच्छदा मुद्रा तृषु लोकेषु गीयते॥

एते मुद्रवरा ह्यग्रा यथोक्तास्ते दर्शिता पुरा।

एतेषानां तु मुद्राणां निर्दिष्टा पूर्वविस्तराम्॥

सर्वा ह्येकतमा ज्ञेया विधिनिर्दिष्टदर्शिता।

विस्तरार्थगता ह्येते विकल्पार्थाः सविस्तराः॥

स्मृताः सर्वे भवेन्मुद्रा सर्वमुद्रैस्तु मुद्रिता।

मुद्रा चाष्टशता ज्ञेया उक्ता सर्वार्थसाधिका॥

एक एव भवेत् तेषां यथासङ्ख्यार्थपूरणी।

नृत्ययोगेन स्थित्त्वा वै ऊर्ध्वं पश्येज्जापिनः॥

ललाट मङ्गुली न्यस्य तर्जन्या कन्यसान्विताम्।

कृत्वा वै नेत्रयोगेन स्थितकोऽञ्जलिना न्यसेत्॥

सर्वत्रादर्शनी नाम मुद्रा चाष्टशतात्मिका।

अनेन मन्त्रा सिध्यन्ते यथोक्ता सर्वज्ञदर्शिना॥

सर्वमुद्रास्तु अत्रैव प्रयोक्तव्या ह्यविकल्पतः।

यथोक्तमुद्रागणा ह्येष उक्तोऽयं मन्त्रसमासत इति॥



आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् सर्वतथागताचिन्त्यधर्मधातुमुद्रामुद्रिता त्रिचत्वारिंशतिमः स्वचतुर्थो मुद्रापटलविसरः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project