Digital Sanskrit Buddhist Canon

अथ त्रिचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha tricatvāriṁśaḥ paṭalavisaraḥ
अथ त्रिचत्वारिंशः पटलविसरः।



अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये मण्डलविधाने सर्वकर्मेषु सर्वतन्त्रमन्त्रेषु आह्वानन विसर्जन जप नियम होम साधन रक्षाविधानादिषु सर्वकर्मेषु महामुद्रं एक एव महावीरमसङ्ख्येयेषु सबुद्धकोटिभाषितं चाभ्यनुमोदितं च कतमं च तत्॥



शृणुस्व मञ्जुरव ! श्रीमां ! गम्भीरार्थसुतत्वधीः।

यं बध्वा जापिनः सर्वे॥

महामुद्रां महापुण्यां महामङ्गलसम्मतम्।

महाब्रह्मसमं पुण्यं पवित्रं पापनाशनम्॥

महाक्षेमङ्गमं श्रेष्ठं निर्वाणपदमच्युतम्।

शिवं शान्तं तथा ज्येष्ठं शीतीभूतं परायणम्॥

सर्वमुद्रेश्वरं ख्यातं सर्वमुद्रेषु मूर्धजम्।

सर्वतन्त्रेश्वरं नाथं ख्यातं त्रिभवालये॥

ऊर्जितं च त्रिधा दिव्यं भौमदिव्या येष्वपि।

साक्षाद् बुद्धमिव चिह्नं सर्वसत्त्वाश्रयं विभुम्॥

प्रपुष्टत्रिभवे नित्यं सर्वमुद्रैस्तु मुद्रराट्।

रक्षार्थं जापिनां नित्यं सर्वकर्मेषु मन्त्रिणाम्॥

रक्षोघ्नमगदं ख्यातं मङ्गल्यमघनाशनम्।

उत्कृष्टं सर्वकर्मेषु दुष्टसत्त्वनिवारणम्॥

दुर्दान्तदमको लोके महामुद्रोऽयं प्रगीयते।

सर्वमत्रेषु युक्तो वै त्रिजन्मगतमन्त्रिणाम्॥

हन्युर्विघ्नान् स सर्वत्र सर्वकर्मेषु मन्त्रिणाम्।

त्रिधा योनिगतां मन्त्रामावाहयति तत्क्षणात्॥

पुनर्नयति तां लोकं पुनर्नाशयते हि ताम्।

पातयत्येव सर्वत्र कृत्स्नां चैव महीतले॥

पुनः कीलयते मुद्रां बन्धनोरुन्धनादिभिः क्रियैः।

पीडनोत्सादनो मुद्रः शोषणो विध्वंसनस्तथा॥

पुनर्जीवादनः ख्यातो मन्त्रिणां त्रिभुवनालये।

शान्तिकेषु च कर्मेषु महामुद्रोऽयं प्रयुज्यते॥

शुभोऽथ सर्वमन्त्राणां शुद्धो निर्मलपापहा।

सर्वार्थसाधनो लोके प्रसिद्धः सर्वमग्रतः॥

लौकिकानां च मन्त्राणामग्र्या लोकोत्तरास्तथा।

श्रेष्ठाः सर्वकर्मार्थे तथा शान्तिकपौष्टिके॥

नित्यं क्षेमङ्गमो मुद्रः प्रयुक्तः सर्वमन्त्रिभिः।

नित्योऽयमपराजितो ह्युक्तः ग्रः सर्वमन्त्रैस्तु योजितः॥

परम्परास्थो भूतकोटिस्थः धर्मधात्वेश्वरो निजौ।

अनक्षरोऽभिलाप्यश्च अक्षरो नित्यमक्षरो॥

धर्मनैरात्मभूतस्थः अभूतो भूतमुद्भवः।

विरजस्को नेञ्ज्यश्च निष्ठो शून्यः स्वभावतः॥

अकनिष्ठस्तथा ज्येष्ठः शुभो निर्वाणगामिनः।

पन्थानोऽनुत्तरां बोधो प्रत्येकार्ह सम्भवो॥

धर्ममेघस्तथा शान्तः निःसृता सैन्यवारिजः।

तत्त्वार्थपरमार्थज्ञ उभयार्थार्थपूरकः॥

महामुद्रो महौजस्कः सर्वबुद्धैः समुद्रितो।

महार्थो महावीर्य एकवीरो महर्द्धिकः॥

+ + + + + + + + + सर्वकर्मार्थसाधकः।

अनेकाकारवरोपेत अनेकाकारसम्भवम्॥

सर्वंज्ञपदविदं ज्ञेयमशेषो शेषनैष्ठिकम्।

ज्ञानं ज्ञेयं महोच्छेयं विघुष्टं मुनिवराजितम्॥

सर्वभूतसुराभ्यर्च्य प्रत्येकार्हथ पूजितम्।

महामुद्रोत्तमं धर्मं अच्युतं पदमुत्तमम्॥

आदौ तावच्छुचौ देशे एकवृक्षे महानगे।

महोदधितटे रम्ये मेध्यस्थण्डिल्यमाश्रिते॥

सरित् कूपे पुलिने वा देवमन्दिरशोभने।

मारारेर्भवने चापि विहारावसथ मन्दिरे॥

विजने सिक्तसंसृष्टे पुष्पप्रकरभूषिते।

सुगन्धगन्धोदकासिक्ते सुधूपे धूपधूपिते॥

प्राङ्मुखः उदङ्मुखो वापि शान्तिकपौष्टिकयोश्चापि।

दक्षिणे रौद्रकर्मार्थे तं जिनैर्वर्जितं सदा॥

श्रीसौभाग्यवश्यार्थमाजश्चाहेतुतः सदा।

पश्चान्मुखं तु बध्नीयान्महामुद्रबरं परम्॥

उच्चदृष्टि यदा बुद्धे उत्तिष्ठं देहसिद्धये।

अधः पातालं गच्छेदसुरेश्वरतां व्रती॥

शुचिदेहसमाचारः शुचिमन्त्रसमन्त्रवित्।

तदा मुद्रवरं युञ्ज्य स्नातोपस्पृश्य जप्तधीः॥

उभौ च हस्तौ प्रक्षाल्यौ मृद्गोमयसुगन्धिनम्।

शुचितोय सदा शुद्धे कृमिजन्तुविवर्जिते॥

नवारिस्रुते शुचे शौचे उभे हस्तेऽथ पूजिते।

सयोज्येथ मुष्टिस्थौ सम्पुटाकारचेष्टितौ॥

ईषिच्छुषिरौ समन्तात् षडङ्गुलौ उच्छ्रितौ।

उभयाङ्गुष्ठमध्यस्थौ कन्यष्ठाङ्लिनामितौ॥

कृत्वाथ हृदयोद्देशे शुक्लवस्त्रावगुण्ठिते।

दर्शयेत् सर्वकर्मेषुं साधने + + + + + ॥

सर्वभूते वै क्षिप्रं कृष्टमात्रेण ईप्सितम्।

एष मञ्जुरवो मुद्रः सर्वकर्मार्थसाधक इति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रिय-

मूलकल्पात् एकचत्वारिंशत्तमः पटलविसरद् द्वितीयः

सर्वकर्मोत्तमसाधनोपयिकः महामुद्रपटल-

विसरः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project