Digital Sanskrit Buddhist Canon

अथ पञ्चत्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha pañcatriṁśaḥ paṭalavisaraḥ
अथ पञ्चत्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तथागतमहामुद्राकोशसञ्चोदनी नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः शाक्यमुने ऊर्णाकोशान्महारश्मिर्निश्चचार। अनेकरश्मिकोटीनयुतशतसहस्रसङ्ख्येयपरिवाराः सा रश्मिजाला अनेकां बुद्धक्षेत्रानवभासयित्वा सर्वबुद्धां सञ्चोद्य पुनरपि भगवतः शाक्यमुनेः ऊर्णाकोशेऽन्तर्हिता॥



समनन्तरसञ्चोदिताश्च सर्वे बुद्धा भगवन्तः गगनस्वभावां समाधिं समापद्य शुद्धावासोपरि गगनतले प्रत्यष्ठात्॥



अथ भगवां शाक्यमुनिः सर्वबुद्धानभ्यर्च्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्री! मुद्राकोशपटलविधानं भविष्यसर्वबुद्धैरधिष्ठितम्॥



अथ मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य सर्वबुद्धां प्रणम्य भगवन्तं शाक्यमुनिं तथागतमेतदवोचत्। तत् साधु भगवां निर्दिशतु सर्वतथागतमुद्राकोशपटलं परमगुह्यतमं यस्येदानीं कालं मन्यसे तद् भविष्यति। बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्त्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वानां सुखोदयं भविष्यति सुखविपाकम्॥



अथ भगवां शाक्यमुनिः अध्येषतो भगवता मञ्जुश्रिया कुमारभूतेन सर्वबुद्धानवलोक्य सर्वसत्त्वां समन्वाहृत्य सर्वबोधिसत्त्वां सम्प्रहृष्य सर्वप्रत्येकबुद्धार्यश्रावकां सम्प्रसान्त्य सर्वमन्त्रमन्त्रार्त्थोद्युक्तमानसां समुद्युज्य सर्वदुष्टां निवार्य सर्वभीतां समाश्वास्य सर्वव्यसनस्थां क्षेमे शिवे निर्वाणे प्रतिष्ठाप्य सर्वदुःखितानां सुखार्त्थाय मुद्रापटलविधानं भाषते स्म॥



शृणु कुमार ! मञ्जुश्री ! वक्ष्येऽहं पटलमुद्रिताम्।

आदौ पञ्चशिखा भवति महामुद्रा तु सा मता॥

त्रिशिखं द्वितीयं विन्द्या तृतीयं एकचीरकम्।

चतुर्थं उत्पलमित्याहुः सम्बुद्धाः द्विपदोत्तमाः॥

पञ्चमः स्वस्तिको दृष्टः षष्ठो ध्वज उच्यते।

सप्तमं पूर्णमित्याहुः मन्त्रज्ञानसुशोभनाः॥

अष्टमं यष्टिनिर्दिष्टा लोकनाथैर्जितारिभिः।

नवमं छत्रनिर्दिष्टं दशमं शक्तिरुच्यते॥

एकादशं तु सम्बुद्धा सम्पुटं तु समादिशेत्।

द्वादशं फरमित्युक्तो त्रयोदशं तु गदस्तथा॥

चतुर्दशं खड्गनिर्दिष्टा घटा पञ्चादशस्तथा।

षोडशः पाशमित्युक्तः अङ्कुशः सप्तदशः स्मृतः॥

अष्टादशं भद्रपीठं तु ऊनविंशतिपीठकम्।

विंशन्मयूरासनः प्रोक्तो एकविंशस्तु पट्टिशम्॥

एकलिङ्ग द्विविंशं तु द्विलिङ्गो विंशसत्रिकम्।

चतुर्विंशस्तथा माला पञ्चविंश धनुस्तथा॥

विंशत्षष्टाधिकं प्रोक्तं नाराचे तु प्रकल्पिता।

सप्ताविंशतिमित्याहुः समलिङ्गे प्रवर्त्तिता॥

अष्टाविंशस्तथा शूलः ऊनत्रिंशश्च मुद्गरः।

तोमरं त्रिंशमित्याहुः एकत्रिंशं तु दक्षिणम्॥

द्वात्रिंशत् तथा वक्त्रः त्रयस्त्रिंशत् पटमुच्यते।

चतुस्त्रिंशस्तथा कुम्भः पञ्चत्रिंशे तु खखरम्॥

कलशं षट्‍त्रिंशतिः प्रोक्तो सप्तत्रिंशे तु मौशलम्।

अष्टत्रिंशे तु पर्यङ्कः ऊनचत्वारिंशत् पटहम्॥

चत्वारिंशतिमित्याहुः धर्मशङ्खमुदाहृतम्।

चत्वारिंशं स एकं च शङ्कला परिकीर्तिता॥

द्वितीया बहुमता प्रोक्ता तृतीया समनोरथा।

चतुर्त्थी जननी दृष्टा प्रज्ञापारमिता मिता॥

पञ्चमं पात्रमित्याहुः सम्बुद्धा द्विपदोत्तमाः।

तोरणं षष्ठमित्युक्तः सप्तमं तु सुतोरणम्॥

अष्टमं घोषनिर्दिष्टः जपशब्दो नवमः पुनः।

पञ्चाशद् भेरिमित्युक्ता धर्मभेरिं तु साधिका॥

द्विपञ्चाशद् गजमित्याहुः वरहस्तत्रिकस्तथा।

चतुःपञ्चाशमिति ज्ञेयं मुद्रा तद्गतचारिणी॥

पञ्चमं केतुमित्याहुः षष्ठं चाशशरस्तथा।

सप्तमं परशुनिर्दिष्टं अष्टमं लोकपूजिता॥

ऊनषष्टिस्तथा ज्ञेया भिण्डिपालं समासतः।

षष्टिश्चैव भवेद्युक्ता लाङ्गलं तु समासतः॥

एकपष्टिस्ततः पद्मः द्विषष्टिः वज्रमुच्यते।

त्रिषष्टिः कथितं लोके धर्मचक्रं प्रवर्त्तितम्॥

चतुःषष्टिस्तथा ज्ञेयः पुण्डरीकं समासतः।

पञ्चषष्टिस्तथा विन्द्याद् वरदं मुद्रमुत्तमम्॥

षट्षष्टि तथा वध्वा वज्रमुद्रा तु कीर्त्तिता।

सप्तषष्टिस्तथा लोके कुन्तमाहुर्मनीषिणः॥

अष्टषष्टिस्तथा कुर्याद् वज्रमण्डलमुदाहृतम्।

ऊनसप्ततिमेवं स्यात् शतघ्नेति प्रकीर्तिता॥

ततः सप्ततिकं विन्द्यान्नादामुद्रं समासतः।

एकसप्ततिमित्याहुर्विमानं मुद्रवरं शुभम्॥

द्विसप्तत्या समासेन स्यन्दनं स इहोच्यते।

शयनं लोकनाथानां त्रिसप्तान्या समासतः॥

पञ्चसप्ततिराख्यातश्चतुःसप्ततिकस्तथा।

अर्धचन्द्रं च वीणा च उभौ मुद्रावुदाहृतौ॥

षट्सप्ततिमं लोके मुद्रा पद्मालया भवेत्।

सप्तसप्ततिमः श्रेष्ठः मुद्रा कुवलयोद्भवा॥

अष्टसप्ततिमं मुद्रा नमस्कारेति उदाहृता।

नवमं नवतिसङ्ख्या तु उभौ मुद्रौ शुभोत्तमौ॥

सम्पुटं यमलमुद्रा च सङ्ख्या नवतिमं भवेत्।

एकनवतिमित्याहुः पुष्पमुद्रा उदाहृताः॥

द्वितीया वलयमुद्रा तु तृतीया धूपयेत् सदा।

चतुर्त्था गन्धमुद्रा तु पञ्चमी दीपना स्मृता॥

षष्ठ्या साधनं विन्द्यात् सप्तम्या आसने स्मृता।

अष्टममाह्वाननं प्रोक्तं नवमं तु विसर्जनम्॥

शतपूर्णस्तथा विन्द्यात् मुद्रां सर्वकर्मिकाम्।

साधिकं शतमित्याहुर्महामुद्रा इति स्मृताः॥

उष्णीषं लोकनाथानां चक्रवर्ति सदा गुरोः।

तं मुद्रं प्रथमतः प्रोक्ता द्वितीया सितमुद्भवा॥

तृतीया मूलमुद्रा तु मञ्जुघोषस्य दृश्यते।

चतुर्त्थी धर्मकोशस्था धर्ममुद्रेति लक्ष्यते॥

पञ्चमी सङ्घमित्याहुर्महामुद्रापि सा भवेत्।

षष्ठी तु भूतशमनी प्रत्येकार्हमुद्भवा॥

सप्तमी बोधिसत्त्वानां दशमी तु प्रवेशिनाम्।

मुद्रा पद्ममालेति महामुद्रां तु तां विदुः॥

वरदा सर्वमुद्राणां मन्त्राणां च सलौकिकाम्।

महाप्रभावां महाश्रेष्ठां ज्येष्ठां त्रैलोक्यपूजिताम्॥

अष्टमीं सम्प्रयुञ्जीत मुद्रा त्रिभुवनालयाम्।

मुद्राणां कथिता सङ्खया अस्मिं तन्त्रे महोद्भवा॥

शतमेक तथा चाष्टं सङ्ख्यामुद्रेषु कल्पिता।

एतत्प्रमाणं तु सम्बुद्धैः पुरा गीतं महीतले॥

निर्नष्टे शासने शास्तुः प्रचरिष्यति देहिनाम्।

आदौ तावत् करे न्यस्तमुभयाग्रां करे स्थितौ॥

अन्योन्याङ्गुलिमावेष्ट्य सन्मिश्रां च पुनस्ततः।

उभौ करौ समायुक्तौ पञ्चचूलासुचिह्नितौ॥

विपर्यस्तस्ततस्तेषामङ्गुलीनां तु अग्रतः।

मुद्रा पञ्चशिखा ज्ञेया पञ्चचीरकमेव तु॥

महामुद्रेति विख्याता बोधिसत्त्वशिरस्तथा।

महाप्रभावो मुद्रोऽयं प्रयुक्तः सर्वकर्मिकः॥

मञ्जुश्रियस्य मन्त्रेण हृदयैर्वापि योजयेत्।

केशिन्या चैव मन्त्रेण मूलमन्त्रेण वा सदा॥

योजयेद् विधिदृष्टेन सर्वमन्त्रेषु वा पुनः।

कुर्यात् सर्वाणि कर्माणि अवन्ध्येदं वचनं मुनेः॥

तथैव हस्तौ विन्यस्तौ कुर्यात् तत्करसम्पुटम्।

तत्रैव त्रिशिखं कुर्यादङ्गुलीभिर्विमिश्रितैः॥

उभौ हस्तौ तु यदाङ्गुष्ठौ शून्याकारौ तु निश्रितौ।

मध्यमानामिकं चैव विपरीताकारवेणिकौ॥

एतत् तत् त्रिशिखं ज्ञेयं त्रिचीराकार इति पुनः।

एषा मुद्रा महामुद्रा मञ्जुघोषस्य धीमतः॥

कुर्यात् सर्वाणि कर्माणि विधिदृष्टानि यानि वै।

मञ्जुश्रियस्य ये मन्त्रास्तेषु सर्वेषु योजयेत्॥

क्षिप्रं साधयते ह्यर्थां जापिभिर्जन्मनीषितम्।

तदेव हस्तौ विन्यस्तौ कुर्यादेकशिखं तथा॥

मध्यमाङ्गुलिसंश्लिष्टौ भवेदेकशिखा ध्रुवम्।

एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता॥

मन्त्रा कुमारसन्यस्ता ये चान्येऽपि सलौकिका।

सिद्ध्यन्तेऽनेन युक्तास्तु क्षिप्रकर्मप्रसाधिका॥

अनेन साध्यास्तथा मन्त्रा उत्तमा जिनभाषिता।

क्षिप्रं साधयते ह्यर्थां विधिदृष्टेन कर्मणा॥

तदेव करसंयुक्तौ विन्यस्तं अङ्गुलीचितम्।

उभौ तर्जन्य सङ्कोच्य सूच्यादञ्जलिसादृशम्॥

विन्यस्ताङ्गुष्ठयुगले मध्याङ्गुल्यौ प्रसारितौ।

अनामिकां वेष्टयित्वा तु उत्पलेति उदाहृतम्॥

एषा बोधिसत्त्वस्य मूलमन्त्रेति लक्ष्यते।

तदेव सर्वं यत् कर्म निर्दिष्टं पञ्चचीरके॥

सर्वं तत् कुर्यात् क्षिप्रं उत्पलेन तु साधयेत्।

एषा वरदा मुद्रा क्षिप्रभोगप्रसाधका॥

संयुक्ता मूलमन्त्रेण क्षिप्रमर्थकरो भवेत्।

उभौ करौ तथा युक्तौ कुर्यादुत्तानकौ सदा॥

तदेव सम्पुटं कृत्वादङ्गुलीभिः समन्ततः।

विन्यस्तं शोभनाकारं स्वस्तिकाकारसम्भवम्॥

मध्यमाङ्गुलिमध्ये तु कन्यसी तु समा भवेत्।

अङ्गुष्ठयुगलविन्यस्तं मुद्रा स्वस्तिकमुच्यते॥

एषा सर्वार्थकरी मुद्रा शान्तिकर्मे प्रयुज्यते।

हृदयैः षडक्षरैर्युक्ता सर्वकर्मां करोति वै॥

तदेव हस्तौ सम्मिश्र अन्योन्याङ्गुलिमिश्रितम्।

पूर्णमुद्रेति मित्याहुर्गतिज्ञानविशेषगाः॥

आकोशादञ्जलिं कृत्वा विरलं च समन्ततः।

पूर्णमुद्रेति सम्बुद्धाः कथयामास जापिनाम्॥

एषा सर्वशमनी दुःखदारिद्रदुःखिताम्।

धनाढ्यं कुरुते क्षिप्रं मूलमन्त्रसचोदिता॥

अपरं मुद्रमित्याहुः लोकज्ञानसुचेष्टिताः।

उभौ हस्तौ तथा कृत्वा वामतर्जनिमाश्रितम्॥

दक्षिणं तु करं कृत्वा तस्य मङ्गुलितस्थितम्।

तर्जन्या मध्यमा चैव विसृते ध्वजमुच्यते॥

ध्वजमुद्रा इति ख्याता उच्छ्रिता शक्रधारणी।

अनया मुद्रया कुर्याद् बलिहोमादिकं क्रमम्॥

सर्वकर्मकरा ह्येषा मूलमन्त्रप्रचोदिता।

तदेव हस्तौ विन्यस्तौ अङ्गुलीकारसम्पुटौ॥

सम्पुटा सा भवेन्मुद्रा सर्वविघ्नप्रनाशनी।

क्रमेण कुरुते कर्म मन्त्रज्ञानसमोदिता॥

विधिदृष्टेन मन्त्रा वै क्षिप्रमर्थप्रसाधिका।

मन्त्रैर्मञ्जुघोषस्य हृदयस्थानसमुद्भवैः॥

संयुक्ता कुरुते कर्मां अशेषां लोकचिह्निताम्।

तदेव हस्तौ विन्यस्तौ वामहस्तौपरि स्थितम्॥

दक्षिणं तर्जनीं गृह्य वामं तर्जनिमुच्छ्रिता।

एषा यष्टिरिति ख्याता मुद्रा शक्रनिवारणी॥

सर्वां समयते विघ्नां दारुणानतिभैरवाम्।

सर्वदुष्टवधार्थाय निर्दिष्टा मन्त्रजापिनाम्॥

मूलमन्त्रसमोपेता क्षिप्रमर्थकरा भवेत्।

तदेव हस्तं विन्यस्तं यष्ट्याकारसमुच्छ्रितम्॥

दक्षिणं तु करं कृत्वा विसृतं छत्रमुच्यते।

अनेन मुद्रया कुर्यादात्मरक्षं तु मूर्द्धितः॥

सर्वमन्त्रैस्तु कुर्वीत कर्म रक्षाभिधायकम्।

शत्रूणां छादयेद् वक्त्रं स्तम्भयेद्वा मनीषितम्॥

यथाभिरुचितां दुष्टां कारयेद्वा समानुषाम्।

नश्यन्ते सर्वविघ्ना वै दृष्ट्वा मुद्रां सच्छत्रकाम्।

तदेव हस्तौ कुर्वीत विन्यस्ताकारशोभनम्।

अङ्गुष्ठाग्रयुक्तं तु मध्यमाङ्गुलिसारितम्॥

अनामिकाकुञ्चिताग्रं तु मध्यपर्वे तु मध्यमम्।

तदेव शक्तिनिर्दिष्टा सर्वदुष्टनिवारणी॥

कथिता लोकनाथैस्तु रक्षा सग्रहनाशनी।

विन्यस्ता क्रोधराजेन यमान्तेन तु रोषिणा॥

कुर्यात् क्षिप्रतरं लोके दारुणं पापमुद्भवम्।

प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु वर्जितम्॥

न कुर्यात् कर्ममेवं तु निषिद्धं लोकमुत्तमैः।

अतः सर्वगतैर्मन्त्रैः योजयेच्छक्तिमुत्तमम्॥

लौकिका ये च मन्त्रा वै तथैव जिनभाषिता।

तां प्रयुञ्जीत मुद्रेऽस्मिं शक्तिना सुसमाहितः॥

दृष्ट्वा मुद्रवरं घोरं नश्यन्ते सर्वनैरृता।

पिशाचास्तारकप्रेता पूतना सह मातरा॥

बालाग्रहविरूपाक्ष बालकानां प्रपीडना।

नश्यन्ते सर्वदुष्टा वै ये केचित् क्रूरकर्मिणाः॥

तदेव हस्तं विन्यस्तं शक्तिकाकारसम्भवम्।

विपरीतसम्पुटाकारं अन्योन्याङ्गुलिमिश्रितम्॥

तदेव सम्पुटमित्याहुः सम्बुद्धा विगतद्विषः।

अनेन कारयेत् कर्म मन्त्रेणैकाक्षरेण तु॥

पिथयेत् सर्वविदिशां कृत्स्नां दिशाबन्धं तदुच्यते।

एष मुद्रा महारक्षा सम्पुटीकृत्य तिष्ठति॥

नश्यन्ते सर्वदुष्टा वै ये चान्ये अहितानि वै।

देहं रक्षयते सर्वं परिवारं चापि गोचरे॥

अशेषं रक्षते चक्रं यत्र जापी वसेत् सदा।

न तस्य पातकं किञ्चित् अहितं चापि सम्भवेत्॥

क्षेमं सुभिक्षमारोग्यं परचक्रभयं कुतः।

उभौ करौ समाश्लिष्य विपरीतं तु कारयेत्॥

दक्षिणं तु अधः कृत्वा वाममुत्तानकः सहा।

अन्योन्यमिश्रितौ ह्येतौ फरमित्याहुर्जिनोत्तमाः॥

निवारयति दुष्टानामरीणां पापसम्भवम्।

उपहृत्याक्षरैर्युक्ता रिद्धि + + ++ + + + + ॥

एकवर्णकैः स मन्त्रैर्युक्तः क्षिप्रमर्त्थकरो ह्ययम्।

विचित्रार्त्थां कुरुते कर्मां अरिसम्भवपापकाम्॥

भोगिनां विषनाशं च मूलमन्त्रप्रयुक्तिका।

अन्यां वा युक्तिकृतां दोषां निर्नाशयति देहिनाम्॥

एष मुद्रवरः प्रोक्तः सम्बुद्धैर्द्विपदोत्तमैः।

तदेव हस्तौ विन्यस्तौ संश्लिष्टावङ्गुलीभि तत्॥

गदाकारं तदा कुर्यान्मूलेनापि वेष्टितम्।

उभयोरङ्गुष्ठयोर्मध्ये कन्यसीभि सुवेष्टितम्॥

षड्भिरङ्गुलिभिः कुर्यात् शून्याकारं सुशोभनम्।

एतन्मुद्रा गदः प्रोक्ता सर्वदानवनाशनी॥

दैत्या च दुष्टचित्ताश्च सौम्यचित्ता तु दर्शने।

नश्यन्ते उद्यते मुद्रे गदे वापि सुपूजिते॥

मूलमन्त्रप्रयुक्तास्तु क्षिप्रमर्त्थकरी शिवा।

तथैव खड्गनिर्दिष्टा अनामिकाग्रैः सुकोचितैः॥

तथैव हस्तौ कुर्वीत प्रसारिताग्रं तु कुञ्चितम्।

शरावाकारसमौ कृत्वा अङ्गुलीभिः समन्ततः॥

घण्टां तां विदुर्बुद्धाः प्रकाशयामास देहिनाम्।

तदेव हस्तौ सम्मिश्रा उभौ बध्वा तु सम्पुटम्॥

अन्योन्यं मिश्रयित्वा वै मध्यमाङ्गुलिभिस्तथा।

कुर्यात्तन्मण्डलाकारं पाशाकारं तु त भवेत्॥

तर्जनीति ततो न्यस्तं मध्यपर्वा सुमिश्रितैः।

एष पाशमिति ख्यातः मुद्रोऽयं बुद्धनिर्मितः॥

विनेयार्त्थं तु सत्त्वा बन्धमुक्तोऽतिदारुणम्।

ये च दुष्टा ग्रहाः क्रूरा ये वै सर्वराक्षसाः॥

ईषित् प्रचोदिता ह्येषा बध्नातीह समातराम्।

बन्ध बन्धेत्यदा ह्युक्ता बध्नातीह सशक्रताम्॥

किं पुनर्मानुषे लोके क्रव्यादां पिशिताशिनाम्।

तदेव हस्तौ विन्यस्तौ उभौ कृत्वा तु तत्समौ॥

वामपाणोपरि न्यस्तं दक्षिणं तु करं तथा।

तदेव अङ्कुशाकारं मध्यमाङ्गुलितर्जनी॥

मध्यमं पर्वमाश्लिष्य तर्जनी कारयेदङ्कुशम्।

मूलमन्त्रप्रयुक्तोऽयमङ्कुशोऽयं प्रचोदितः॥

क्षिप्रं कारयते कर्मां जापिभिर्जन्मनीषितम्।

आनयेत् क्षिप्र देवेन्द्रां ब्रह्माद्यां सशक्रकाम्॥

प्रयुक्तो मुद्रवरः श्रेष्ठः अङ्कुशाकर्षणं शुभः।

तदेव हस्तौ सम्मिश्रविपरीताकारपिण्डिकम्॥

मध्यमानामिकौ नाम्य अङ्गुल्यौ वामकरासृतौ।

तर्जनी कन्यसां चापि उभौ तर्जन्यदक्षिणा॥

दक्षिणा हस्तनिर्दिष्टा मध्यमानामिकनामितौ।

विपर्यस्त ततो न्यस्तं श्लिष्टौ अङ्गुष्ठकारितौ॥

तद्रेव भद्रपीठं तु कथिता मुद्रवरा शुभा।

आसनं सर्वबुद्धानां क्रुद्धशक्रनिवारणम्॥

योजिता सर्वमन्त्रैस्तु जिनाग्राणां कुलसम्भवैः।

स्थापिता सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम्॥

सदेवकं च लोकं वै सर्वा निश्चलकारिका।

तदेव भद्रपीठं तु मध्यमाङ्गुलिमाश्रिताम्॥

उपरिस्थानविन्यस्तौ मध्यानामिति शारितौ।

तदेव पीठनिर्दिष्टा मुनिसिंहैर्जितारिभिः॥

उभौ हस्तौ तथोन्मिश्र अङ्गुलीभिर्विवेष्टयेत्।

ततो वेणिसमाधश्च कन्यसाङ्गुलिसूचिकाम्॥

सङ्कोच्य मध्यमतः क्षिप्रं पद्मपत्रायतोद्भवाम्।

उभयोरङ्गुष्ठयोन्मिश्रः स्थापयेत् स्थितकं सदा॥

एतन्मयूरासनं प्रोक्तं सम्बुद्धैर्विगतद्विषैः।

एतद् बोधिसत्त्वस्य मञ्जुघोषस्य धीमतः॥

आसनं मुनिवरैर्ह्युक्तो बालक्रीडनकं सदा।

महाप्रभावा इयं मुद्रा पुरा ह्युक्ता स्वयम्भुभिः॥

करोति कर्मवैचित्र्यं मञ्जुमन्त्रप्रचोदिता।

विनाशयति दुष्टानां क्रव्यादा पिशिताशिना॥

परिपूर्णं तथा विंशन्मुद्राणां तु मतः परम्।

कथिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः॥

अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम्।

करैः शुभैस्तथा शुद्धैः निर्मलैर्जलशौचितैः॥

श्वेतचन्दनकर्पूरैः कुङ्कुमैर्जलमिश्रितैः।

बहुभिर्गन्धविशेषैस्तु उपस्पृश्यानिलशोषितैः॥

शुचिभिः करैरभ्यङ्गैरङ्कुशैश्चापि अदहुलैः।

तदेव मुद्रां बन्धीयाद् बन्द्याद्यां द्विपदोत्तमाम्॥

शालं सङ्कुसुमं चैव अमिताभं रत्नकेतुनम्।

अमितायुर्ज्ञानविनिश्चयेन्द्रं लोकनाथं दिवङ्करम्॥

क्षेमं लोकनाथं च सुनेत्रं धर्मकेतुनम्।

प्रभामालीति विख्यातं ज्येष्ठं श्रेष्ठमितोत्तमम्॥

एतेषामन्यतरं बुद्धं वन्दित्वा द्विपदोत्तमम्।

शुचिर्भूत्वा शुचिस्थाने बन्धेन्मुद्रां जपान्तिके॥

आचार्यां तु यं दृष्ट्वा सन्देहार्थं विमुच्यते।

तं तथाचारसम्पन्नो बन्धेन्मुद्रां यथासुखम्॥

संशोध्य च विविक्तं वै कृत्वा स्थानाभिमन्त्रितम्।

न क्रुद्धो न चोच्छिष्टो न चाक्रुष्टो परेण तु॥

नाङ्गारे न भस्मनिर्मध्ये बन्धेन्मुद्रां कदाचन।

न सक्तः परदारेषु परद्रव्येषु वै तदा॥

न स्थितो न निपन्नश्च बन्धेन्मुद्रां सुखोदयाम्।

न दक्षिणामुखमास्थाय नापि पश्चान्मुखोत्थितः॥

न चोर्ध्वे नाप्यधश्चैव मुद्राबन्धं तु कारयेत्।

उदङ्मुखः पूर्वतश्चापि विदिशेष्वेतेषु तेषु वै॥

बन्धयेन्मुद्रमन्त्रज्ञः मन्त्रं स्मृत्वा तु चक्रिणम्।

एषा विधिमतः श्रेष्ठा सर्वमुद्रेषु बन्धने॥

अत ऊर्ध्वं प्रवक्ष्यामि मुद्रा साधिकविंशमम्।

उभौ करौ समायुक्तौ कुर्यादङ्गुलिमिश्रितौ॥

मध्यमं तु ततः शून्यं अङ्गुलीभिः समादिशेत्।

मध्यपर्वविधिन्यस्तं शून्याग्रं कन्यसीभितम्॥

कारयेन्नित्यमन्त्रज्ञो अङ्गुष्ठौ कुञ्चिताश्रितौ।

त्रिशूच्याकारसंयुक्तौ पट्टिशं विदुर्बुधाः॥

एष मुद्रवरः क्षिप्रं परमन्त्रांसि च्छिन्दिरे।

परमुद्रां तथा भिन्द्यात् दुष्टसत्त्वनियोजिता॥

त्राशयेत् सर्वभूतानां ग्रहमातरपूतनाम्।

करोति कर्मवैचित्र्यं क्षिप्रमानयते शिवम्॥

रुद्रेण भाषिता ये मन्त्रा विष्णुना ब्रह्मणा स्वयम्।

तां विच्छेद मन्त्रज्ञो विधिदृष्टेन कर्मणा॥

मुद्रेणानेनैव युक्तेन पट्टिशेन महात्मना।

मन्त्रेण चैव युक्तस्थो जिनवक्त्रसमुद्भवैः॥

करोति कर्मवैचित्र्यं छेदभेदक्रियां तथा।

परसत्त्वकृतां दुष्टा नाशयेत् तामशेषतः॥

तदेव हस्तौ संवेष्ट्य मध्यानामिकमुच्छ्रितौ॥

उभौ करौ समायुक्तौ लिङ्गाकारसमुद्भवौ॥

चतुरङ्गुलसंयुक्त लिङ्गमुद्रमिति मतम्।

महेश्वरो देवपुत्रो वै आत्ममन्त्रं च मुद्रिणम्॥

कथयामास तन्त्रे वै आकृष्टौ मुनिना पुरा।

अन्येषां चात्मनो मन्त्रां मुद्रां चैव सविस्तराम्॥

प्रकाशयामास आकृष्टः समयेऽस्मिं कल्पमुत्तमे।

एतन्मुद्रवरं ह्यग्रं लौकिकेषु प्रकत्थ्यते॥

यावन्ति केचिन्मन्त्रा वै रुद्रप्रोक्ता महीतले।

तेषामधिपतिर्ह्यग्रो मुद्रोऽयमेकलिङ्गितः॥

बोधिसत्त्वप्रभावेन मञ्जुघोषस्य धीमतः।

आनीतो मण्डले + + नौम कर्मप्रसाधकः॥

यावन्ति केचिद् दुष्टा वै पर्यटन्ते महीतले।

ग्रहाः क्रव्यादपिशिताश्च मातराः कटपूतना॥

तेषां निवारणार्थाय रुद्रविघ्नकृतेषु वै।

पुनरेतन्मुद्रवरं ह्युक्तं बलिकर्मेषु वै निशा॥

करोति सर्वकर्मां वा बुद्धाधिष्ठानऋध्यया।

तथैव तद्विधं कृत्वा द्विलिङ्गसमुदाहृतः॥

तथैव मालमङ्गुल्यै स माला परिकीर्तिता।

तदेव मालां सङ्कोच्य सम्पुटाकारसम्भवम्॥

तर्जन्यावुभौ श्लिष्य कुर्याद्धनुसन्निभम्।

अङ्गुष्ठौ पीडयेन्मुष्टौ धनुर्मुद्रा स लक्ष्यते॥

तदेवमङ्कुलिं कुर्याद् दक्षिणाकरनिसृता।

वामं तर्जनीं मुष्टौ निष्पीड्यन्ते तु पर्वणि॥

नाराचं मुद्रमित्युक्तः समलिङ्गं पुनर्वदे।

उभौ हस्तौ ततः कृत्वा अन्योन्या सृतपिण्डितौ॥

दक्षिणाकरमङ्गुष्ठं उच्छ्रितां लिङ्गसम्भवम्।

समलिङ्गं तं विदुः कल्पे शासनेऽस्मिं विशारदाः॥

तदेव हस्तौ उभौ कृत्वा अन्योन्यासृतमङ्गुलम्।

उभौ तर्जन्य संयोज्य शूलाकारं तु कारयेत्॥

एतच्छूलमिति प्रोक्तं सत्त्वदुष्टानुशासनम्।

तदेव हस्तौ निसृत्य मुष्टिं बध्वा उभौ पुनः॥

अङ्गुष्ठौ स्थितकां कृत्वा मुद्गरं समुदाहृतम्।

तदेव मुद्गरमीषच्चालयेत् करसम्पुटे॥

तोमरं कथितं ह्यग्रं मुद्रं शक्रनाशनम्।

उत्पलं तु ततो बध्वा अनामिकाङ्गुलिभिस्तदा॥

अधस्तादङ्गुष्ठयोर्मध्ये विन्यस्तं चाप्रदर्शितम्।

एत दंष्ट्रमिति प्रोक्तं विवृते वक्त्रमुच्यते॥

समौ कृत्वा ततस्तेषामङ्गुलीनां समन्ततः।

उरे दत्वावसव्यं वै क्षिपेत् त्वा पटमुच्यते॥

उभौ सम्पुटौ कृत्वा हस्तौ विन्यस्तशोभनौ।

अङ्गुलीमङ्गुलीभिश्च अन्योन्याग्रश्लेषितौ॥

उत्थितानामिसङ्कोच्य कुम्भमुद्रमुदाहृतम्।

तदेव मुष्टि संयोज्य तर्जन्यौ पुनरुच्छ्रितौ॥

कुर्यात् खखराकारं वेणिकाकारमुद्भवम्।

एतन्मुद्रं समाख्यातं खखरेत्यरिसूदना॥

तदेव खखर ईपदवनाम्यं तु शोभनम्।

कुर्यादङ्गुष्ठविन्यस्तं कलशं तदिहोच्यते॥

उच्छ्रितं तु पुनः कृत्वा तर्जन्यानामिसम्भवम्।

चतुर्भिरङ्गुलीभिः कुर्यान्मुशलाकारसम्भवम्॥

मुद्रं मुशलमित्याहुः मन्त्रज्ञानसमन्विता।

तदेव हस्तौ विन्यस्तौ मध्यमानामिकौ अधः॥

उपरिष्टात् तेषु वै नित्यं न्यस्तं दक्षिणावायवेष्टितम्।

संवेष्ट्य अङ्गुष्ठयोर्न्यस्तौ कन्यसा तर्जनी तु ताम्॥

समन्तात् पर्यङ्कमाकारं मुद्रामाहुस्तथागता।

एतत् पर्यङ्कमुद्रेति ख्यातं लोके समन्ततः॥

अनया मुद्रया युक्तो मन्त्रयुक्तस्तथा पुनः।

सर्वैर्जिनमुक्तैस्तु वज्राब्जकुलमुद्भवैः॥

एतैर्मन्त्रैः प्रयुक्तोऽयं सर्वकर्मकरं शिवम्।

ये च मुद्रास्तथा प्रोक्ता मुशलाद्याः शूलसम्भवाः॥

सर्वे वै क्रोधराजस्य यमान्तस्येह शासने।

उग्रा प्रहरणा ह्येते सत्त्ववैनेयनिर्मिता॥

बोधिसत्त्वप्रभावेन ऋद्ध्या कुर्वन्ततस्तदा।

सर्वं वैनेयदुष्टानां कुम्भाद्या मुद्रभाषिता॥

तदेव हस्तं विन्यस्तं पटहाकारसम्भवम्।

आबन्धेदङ्गुलिभिर्युक्तं सर्वाभिश्च सवेणिकाम्॥

वेणिकां कृत्यमङ्गुष्ठैस्ततो न्यस्य करे पुनः।

मध्ये प्रादेशिनी कृत्वा उच्छ्रिताग्रं तु कारयेत्॥

एतत् पटहनिर्दिष्टं मुद्रा दुष्टनिवारणी।

तदेव हस्तौ विन्यस्तौ अञ्जली सुप्रयोजितौ॥

उभौ तर्जन्य सङ्कोच्य कुण्डलाकारशोभनौ।

अङ्गुष्ठं ते अधः कृत्वा अङ्गुष्ठौ नामितौ उभौ॥

प्रविष्टौ मध्यपुटान्तस्थौ शङ्खं भवति शोभनम्।

एतद्धर्मसङ्खं वै वरमुद्रं प्रकाशितम्॥

मन्त्रैर्मुनिवरोक्तैस्तु संयुक्तः सर्वकार्मिकः।

करोति कर्मवैचित्र्यं सर्वदंष्ट्राविषभोगिनाम्॥

निर्नाशयति सर्वांस्तां मूलमन्त्रप्रयोजिता।

शङ्खमापूरयेज्जप्तं विद्याराजैर्महर्द्धिकैः॥

निर्विषोऽपि भवेत् क्षिप्रं यो जन्तुर्विषमूर्च्छितः।

चत्वारिंशति समाख्याता मुंद्रा श्रेष्ठा महर्द्धिका॥

अतः ऊर्ध्वं प्रवक्ष्यामि मुद्रालक्षणसम्भवम्।

तदेव हस्तौ विन्यस्तौ अङ्गुल्याग्रसवेणिकौ॥

भूयो दामोटयेद् यत्नादवसव्यं तु कारयेत्।

अधस्तात् सर्वतः कृत्वा शङ्कलेति उदाहृता॥

एषा मुद्रवरश्रेष्ठाः सर्वदुष्टार्त्थबन्धनी।

मन्त्रैस्तैरेभिसंयुक्ता मुनिमुख्यार्त्थभाषितैः॥

सर्वां बन्धयते भूतां ग्रहमातरकश्मलाम्।

तदेव हस्तौ सङ्कोच्य मुक्त्वा वेणि समुच्छ्रयेत्॥

तदेव विधिना बध्वा अन्येनाङ्गुष्ठमध्ययोः।

मध्यपर्वे समाश्लिष्य उभयाग्र्यं करं पुनः॥

दत्वाभिमुखं ह्यग्नेर्वह्निमन्त्रसुयोजितः।

आवाहयेच्छिखिनं होमे अग्निकर्मेषु सर्वदा॥

क्षिप्रमाह्वयते वह्निः मुद्रेणानेन योजिता।

विसर्जयेदनेनैव मन्त्रेण तर्जन्याग्रविमिश्रितैः॥

अङ्गुष्ठे नित्यमाश्लिष्टे विशर्ज्यं वह्निदैवतम्।

मुद्रा बहुमता ह्येषा अग्निकर्मप्रसाधिका॥

आह्वानयति देवानां यदृच्छं मन्त्रजापिनो।

एषां बहुमता मुद्रा बध्वाधिष्ठानवर्णिनी॥

करोति कर्मवैचित्र्यं संयुक्ता मन्त्रमुत्तमैः।

तदेव हस्तौ एकस्थौ सम्पूर्णामङ्गुलिमाश्रितौ॥

कुर्यादाकोशमञ्जल्या श्लथं वर्तुलसम्भवम्।

परिपूर्णं ततः कृत्वा कुड्मलं पद्मसम्भवम्॥

मनोरथं तु तं विन्द्या मुद्रां सर्वार्त्थसाधिकाम्।

एषा मुद्रा वरा श्रेष्ठा पुरा गीता तथागतैः॥

सत्त्वानां हितकाम्यार्त्थं मञ्जुघोषे नियोजिता।

मनसा कांक्षते सत्त्वो यो हितार्त्थं मनोरथम्॥

तूर्णं तत् साधयते क्षिप्रं मन्त्रैर्युक्ता महर्द्धिकैः।

एषा मुद्रा वरा श्रेष्ठा मनोरथेति स उच्यते॥

एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका।

क्षिप्रं साधयते मन्त्रां द्रव्यां चैव सविस्तराम्॥

एषा मुनिचन्द्रेण चन्द्राभा सुप्रवर्त्तिता।

चन्द्रा पद्मकुले मन्त्रा तेनायं सुप्रयोजिता॥

करोति कर्मवैचित्र्यं सितवर्णामृतसम्भवा।

तदेव हस्तौ संशुद्धौ उभौ अङ्गुलिमाश्रितौ॥

षड्भिरङ्गुलिमाश्लिष्टौ पुस्तकाकारसम्भवौ।

उच्छ्रितौ वर्त्तुलौ कृत्वा कन्यसाङ्गुष्ठकौचितौ॥

एषा मुद्रा वरा प्रोक्ता प्रज्ञापारमितामिता।

जननी सर्वबुद्धानां मोक्षार्त्थं तु नियोजिता॥

साधयेत् सर्वकर्मं वै शान्तिपुष्ट्यर्त्थयोजिता।

तदेव हस्तौ विन्यस्तौ दक्षिणं वामतोपरि॥

कृत्वा नाभिदेशे वै कोलस्थं निम्नमुद्भवम्।

उभौ हस्तौ तदाश्लिष्य स मुद्रा पात्रमुच्यते॥

पात्रं जननी मुद्रौ जिनमन्त्रैः सुयोजितौ।

करोति कर्मवैचित्रं यथेष्टं मन्त्रविचक्षणैः॥

तदेव हस्तावुद्‍धृत्य कुर्यात् तर्जनिमुच्छ्रितौ।

मध्यमाङ्गुलिमग्रं तु नामितं मीषितोरणम्॥

तदेव उच्छ्रितौ कृत्वा कथयामास सुतोरणम्।

तदेव बध्वा तदन्योन्यं घोषनिर्दिष्टमष्टमम्॥

उच्छ्रितोत्तममङ्गुष्ठौ जपशब्दं विदुर्बुधाः।

तदेव उच्छ्रितौ हस्तौ अङ्गुल्याग्रौ सुकुञ्चितौ॥

सर्वैरङ्गुलिभिर्मुक्ता विरला केशसम्भवा।

भेरी तं विदुर्बुद्धा धर्मभेरीति उच्छतौ॥

तदेव हस्ततलं ऊर्ध्वं दक्षिणं वामतोच्छतम्।

अधस्तात् कारयित्वा तु गजाकारं सुयोजितम्॥

दक्षिणं मध्यमाङ्गुल्यां कराकारं तु कारयेत्।

एतद् गजमुद्रं तु निर्दिष्टं संसारपारगैः॥

एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता।

करोति कर्मां सर्वांस्तांस्तामशेषां लोकपूजिता॥

दक्षिणं हस्तमुद्यम्य अभयदत्तं परिकल्पयेत्।

गृहीत्वा मणिबन्धे तु बामहस्तेन मुद्यतम्॥

मध्यमां तर्जनी स्पृष्ट्वा अङ्गुष्ठं मध्यतो स्थितम्।

मध्यपर्वाश्रितं युक्तं वरहस्तं तदुच्यते॥

एतन्मुद्रवरं श्रेष्ठं आदिबुद्धैस्तदोदितम्।

अभयं सर्वसत्त्वानां मुद्रां बध्वा ददौ जपी॥

मन्त्रैर्मुनिमतैर्युक्तः क्षिप्रमर्थप्रसाधकः।

तदेव हस्तौ संयुक्तौ सम्पुटाकारशोभनौ॥

उच्छतौ मध्यमाङ्गुल्यौ मुद्रा तद्गतचारिणी।

तदेवमङ्गुलिभिर्वेष्ट्य अङ्गुष्ठौ उपरि स्थितौ॥

न्यस्य पर्वतले न्यस्तं केतुमित्याहु मुद्रिणम्।

तदेव मूर्च्छिताग्रे कं शुभो निर्दिष्टमुद्रिणम्॥

उभौ तर्जन्यसमायुक्तौ अन्योन्याग्रविमिश्रितौ।

सङ्कोच्य पर्वतोऽङ्गुष्ठाः कन्यसीति समुच्छ्रितौ॥

तदेव परशुनिर्दिष्टा मुद्रा सर्वार्थसाधिका।

सङ्कोच्य पुनः सर्वा वै सा मुद्रा लोकपूजिता॥

तदेवमुच्छ्रतं कुर्यात् तर्जन्याग्रसूचिकम्।

भिण्डिपालस्ततो मुद्रा लाङ्गलं चक्रतो गतम्॥

तर्जन्यौ वक्रतः कृत्वा लाङ्गलो मुद्रमुत्तमम्।

एतत् षष्टिमुद्राणां कथितं विधिना पुनः॥

सर्वे ते प्रहरणा मुद्रा संयुक्ता मन्त्रमीरिता।

सर्वां विघ्नकृतां दोषां ग्रहकूष्माण्डमातराम्॥

सर्वराक्षसमुख्यानां बालसर्वानुत्रासिनाम्।

निर्नाशयति सर्वांस्तां मुद्रां प्रहरणोद्भवाम्॥

षष्टिमेतं तु मुद्राणां लक्षणं समुदाहृतम्।

अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम्॥

तदेव हस्तौ विन्यस्तौ पद्माकारसमुच्छ्रितौ।

प्रसारिताङ्गुलिभिः सर्वं मुद्रां पद्म इति स्मृतम्॥

एषा मुद्रवरा ख्याता सन्यस्ताब्जकुलोद्भवाम्।

यावन्त्यब्जकुले मन्त्रा संयुक्ता तैः शुभोदया॥

क्षिप्रकर्मकरा ख्याता बुद्धाधिष्ठानमुद्भवा।

सर्वां साधयते मन्त्रां यावन्त्यब्जकुलोदया॥

मुद्राणां पद्ममुद्रेयं मध्यमे समुदाहृता।

उभौ हस्तौ समायुक्तौ तर्जनीभिः समुच्छृतौ॥

मध्यमाङ्गुलिभिर्युक्तं विन्यस्ताकारसम्भवम्।

अङ्गुष्ठौ न्यस्य वै तत्र मध्यमाङ्गुलिपर्वयोः॥

तदेव कथितं वज्रं कन्यसं मुद्रमुत्तमम्।

यावन्ति वज्रकुले मन्त्रा ते साध्यानेन मुद्रिता॥

सिद्ध्यन्ते क्षिप्रतो युक्ता विधिना सम्प्रकीर्त्तिता।

संयुक्तैः साधकं कर्मं यः साध्यं साधयेत् सदा॥

तस्य सिद्धिर्भवेन्नित्यं उत्तमाधममध्यमा।

सर्वे च लौकिका मन्त्राः सिद्ध्यन्ते ह्यविकल्पतः॥

उभौ हस्तौ समायुक्तौ मध्यमाङ्गुलिमुच्छ्रितौ।

सङ्कोच्यानामिकाङ्गुष्ठौ कन्यसौ सूचिमाश्रितौ॥

उभौ तर्जनिसंश्लिष्टौ मध्यपर्वाग्रकुञ्चितौ।

मध्यमौ सूचिसमौ न्यस्तौ चक्राकारसमुद्भवौ॥

एतत्तु धर्मचक्रं वै मुद्रराजमिहोदितः।

धर्मराजैस्तथा ह्युक्तो धर्मचक्रश्च वर्त्तितुम्॥

शान्तिचक्रं तदा वव्रे मुनिचन्द्रोऽथ सप्तमः।

त्रिमलां विच्छेदजापेन मुद्रराजेन योजिता॥

चक्रिण्यो ये च उष्णीषा लोचनाविद्यमुत्तमा।

भ्रुकुटीपद्यकुले तारा मामकी चापि वज्रिणे॥

सिध्यन्ते धर्मचक्रेण मुद्राराजेन योजिता।

समस्ता लौकिका मन्त्रा विष्णुरीशानभाषिता॥

तां विच्छेददृष्ट्वा वै जापिनां मुद्रसंयुताम्।

एतन्मुद्रवरं श्रेष्ठं धर्मधातुविनिःसृतम्॥

करोति सर्वकर्मं वै सत्त्वानां च यथेप्सितम्।

धर्मराजेन शान्त्यर्थं मुद्रेयं सम्प्रभाषितम्॥

अस्मिं कल्पवरे श्रेष्ठे सर्वकर्मप्रसाधिका।

मुद्रेयं धर्मचक्रेति मञ्जुघोषस्य शासने॥

अग्रिमं सर्वमुद्राणां शान्तिकर्मसु योजयेत्।

मन्त्रिभिर्लक्षते नित्यं शिवचक्रा तु सम्भवम्॥

तदेव विन्यस्तौ हस्तौ सम्पुटाकारमुद्भवौ।

श्लथकोशायताङ्गुल्यः उभौ सङ्कुचितौ शुभौ॥

पुण्डरीकमिति ज्ञेयं मुद्रा सर्वार्थसाधका।

तदेव हस्तं निक्षिप्य त्यज्य मुष्ट्यायताङ्गुलिम्॥

प्रसारिता कराकारं वरदं मुद्रमुच्यते।

उभौ हस्तौ पुनः कृत्वा अङ्गुलीभिः समन्ततः॥

बध्वा च वेणिकाकारं मुद्रैषा रज्जुमुच्यते।

पुनः प्रसारयस्तदेकं तु दक्षिणं करमुत्तमम्॥

कुर्यात् सूचिकाकारं मध्यतर्जनिमङ्गुलौ।

ईषत् सङ्कुचिताग्रं तु अङ्गुलीनां नतोत्तमम्॥

स्थितिकां कारयेत् तत्र सुन्यस्तं तर्जनी तु तम्।

कुर्यात् संश्लेषिते तत्र अनामिकापर्वनिश्रिता॥

मुद्रेयं कुन्तनिर्दिष्टा बहुधा लोकनायकैः।

तदेव हस्तौ विन्यस्तौ उभौ तर्जन्यसूचितौ॥

उभौ मुष्टिसमं कृत्वा अङ्गुलीभिः समं पुनः।

तदेव मुद्रसमाख्याता वज्रदण्डं मनीषिभिः॥

तदेव हस्तौ संयोज्य सम्पुटाकारकारितम्।

विन्यस्तामङ्गुलिमञ्जल्यमन्योन्याश्लेषमाश्रितम्॥

उभौ अङ्गुष्ठमाश्रित्य शतघ्नामुद्रमुच्यते।

ततः कृत्वा दुभौ हस्तौ समन्तान्निम्नसम्भवौ॥

अञ्जलिं तु ततो कृत्वा नाधायानससम्भवम्।

मुद्रेयं भेरीति ख्याता त्रिषु लोके हितायिभिः॥

सन्तारयति भूतानां महासंसारसागरात्।

तदेवाञ्जलिमुत्सृज्य चित्रहस्ततलावुभौ॥

विमानमुद्रमित्याहुः ऊर्ध्वसत्त्वनयानुगाः।

तदेव हस्तौ सङ्कोच्य स्यन्दनं तदिहोच्यते॥

त्रियानगमनं श्रेष्ठं रतो ह्युक्तो नुतायिभिः।

नयते सर्वभूतानां जापिनां मन्त्रसम्पदाम्॥

उत्तमायानमाशृत्य ययुबुर्द्धगतं तु तम्।

तदेव हस्तौ उत्सृज्य उभौ कृत्वा पुनस्ततः॥

कुर्याच्चित्रतलं शुद्धं वेदिकाकारसम्भवम्।

एतन्मुद्रवरं श्रेष्ठं लोकनाथैः सुपूजितम्॥

शयनं सर्वबुद्धानां जिनपुत्रैः समुदाहृतम्।

यत्रातीतास्तु सम्बुद्धा शान्तिं जग्मुस्तदाश्रिता॥

निर्वाणधातुसंन्यस्ता यत्रारूढाशयानुगा।

स एषा मुद्रमिति ख्याता शयनं लोकनायकम्॥

तदेव हस्तौ विन्यस्तौ संश्लिष्ट्याङ्गुलिभिः समम्।

सम्पुटाकोशविन्यस्तं तर्जन्येकं तु दक्षिणम्॥

कुर्याद् वक्रतो ह्यग्रे अर्धचन्द्रं स उच्यते।

उभौ हस्तौ पुनः कृत्वा दक्षिणाङ्गुष्ठमुष्टितः॥

वामहस्तासृतौः सर्वैः अङ्गुलीभिः समोचितैः।

बध्वा मुष्टि कराग्रे तु दक्षिणाङ्गुष्ठमिश्रितः॥

तं दक्षिणैरेव समायुक्तैरङ्गुलीभिः पुटीकृतैः।

कन्यसां विसृतां कृत्वा वीणमुद्रा उदाहृता॥

उभौ हस्तौ पुनः कृत्वा आकाशौ विरलाङ्गुलौ।

उभावङ्गुष्ठयोर्मध्या उभौ तर्जनिमाश्रितौ॥

एषा पद्मालया मुद्रा सम्बुद्धैः कथिता जगे।

उद्‍धृताङ्गुष्ठकौ नित्यं पुनः कुवलयोद्भव॥

मुद्रा च कथिता लोके सम्बुद्धैर्द्विपदोत्तमैः।

तदेवमञ्जलिं कृत्वा प्रणामाकारजगद्गुरुम्॥

सा नमस्कारमुद्रेयं सर्वलोकेषु विश्रुता।

तदेव मुद्रा विष्टभ्य हस्तौ यमलसम्भवौ॥

एषा यमलमुद्रेयं त्रिषु लोकेषु विश्रुता।

ईषन्मूलतो हस्तौ अङ्गुष्ठौ च सुपीडितौ॥

सा भवेत् सम्पुटा मुद्रा शोकायासीवनाशनी।

एता मुद्रास्तु कथिता ये सर्वे प्रहरणोद्भवाः॥

पुष्पाख्या शयनयाश्च वाद्याद्या ग्रहनामका।

सर्वे सर्वकरा युक्ता मन्त्रैः सर्वैस्तु भाषितम्॥

न तिथिर्न च नक्षत्रं नोपवासो विधीयते।

संयुक्ता मुद्रमन्त्राश्च क्षिप्रं कर्माणि साधयेत्॥

जापिनस्तपसा युक्तो जप्तमात्रो विचक्षणः।

मुद्रा मन्त्रप्रयुक्ता च असाध्यं किञ्चि न विद्यते॥

उभौ हस्तौ पुनः कृत्वा अञ्जल्यान्योन्यसक्तकम्।

कन्यसानामिकाङ्गष्ठौ पार्श्वतो न्यस्तौ धूपमुद्रा उदाहृता॥

आधाराञ्जलियोगेन तर्जन्यावीषत् कोचयेत्।

सामान्या बलिमुद्रा तु उद्भूता लोकतायिभिः॥

मध्येषु पुष्पविन्यस्तं यथासम्भवतो विविधैः।

दत्तं भवति मन्त्राणां बलिकर्मेषु सर्वसु॥

दक्षिणेनाभयं हस्तं कृत्वा च वामकरेण वै।

मणिबन्धनयोगेन ग्राह्यं करदक्षिणम्॥

एषा ते सर्वमन्त्राणां गन्धमुद्रा उदाहृता।

दक्षिणाकरमुष्टौ तौ अङ्गुष्ठौ मध्यमौ सदा॥

सूच्याकारं ततः कृत्वा दीपमुद्रा उदाहृता।

अनामिकाङ्गुष्ठयोरेव अक्षसूत्रात् संस्थितम्॥

कन्यसां प्रसार्यतो नित्यं मध्यमां तस्य पृष्ठतः।

तर्जनीं कुञ्चितां न्यस्य अक्षमुद्रेति उच्यते॥

गर्भाञ्जल्यास्ततो न्यस्य अक्षसूत्रं स मन्त्रवित्।

जपेद् यथेष्टतो मन्त्रं क्षिप्रं सिद्धिवरप्रदम्॥

शोभनं सर्वमुद्राणामेष दृष्टविधिः सदा।

अग्नेर्दक्षिणहस्तेन अभयाग्रं तु कारयेत्।

अभिमुखं ज्वलने स्थाप्य तर्जनीं कुञ्चयेत् सदा।

अङ्गुष्ठं च करे न्यस्य मध्ये कुञ्चितसंस्थितम्॥

एतदावाहनं मुद्रं निर्दिष्टं जातवेदसे।

कुञ्चितं तर्जन्याग्रं अङ्गुष्ठौ चैकयोजितम्॥

विसर्जनं सर्वकर्मेषु ज्वलने सम्प्रदृश्यते।

कुर्यात् सर्वमन्त्राणां होमकर्मविचक्षणः॥

मुद्रैरेतैर्भिसंयुक्तः मन्त्रमग्नौ सुयोजितः।

प्रणामाञ्जलिरन्तरिता अङ्गुलीभिः समन्ततः॥

कुर्यात् तं विपरीतं तु अङ्गुष्ठौ च संमिश्रितौ।

बहिः सङ्कोच्य तर्जन्यौ मध्यमीभिः समाश्रितौ॥

एषा मुद्रवरा ह्युक्ता पूजाकर्मसु योजिता।

प्रणामं सर्वमन्त्राणां मन्त्रनाथं जिनोरसाम्॥

शोधनं सर्वमन्त्राणामासनं च प्रदापयेत्।

असम्भवेऽपि पुष्पाणां मुद्रं बध्वा तु योजयेत्॥

पूजिता विधिना ह्येते मन्त्रा सर्वार्थसाधिका।

मुद्राबन्धेन पूजार्थं कृतं भवति शोभनम्॥

द्वितीया चित्तपूजा तु यादृशी पुष्पसम्भवा।

एष पूजाविधिः प्रोक्ता सम्बुद्धैः द्विपदोत्तमैः॥

अभावेन तु पुष्पाणां द्विविधा पूज उच्यते।

सर्वमन्त्रप्रसिध्यर्थं सर्वकर्मेषु योजयेत्॥

सर्वकर्मकरा मुद्रा सर्वबुद्धैस्तु भाषिता।

आसने शयने स्नाने पानानुभोजने॥

शोभने दीपने मन्त्रे स्थाने मण्डलकारणे।

समयः सर्वमन्त्राणामधिष्ठानार्थं तु मन्त्रिणाम्॥

कथिता लोकनाथैस्तु मुद्रेयं सर्वकर्मिका।

परिपूर्णं शतं प्रोक्तं मुद्राणां नियमादयम्॥

अतःपरं प्रवक्ष्यामि मुद्रामष्टमतां गताम्।

तदेव हस्तौ विन्यस्तौ उभौ कृत्वा पुनस्ततः॥

तयैव प्रदेशिनीं कृत्वा मध्यमा सूचिमिश्रिता।

नखस्याधस्तात् तृतीये वै भागे संसक्तकारितौ॥

आकोशामुद्भवावेष्ट्य शूच्याकारं तु कारयेत्।

एतन्मन्त्राधिपतेर्मुद्रा शक्रिणस्य महात्मनः॥

एता एव प्रदेशिन्या सञ्चार्या सममध्यमा।

शूच्या नखस्य विन्यस्ता संसक्ता च अनामिका॥

एष उष्णीषमुद्रा वै जिनेन्द्रैः सम्प्रकाशिता।

तदेव हस्तौ विन्यस्तौ मध्यमाङ्गुलिवेष्टितौ॥

कन्यसाङ्गुलिसंयुक्तौ मुद्रेयं भितमुद्भवा।

मध्यसूच्या समं कृत्वा संसक्तौ च करोरुहौ॥

निर्मुक्तः कुण्डलाकारा महामुद्रा स उच्यते।

तामेव प्रदेशिन्याग्राधिभून्तरेल्पसतृकम्॥

मध्यसूच्यां ततो न्यस्य अधस्तात् संसक्तपाणिना।

पर्वतृतीययोर्न्यस्तौ अङ्गुष्ठौ नखपीडितौ॥

एषा मुद्रा वरा प्रोक्ता मञ्जुघोषस्य धीमतः।

तदेव हस्तौ विन्यस्तौ अञ्जलीकारसंस्थितौ॥

मध्यमाङ्गुलिविन्यस्तौ सूच्यग्रानामितः स्थितौ।

अङ्गुष्ठौ मध्यमां स्पृश्य अङ्गुलीपर्वसत्रिकम्॥

कन्यसाङ्गुलीभिः सूचीं कृत्वानामितमुच्छ्रितौ।

एषा मुद्रा वरा श्रेष्ठा धर्मकोशस्थतां गताः॥

तदेव हस्तौ विन्यस्तौ विधिदृष्टसमासतौ।

तदेवमङ्गुलिभिः सर्वैः आपूर्णं कोशसंस्थितम्॥

उभौ हस्तौ विवृण्णीयात् अष्टानाङ्गुलिनावृताः।

अष्टां पुरुषतत्त्वज्ञां चत्वारो युगतां गताम्॥

तदेव सङ्घमित्याहुः सम्बुद्धा द्विपदोत्तमाः।

स एव मुद्रा सङ्घेति कत्थ्यते ह भवालये॥

एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका।

उभौ हस्तौ पुटीकृत्वा अञ्जल्याकारसंस्थितौ॥

प्रसार्य तर्जनीमेकां दक्षिणां करनिःसृताम्।

सा एष भूतशमनी निर्दिष्टा तत्त्वदर्शिभिः॥

एषा मुद्रा वरा ख्याता सर्वकर्मार्थसाधिका।

तदेव हस्तौ विन्यस्तौ वेणिकाग्रावचिह्नितौः॥

पिण्डस्थौ सम्पुटाकारौ उच्छ्रिताङ्गुष्ठनामितौः।

एषा सा पद्ममालेति आदिबुद्धैः प्रचोदिता॥

तदेव हस्तावुत्तानौ अङ्गुलीभिः समन्ततः।

प्रफुल्लनिर्मिताकारौ अङ्गुष्ठाङ्गुलिसतृकौ॥

द्वितीये पर्वतो न्यस्तौ अङ्गुष्ठौ तर्जनि चोभयौ।

स एषा मुद्रवरा ख्याता सम्बुद्धैस्त्रिदशालया॥

एते मुद्रा महामुद्रा अष्टा ते ते समकर्मिकौ।

तुल्यप्रभा महावीर्या संबुद्धैः सम्प्रकाशिता॥

षष्टिविम्बरकोट्यस्तु अशीतिः सहमुद्भवैः।

अतीतैर्मुनिवरासङ्ख्यैर्मुद्रा ह्येते प्रकाशिता॥

शतमष्टाधिकं प्रोक्तं मुद्राणां विधिसम्भवम्।

एतैः सर्वैस्तु सर्वाणिं मन्त्रकर्मांश्च साधयेत्॥

सर्वमन्त्रां तथा कर्मा सर्वान्येव प्रसाधयेत्।

एतन्मुद्रामतं प्रोक्तं सर्वबुद्धैः महर्द्धिकैः॥

विधिना योजिता ह्येते क्षिप्रमर्त्थप्रसाधिका।

इत्युक्त्वा मुनिनां मुख्यः शाक्यसिंहो नरोत्तमः॥

मञ्जुघोषं तदा वव्रे बोधिसत्त्वं महर्द्धिकः।

एष मञ्जुश्रियाकल्पे मुद्रासम्भसम्भवः॥

त्वयैव सम्प्रदत्तोऽयं रक्षार्त्थं शासने भुवि।

युगान्ते वर्त्तमाने वै मयैव परिनिर्वृते॥

रक्षार्त्थे शासने मह्यं सर्वेदं कथितं मया।

मुद्राणां लक्षणा ह्युक्तं मन्त्राणां च सविस्तरम्॥

रहस्यं सर्वलोकानां गुह्यं चापि उदीरितम्।

एतत्कल्पाधिपे सूत्रे गुणविस्तारविस्तृतम्॥

अनेकधा च मन्त्राणां गुणवर्णसमोदयम्।

बहुधा मन्त्रयुक्तिश्च तन्त्रयुक्ति तदाहृता॥

प्रभावगुणसिद्धान्तं जापिनां हेतुसम्भवम्।

फलोदयशुभो ह्युक्तः सत्त्वानां गतियोनयः॥

कुमार ! त्वदीयमन्त्राणां सिद्धिहेतुनियोजिता।

एवमुक्तस्तु मञ्जुश्रीः कुमारो गगनासृतः॥

प्रणम्य शिरसा सम्बुद्धं लोकनाथं प्रभाकरम्।

दीर्घं निश्वस्य करुणार्द्रो रोरुरोद ततः पुनः॥

तस्थुरे समीप बुद्धस्य आपृच्छय वरदां वरम्।

निर्नष्टे भगवां लोके मन्त्रकोशे महीतले॥

सत्त्वानां गतिमाहात्म्यं कथं तस्मै भविष्यति।

एवमुक्तस्तु सम्बुद्धो मञ्जुघोषं तदालपेत्॥

शृणोहि वत्स ! मञ्जुश्रीः ! कुमार ! त्वं यदि पृच्छसि।

मया हि निर्वृते लोके शून्यीभूते महीतले॥

निर्नष्ठे धर्मकोशे च श्रावकैश्चिरनिर्वृतैः।

शास्तु बिम्बस्तथा रूपं कृत्वा वै द्विपदोत्तमः॥

पूजां सत्कारतः कृता धूपगन्धविलेपनैः।

विविधैर्वस्त्रवरैश्चान्यैर्मणिकुण्डलभूषणैः॥

विविधैर्भोज्यभक्षैश्च सन्नियोज्य निवेदनम्।

विविधाकारसम्पन्नं यथेष्टाकारकारिणे।

तथै + मन्त्रमावर्त्त्य सत्त्वयोनिगतिः शुभम्।

आजहार पुरं श्रेष्ठं उत्तमां गतियोनये॥

अन्ते बोधिनिम्नस्थः शान्तिं जग्मुः सपश्चिमे।

एवमुक्तस्तु मञ्जुश्रीस्तुष्टो सम्बुद्धचोदितः॥

सम्प्रतुष्य ततो धीमां बोधिसत्त्वो महर्द्धिकः।

एतत् सर्वं पुरा गीतं शुद्धावासोपरि स्थितम्॥

बुद्धानां सन्निधौ बुद्धधर्मचक्रप्रवर्त्तकः।

मन्त्रचक्रं तदा वव्रे चिरकालानुवर्त्तितम्॥ इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद्

महायानवैपुल्यसूत्रात् त्रयः त्रिंशतिमः

मुद्राविधिपटलविसरः

परिसमाप्तमिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project