Digital Sanskrit Buddhist Canon

अथैकत्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Athaikatriṁśaḥ paṭalavisaraḥ
अथैकत्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्रीः कुमारपूर्वनिर्दिष्टं पदं सत्त्वाविष्टानां चरितं शुभाशुभं निमित्तं च वक्ष्ये॥



अथ खलु मञ्जुश्रीः कुमारभूतः उत्थायासनाद् भगवतश्चरणयोर्निपत्य मुर्ध्निमञ्जलिं कृत्वा भगवन्तमेतदवोचत्। तत् साधु भगवां वदतु सत्त्वानां परसत्त्वदेहसङ्क्रान्तानामार्यदिव्य एतिसिद्धगन्धर्वयक्षराक्षसपिशाचमहोरगप्रभृतीनां विचित्रकर्मकृतशरीराणां विचित्रगतिनिश्रितानां विविधाकारानेकचिह्नानां मनुष्यामनुष्यभूतानां चित्तचरितानि समयो भगवां समयः सुगतः। यस्येदानी कालं मन्यसे। एवमुक्तो मञ्जुश्रियः कुमारभूतो तूष्णीम्भावेन स्वके आसने तस्थुः अध्येष्य जिनवरं लोकनायकं जिनसत्तमं गौतममिति॥



अथ भगवां शाक्यमुनिः सत्त्वानां चित्तचरितनिमित्तज्ञान चिह्नं कालं च भाषते स्म॥



परदेहगतः सत्त्वः आकृष्टो मन्त्रयुक्तिभिः।

केचिदाहारलोभेन गृह्णन्ते मानुषं भुवि॥

अपरे क्रुद्धचित्ता वै पूर्ववैरात्र चापरे।

गृह्णन्ते मानुषां लोके भूतलेस्मिं सुदारुणाः॥

वीतरागा तथा नित्यं कारुण्यात् समया पुनः।

अवतारं मर्त्यलोकेऽस्मिं गृह्णते मानुषां शुभाम्॥

प्रशस्तां शुभमव्यङ्गां नराणां वर्णसाधिकाम्।

उदयन्तं तथा भानो तेषामावेशमुच्यते॥

अवतारास्तेषु कालेऽस्मिं भानोरस्तमने निशा।

रात्र्यां च प्रथमे यामे सितपक्षेषु दृश्यते॥

प्रशस्ता शुभकर्माणां ये नरा धार्मिकाः सदा।

शुचिदक्षसमायुक्ता अवतारस्तेषु दृश्यते॥

आविष्टास्तु ततो मर्त्या वीतरागैर्महर्द्धिकैः।

शुचिदेशे जने चवै शुभे नक्षत्रतारके।

प्रशस्ते दिवसे वारे शक्लपक्षे शुभेऽहनि॥

शुक्लग्रहसंयुक्ते तिथौ पूर्णसमायुते।

परिपूर्णे तथा चन्द्रे अवतारं तेषु दृश्यते॥

अवतीर्णस्य भवे चिह्नः वीतरागस्य महर्द्धिके।

आकाशे तालमात्रं तु पृथिव्यामुत्प्लुत्य तिष्ठते॥

पर्यङ्कोपविष्टोऽसौ दृश्यते नियताश्रये।

नानादिव्यमतुल्याद्या ब्राह्मार्कर्णसुखास्तथा॥

वदतेऽसौ महासत्त्वो यत्रासौ पीडधियोस्थितः।

उष्णीषमुद्रैराकृष्टः पततेऽसौ महीतले॥

महीमस्पृश्यतस्तिष्ठेदर्घं दद्यात्तु तत्क्षणात्।

जातीकुसुमसन्मिश्रं श्वेतचन्दनकुङ्कुमम्॥

मिसृतं उदकं दद्यादर्घं पाद्यं तु तत्क्षणम्।

प्रणिपत्य महीं मन्त्री अध्येष्ये हितकाम्यया॥

अध्येष्टो हि सः सत्त्वो वीतमत्सरचेतसः।

वाचं प्रभाषते दिव्यां अनेलां कर्णसुखांस्तथा॥

यथेप्सं तु ततः पृच्छे मन्त्रज्ञे हि विशारदः।

न भेतव्यं तत्र काले तु मञ्जुघोषं तु संस्मरेत्॥

मुद्रां पञ्चशिखां बद्ध्वा अन्यं वोष्णीषसम्भवम्।

दिशाबन्धं ततः कृत्वा दित्यूर्ध्वमध एव तु॥

ततोऽसौ सर्ववृत्तान्तमध्यान्तं च प्रवक्ष्यते।

आदिमध्यं तथा कालं भूतं तथ्यमनागतम्॥

वर्तमानं यथाभूतं आचष्टेऽसौ महाद्युतिः।

अनिमिषाक्षास्तथा स्तब्धः प्रेक्षतेऽसौ भीतविद्विषः॥

यस्तेनोदिता वाचा सत्यं तं नान्यथा भवेत्।

सिद्धिसाध्यं तथा द्रव्यं योनिं स निचयं गतिम्॥

प्रत्येकबोधिमर्हत्वं महाबोधिं नियतं च तत्।

बुद्धत्वगोत्रनियतं + + + + + + + ++ + + + + ॥

अगोत्रं चैव कालं वै भव्यसत्त्वमहर्द्धिकम्।

सर्वं सो कथये सत्यं समयेनाभिलक्षितः॥

लक्षणमात्रं कथेद् योगी नान्यकालमुदीक्षयेत्।

एतत्क्षणेन यत् किञ्चित् प्रार्थये सौमनसात्मना॥

तत् सर्वं लभते क्षिप्रं मन्त्रसिद्धिश्च केवला।

प्राप्नुयात् सर्वसम्पत्तिं यथेष्टां चाभिकांक्षितम्॥

विसर्ज्य मन्त्री तत् क्षिप्रमर्घं दत्वा तु सम्मताम्।

पात्रसंरक्षणां कुर्याद् विधिदृष्टेन कर्मणां॥

पतितं देहमत्वा वै शयानं चैव महीतले।

उष्णीषमुद्रया युक्तं मन्त्रं चैव जिनोचितम्॥

तेनैव रक्षां कुर्वीत मुद्रापञ्चशिखेन वा।

स्वस्थदेहस्तदा सत्त्व उच्छिष्टेन महीतले॥

सर्वमाविष्टसत्त्वानां रक्षा एषा प्रकल्पिता।

अशक्ता दुष्टसत्त्वा वै हिंसितुं पात्रनिश्रिते॥

रक्षा च महती ह्येषा जन्तूनां पात्रसम्भवाम्॥

वाचा तस्य मध्यस्था मध्यदेशे प्रकीर्तिता॥

देवयोनिं समासृत्य अकनिष्ठाद्याश्च रूपिणाम्।

एतेऽन्ये तानि चिह्नानि दृश्यन्ते रूपसम्भवाम्॥

कामधात्वेश्वरा ये तु कामिनांश्चैव दिवौकसाम्।

ततो हीना गतिश्चिह्ना वाचा चैव समाधुरा॥

ततो भूनिष्पन्ना विमानस्था सदिवौकसाम्।

वाचा काशिपुरीं तेषां यक्षाणां च समागधिम्॥

अङ्गदेशां तथा वाचा महोरगाणां प्रकीर्त्तिता।

पूर्वीं वाचा भवेत् तेषां गरुडानां महौजसाम्॥

तथा वङ्गे समा जाता या वाचा तु प्रवर्त्तते।

किन्नराणां तथा वाचा सा वाचा परिकल्पिता॥

यौद्ध्री वाचा भवेन्नित्यं सिद्धविद्या सखड्गिणाम्।

विद्याधराणां तु सा वाचा + + + + + + + + + + + + + ॥

ऋषीणां तु कामरूपी तु वाचा विश्वरूपिणाम्।

पञ्चाभिज्ञं तु सा वाचा ऋषीणां परिकल्पिता॥

या तु सामा तटी वाचा या च वाचा हरिकेलिका।

अव्यक्तां स्फुटां चैव डकारपरिनिश्रिता॥

लकारबहुला या वाचा पैशाचीवाचमुच्यते।

कर्मरङ्गाख्यद्वीपेषु नाडिकेसरमुद्भवे॥

द्वीपवारुषके चैव नग्नवालिसमुद्भवे।

यवद्वीपिवा सत्त्वेषु तदन्यद्वीपसमुद्भवा॥

वाचा रकारबहुला तु वाचा अस्फुटतां गता।

अव्यक्ता निष्ठुरा चैव सक्रोधां प्रेतयोनिषु॥

दक्षिणापथिका वाचा अन्ध्रकर्णाटद्राविडा।

कोसलाडविसत्त्वेषु सैहले द्वीपमुद्भवा॥

डकारे रेफसंयुक्ता सा वाचा राक्षसी स्मृता।

तदन्यद्वीपवास्तव्यैः मानुष्यैश्चापि भाषितम्॥

स एष वचनमित्युक्त्वा मातराणां महौजसाम्।

पाश्चमी वाच निर्दिष्टा वैदिशीश्चापि मालवी॥

वत्समत्सार्णवी वाचा शूरसेनी विकल्पिता।

दशार्णवी चापि पार्वत्या श्रीकण्ठी चापि गौर्जरी॥

वाचा निर्दिष्टा आदित्याद्यां ग्रहोत्तमाम्।

तदन्यां ग्रहमुख्यां तु पारियात्री विकल्पिता॥

अर्बुदे सह्मदेशे च मलये पर्वतवासिनाम्।

खषद्रोण्यां तु सम्भूते जने वाचा तु यादृशी॥

तादृशी वाच निर्दिष्टा कूष्माण्डाधियोनिजम्।

शरषस सम्भूता यरलावकमुद्भवा॥

घकारप्रथिता या वाचा दानवानां विनिर्दिशेत्।

कश्मीरे देशसमुद्भूता काविशे च जनालये॥

सर्वे कुलोद्भूता वज्रपाणिकुलोद्भिता।

तेषां मन्त्रमुख्यानां सर्वेषां वाचमिष्यते॥

तथाब्जमध्यदेशस्था कुलयोनिसमासृता।

वाचा गतिचिह्नाश्च दृश्यन्ते अब्जसम्भवा॥

पूर्वनिर्दिष्टमेवं स्यात् जिनमन्त्रा विकल्पिता।

वीतरागां तु ये चिह्ना ते चिह्ना जिनसम्भवा॥

यत्र देशे भवेद् वाचा तत्रस्था गतिचेष्टिता।

तदेव निर्दिशेत् सत्त्वं तच्चिह्नं तु सर्वतः॥

हिमाद्रेः कुक्षिसंविष्टा गङ्गातीरे तु चोत्तरे।

यक्षगन्धर्वऋषयो जने वाचा प्रदृश्यते॥

विन्ध्यकुक्ष्यद्रिसम्भूता गङ्गातीरे तु दक्षिणे।

श्रीपर्वते तथा शैले सम्भूता ये च जन्तवः॥

राक्षसोस्तारकप्रेता विकृता मातरास्तथा।

घोररूपा महाविघ्ना ग्रहाश्चैव सुदारुणाम्॥

परप्राणहरा लुब्धा तज्जनोद्वाचसम्भवा।

तत्र देशे तु ये चिह्ना तद्देशे गतिचेष्टिता॥

तद्वाचवाचिनो दुष्टा आविष्टानां विचेष्ठितम्।

एते चान्ये च बहवो तच्चेष्टागतिचेष्टिनः॥

विचित्राकाररूपाश्च विविधाकारचिह्निता।

विविधसत्त्वमुख्यानां विविधायोनिमिष्यते॥

एतदाविष्टचिह्नं तु लक्षणं गतिचिह्नितम्।

सर्वेषां तु प्रकुर्वीत मानुषाणां सुखावहम्॥

रक्षार्थं प्रयोक्तव्या कुमारो विश्वसम्भवः।

षडक्षरेणैव कुर्वीत मन्त्रेणैव जापिनः॥

महामुद्रासमायुक्तं + + + + + + + + + ++ ।

पञ्चचीरासु विन्यस्तः महारक्षो कृता भविष्यति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् एकूनत्रिंशतिमः आवि-

ष्टचेष्टविधिपरिवर्तपटविसरः

परिसमाप्तः इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project