Digital Sanskrit Buddhist Canon

अथ त्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha triṁśaḥ paṭalavisaraḥ
अथ त्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रे विद्याराज्ञां चक्रवर्त्तिप्रभृतीनां सर्वतथागतोष्णीषप्रमुखानां सर्वमन्त्राणां सिद्धिस्थानानि भवन्ति। तत्रोत्तरापथे सर्वत्र ताथागती विद्याराज्ञः सिद्धिं गच्छन्ति संक्षेपतः॥



चीने चैव महाचीने मञ्जुघोषोऽस्य त्रस्यति।

ये च तस्य मन्त्रा वै सिद्धिं यास्यन्ति तत्र वै॥

उष्णीषराज्ञां सर्वत्र सिद्धिर्दृश्येयु तत्र वै।

काविशे वखले चैव उदियाने समन्ततः॥

कश्मीरे सिन्धुदेशे च हिमवत्पर्वतसन्धिषु।

उत्तरां दिशि निःसृत्य मन्त्रा सिद्ध्यन्ति श्रेयसाः॥

ये च गीता पुरा बुद्धैः अधुना च प्रवर्त्तिता।

अनागता च सम्बुद्धैः उद्गीर्णा शान्तिहेतवः॥

सर्वे वै तत्र सिद्ध्यन्ति हिमाद्रिकुक्षिसम्भवे।

जनपदे श्रेयसे भद्रे शान्तिं कर्तु समारभे॥

मध्यदेशे तथा मन्त्राः सिध्यन्त्येते पद्मसम्भवा।

गजोमानिकुले चापि सिद्धिस्तत्र प्रदृश्यते॥

पञ्चिकस्य च यक्षस्य हारीत्या यक्षयोनिजा।

गान्धर्वा ये तु मन्त्रा वै सिद्धिस्तेषां समोदिता॥

काशिपुर्यां ततो नित्यं मगधेषु समन्ततः।

अङ्गदेशे तथा प्राच्यां कामरूपे समन्ततः॥

लौहित्यां तु तटे रम्ये वङ्गदेशेषु सर्वतः।

जम्भलस्य भवेत् सिद्धि तथा मणिकुलोदिते॥

समुद्रतीरे द्वीपेषु सर्वतत्र जलाश्रये।

सिंहलानां पुरी रम्या सिद्ध्यन्ते मन्त्रदेवता॥

भृकुटी चैव महाश्रिया यशस्विनी।

सिताख्याः सर्वमन्त्रास्तु चतुःकुमार्या महोदधौ॥

सिध्यन्ते तत्र वै स्थाने पूर्वदेशे समन्ततः।

विन्ध्यकुक्षिनिविष्टाश्च अग्रेन्द्रे च समन्ततः॥

कार्तिकेयोऽथ मञ्जुश्रीः सिद्ध्यन्ते च समन्ततः।

शृङ्गारगह्वरः कुक्षाद्रेः कन्दरे च सकानने॥

सिद्धिर्विनायकां तत्र विघ्नकर्ता सजापिनाम्।

हस्ताकारसमायुक्तानेकदन्तां महौजसाम्॥

अश्वरूपा तथानेका कारशालिनाम्।

ईशानस्य सुतां दिव्यां विविधां विघ्नकारकाम्॥

तत्प्रोक्ता मन्त्रयुक्तांश्च सिद्धिक्षेत्रं प्रदृश्यते।

मातरा विविधाकारां ग्रहांश्चैव सुदारुणाम्॥

प्रेतायोनिसमादिष्टा मानुषाहारनैर्रृताम्।

प्रेतराज्ञः समादिष्टं सिद्धिक्षेत्रं ततोदितम्॥

तदाद्यात् सर्वभूतानां सिद्धिक्षेत्रं समादिशेत्।

वज्रक्रौञ्चो महावीर्यः सिद्ध्यन्ते तत्र वै दिशे॥

आसुरा मन्त्रमुख्यास्तु ये चान्ये लौकिकास्तथा।

सिद्ध्यन्ते तत्र मन्त्रा वै दक्षिणां दिशिमाश्रिताः॥

प्रेतराज्ञस्तथा नित्यं यमस्यैव विनिर्दिशेत्।

सिद्ध्यन्ते जात्यमन्त्रांस्तु सशैवा च सवैष्णवा॥

क्रूराश्चाक्रूरकर्मेषु क्षेत्रमादिष्वदक्षणम्।

वज्रपाणिसमादिष्टा मन्त्राः क्रूरकर्मिणः॥

दक्षिणापथमासृत्य सिध्यन्ते पापकर्मिणाम्।

अशुभं फलनिष्फत्तिं दृश्यते तत्र वै दिशे॥

आदित्यभाषिता ये मन्त्राः सौम्याश्चैव प्रकीर्तिताः।

ऐन्द्रा मन्त्राः प्रसिध्यन्ते पश्चिमे दिशि शोभने॥

स्वयं तत्र सिध्येत यक्षेन्द्रोऽत्र महर्द्धिकः।

धनदः सर्वभूतानां बालिशानां तु मोहिनाम्॥

चित्तं ददाति जन्तूनां विधिदृष्टेन हेतुना।

सिद्ध्यन्ते पश्चिमे देशे भोगवानर्थसाधकः॥

धनदो नाम नामेन विश्रुतोऽत्र महीतले।

वज्रपाणिः स्वयं यक्षः बोधिसत्त्वो महर्द्धिकः॥

मन्त्रमुख्यो वरश्रेष्ठो दशभूमाधिपः स्वयम्।

सिद्ध्यन्ते सर्वमन्त्रा वै वज्राब्जकुलसम्भवा॥

तथाष्टकुलिका मन्त्रा अष्टभ्यो दिक्षु निश्रिता।

उत्तरायां दिशि सिध्यन्ते मन्त्रा वै जिनसम्भवा॥

पूर्वदेशे तथा सिद्धिः मन्त्रा वै पद्मसम्भवा।

दक्षिणापथनिशृत्य सिध्यन्ते कुलिशालयाः॥

पश्चिमेन गजः प्रोक्ता विदिशे मणिकुलस्तथा।

पश्चिमे चोत्तरे सन्धौ सिद्धिस्तेषु प्रकल्पिता॥

पश्चिमे दक्षिणे चापि सन्धौ यक्षकुलस्तथा।

दक्षिणे पूर्वदिग्भागे श्रावकानां महौजसाम्॥

कुलाख्यं तेषु दृष्टं वै तत्र स्थानेषु सिध्यति।

पूर्वोत्तरे दिशाभागे प्रत्येकानां जिनसम्भवम्॥

कुलाख्यं बहुमतं लोके सिद्धिस्तेषु तत्र वै।

अधश्चैव दिशाभागे सिध्यन्ते सर्वलौकिका॥

पातालप्रवेशिका मन्त्रा वै सिध्यन्तेऽष्टकुलेषु च।

लोकोत्तरा तथा मन्त्रा उष्णीषाद्याः प्रकीर्तिताः॥

सिद्धिमायान्ते ते ऊर्ध्वं चक्रवर्तिजिनोदिता।

दिक्समन्तात् सर्वत्र वज्रिणस्य तु सिद्ध्यति॥

तथान्ये मन्त्रराट् सर्वे अब्जयोनिसमुद्भवा।

सिद्ध्यन्ते सर्वदा सर्वे सर्वेमन्त्राश्च भोगदा॥

सिद्ध्यन्ते सर्वकालेऽस्मिं वज्राब्जकुलयोरपि।

एतत् क्षेत्रं तु निर्दिष्टं कालं तत् परिकीर्त्यते॥

उत्पत्तेः सर्वबुद्धानां मन्त्रसिद्धि जिनोदिताम्।

मध्यकाले तु बुद्धानां अब्जवज्रसमुद्भवाम्॥

मन्त्राणामन्यकालेऽस्मिन् तदन्येषां मन्त्रशालिनाम्।

सिद्धिश्च कालतः प्रोक्ता नान्यकाले प्रकीर्त्तिता॥

तपसादुत्तमा सिद्धिस्त्रिभिर्जन्यैरवाप्नुयात्।

सातत्यजापिनां मन्त्रं तद्भक्तां गतमानसाम्॥

प्रसन्नानां जिनपुत्राणां इह जन्मेऽपि सिध्यति।

रत्नत्रये च भक्तानां बोधिचित्तविभूषिताम्॥

संवरस्थां महाप्राज्ञं तन्त्रमन्त्रविशारदाम्।

मन्त्राः सिद्ध्यन्त्ययत्नेन बोधिसंवरतस्थिताम्॥

सत्त्वानां कर्मसिद्धिस्तु आत्मसिद्धिमुदाहृता।

सिद्धा एव सदा मन्त्रा असिद्धा सत्त्वमोहिता॥

अत एव जिनेन्द्रैस्तु कल्पराज उदाहृतः।

सविस्तरकृथा मन्त्रं बुद्धश्रेष्ठो हि सप्तमः॥

स वव्रे मुनिमुख्यस्तु बुद्धचन्द्रो महर्द्धिकः।

ज्येष्ठं च बुद्धपुत्रं तं मञ्जुघोषो महौजसम्॥

शृणु त्वं कुमार ! मन्त्राणां प्रभावगतिनैष्ठिकम्।

यस्मिं काले सदा बुद्धः ध्रियन्ते लोकनायकाः॥

तस्मिं काले तदा सिद्धिः उष्णीषाद्यां प्रकीर्त्तिता।

चक्रवर्त्तिस्तथा राजा तेजोराशिः प्रकीर्तितः॥

सितातपत्रजपोष्णीष बहवः वर्णिता जिनैः।

एवमाद्यास्तथोष्णीषाः सिद्ध्यन्ते तस्मिं काले॥

चक्रवर्त्तिर्यदा काले जम्बूद्वीपे भविष्यति।

धर्मराजा च सम्बुद्धः तिष्ठते द्विपदोत्तमः॥

तस्मिं काले भवेत् सिद्धिः मन्त्राणां सर्वभाषितामिति।



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसका-

न्महायानवैपुल्यसूत्रादष्टाविंशतिमः क्षेत्रकालविधिनियमपटलविसरः परिसमाप्तमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project