Digital Sanskrit Buddhist Canon

षष्ठः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṣṭhaḥ paṭalavisaraḥ
षष्ठः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः अपरमपि पटविधानरहस्यं तृतीयं कन्यसं नाम। यः सर्वसत्त्वानामयत्नेनैव सिद्धिं गच्छेयुः। पूर्वनिर्दिष्टेनैव विधिना शिल्पिभिः सुगतवितस्तिप्रमाणं तिर्यक् तथैव समं चतुरस्रं पूर्ववत् पटश्चित्रापयितव्यः पूर्वनिर्दिष्टैरङ्गैः॥



आदौ तावदार्यमञ्जुश्रीः सिंहासनोपनिषण्णः बालदारकरूपी पूर्ववत् धर्मं देशयमानः समन्तप्रभा अर्चिषो निर्गच्छमानश्चारुरूपी चित्रापयितव्यः॥



वामपार्श्वे आर्यसमन्तभदः रत्नोपलस्थितः चमरव्यग्रहस्तः चिन्तामणिवामविन्यस्तकरः प्रियङ्गुश्यामवर्णः पूर्ववच्चित्रापयितव्यः॥



दक्षिणपार्श्वे आर्यमञ्जुश्रियस्य रत्नोपलस्थितः आर्यावलोकितेश्वरः पूर्ववत्। चमरव्यग्रहस्तः वामहस्तारविन्दविन्यस्तः समन्तद्योतितमूर्तिरभिलेख्यः॥



अधश्च सिंहासनात् कनकवर्णः पर्वतो यावत् पटान्ते चित्रापयितव्यः। पटान्तकोणस्य आर्यमञ्जुश्रियस्य सिंहासनस्याधस्ताद् दक्षिणपार्श्वे यमान्तकः क्रोधराजा पूर्ववच्चित्रापयितव्यः। धूपकटच्छुकव्यग्रहस्तः यथापूर्वं तथैव साधकः। उपरिष्टादार्यमञ्जुश्रियस्य सङ्कुसुमितराजेन्द्रस्तथागतचित्रापयितव्यः षोडशाङ्गुलप्रमाणः रत्नपर्वतगुहालीनः। कूटागारसदृशाः प्राग्भारपर्वता दश चित्रापयितव्याः। समन्ताच्च तत्पटं पर्वताकारवेष्टितं लिखेत्। उपरिष्टाच्च पटकोणावस्थितौ पर्वतप्राग्भारसंश्लिष्टौ उत्पतमानविमानपुष्पौघमुत्सृजमानौ शुद्धावासकायिकौ देवपुत्रौ शुद्धश्च नाम विशुद्धश्च नाम पूर्ववच्चित्रापयितव्यौ॥



नानापुष्पाभिकीर्णं च तत् पटमभिलिखापयितव्यमिति॥

एतत् कथितं सर्वं त्रिविधं पटलक्षणम्।

कन्यसं नामतो ह्येतत् पटः श्रेयो क्षुद्रकर्मसु॥

यत् कृतं कारितं चापि पापं कर्म सुदारुणम्।

कल्पकोटिसहस्राणि दर्शनात् पटमुच्यते॥

पटं तु दृष्टमात्रं वै तत्क्षणादेव मुच्यते।

बुद्धकोटीसहस्राणि सत्कुर्याद् यो हि बुद्धिमां॥

कन्यसं तु पटं दृष्ट्वा कला नायाति षोडशीम्।

यत् पुण्यं सर्वबुद्धानां पूजा कृत्वा तु तापिनाम्॥

तत् पुण्यं प्राप्नुयाद् विद्वां कन्यसे पटदर्शने।

शोभनानि च कर्माणि भोगहेतोः इहाचरेत्॥

यावन्ति केचन मन्त्रा ब्रह्मेन्द्रऋषिभाषिताः।

वैनतेयेन तु प्रोक्ताः वरुणादित्यकुबेरयोः॥

धनाद्यैः राक्षसैः सर्वैर्दानवेन्द्रैर्महोरगैः।

सोमवायूमाद्यैश्च भाषिता हरिहरादिभिः॥

सर्वे मन्त्रा इहानीताः सिध्यन्ते पटमग्रतः।

शान्तिकानि सदा कुर्यात् पौष्टिकानि तथा इह॥

दारुणानि च वर्जीत गर्हिता जिनवरैस्त्विहेति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्

मञ्जुश्रीमूलकल्पात् षष्ठः पटलविसरः।



तृतीयः कन्यसपटविधानः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project